________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
तदेवमयग्रहादिभेदचतुष्टयविषया निराकृताः सर्वा अपि परविप्रतिपत्तया, तम्भिराकरणप्रक्रमे चानन्तरमवग्रहो द्विरूपः प्रोक्तास चय दिरूपो भवति इत्याशय तद्विरूपताकथनव्याजेन पूर्व यान्याभिनियोधिक ज्ञानस्याऽवग्रहादीनि चत्वारि भेदवस्तून्युक्तानि, तेष्वेव मध्येऽवग्रहं तावद् व्याचिख्यासुराह
तेत्थोग्गहो दुरूवो गहणं जं होइ वंजण-स्थाणं । वंजणओ य जमत्थो तेणाईए तयं वोच्छं ॥ १९३ ॥ सत्रावग्रहणमवग्रहो द्विरूपो यथा भवति, तथा प्रोच्यते । कथम् १, इत्याह- यद् यस्मात् ग्रहणं व्यञ्जना ऽर्थयोरेव भवेत, अन्यस्य ग्राह्यस्याऽभावात् । ततश्च विषयद्वैविध्यादवग्रहो द्विविध इति भावः । अपरं च, यद्यस्मात् कारणाद् वक्ष्यमाणन्यायेन माप्यकारिष्विन्द्रियेषु व्यञ्जनतो- व्यञ्जनावग्रहादनन्तरमेव, अर्थो- अर्थावग्रहो भवति, तेनाऽऽदौ प्रथमतस्तकं व्यञ्जनावग्रहमेव वक्ष्ये ॥ . इति गाथार्थः ॥ १९३ ॥ . तत्र व्यञ्जनं तावत् किमुच्यते ?, इत्याह
'जिजइ जेणत्यो घडो व्व दीवेण वंजणं तं च । उवगरणिदियसदाइपरिणयहव्वसंबंधो ॥ १९४ ॥ । व्यज्यते प्रकटीक्रियतेऽर्थो येन, दीपेनेव घटः, तद् व्यञ्जनम् । किं पुनस्तत् १, इत्याह- 'तं चेत्यादि' तच्च व्यञ्जनमुपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्ध:- इन्द्रियं द्विविधम्- द्रव्येन्द्रियं, भावेन्द्रियं च । तत्र नियु-पकरणे द्रव्येन्द्रियम्, लब्ध्यु-पयोगी भावेन्द्रियम् । निर्वृत्तिश्च द्विधा- अङ्गुलासंख्येयभागादिमानों कदम्बकुसुमगोलक-धान्यमसूर-काहला-क्षुरपाकारमांसगोलकरूपा, शरीराकारा च श्रोत्रादीन्द्रियाणां पश्चानामपि यथासंख्यमन्तर्निछेत्तिः कर्णशष्कुलिकादिरूपा तु बहिर्निदृत्तिः । तत्र कदम्बकुसुमगोलकाकारमांसखण्डादिरूपाया अन्तनिवृत्तेः शब्दादिविषयपरिच्छेदहेतुर्यः शक्तिविशेषः स उपकरणेन्द्रियम् , शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः, आदिशब्दाद रस-गन्ध-स्पर्शपरिग्रहः तद्भावेन परिणतानि च तानि भाषावर्गणादिसंबन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि, उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च, तेषां परस्परं संबन्ध उपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्ध; एष तावद् व्यञ्जनमुच्यते । अपरं चेन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वात् तदपि व्यञ्जनमुच्यते । तथा शब्दादिपरिणतद्रव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्ज
छ. 'कथं हि ति। तत्रावग्रहो द्विरूपो प्रहर्ण यजवति व्यञ्जना-ऽर्थयोः । व्यअनतश्च यदर्थस्तेनावी तक वक्ष्ये ॥ १९३ ॥+श्रोत्रादिन्टिभविश्य:
व्यज्यते येनाऽर्थों घट इव दीपेन व्यजनं तच्च । उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः ॥ १९ ॥ ४ ज. 'मानक'। नमभिधीयत इति । एवमुपलक्षणव्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम् । ततश्चेन्द्रियलक्षणेन व्यञ्जनेन शब्दादिपरिणतद्रव्यसंबन्धस्वरूपस्य व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रहः, अथवां तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्यञ्जनानामवग्रहो व्यञ्जनावग्रहः। इत्युभयत्राऽप्येकस्य व्यञ्जनशब्दस्य लोपं कृत्वा समासः ॥ इति गाथार्थः ॥ १९४ ॥ ... अत्राऽऽक्षेप, परिहारं चाभिधित्सुराह
अण्णाणं सो बहिराइणं व तकालमणुवलंभाओ । न तदंते तत्तो च्चिय उवलंभाओ तओ नाणं ॥१९५॥
स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवति, तस्योपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्धस्य कालस्तत्कालस्तस्मिन् ज्ञानस्यानुप- लम्भात् स्वसंवेदनेनाऽसंवेद्यमानत्वात् । बधिरादीनामिव- यथा हि बधिरादीनामुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैः सह संबन्धकाले
न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वाच्च तन्नास्ति, तथेहाऽपीति भावः ।। अत्रोत्तरमाह- 'न तदंते इत्यादि' नासौ जडरूपतया - ज्ञानरूपेणाऽननुभूयमानत्वादज्ञानम्, किं तर्हि १,'सकोऽसौ व्यञ्जनावग्रहो ज्ञानमेव । कुतः, तदन्ते- तस्य व्यञ्जनावग्रहस्यान्ते, तत एव * ज्ञानात्मकस्याऽर्थावग्रहोपलम्भस्य भावात् , तथाहि- यस्य ज्ञानस्यान्ते तज्ज्ञेयवस्तूपादानात् तत एव ज्ञानमुपजायते तज्ज्ञानं दृष्टम् , " यथार्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानत ईहासद्भावादर्थावग्रहो ज्ञानम् , जायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात् तत एवार्थावग्रहज्ञानम् , तस्माद् व्यञ्जनावग्रहो ज्ञानम् ॥ इति गाथार्थः ॥ १९५ ॥
तदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नानुभूयते, तथापि ज्ञानकारणत्वादसौ ज्ञानम् , इत्येवं व्यञ्जनावग्रहे ज्ञानाभावमभ्युपगम्यो'क्तम् । सांपतं ज्ञानाभावोऽपि तत्रासिद्ध एवेति दशेयभाह
तेकालम्मि वि नाणं तत्थरिथ तणं ति तो तमव्वत्तं । बहिराईणं पुण सो अन्नाणं तदुभयाभावा ॥१९॥
तत्कालेऽपि तस्य व्यञ्जनसंवन्धस्य कालेऽपि तत्राऽनुपहतेन्द्रियसंबन्धिनि व्यञ्जनावग्रहे ज्ञानमस्ति, केवलमेकतेजोऽवयवप्रकाशवत् तनु-अतीवाऽल्पमिति अतोऽव्यक्तं स्वसंवेदनेनापि न व्यज्यते । यद्यव्यक्तम् , कथं तदस्तीति ज्ञायते इति चेत् । मा त्वरिष्ठाः, जैइ वण्णाणमसंखेजसमइसहाइदव्वसब्भावे ' इत्यादिनाऽनन्तरमेव तदस्तित्वयुक्तेर्वक्ष्यमाणत्वात् । दृष्टान्ते तु ज्ञानाभावेऽविमतिपत्ति
१ अशानं स बधिरादीनामिव तत्कालमनुपलम्भात् । न तदन्ते तत एवोपलम्भात् सको ज्ञानम् ॥ १९५॥+तको-. २ तत्कालेऽपि ज्ञानं तत्राऽस्ति तनु इत्यतस्तव्यक्तम् । बधिरादीना पुनः सोऽज्ञानं तदुभयाभावात् ॥ १९ ॥३ गाथा २..।।
For Private and Personal Use Only