________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
58
... विशेषा०
त्रयी गतिः । तत्राद्यपक्षद्वयमयुक्तम् , ज्ञानरूपत्वाभावात् , तद्भेदानां चेह विचार्यत्वेन प्रस्तुतत्वात् । तृतीयपक्षोऽप्ययुक्त एव, संख्येयमर्सख्येयं वा कालं वासनाया इष्टत्वात् , एतावन्तं च कालं तद्वस्तुविकल्पाऽयोगात् । तदेवमविच्युति-स्मृति-वासनारूपायात्रिविधाया अपि धारणाया अघटमानत्वात् विधैव मतिः प्राप्नोति, न चतुर्धा ॥
अत्रोच्यते-यत् तावद् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्यते, तदयुक्तम्, गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वात् , अन्यकालविशिष्ट हि वस्तु प्रथमप्रवृत्ताऽपायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवारा प्रवृत्ताऽपायेन । किञ्च, स्पष्ट-स्पष्टतर-स्पष्टतमभिमधमकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीयाद्यपायविषयं वस्तु भिन्नधर्मकमेव, इति कथमविच्युतेर्ग्रहीतग्राहिता १ । स्मृतिरपि पर्योत्तरदर्शनद्रयानधिगतं वस्त्वेकत्वं गृहाना न गृहीतग्राहिणी । न च वक्तव्यं कालादिभेदेन भिन्नत्वाद् वस्तुनो नैकत्वम्, कालादिभिभिन्नत्वेऽपि सत्त्व-प्रमेयत्व-संस्थानरूपादिभिरेकत्वात् । वासनापि स्मृति-विज्ञानावरणकर्मक्षयोपशमरूपा, तद्विज्ञानजननशक्तिरूपा चेष्यते । सा च यद्यपि स्वयं ज्ञानरूपा न भवति, तथापि पूर्वप्रवृत्ताऽविच्युतिलक्षणज्ञानकार्यत्वात् , उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाचोपचारतो ज्ञानरूपाऽभ्युपगम्यते । तद्वस्तुविकल्पपक्षस्त्वनभ्युपगमादेव निरस्तः । तस्मादविच्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वाद् न मतेस्त्रैविध्यम् , किन्तु चतुर्धा सेति स्थितम् ।। इति गाथाद्वयार्थः ॥ १८८ ॥ १८९ ।।
अर्थतां स्वाभिमतां धारणां व्यवस्थाप्य परं प्रत्याह
तं इच्छंतस्स तुहं वत्थूणि य पंच, नेच्छमाणस्य । किं होउ सा अभावो भावो नाणं व तं कयर ? ॥१९॥
अस्मदभिमतामनन्तरप्रतिष्ठितस्वरूपां तो धारणामिच्छतस्तव पञ्च वस्तूनि- पञ्चाऽभिनिवोधिकज्ञानभेदाः प्राप्नुवन्ति, अपायस्यैकस्याऽपि भेदद्वयरूपताभ्युपगमेन भेदचतुष्टयस्य त्वयाऽपि पूरितत्वात् , पश्चमस्य तु मदुक्तस्य धारणालक्षणस्य प्रसङ्गादिति भावः । अथास्मदभ्युपगता धारणा त्वया नेष्यते, तर्हि ' नेच्छमाणस्स किं होउ इत्यादि ' तां मदभ्युपगतां धारणामनिच्छतोप्रतिपद्यमानस्य तव सा मदभ्युपगता धारणा किं भवतु-अभावो- अवस्तु, आहोखिद् भावो- वस्तु ' इति विकल्पद्वयम् । किश्चातः? न तावदभावः,भावत्वेनाऽनुभूयमानत्वात् । न च तथाऽनुभूयमानस्याऽभावत्वमाधातुं शक्यते, अतिप्रसङ्गात्-घटादिष्वपि तथात्वप्राः तेऽपि ह्यनुभववशेनैव भावरूपा व्यवस्थाप्यन्ते । यदि चाऽनुभवोऽप्यप्रमाणम् , तदा घटादिष्वपि भावरूपतायामनाश्वास इति भावः । अथ भावोऽसौ,
तामिच्छतस्तव वस्तूनि च पञ्च, नेच्छतः। किं भवतु साऽभावो भावो ज्ञानं वा तत् कतरत् ॥ १९ ॥स्स-1 तर्हि वक्तव्यम्- ज्ञानम् , अज्ञानं वा । न तावदज्ञानम् , चिद्रूपतयाऽनुभूयमानत्वात् । अथ ज्ञानम् , तदपि मति-श्रुता-ऽवधि-मन:पर्याय-केवलेभ्यो ज्ञानान्तरस्याऽभावात् तेषां मध्ये कतमत् इति वाच्यम् । न तावत् श्रुतादिचतुष्टयरूपम् , अनभ्युपगमात् , तल्लक्षणाऽयोगाच्च । मतिज्ञानं चेत्, तदपि नाऽवग्रहे-हा-पायरूपम, तल्लक्षणासंभवात 'नणु सावायभहिया' इत्यादिनाऽपायाभ्यधिकत्वेन साधितत्वाच । तस्मादन्वय-व्यतिरेकाभ्यां निश्चयः सर्वोऽप्यपायः, अविच्युति-स्मृति-वासनारूपा तु पारिशेष्यद्वारणव, इति स्थितम् ॥ इति गाथार्थः ॥ १९॥
तदेवं निरुत्तरीकृतोऽप्यविलक्षिततयाऽन्येन प्रकारेणाह
. तुझं बहुयरभेया भणइ मई होई धिइबहुत्ताओ । भण्णइ न जाइभेओ इट्टो मज्झं जहा तुझं ॥ १९१॥ - अत्र प्रेरको भणति । किम् ?, इत्याह- 'तुज्झमित्यादि' इत्थमाचार्य ! तव बहुतरभेदा मतिर्भवति । कुतः १, इत्याह- धृतेर्धारणाया बहुत्वाद् बहुभेदत्वादित्यर्थ:-धारणाया एकस्या अप्यविच्युति-वासना-स्मृतिलक्षणभेदत्रययुक्तत्वादवग्रहे-हा-ऽपायैः सह षड्भेदा मतिः प्राप्नोतीति भावः। अत्र प्रतिविधानमाह- 'भण्णईत्यादि' भण्यतेत्रोत्तरम्- जातेहेंदो जातिभेदो व्यक्तिपक्ष इत्यर्थः, स इह धारणाविचारे मम नेष्टो नाभिमेतः, किन्तु धारणासामान्यरूपा जातिरेव ममाऽभिप्रेता । कस्य यथा', इत्याह- यथा तब 'अवग्रहविषये' इति शेषः, इदमुक्तं भवति- यथाऽवग्रहो व्यञ्जना-ऽर्थावग्रहभेदाभयरूपोऽवग्रहसामान्यादेकस्त्वयाऽपीष्टः, अन्यथा मतेः पञ्चविधत्वमसङ्गात् । तथा त्रिरूपाऽपि धारणा तत्सामान्यादेकरूपैवः इति चतुर्विधैव मतिः, न बहुतरभेदा ॥ इति गाथार्थः ॥ १९१॥
एतदेव भावयन्नाह- सा भिन्नलक्खणाऽवि हु धिइसामन्नेण धारणा होइ । जह उग्गहो दुरूवो उग्गहसामन्नओ एक्को ॥१९२॥
सा धारणा, अविच्युति-वासना-स्मृतीनां भिन्नखरूपत्वेन भिनलक्षणाऽपि सती धारणासामान्याव्यतिरेकादेकैव भवति यथाऽवग्रहो व्यञ्जना-विग्रहभेदाद् द्विरूपोऽप्यवग्रहसामान्याव्यतिरेकादेकः परस्यापि सिद्धः, अन्यथा मतेः पञ्चविधत्वापत्तेः ॥ इति गाथार्थः॥ १९२ ॥
१ गाथा १८९ । २ प. छ. ज. 'कारणेनाह'। ३ तव बहुतरभेदा भणति मतिर्भवति तिबहुत्वात् । भण्यते न जातिभेद इष्टो मम यथा तव ॥१९॥ सा भिनलक्षणाऽपि खलु प्रतिसामान्येन धारणा भवति । यथाऽवग्रहो द्विरूपोऽवग्रहसामान्यत एकः ॥ १९ ॥२करणनाह
For Private and Personal Use Only