________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
यचित्तं यन्मनोऽनेकार्थालम्बनमनेकार्थप्रतिभासाऽऽन्दोलितम् , अत एव पर्युदसनं पर्युदासो निषेधो न नथाऽपयुदासा निषेधस्तेन, तथोपलक्षणत्वादविधिना च परिकुण्ठितं जडीभूतं सर्वथाऽवस्तुनिश्चयरूपतामापत्रम्, किंबहुना ? 'सेय इत्यादि शत इव स्थापितीव सर्वात्मना न किञ्चिच्चेतयते, वस्त्वमतिपत्तिरूपत्वात् , तदेवंविधं चित्तं संशय उच्यत इत्यर्थः, तच्चाऽज्ञानम् , वस्त्वबोधरहितत्वादिति । यत् पुनस्तदेव चेतो वक्ष्यमाणस्वरूपं तदीहेति संबन्धः । कथंभूतं सत् ? इत्याह- 'भूया-भूयेत्यादि' भूनः कचित विवक्षितपदेशे स्थावादिरः, अभूतस्तत्राविद्यमानः पुरुषादिः, तावेव पदार्थान्तरेभ्यो विशिष्यमाणत्वाद् विशेषौ, तयोरादान-त्यागाभिमुखं- भूतार्थविशेषोपादानस्याऽभिमुखम् , अभूतार्थत्यागस्याऽभिमुखमिति यथासंख्येन संबन्धः । यतः कथंभूतम् ? इत्याह- सदर्थहेतपपत्तिव्यापारतत्परं हेतद्वारेणेदं विशेषणम्-सदर्थहेतूपपत्तिव्यापारतत्परत्वाद् भूता-ऽभूतविशेषादान-त्यागाभिमुखमिति भावः, तत्र हेतुः साध्यार्थगमकं युक्तिविशेषरूपं साधनम् , उपपत्तिः संभवघटनम्-विवक्षितार्थस्य संभवव्यवस्थापनम् । ततश्च हेतुश्चोपपत्तिश्च हेतूपपत्ती सदर्थस्य विवक्षितपदेशेऽरण्यादौ विद्यमानस्य स्थाण्वादेरर्थस्य हेतू-पपत्ती सदर्थहेतूपपत्ती तद्विपयो व्यापारो घटनं चेष्टनं सदर्थहेतू-पपत्तिव्यापारस्ततस्तत्परं तनिष्ठमिति समासः। अत एवाऽमोघमर्थबलायातत्वेनाऽविफलममिथ्यास्वरूपम्, तदेवंभूतं चेतः ईहा'इति संबन्धः कृत
एवः इदमुक्तं भवति- केनचिदरण्यदेशं गतेन सवितुरस्तमयसमये ईषदवकाशमासादयति तमिस्र दूरवर्ती स्थाणुरुपलब्धः, ततोऽस्य विमर्शः ----अनुसनः-किमयं स्थाणुः, पुरुषो वा' इति । अयं च संशयत्वादज्ञानम् । ततोऽनेन तस्मिन् स्थाणौ दृष्ट्रा वल्ल्यारोहणम्, प्रविलोक्य
काक-कारण्डव-कादम्ब-कौश्च-कीरशकुन्तकुलनिलयनम् , कृतश्चेतसि हेतुव्यापारः, यथा स्थाणुरयम्, वल्ल्युत्सर्पण-काकादिनिलयनोपलम्भात् । तथा संभवपर्यालोचनं च व्यधायि, तद् यथा- अस्ताचलान्तरिते सवितरि, प्रसरति चेषत्तमिस्र महारण्येऽस्मिन् स्थाणुरयं संभाव्यते, न पुरुषः, शिरःकण्डूयन-कर-ग्रीवाचलनादेस्तव्यवस्थापकहेतोरभावात। ईदृशे च प्रदेशेऽस्यां वेलायां प्रायस्तस्याऽसंभवात् । तस्मात् स्थाणुनाव सद्भूतेन भाव्यम्, न पुरुषेण । तदुक्तम्
“अरण्यमेतत् सविताऽस्तमागतो न चाऽधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥१॥
एतच्चेदृशं चित्तं ' ईहा' इत्युच्यते, निश्चयाभिमुखत्वेन संशयादुत्तीर्णत्वात् , सर्वथानिश्चयेऽपायत्वप्रसङ्गेन निश्चयादधोवर्तिवाच । इति संशये-हयोः प्रतिविशेषः ॥ इति गाथाद्वयार्थः॥ १८३॥ १८४ ॥ । अथाऽपाय-धारणागतविप्रतिपत्तिनिराचिकीर्षया परमतमुपदर्शयन्नाह
१ घ. छ. ज. 'चित्तं संशयरूपं सं' । 'केई तयण्णविसेसावणयणमेत्तं अवायमिच्छन्ति । सब्भूयत्थविसेसावधारणं धारणं बेति ॥ १८५ ।।
तच्छब्दस्याऽनन्तरगाथोक्तो भूतोऽर्थः संबध्यते, तस्मात् तत्र भूताद् विद्यमानात् स्थाण्वादेर्योऽन्यस्तत्प्रतियोगी तत्राऽविद्यमानः पुरुषादिस्तद्विशेषाः शिरःकण्डूयन-चलन-स्पन्दनादयस्तेषां पुरोवर्तिनि सद्भूतेऽर्थेऽपनयनं निषेधनं तदन्यविशेषापनयनं तदेव तन्मात्रम्, अपायमिच्छन्ति, केचनापि व्याख्यातार:-अपायनमपनयनमपाय इति व्युत्पत्यर्थविभ्रमितमनस्का इति भावः। अवधारणंधारणा इति च व्युत्पत्त्यर्थभ्रमितास्ते धारणा वते । किं तत् ? इत्याह- समृतार्थविशेषावधारणं सद्भूतस्तत्र विवक्षितप्रदेशे विद्यमानः स्थाण्वादिरर्थविशेषस्तस्य 'स्थाणुरेवाऽयं' इत्यवधारणं सद्भूतार्थविशेषावधारणमिति समासः ॥ इति गाथार्थः॥ १८५॥
तदेतद् दूषयितुमाह
कासइ तयन्नवइरेगमेत्तओऽवगमणं भवे भूए । सब्भूयसमण्णयओ तदुभयओ कासइ न दोसो ॥ १८६ ॥ __ 'भूए त्ति' तत्र विवक्षितप्रदेशे भूते विद्यमानेऽर्थे स्थाण्वादौ ‘कासइ त्ति' कस्यचित् प्रतिपत्तुस्तदन्यव्यतिरेकमात्रादवगमनं निश्चयो भवति- तस्मात् स्थाण्वादेर्योऽन्यः पुरुषादिरर्थस्तस्य व्यतिरेकः स एव तदन्यव्यतिरेकमात्रं तस्मात् स्थावाद्यर्थनिश्चयो भवतीत्यर्थः। तद्यथा- यतो नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्ते ततः स्थाणुरेवाऽयमिति । कस्यापि सद्भूतसमन्वयतः- सद्भूतस्तत्र प्रदेशे विद्यमानः स्थाण्वादिरर्थस्तस्य समन्वयतोऽन्वयधर्मघटनात् भूतेऽर्थेऽवगमनं निश्चयो भवेत् , यथा स्थाणुरेवाऽयम् , वल्ल्युत्सर्पणवयोनिलयनादिधर्माणामिहाऽन्वयादिति । कस्यचित् पुनस्तदुभयादन्वय-व्यतिरेकोभयात् तत्र भूतेऽर्थेऽवगमनं भवेत् । तद्यथायस्मात् पुरुषधर्माः शिरःकण्डूयनादयोऽत्र न दृश्यन्ते, वल्ल्युत्सर्पणादयस्तु स्थाणुधर्माः समीक्ष्यन्ते, तस्मात् स्थाणुरेवाध्यमिति । न चैवमन्वयात्, व्यतिरेकात् , उभयाद् वा निश्चये जायमाने कश्चिद् दोषः, परव्याख्याने तु वक्ष्यमाणन्यायेन दोष इति भावः ॥ इति गाथार्थः ॥ १८६ ॥
कथं पुनस्तद्व्याख्याने न दोषः १, इत्याहसेन्वो वि य सोऽवाओ भेए वा होंति पंच वत्थूणि । आहेवं चिय चउहा मई तिहा अन्नहा होइ ॥१८॥
केचित् तदन्यविशेषापनयनमात्रमपायमिच्छन्ति । सद्धृतार्थविशेषावधारणं धारणा धुवते ॥ १५॥+स्थ्यानन-1 २ कस्यचित् तदन्यव्यतिरेकमानतोऽवगमनं भवेद् भूते । सद्भूतार्थसमन्वयत्तस्तदुभयतः कस्यचित् न दोषः॥१८॥ ३ सर्वोऽपि च सोऽपायो भेदे वा भवन्ति पञ्च वस्तूनि । आहेवमेव चतुर्धा मतिनिधाऽन्यथा भवति ॥14॥
For Private and Personal Use Only