________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
60
विशेषा ०
रिति दर्शयन्नाह - बधिरादीनाम्, आदिशब्दादुपहतघ्राणादीन्द्रियाणां पुनः स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवतीत्यत्राऽविप्रतिपत्तिरेव । कुत: १, इत्याह- तच तदुभयं च तदुभयं तस्याऽभावाज्ज्ञानकारणत्वाभावात्, अव्यक्तस्याऽपि च ज्ञानस्याभावात् ॥ इति गाथार्थः ॥ १९६ ॥
अथ पुनरप्याक्षेपं, परिहारं चाभिधित्सुराह
केहमव्वतं नाणं च सुत्त मत्ताइसुहुमबोहो व्व । सुत्तादओ सयं वि य विन्नाणं नावबुति ॥ १९७ ॥
परः सासूयमाह - ननु कथं 'ज्ञानम्, अव्यक्तं च' इत्युच्यते १ तमः प्रकाशाग्रभिधानवद् विरुद्धत्वाद् नेदं वक्तुं युज्यत इति भावः । अत्रोत्तरमनन्तरमेवोक्तम्- एकतेजोऽवयवप्रकाशवत् सूक्ष्मत्वादव्यक्तम् । अथ पुनरप्युच्यते-सुप्त मन्त-मूर्च्छितादीनां सूक्ष्मबोध• वदव्यक्तं ज्ञानमुच्यत इति न दोषः । सुप्तादीनां तदात्मीयज्ञानं स्वसंविदितं भविष्यतीति चेत् । नैतदेवमित्याह- सुप्तादयः स्वयमपि तदात्मीयविज्ञानं नावबुध्यन्ते न संवेदयन्ति, अतिसूक्ष्मत्वात् ॥ इति गाथार्थः ॥ १९७ ॥
आह- यदि तैरपि सुप्तादिभिस्तदात्मीयज्ञानं न संवेद्यते, तर्हि तत् तेषामस्तीत्येतत् कथं लक्ष्यते १, इत्याह
लेक्खिज्जइ तं सिमिणायमाणवयणदाणाइ चिट्ठाहिं । जं नामइपुव्वाओ विज्जंते वयणचिट्ठाओ ॥ १९८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तत् सुप्तादीनां ज्ञानमस्तित्वेन लक्ष्यते । कुतः १, स्वमायमानवचनदानादिचेष्टाभ्यः, सुप्तादयोऽपि हि स्वमायमानाद्यवस्थायां केचित् किमपि भाषमाणा दृश्यन्ते, शब्दिताचौघतो वाचं प्रयच्छन्ति, संकोच विकोचा ङ्गभङ्ग जृम्भित- कूजित कण्डूयनादिचेष्टाच कुर्वन्ति, न च तास्ते तदा वेदयन्ते, नापि च प्रबुद्धाः स्मरन्ति । तर्हि कथं तच्चेष्टाभ्यस्तेषां ज्ञानमस्तीति लक्ष्यते १, इत्याह- 'जमित्यादि' यद् यस्मात् कारणाद् नाऽमतिपूर्वास्ता वचनादिचेष्टा विद्यन्ते, किन्तु मतिपूर्विका एव, अन्यथा काष्ठादीनामपि तत्प्रसङ्गात् ; अतस्ताभ्यस्तत् तेषामस्तीति लक्ष्यत एव, धूमादग्निरिव ॥ इति गाथार्थः ॥ १९८ ।।
आह- नन्वात्मीयमपि चेष्टितं किं कश्चिद् न जानाति, येन सुप्तादीनां खचेष्टिताऽसंवेदनमुच्यते १, इत्याशङ्कयाह
१ कथमव्यक्तं ज्ञानं च सुप्त मत्तादिसूक्ष्मबोध इव । सुप्तादयः स्वयमपि च विज्ञानं नावबुध्यन्ते ॥ १९७ ॥
२ लक्ष्यते तत् स्वप्नायमानवचनदानादिचेष्टाभ्यः । यद् नाऽमतिपूर्वा विद्यन्ते वचनचेष्टाः ॥ १९८ ॥
जग्गन्तो वि न जाणइ छउमत्थो हिययगोयरं सव्वं । जं तज्झवसाणाई जमसंखेजाई दिवसेण ॥ १९९॥ हृदयं मनो गोचरः स्थानं यस्य तद् हृदयगोचरं 'अध्यवसायनिकुरम्बं' इति गम्यते, तज्जाग्रदपि च्छद्मस्थः सर्वमपरिशेषं न जानाति न संवेदयते, आस्तां पुनः सुप्तः । कुतः १, इत्याह- अध्यवसानानि - अध्यवसाय स्थानरूपाणि केवलिगम्यानि सूक्ष्माणि यत एकेनाऽप्यन्तर्मुहूर्तेनाऽसंख्येयानि यान्त्यतिक्रामन्ति, किं पुनः सर्वेणापि दिवसेन १ । न चैतानि च्छद्मस्थः सर्वाण्यपि संवेदयते । ततश्च स्थैरसंवेद्यमानान्यपि केवलिदृष्टत्वात् सच्चैनाऽभ्युपगम्यन्ते, तथा व्यञ्जनावग्रहज्ञानमपि ॥ इति गाथार्थः ॥ १९९ ॥ आह- ननु सुप्तादीनां ज्ञानं वचनादिचेष्टाभ्यो गम्यत इत्युक्तम्, तत्तावदभ्युपगच्छामः व्यञ्जनावग्रहे तु ज्ञानरूपतागमकं लिङ्गं न किञ्चिदुपलभामहे, अतो जडरूपत्वाद् नासौ ज्ञानमिति ब्रूमः, इत्याशङ्कयाह
जैइ वण्णाणमसंखेज्जसमइमद्दाइदव्वसम्भावे । किह चैरमसमयसदाइदव्वविण्णाण सामत्थं ? ॥ २०० ॥ वाशब्दः पातनासूचकः, सा च कृतैव । ततश्च हन्त ! यद्यज्ञानं व्यञ्जनावग्रहः । क सति १, इत्याह- असंख्येयसमयशब्दादिद्रव्यसद्भावेऽपि सति इत्यपिशब्दो गम्यते । कथं तर्हि चरमसमयशब्दादिद्रव्याणां विज्ञानजननसामर्थ्यम् १ न कथञ्चिदित्यर्थः । इदमुक्तं भवति - व्यञ्जनावग्रहे तावत् प्रतिसमयमसंख्येयान् समयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्याणि संबध्यन्ते । ततश्च यद्यसंख्येय समयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्य संबन्धसद्भावेऽपि सति व्यञ्जनावग्रहरूपं ज्ञानं नाभ्युपगम्यते, कथं तर्हि चरमसमये श्रोत्रादीन्द्रियैः सह संबद्धानां शब्दादिविषयद्रव्याणां परेणाऽप्यर्थावग्रहलक्षणविज्ञानजननसामर्थ्यमिष्यते, तदभ्युपगन्तुं न युज्यत इति भावः । यदि हि शब्दादिविषयद्रव्याणां श्रोत्रादीन्द्रियैः सह संबन्धे आद्यसमयादेवाऽऽरभ्य ज्ञानमात्रा काचित् प्रतिसमयमाविर्भवन्ती नाभ्युपगम्यते, तर्हि चरमसमयेऽप्येकस्मादेवैषा न युज्यते, तथा च सत्यर्थावग्रहादिज्ञानानामप्यनुदर्यप्रसङ्गः ॥ इति गाथार्थः ॥ २०० ॥
१ जाग्रदपि न जानाति छनस्थो हृदयगोचरं सर्वम् । यत् तदध्यवसानानि यदसंख्येयानि दिवसेन ॥ १९९॥
२. एके तु यथा जलकणैर्द्वित्रिः सिक्तोऽप्यभिनवः शरावो नार्द्रीभवति, पुनः पुनः सिच्यमानस्तु शनैस्तिम्यतिः एवमिन्द्रियैरर्था गृह्यमाणा या दिसमयेषु न व्यक्तीभवन्ति, पुनः पुनरवग्रहे तु तथा स्युः, इति व्यक्तावग्रहात् प्रागव्यक्तावग्रहः, स एव व्यञ्जनावग्रहः, अव्यक्तं वस्तु च व्यञ्जनम् इति साधयन्ति । एतच्च न युक्तम्, सर्वविषयिविषयाणां व्यक्ताव्यक्तत्वात् तथा च दर्शनवत् सर्वेन्द्रियेभ्योऽपि व्यञ्जनावग्रहः स्यात्, न चैतत् सांप्रतम्, “म चक्षुरनिद्रियाभ्याम् ( तस्वार्थ० १-१९ ) इति सूत्रेण तस्य सर्वेन्द्रियाजन्यत्वात् इत्यपि द्रष्टव्यम् ॥ -१ यदि वाऽज्ञानमसंख्येयसमयशब्दादिद्रव्यसद्भावे । कथं चरमसमयशब्दादिद्रव्यविज्ञानसामर्थ्यम् १ ॥ २०० ॥ ४. घ. छ. ज. 'चरिम ।
For Private and Personal Use Only