________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
57
। विशेषा०
यस्माद् व्यतिरेकाद् , अन्वयाद् , उभयाद् वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायः स सर्वोऽप्यपायः प्रस्तुतस्थाण्यादिवस्तुनिश्चयः, न तु सद्भूतार्थविशेषावधारणं धारणेति भावः, तस्माद् न दोषः॥
आह-ननु यथा मया व्याख्यायते-सद्भूतार्थविशेषावधारणं धारणा, तथा किं कश्चित् दोपः समुपजायते, येनाऽऽत्मीयव्याख्यानपक्षे इदमित्थमभिधीयते 'न दोषः' इति । एतदाशङ्कयाह-'भेए वेत्यादि' वाशब्दः पातनायां गतार्थः, व्यतिरेकोऽपायः, अन्वयस्तु धारणा, इत्येवं मतिज्ञानतृतीयभेदस्याऽपायस्य भेदेऽभ्युपगम्यमाने पञ्च वस्तूनि पञ्च भेदा भवन्ति, 'आभिनिबोधिकज्ञानस्य' इति गम्यते; तथाहि-अवग्रहे-हा-ऽपाय-धारणालक्षणाश्चत्वारो भेदास्तावत् त्वयैव पूरिताः, पञ्चमस्तु भेदः स्मृतिलक्षणःमाप्नोति- अविच्युते। खसमानकालभाविन्यपायेऽन्तभूतत्वात्, वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात् , स्मृतेरनन्यशरणत्वाद् मतेः पञ्चमो भेद: प्रसज्यत इति भावः॥
आहेत्यादि । पुनरप्याह पर:- ननु यथैव मया व्याख्यायते- व्यतिरेकमुखेन निश्चयोऽपायः, अन्वयमुखेन तु धारणा, इत्येवमेव चतुर्धा चतुर्विधा मतिर्भवति युक्तितो घटते । अन्यथा तु व्याख्यायमाने- अन्वय-व्यतिरेकयोयोरप्यपायत्वेऽभ्युपगम्यमाने इत्यर्थः । किम् ?, इत्याह- त्रिधा- अवग्रहे-हा-ऽपायभेदतस्त्रिभेदा मतिर्भवति, न पुनश्चतुर्धा, धारणाया अघटमानकत्वादिति भावः ॥ इति गाथार्थः ॥ १८७॥
कथं पुनर्धारणाऽभावः १, इत्याह. काऽणुवओगम्मिधिई पुणोवओगेय सा जओऽवाओ। तो नत्थि धिई, भण्णइ इदं तदेवेति जा बुद्धी॥१८॥
नणु.साऽवायब्भहिया जओ य सा वासणाविसेसाओ । जा याऽवायाणन्तरमविच्चुई सा घिई नाम ॥१८९॥
अनुपयोगे उपयोगोपरमे सति का धृतिः- का नाम धारणा ? न काचिदित्यर्थः, इदमुक्तं भवति- इह तावद् निश्चयोपायमुखेन घटादिके वस्तुनि अवग्रहे-हा-ऽपायरूपतयाऽन्तर्मुहूर्तप्रमाण एवोपयोगो जायते । तत्र चाऽपाये जाते या उपयोगसातत्यलक्षणाऽविच्युतिर्भवताऽभ्युपगम्यते, साऽपाय एवाऽन्तर्भूता, इति न ततो व्यतिरिक्ता। या तु तस्मिन् घटाछुपयोगे उपरते सति संख्येयमसं
काऽनुपयोगे धृतिः पुनरुपयोगे च सा यतोऽपायः १ । ततो नास्ति तिर्भण्यते इदं तदेवेति या बुद्धिः ॥१४॥
ननु साऽपायाऽभ्यधिका यतश्च सा वासनाविशेषात् । या चाऽपायानन्तरमविच्युतिः सा तिर्नाम ॥ १८९ ॥ ख्येयं वा कालं वासनाऽभ्युपगम्यते, 'इदं तदेव' इतिलक्षणा स्मृतिश्चाङ्गीक्रियते, सा मत्यंशरूपा धारणा न भवति, मत्युपयोगस्य मागेवोपरतत्वात् । पुनरपि कालान्तरोपयोगे धारणा भविष्यतीति चेत्, इत्याह-'पुणो इत्यादि कालान्तरे पुनर्जायमानोपयोगेऽपि याऽन्वयमुखोपजायमानाऽवधारणरूपा धारणा मयेष्यते, सा यतोऽपाय एव भवताऽभ्युपगम्यते 'सव्वो वि य सोऽवाओ' इत्यादिवचनात् । ततस्तत्रापि नास्ति धृतिर्धारणा, पुनरप्युपयोगोपरमेऽपि पूर्वोक्तयुक्त्यैव तदभावः तस्मादुपयोगकालेऽन्वयमुखाऽवधारणरूपाया धारणायास्त्वयाऽनभ्युपगमात् , उपयोगोपरमे च मत्युपयोगाभावात् , तदंशरूपाया धारणाया अघटमानकत्वात् त्रिधैव भवदभिप्रायेण मतिः प्राप्नोति, न चतुर्धा, इति पूर्वपक्षाभिप्रायः॥
. अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् । किम् ?, इत्याह- 'इदं वस्तु तदेव यत् प्रागुपलब्धं मया' इत्येवंभूता कालान्तरे या स्मृतिरूपा बुद्धिरुपजायते, नन्विह सा पूर्वमवृत्तादपायाद् निर्विवादमभ्यधिकैव, पूर्वप्रवृत्ताऽपायकाले तस्या अभावात् । सांप्रतापायस्य तु वस्तुनिश्चयमात्रफलत्वेन पूर्वापरदर्शनानुसंधानाऽयोगात् । ततश्च साऽनन्यरूपत्वाद् धृतिर्धारणा नामेति पर्यन्ते संवन्धः । यतश्च यस्माच वासनाविशेषात्- पूर्वोपलब्धवस्त्वाहितसंस्कारलक्षणात् तद्विज्ञानावरंणक्षयोपशमसान्निध्यादित्यर्थः, सा 'इदं तदेव' इतिलक्षणा स्मृतिर्भवति । साऽपि वासनाऽपायादभ्यधिकेति कृत्वा धृतिर्नाम, इतीहापि संबन्धः। 'जा याऽवायेत्यादि' या चाऽपायादनन्तरमविच्युतिः प्रवर्तते साऽपि धृति म । इदमुक्तं भवति- यस्मिन् समये 'स्थाणुरेवाऽयम्' इत्यादिनिश्वयखरूपोऽपायः प्रवृत्तः, ततः समयादूर्ध्वमपि 'स्थाणुरेवाऽयम्, स्थाणुरेवाऽयम्' इत्यविच्युता याऽन्तर्मुहूर्त क्वचिदपायप्रवृत्तिः साऽप्यपायाऽविच्युतिः प्रथमप्रवृत्तापायादभ्यधिकेति धृतिर्धारणा नामेति । एवमविच्युति-वासना-स्मृतिरूपा धारणा त्रिधा सिद्धा भवति ॥
। अत्राह कश्चित्- नन्वविच्युति-स्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वाद् न प्रमाणम् , द्वितीयादिवारा प्रवृत्ताऽपायसाध्यस्य वस्तुनिश्चयलक्षणस्य कार्यस्य प्रथमवारा प्रवृत्तापायेनैव साधितत्वात् । न च निष्पादितक्रिये कर्मणि तत्साधनायैव प्रवर्तमान साधनं शोभा बिभर्ति, अतिप्रसङ्गात्- कुठारादिभिः कृतच्छेदनादिक्रियेष्वपि वृक्षादिषु पुनस्तत्साधनाय तेषां प्रवृत्त्याप्तः। स्मृतेरपि पूर्वोत्तरकालभाविज्ञानद्वयगृहीत एव वस्तुनि प्रवर्तमानतया कुतः प्रामाण्यम् ।नच वक्तव्यं पूर्वोत्तरदर्शनद्वयाऽनधिगतस्य वस्त्वेकत्वस्य ग्रहणात् स्मृतिः प्रमाणम्, पूर्वोत्तरकालदृष्टस्य वस्तुनः कालादिभेदेन भिन्नत्वात् , एकत्वस्यैवाऽसिद्धत्वादिति । वासना तु किंरूपा ? इति वाच्यम् । संस्काररूपेति चेत् । कोऽयं नाम संस्कार:-स्मृति-ज्ञानावरणक्षयोपशमोवा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वा इति
१ गाथा १८७। २ घ. छ. ज. 'च्युत्या या'। नन्पही-1
For Private and Personal Use Only