________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा.
तथा च सत्येषा परमार्थतो मतेः कारणमेव न भवति, अतः कारणद्वारेणाऽपि न परमत्यायकं मतिज्ञानम् , श्रुतं तु तवारेण परावबोधकम् । इति युक्तो मूके-तरभेदादू मति-श्रुतयोर्भेदः ॥ इति गाथार्थः ॥ १७५ ॥ .
॥मति-श्रुतयोर्भेदचिन्ताधिकारः समाप्तः॥ तदेवं स्वामि-काल-कारणादिभिरभेदेऽपि लक्षण-भेद-हेतुफलभावादिभिर्मति-श्रुतयोर्विस्तरतो भेदमभिधायोपसंहरबाहमेइ-सुयनाणविसेसो भणिओ तल्लक्खणाइभेएणं । पुव्वं आभिणिबोहियमुद्दिलु तं परूवेस्सं ॥ १७६ ॥
मति-श्रुतज्ञानयोर्विशेषो भेदो भणितः । केन ? इत्याह- तयोर्लक्षणादिभिर्भेदः, अथवा स चासौ अनन्तरोक्तो लक्षणादिभेदश्च तल्लक्षणादिभेदस्तेन । सांपतं त्वाभिनिवोधिकज्ञानं मरूपयिष्ये विस्तरतो व्याख्यास्यामि । शेषश्रुतादिपरिहारेण किमित्याभिनिबोधिकं प्रथम प्ररूप्यते ? इत्याह- यस्माज्ज्ञानपञ्चके पूर्वमादौ तदुद्दिष्टमुपन्यस्तम् , तस्माद् “यथोदेशं निर्देशः" इति कृत्वा तत् प्रथम । व्याख्यास्यामि ॥ इति गाथार्थः ॥ १७६ ॥
तत्त्व-भेद-पर्यायैश्च व्याख्या, तत्र तत्त्वं लक्षणम् , तच्च मागेवोक्तम् । अथ तभेदनिरूपणार्थमाह
ईन्दिय-मणोनिमित्तं तं सुयनिस्सियमहेयरं च पुणो । तत्थेक्केकं चउभेयमुग्गहो-प्पत्तियाईयं ॥ १७७ ॥
इन्द्रिय-मनोनिमित्तं यत् मागुक्तमाभिनिबोधिकज्ञानम् , तद् द्विभेदं भवति-श्रुतनिश्रितम् , इतरचाऽश्रुतनिश्रितम् । अथशब्दो वाक्यालङ्कारार्थः । तत्र श्रुतं संकेतकालभावी परोपदेशः, श्रुतग्रन्थश्च, पूर्व तेन परिकर्मितमतेर्व्यवहारकाले तदनपेक्षमेव यदुत्पद्यते तत् श्रुतनिश्रितम् । यत्तु श्रुतापरिकर्मितमतेः सहजमुपजायते तदश्रुतनिश्रितम् । तत्र तयोः श्रुतनिश्रिता-ऽश्रुतनिश्रितयोर्मध्ये एकैकं चतुभेदम् । कथम् ? इत्याह- यथासंख्यमवग्रहादिकम् , औत्पत्तिक्यादिकं च- अवग्रहे-हा-ऽपाय-धारणाभेदात् श्रुतनिश्रितं चतुर्विधम् , औत्पत्तिकी-वैनयिकी-कर्मजा-पारिणामिकीलक्षणबुद्धिभेदात्त्वश्रुतनिश्रितं चतुर्भेदमित्यर्थः । यद्यप्यौत्पत्तिक्यादिबुद्धिचतुष्टयेऽप्यवग्रहादयो विद्यन्ते, तथापि 'पुव्वमदिहमसुयमवेइ य तक्खणविसुद्धगहियत्था' इत्यादिवक्ष्यमाणवचनात् परोपदेशाधनपेक्षत्वात् ते श्रुतनिश्रिता न भवन्ति, शेषास्त्ववग्रहादयः पूर्व श्रुतपरिकर्मणाऽनन्तरेण न संभवन्ति, ईहादिगताभिलापस्य परोपदेशाधन्तरेणाप्युपपत्तेः, इति ते अत्त
मति-श्रुतज्ञानविशेषो भणितस्तलक्षणादिभेदेन । पूर्वमाभिनिषोधिकमुद्दिष्टं तत् प्ररूपयिष्ये ॥ १७६॥+मन्तरेण-1॥xणानुपा-। (मवेदिनार इन्द्रिय-मनोनिमित्तं तच्छुतनिश्रितमथेतरच पुनः । तत्रैकैकं चतुर्भेदमवग्रही-त्पत्तिक्यादिकम् ॥ १७७ ॥ ३ पूर्वमदृष्टमश्रुतमवैति च तत्क्षणविशुद्धगृहीतार्था । निश्रिता उच्यन्ते । औत्पत्तिक्यादिषु. त्वीहायभिलापस्य तथाविधकर्मक्षयोपशमजत्वात् परोपदेशाधन्तरेणाऽप्युपपत्तेरिति भावः ॥ इति गाथार्थः॥ १७७॥ __तत्र श्रुतनिश्रितानवग्रहादींस्तावद् नियुक्तिकारः पाह
उग्गहो ईहअवाओ य धारणा एव होति चत्तारि । आभिणिबोहियनाणस्स भेयवत्थू समासेणं ॥१८॥
रूप-रसादिभेदैरनिर्देश्यस्याऽव्यक्तखरूपस्य सामान्यार्थस्याऽवग्रहण परिच्छेदनमवग्रहः । तेनाऽवगृहीतस्यार्थस्य भेदविचारणं वक्ष्यमाणगत्या विशेषान्वेषणमाहा । तयेहितस्यैवाऽर्थस्य व्यवसायस्तद्विशेषनिश्चयोऽपायः । चशब्दोऽवग्रहादीनां पृथक् पृथक् स्वातन्त्र्यप्रदर्शनार्थः, तेनैतदुक्तं भवति- अवग्रहादेरीहादयः पर्याया न भवन्ति, पृथग्भेदवाचकत्वादिति । निश्चितस्यैव वस्तुनोऽविच्युत्यादिरूपेण धरणं धारणा । एवकारः क्रमद्योतनपरः, अवग्रहादीनामुपन्यासस्याऽयमेव क्रमो नान्यः, अवगृहीतस्यैवेहनात् , ईहितस्यैव निश्चयात् ।। निश्चितस्यैव धारणादिति । एवमेतान्याभिनिवोधिकज्ञानस्य चत्वार्येव भेदवस्तूनि समासेन संक्षेपेण भवन्ति, विस्तरतस्त्वष्टाविंशत्यादिभेदभिन्नमिदं वक्ष्यत इति भावः। तत्र भिद्यन्ते परस्परमिति भेदा विशेषास्त एव वस्तूनि भेदवस्तूनीति समासः॥ इति गाथार्थः ॥१७८॥ ... अथ नियुक्तिकार एवाऽवग्रहादीन् व्याख्यानयनाह-- .. अत्थाणं उग्गहणं अवग्गहं तह वियालणं ईहं । ववसायं च अवायं धरणं पुण धारणं बेति ॥ १७९ ॥
अर्थाना रूपादीनां प्रथम दर्शनानन्तरमेवाऽवग्रहणमवग्रहं ब्रुवत इति संबन्धः । तथा विचारणं पर्यालोचनं 'अर्थानाम्' इति वर्तते, ईहनमीहा तालुषते; इदमुक्तं भवति- अवग्रहादुत्तीर्णोऽपायात पूर्व सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागसंमुखश्च मायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायो निश्चयस्तं व्यवसायम्,'अर्थानाम्' इतीहापि वर्तते, अपायमपार्य वाढवते; एतदुक्तं भवति-स्थाणुरेवाऽयमित्यवधारणात्मकः प्रत्ययोजायः, अपायो वेति पशब्द एवकारार्थः, व्यवसायमेवाऽवायम्, अपाय वा नुवत इत्यर्थः। धृतिर्धरणम् , 'अर्थानाम्' इति वर्तते, अपायेन विनिश्चितस्यैव वस्तुनोऽविच्युति-स्मृति-वासनारूपं धरणमेव धारणां इवत इत्यर्थः । पुनःशब्दस्याऽवधारणार्थत्वाद् ब्रुवत इत्यनेन शास्त्रस्य
अवप्रहहापायच धारणेन भवन्ति चत्वारि । आभिनियोधिकशानस्य भेदवस्तूनि समासेन ॥ १७ ॥ . अधामामवमहणमवग्रहं तथा विचारणमीहाम् । व्यवसायं चाऽपाय धरणं पुनर्धारणा मुवते ॥१९॥
For Private and Personal Use Only