________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
62
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
न्तीति प्राप्तकारीणि प्राप्यकारीणि स्पृष्टार्थग्राहिणीत्यर्थः । कुतः पुनरेतान्येव प्राप्यकारीणि १, इत्याह- उपघातश्चानुग्रहश्रोपघाताऽनुग्रहाँ तयोर्दर्शनात् - कर्कश कम्बलादिस्पर्शने, त्रिकटुकाद्याखादने, अशुच्यादिपुद्गलाऽऽघाणे, भेर्यादिशब्दश्रवणे, त्वक्क्षणनायुपधात दर्शनात् चन्दनाऽङ्गना- हंसतूलादिस्पर्शने, क्षीर- शर्कराद्यास्वादने, कर्पूरगलायाघ्राणे, मृदु-मन्दशब्दाद्याकर्णने तु शैत्याद्यनुग्रह दर्शनादित्यर्थः । नयनस्य तु निशित करपत्र-सेल्ल- भल्लादिवीक्षणेऽपि पाटनानुपघातानवलोकनात्, चन्दनागुरु-कर्पूराद्यवलोकनेऽपि शैत्याद्यनुग्रहाननुभवात्ः मनसस्तु गाथार्थः ॥ २०४ ॥ वह्नचादिचिन्तनेऽपि दाहाद्युपघाताऽदर्शनात्, जल-चन्दनादिचिन्तायामपि च पिपासोपशमाद्यनुग्रहा संभवाच्च ॥
अत्र पर: माह
जुज्जइ पत्तविसयया फरिसण - रसणे न सोत्त- घाणेसु । गिण्हंति सविसयमिओ जं ताई भिन्नदेसं पि ॥२०५॥
प्राप्तः स्पृष्टो विषयो ग्राह्यवस्तुरूपो ययोस्ते प्राप्तविषये तयोर्भावः प्राप्तविषयता सा युज्यते घटते । कस्मिन् ?, इत्याह- स्पर्शनं च रसनं चेति समाहारद्वन्द्वस्तस्मिन् स्पर्शन-रसनेन्द्रियद्वय इत्यर्थः । अनभिमतप्रतिषेधमाह- न श्रोत्र घ्राणयोः प्राप्तविषयता युज्यते, यद् न हि शब्दः कश्चिन्छ्र यस्मात् कारणादितो विवक्षितात् स्वदेशाद् भिन्नदेशमपि स्वविषयमेते गृह्णीतः अस्याऽर्थस्याऽनुभवसिद्धत्वात्, वेन्द्रिये प्रविशन्नुपलभ्यते, नापि श्रोत्रेन्द्रियं शब्ददेशे गच्छत् समीक्ष्यते । न चाभ्यामन्येनाऽपि प्रकारेण विषयस्पर्शनं घटते, 'दूर एप कस्यापि शब्दः श्रूयते' इत्यादिजनोक्तिश्च श्रूयते । कर्पूर- कुसुम-कुङ्कुमादीनां तु दूरस्थानामपि गन्धो निर्विवादमनुभूयते दृश्यते च । तस्माच्छ्रोत्र- प्राणयोः प्राप्तविषयता न युज्यत एव ।। इति गाथार्थः ॥ २०५ ॥
अत्रोच्यते
पति सद-गन्धा ताइं गंतुं सयं न गिण्हन्ति । जं ते पोग्गलमइया सकिरिया वाउवहणाओ ॥ २०६॥ धूमो व् संहरणओ दाराणुविहाणओ विसेसेणं । तोयं व नियंबाइसु पडिघायाओ य वाउ व्व ॥ २०७ ॥ व्याख्या– ‘पार्वति सद्द-गन्धा ताई ति' शब्द- गन्धौ कर्तृभूतौ ते श्रोत्र- प्राणेन्द्रिये कर्मतापन्ने, अन्यत आगत्य प्राप्नुतः स्पृशत
१ युज्यते प्राप्तविषयता स्पर्शन- रसने न श्रोत्र घ्राणयोः । गृह्णीतः स्वविपयमितो यत् ते भिन्नदेशमपि ॥ २०५ ॥ २ . छ. ज. 'सोग घा '३ क. ग. 'कुक्कुम-कुसुमादी' ४ प्राप्तः शब्दगन्ध ते गत्वा स्वयं न गृह्णीतः । यत् तौ पुगलमयी सक्रियी वायुवहनात् ॥ २०६ ॥ धूम इव, संहरणतो द्वारानुविधानतो विशेषेण । तोयमिव नितम्बादिषु प्रतिघाताच्च वायुरिव ॥ २०७ ॥
इति प्रतिज्ञा । अनभिमतप्रकारप्रतिषेधमाह - 'गंतुं सयं न गिण्हंति त्ति' 'ताई' इत्यत्रापि संबध्यते । ततश्च ते श्रोत्र घ्राणे कर्तृभूते पुनः स्वयं शब्द- गन्धदेशं गत्वा न गृहीतः 'शब्द- गन्धौ' इति विभक्तिव्यत्ययेन संवध्येते, आत्मनोऽवाह्यकरणत्वात् श्रोत्र- प्राणयोः, स्पर्शनरसनवदिति । ननु शब्द - गन्धावपि श्रोत्र घ्राणं कुतः प्राप्नुतः १, इत्याह- ' जं ते पोग्गलमइया सक्किरियत्ति ' यद् यस्मात्कारणात् तौ शब्द- गन्धौ सक्रियौ गत्यादिक्रियावन्तौ, तस्मादन्यत आगत्य श्रोत्र- प्राणे प्राप्नुतः । कथम्भूतौ सन्तौ सक्रियौ तौ ९, इत्याह
लभयौ । यदि पुनरपौगलिकत्वादमूर्ती स्याताम्, तदा यथां जैनमतेन सक्रियेष्वाकाशादिषु गतिक्रिया नास्ति, तथैतयोरपि न स्यात् । इत्यालोच्य पुद्गलमयत्वविशेषणमकारि, पुद्गलमयत्वे सति सक्रियाविति भावः ; यच्चैवम्भूतम्, तत्र गतिक्रियाऽस्त्येव, यथा पुद्गलस्क• धेष्विति । आह- ननु पुद्गलमयत्वेऽपि सति शब्द- गन्धयोर्गतिक्रियाऽस्तीति कुतो निश्चीयते १, इत्याह- 'वाउवहणाओ धूमो व्यति' वायुना वहनं नयनं वायुवहनं तस्मात् । इदमुक्तं भवति - यथा पवनपटलेनोद्यमानत्वाद् धूमो गतिक्रियावान् एवं शब्द- गन्धावपि तेनोद्यमानत्वात्तद्वन्तौ । तथा, संहरणतो गृहादिपु पिण्डीभवनाद् धूमवदेव क्रियाभाजौ तौ । तथा, विशेषेण द्वारानुविधानतस्तोयव 'तद्वन्तावेतौ । तथा, पर्वतनितम्बादिषु प्रतिघातात् प्रतिस्खलनाद् वायुवदेतौ गतिक्रियाऽऽश्रयौ | इति गाथाद्वयार्थः ॥ २०६ ॥२०७॥
हेत्वन्तरेणाऽपि शब्द-गन्धयोः सयुक्तिकं गतिक्रियावस्त्रं समर्थयन्नाह
गिति पत्तमत्थं उबघाया - णुग्ग होवलद्धीओ । बाहिज्ज - पूइ- नासारिसादओ कहमसंबद्धे ? ॥ २०८ ॥
प्राप्तमन्यत आगत्यात्मना सह संबद्धं शब्द- गन्धलक्षणमर्थ गृहीतः 'श्रोत्र घ्राणेन्द्रिये ' इति गम्यते । एतेन शब्द - गन्धयोराग किया प्रतिज्ञाता भवति । कुतः प्राप्तमेव गृह्णीतः १, इत्याह- उपघातश्चानुग्रहश्वोपघाता ऽनुग्रहौ तयोरुपलब्धेः तथाहि - भेर्यादिमह शब्दप्रवेशे श्रोत्रस्य वाधिर्यरूप उपघातो दृश्यते, कोमलशब्दश्रवणे त्वनुग्रहः प्राणस्याऽप्यशुच्यादिगन्धप्रवेशे पूतिरोगा- शेव्याधिरू उघातोऽवलोक्यते, कर्पूरादिगन्धप्रवेशे त्वनुग्रहः । शब्द - गन्धासंबन्धेऽपि श्रोत्र - घाणयोरेतावनुग्रहो-पघातौ भविष्यत इति चेत्, इत्याह ' बाहिज्जेत्यादि ' बाधिर्ये च पूतिश्च नासाकोथलक्षणो रोगविशेषः, नासाशसि च तानि आदिर्येषां शेवोपघाता ऽनुग्रहाणां ते तथ भूताः कथं घटामुपगच्छेयुः १ । क सति ?, इत्याह- असंबद्धे स्वहेतुभूते शब्द - गन्धलक्षणे 'वस्तुनि' इति गम्यते । इदमुक्तं भवति--श्रो घ्राणाभ्यां सह संबद्धा एवं शब्द- गन्धाः स्वकार्यभूतं बाधिर्याद्युपघातम्, अनुग्रहं वा जनयितुमलम्, नाऽन्यथा, सर्वस्याऽपि तज्जन प्राप्तेरतिप्रसङ्गात् ॥ इति गाथार्थः ॥ २०८ ॥
?
१ ज. 'था जिन' । २ गृह्णीतः प्राप्तमर्थमुपघाता-नुग्रहोपलब्धेः । बाधिर्य-पूति-नासार्शआदयः कथमसंबडे ? ॥ २०८ ॥ X (अक्रि.-1)
For Private and Personal Use Only