________________
San Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I विशेगा.
परितम्न्यमुक्तम्- इत्थं तीर्थकर-गणधरा ब्रुवत इति ।।
_ अन्ये त्वेवं पठन्ति- “ अत्थाणं उग्गहणम्मि उग्गहो" इत्यादि, तत्राऽर्थानामवग्रहणे सत्यवग्रहो नाम मतिभेद इत्येवं युवते, । एवमीहादिष्वपि योज्यम् । भावार्थस्तु पूर्ववदेव । अथवा प्राकृतशैल्याऽर्थवशाद् विभक्तिपरिणाम इति सप्तमी द्वितीयार्थे द्रष्टव्या ॥ । इति गाथार्थः॥१८॥
अथैतदेवाऽवग्रहादिवरूपं भाष्यकारो विवृण्वनाह- .. ___ सोमण्णत्थावग्गहणमुग्गहो भेयमग्गणमहेहा । तस्सावगमोऽवाओ अविच्चुई धारणा तस्स ॥ १८ ॥
अन्तताडोषविशेषस्य केनापिरूपेणाऽनिर्देश्यस्य सामान्यस्याऽर्थस्यैकसामयिकमवग्रहणं सामान्यार्थावग्रहणम अथवा सामान । सामान्यरूपेणार्थस्याऽवग्रहणं सामान्यार्थावग्रहणमवग्रहो वेदितव्यः। अथाऽनन्तरमीहा प्रवर्तते। कथम्भूतेयम् ? इत्याह-भेदमार्गणम्-भेदा वस्तनो धर्मास्तेषां मार्गणमन्वेषणं विचारणं प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरकण्डूयनादयः पुरुषधर्मा इत्येवं वस्तधर्मविचारणमीहेत्यर्थः । तस्यैवेहयेहितस्य वस्तुनस्तदनन्तरमवगमनमवगमः स्थाणुरेवाऽयमित्यादिरूपो निश्चयोऽवायो। पायो वेति । तस्यैव निश्चितस्य वस्तुनोऽविच्युति-स्मृति-वासनारूपं धरणं धारणा: सूत्रेविच्युतेरुपलक्षणत्वात् ॥ इति गाथार्थः ॥१८॥
- अत्र चाऽवग्रहादारभ्य परैः सह विप्रतिपत्तयः सन्ति, इत्यवग्रहविषयां तां तावद् निराकर्तुमाह
• सामण्णविसेसस्स वि केई उग्गहणमुग्गहं बेति । जं मइरिदं तयं तिच, तं नो बहुदोसभावाओ ॥ १८१॥
सामान्य चासौ विशेपश्च सामान्यविशेषस्तस्याऽपि, न केवलं सामान्यार्थस्य, इत्यपिशब्दः, अवग्रहणमवच्छेदन केचन व्याख्यातारोवग्रहं ब्रूवते । किंकारणम् ? इत्याह- 'जं मइरिदं तयं ति चेति' यद् यस्मात् कारणादमुतःशब्दादिलक्षणसामान्यविशेषग्राहकाऽवग्रहादनन्तरं इदं तदिति च. इति विमर्शलक्षणा मतिरनुधावति- ईहा प्रवर्तत इत्यर्थः, यदनन्तरं चेहादिप्रवृत्तिः सोऽवग्रह एव, यथा व्यञ्जनावग्रहानन्तरभावी अव्यक्ताऽनिर्देश्यसामान्यमात्रग्राही अवग्रहः, प्रवर्तते च शब्दादिसामान्यविशेषग्राहकाऽवग्रहानन्तरमीहादिः, तस्मादवग्रह एवा - ऽयम तथाहि-दरात शहादिसंबन्धिनि शब्दे सामान्यविशेषात्मके रूपादिभ्यो भिन्ने गृहीते प्रवर्तत एवार्य विमर्श:-किमयं शाम
, सामान्यार्थावग्रहणमवग्रहो भेदमार्गणमहा । तस्यावगमोऽपायोऽविच्युतिर्धारणा तस्य ॥ १८ ॥ २ सामन्याविशेषस्थाऽपि कोचिदवग्रहणमवग्रहं भुवते । यत् मतिरिवं तदिति च, तद् नो बहुदोषभावात् ॥ ११॥ ३ क. 'भिन्नेऽवगृ' ।
वेत किं महिषीशृङ्गोद्भवः, महिषशृङ्गजो वा। महिषीशृङ्गसंभवश्चेत , किं प्रसूतमहिषीजसंभवः, अप्रसूतमहिपीभृङ्गसमुद्भूतो वा? इत्यादि । यतश्चानन्तरमित्थं विमर्शेनेहाप्रवृत्तिन भवति, अन्तमाः, क्षयोपशमाभावात् वा, स पुनरपायः॥ तदेतत् परोक्तं दूषयितुमाह-'तं नो इत्यादि' तदेतत् परोक्तं न । कुतः इत्याह- बहवश्च ते दोषाश्च तेषां भाव उपनिपात
सर्वायुषाऽप्यपायप्रवृत्तिने स्यात् , यथोक्तविमर्शप्रवृत्तेरनिष्ठितत्वात् । न च पूर्वमनीहिते प्रथमोऽपि शब्दनिश्चयो युक्तः, यतश्च पूर्वमीहा प्रवर्तते नाऽसाववग्रहः, किन्त्वपाय एवेत्यादि सर्व पुरस्ताद् वक्ष्यते ।। इति गाथार्थः ॥ १८१॥
- अन्ये स्वीहायां विप्रतिपद्यन्ते, तन्मतमुपन्यस्य दूषयमाह-.. ' 'ईहा संसयमेत्तं केई, न तयं तओ जमन्नाणं । मइनाणंसा चेहा कहमन्नाणं तई जुत्तं ? ॥ १८२ ॥
किमयं स्थाणुः, आहोस्वित् पुरुषः १ इत्यनिश्चयात्मकं संशयमानं यदुत्पद्यते तदीहेति केचित् प्रतिपद्यन्ते । तदेतद् न घटते । कुतः इत्याह- यद् यस्मात् कारणात् । 'तउत्ति' असौ संशयोऽज्ञानम् । भवतु त ज्ञानमपीहा, इति चेत् , इत्यहि- 'मईत्यादि' मतिज्ञा
नांशश्च मतिज्ञानभेदश्वेहा वर्तते । न च ज्ञानभेदस्याऽज्ञानरूपता युज्यते एतदेवाह- 'कहमित्यादि ' कथं केन प्रकारेणाऽज्ञानं युक्तम् ? । न कथञ्चिदित्यर्थः । केयमित्याह-'तई ति' असौ मतिज्ञानांशरूपेहा, संशयस्य वस्त्वप्रतिपत्तिरूपत्वेनाऽज्ञानात्मकत्वात् , ईहायास्तु
ज्ञानभेदत्वेन ज्ञानस्वभावत्वात् । ज्ञाना-ज्ञानयोश्च परस्परपरिहारेण स्थितत्वाद् नाज्ञानरूपस्य संशयस्य ज्ञानांशात्मकेहारूपत्वं युक्तमिति भावः ॥ इति गाथार्थः ॥ १८२ ॥
आह- ननु संशये-हयोः किं कश्चिद् विशेषोऽस्ति , येनेहारूपत्वं संशयस्य निषिध्यते ? इत्याशङ्कय तयोः स्वरूपभेदमुपदर्शयाह
जैमणेगत्थालंबणमपज्जुदासपरिकुंठियं चित्तं । सेय इव सव्वप्पयओ तं संसयरूवमन्नाणं ॥ १८३ ॥ . तं चिय सयत्थहेऊ-ववचिवावारतप्परममोहं । भूया-ऽभूयविसेसायाण-चायाभिमुहमीहा ॥ १८४ ॥ .. 1 ईहा संशयमा केचित् , म तत् सको यवज्ञानम् । मतिज्ञानांशश्हा कथमज्ञानं सा युक्तम् ॥ १८२॥ २ यदनेकार्थालम्बनमपर्युदासपरिकुपिठतं चित्तम् । शेत इव सर्वात्मतस्तत् संशयरूपमज्ञानम् ॥ १८३॥ . . . ' ' तदेव सदर्थहेतूपपत्तिव्यापारतत्परममोधम् । भूता-ऽभूतविशेषाऽऽदान-त्यागाभिमुखमीहा ॥ १८॥
For Private and Personal Use Only