________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
61
विशेषा० तथाहि
जै सव्वहा न वीसुं सव्वेसु वि तं न रेणुतेल्लं व । पत्तैयमणिर्छतो कहमिच्छसि समुदए नाणं ? ॥२०॥
या वस्तु सर्वथा सर्वप्रकारैर्विष्वक् पृथग् नास्ति तत् समुदायेऽपि नाऽभ्युपगन्तव्यम् , यथा रेणुकणनिकरे प्रतिरेणुकमविधपान तैलम् । एवं चेत्, तर्हि त्वमपि प्रत्येकमनिच्छन् कथं समुदये मानमिच्छसि १ । इदमुक्तं भवति- यदीन्द्रियविषयसंबन्धस्य प्रथम| समयादारभ्य व्यञ्जनावग्रहसंबन्धिनोऽसंख्येयान् समयान् यावत् प्रतिसमय पुष्टिमाविभ्रती ज्ञानमात्र काश्चिदपि नेच्छासि, तहि चरम| समयशब्दादिविषयद्रव्यसंबन्धेन संपूर्णे समुदायेऽपि कर्य तामिच्छसि - चरमसमयशब्दादिविषयद्रव्यसंबन्धे यदर्थावग्रहज्ञानमभ्युपगम्यते, तदपि प्रत्येकमसञ्चरमसिकताकणे सैलवद् नमामोतीति भावः । तस्मात् तिलेषु तैलवत् सर्वेष्वपि समयेषु प्रत्येक यच यावच जानमस्तीति मतिपत्तव्यम् ॥ इति गाथार्थः ॥ २०१॥
समुदाए जइ णाणं देसूणे समुदए कहं नत्थि ?। समुदाए वाऽभूयं कह देसे होज तं सयलं ? ॥२०॥ . समुदायज्ञानवादिन् ! यदि विषयद्रव्यसंबन्धसमयानामसंख्येयानां समुदाये ज्ञानमर्थावग्रहलक्षणमभ्युपगम्यते, तार्ह चरमसमयलक्षणो योऽसौ देशस्तेन न्यूने समुदाये- चरमैकसमयोनेष्वसंख्यातेषु समयेष्वित्यर्थः, तत् कथं नास्ति', समस्त्येव,प्रमाणोपपन्नत्वात्। तथा। हि- सर्वेष्वपि शब्दादिद्रव्यसंबन्धसमयेषु ज्ञानमस्तीति प्रतिजानीमहे, ज्ञानोपकारिशब्दादिद्रव्यसंबन्धसमयसमुदायैकदेशत्वादिति हेतुः, । अर्थावग्रहसमयवदिति दृष्टान्तः॥ अत्राह-ननु शब्दादिविषयोपादानसमयसमुदाये ज्ञान केनाऽभ्युपगम्यते, येन समुदायैकदेशत्वात् प्रथ
मादिसमयेषु सर्वेष्वपि तत् प्रतिज्ञायते, मया ह्येकस्मिन्नेव चरमसमये शब्दादिद्रव्योपादाने ज्ञानप्रसव इष्यते, इत्याशङ्कयाह- 'समुदाए वाऽभूयमित्यादि ' चशब्दो वाशब्दो वा पातनायाम् , सा च कृतैव । तत्र योकस्मिन्नेव चरमसमये ज्ञानमभ्युपगम्यते , तदाऽसौ सर्व'समयसमुदायापेक्षया तावदेकदेश एव । ततश्चानेनैकदेशेनोने शेषसमयसमुदाये यदभूतं ज्ञानं तत्कथं हन्त ! चरमसमयलक्षणे देशेऽकस्मादेव सकलमखण्डं भवेत , अप्रमाणोपपन्नत्वात् ; तथाहि-नैकस्मिंश्चरमशब्दादिद्रव्योपादानसमये ज्ञानमुपजायते, एकसमयमात्र
। यत् सर्वथा न विष्वक् सर्वेष्वपि तद् न रेणुतैलमिव । प्रत्येकमनिच्छन् कथमिच्छसि समुदये ज्ञानम् ? ॥२०१॥ २ क. छ. 'ब्दादिद्र' ।
३ समुदाये यदि ज्ञानं देशोने समुदये कथं नास्ति । । समुदाये वाऽभूतं कथं वेशे भवेत् तत् सकलम् ? ॥ २० ॥ शब्दादिद्रव्योपादानात, व्यञ्जनायग्रहाऽऽधसमयवदिति । स्यादेतत्, चरमसमयेऽर्थावग्रहशानमनुभवप्रत्यक्षेणाऽप्यनुभूयते, ततः प्रत्यक्षविरोधिनीय प्रतिज्ञा । तदयुक्तम् , 'चरमसमय एव समग्रं ज्ञानमुत्पद्यते' इतिभवत्प्रतिज्ञातस्यैव प्रत्यक्षविरोधात्, चरमतन्तौ समस्तपटोत्पादवचनवत् । तथा, सर्वेष्वपि शब्दादिद्रव्यसंबन्धसमयेषु ज्ञानमस्तीत्यादिपूर्वोक्तानुमानविरोधश्च भवत्पक्षस्य ॥ इति गाथार्थः ॥ २०२॥
तस्मात् किमिह स्थितम् ? , इत्याह
तंतू पडोवगारी न समत्तपडो य, समुदिया ते उ। सव्वे समत्तपडओ तह नाणं सव्वसमएसु ॥ २०३ ॥
यथैकस्तन्तुः पटोपकारी वर्तते, तमन्तरेणाऽपि समग्रस्य तस्याऽभावात् , न चासौ तन्तुरेतावता समस्तः पटो भवति, पटैकदेशत्वात् तस्य, समुदिताः पुनस्ते तन्तवः सर्वे समस्तपटव्यपदेशभाजो भवन्ति तथावापि सर्वेष्वपि समुदितेषु समयेषु ज्ञानं भवति, नैकस्मिंश्चरमसमये । ततश्चार्थावग्रहसमयात् पूर्वसमयेषु तदेव ज्ञानमतीवाऽस्फुटं व्यञ्जनावग्रह उच्यते; चरमसमये तु तदेव किश्चित्स्फुटतरावस्थामापन्नमर्थावग्रह इति व्यपदिश्यते । अतो यद्यपि सुप्त-मत्त-मूञ्छितादिज्ञानस्येव व्यक्तं तथाविधं व्यञ्जनावग्रहज्ञानसाधकं लिङ्ग नास्ति, तथापि यथोक्तयुक्तितो व्यञ्जनावग्रहे सिद्धं ज्ञानम् ॥ इति गाथार्थः॥२०३॥
तत्त्व-भेद-पर्यायैर्व्याख्या , तत्र तत्त्वं व्यञ्जनावग्रहस्य स्वरूपमुक्तम् । अथ तस्य भेदान् निरूपयितुमाह- नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा । उवघाया-गुग्गहओ जं ताई पत्तकारीणि ॥ २०४॥
स च व्यञ्जनावग्रहश्चतुर्धा भवति । कुतः १, इत्याह- नयन-मनोवर्जेन्द्रियभेदात् । इदमुक्तं भवति- विषयस्य, इन्द्रियस्य च यः परस्परं संबन्धः प्रथममुपश्लेषमात्रम् , तब्यञ्जनावग्रहस्य विषयः। स च विषयेण सहोपश्लेषः प्राप्यकारिष्वेव स्पर्शन-रसन घ्राण-श्रोत्रलक्षणेषु चतुरिन्द्रियेषु भवति, न तु नयन-मनसोः । अतस्ते वर्जयित्वा शेषस्पर्शनादीन्द्रियचतुष्टयभेदाच्चतुर्विध एव व्यञ्जनावग्रहो भवति । नन्विन्द्रियत्वे तुल्येऽपि केयं मुखपरीक्षिका- यच्चतुषु स्पर्शनादीन्द्रियेषु सोऽभ्युपगम्यते,नान्यत्र ?, इत्याह- 'उवघायेत्यादि'यद् यस्मात् तान्येव स्पर्शन-रसन-घाण-श्रोत्रलक्षणानि चत्वारीन्द्रियाणि प्राप्तकारीणि, न तु नयन-मनसी। ततो यथोक्तेन्द्रियचतुष्कभेदाच्चतुर्विध एवाऽसौ भवति, इति कात्र मुखपरीक्षिका ? इति । तत्र विषयभूतं शब्दादिकं वस्तु प्राप्त संश्लेषद्वारेणाऽऽसादितं कुर्वन्ति परिच्छिन्द
, तन्तुः पटोपकारी न समस्तपटश्च, समुदितास्ते । सर्व समस्तपटकस्तथा ज्ञानं सर्वसमयेषु ॥ २०३॥ २ ज. 'सर्वेऽपि स'। . नयन-मनोवर्जेन्द्रियभेदाद् व्यञ्जनावग्रहश्चतुर्धा । अपघाता-ऽनुग्रहतो यत् तानि प्राप्तकारीणि ॥ २०४॥ ४ घ. छ. 'यत्वतुल्यत्वेऽपि'।
For Private and Personal Use Only