________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
53
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा ०
मतिहेतूनामपि परमबोधकत्वे सति 'न भेओ सि' अनयोर्मति श्रुतयोर्न भेदः । कुतः ? इत्याह- ' तउ त्ति' ततस्तस्मात् कारणात्। कस्मात् ? इत्याह-यव यस्माद् द्वे अप्येते मति श्रुते स्वरूपतो विज्ञानाऽऽत्मना न परमबोधके, विज्ञानस्य मूकत्वेन परमबोधकत्वायोगात्, अवध्यादिवदिति । अथ श्रुतस्य यत् कारणं शब्दादिकं तत् परमबोधकम् इत्येतावता मतिज्ञानात् विशिष्यते श्रुतज्ञानम् । नन्वेतद् मतिज्ञानेऽपि समानम्, तत्कारणस्याऽपि करवेष्टादेः परावबोधकत्वादिति । एतदेवाह - तानि च तानि पूर्वोरूपाणि कारणानि च तत्कारणानि द्वयोरपि मति श्रुतज्ञानयोर्यथासंख्यं शब्दादीनि, फरथेष्टादीनि च परं बोधयन्त्येव, इति कोsariशेष: ? न कश्चिदित्यर्थः । इति किमुच्यते- मूके तरभेदात् भेदः १ ।। इति गाथार्थः ॥ १७३ ॥
तदेवं परोक्ते व्यभिचारिते ततो निरुत्तरं विलक्षीभूतं तूष्णीम्भावमापत्रं परमवलोक्य संजातकारुण्यः स्वयमेव सूरिरुत्तरमाहदेव्यमसाहारणकारणओ परविबोहयं होज्जा । रूढं ति व दव्त्रसुयं सुयं ति रूढा न दव्वमई ॥ १७४ ॥
द्रव्यश्रुतं पुस्तकम्यस्ताक्षरशब्दरूपं श्रुतज्ञानस्यैव कारणम्, न तु मतेः, इति श्रुतज्ञानं प्रत्यसाधारणकारणत्वात् द्रव्यमों परमबोधकं भवेत्, न तु करादिचेष्टाः, तासां मति श्रुतोभयकारणत्वेन साधारणकारणत्वादिति भावः इदमुक्तं भवति - पुस्तकादि म्यस्ताक्षररूपं, शब्दात्मकं च द्रव्यश्रुतम्, श्रुतज्ञानस्य मतिपूर्वकत्वाद् यद्यप्यानन्तर्येणाऽवग्रहे हादीन् जनयति तथाऽप्यक्षर रूपत्वाद् मुख्यतया श्रुतज्ञानस्यैव किलासाधारणं कारणमुच्यते, कारणत्वेनोपचारतः श्रुतज्ञानेऽन्तर्भवति, परप्रवोधकत्वेन च तत् सर्वस्यापि विदितमिति । एवं कारणस्य परमबोधकत्वाच्छुतज्ञानं परमबोधकं घटते, करादिचेष्टास्तु मतिज्ञानस्याऽसाधारणकारणं न भवन्ति, श्रुतज्ञानहेतुत्वादपि कर वक्त्रसंयोगादिकायां हि करचेष्टायां दृष्टायां न केवलं तद्विषया अवग्रहादय उत्पद्यन्ते, किन्तु 'भोक्तुमिच्छत्ययम्' इत्यादिश्रुतानुसारिविकल्पात्मकं श्रुतज्ञानमप्युपजायत इति । अतोऽसाधारणकारणत्वाभावात् करादिचेष्टाः परमार्थतो मतिज्ञानस्य कारणमेव न संभवन्ति, ततश्च न तत्रान्तर्भवन्ति तथा च सति न मतिज्ञानं परमबोधकम् । अथवा 'दव्वसुयमसाहारणकारणउ त्ति' द्रव्यश्रुतं पुस्तकादिन्यस्ताऽऽचारादिग्रन्थाक्षररूपम्, गुरुजनोदीरितदेशनाशब्दस्वरूपं च परप्रवोधकं भवेत् । कुतः १ इत्याहअसाधारणस्य मोक्षं प्रत्यनन्यसाधारणकारणस्य क्षायिकज्ञान-दर्शन- चारित्रलक्षणस्य वस्तुकलापस्य कारणत्वाद् हेतुत्वात् ; ततश्व तद्वारेण श्रुतज्ञानमपि परमवोधकं घटते; करादिचेष्टास्तु यद्यपि मतिज्ञानस्य कारणम्, तथापि यथोक्तो विशिष्टः परप्रबोधस्तासु प्रायो
१ द्रव्यश्रुतमसाधारणकारणतः परविबोधकं भवेत् । रूढमिति वा द्रव्यश्रुतं श्रुतमिति रूठा न द्रव्यमतिः || १७४ ॥
न संभवति, अतो विशिष्टपरमवोधाभावाद् न ताः परमवोधिकाः तथा च सति न तद्द्वारेणाऽपि मतिज्ञानं परमबोधकम् । इति सूत्रस्य सूचकत्वात् सोपस्कार पूर्वार्धस्याऽयग्वसेयः ॥
अवोत्तरार्धस्य व्याख्या प्रस्तूयते - 'रूटं ति वेत्यादि' वेत्यथवा, भवतु मतिज्ञानस्य कारणं करादिचेष्टा, तथापि सा ' द्रव्यमतिः ' इत्येवमागमे कचिदपि न रूढाः द्रव्यश्रुतं पुनः पूर्वोक्तस्वरूपं 'श्रुतं' इत्येवं सर्वत्र रूढम् । ततश्च यद्यपि करादिचेष्टा मतिज्ञानस्य कारणं, परोधिका च; तथापि द्रव्यमतित्वेनारूढत्वात् कारणे कार्योपचारतो मतिरूपतया न व्यवहियते । अतो मतिज्ञानातू तस्याः पृथग्भूतस्वाद् न तद्वारेण तस्य परमवोधकत्वम्, द्रव्यश्रुतं तु कारणे कार्योपचारतः श्रुतज्ञानत्वेन प्ररूप्यते इति तद्द्वारेणाऽस्य परप्रवोधक-' त्वमुपपद्यत एव। इति युक्तो मूके-तरभेदाद् मति श्रुतयोर्भेदः । ततश्च 'तकारणाई दोव्ह वि बोहेंति तओ न भेओ सिं' इत्येतदपास्तं भवति ॥ इति गाथार्थः ॥ १७४ ॥
तदेवं करादिचेष्टायामतिकारणत्वमभ्युपगम्योक्तम्, सांप्रतं सा मतेः कारणमेव न भवति, किन्तु श्रुतस्येति दर्शयन्नाह - सौवा सत्य तथा वि जं तम्मि पच्चओ होइ । कत्ता विहु तदभावे तदभिप्पाओ कुणइ चिनं ॥ १७५ ॥ यदिवा सा करादिचेष्टा कर वक्त्रसंयोगादिलक्षणा । किम् ? इत्याह- शब्दार्थ एव शब्दो वक्तृसमुदीरितवचनरूपस्तस्याsर्थः शब्दार्थः श्रोतुगतज्ञाने प्रतिभासमानतदभिधेयवस्तुरूपः श्रुतज्ञानमिति तात्पर्यम् । किमित्यसौ शब्दार्थ एव ? इत्याह- यद् यस्मात् कारणात् तथापि कर्त्रा विहितया तस्मिन् शब्दार्थे भोजनेच्छादिलक्षणे प्रतिपत्तुः प्रत्ययो भवति । तथा कर्तापि तदभावे शब्दाभावे जिद्दारोगादिसद्भावात् शब्दोदीरणसामर्थ्याभाव इत्यर्थः, ' तदभिपाउ त्ति' तस्मिन् शब्दार्थे भोजनेच्छा दिलक्षणे - परस्मै प्रतिपादयितव्येऽभिप्रायो मनोविकल्पो यस्याऽसौ तदभिप्रायः करोति चेष्टां कर-वक्त्रसंयोगादिलक्षणाम् ; इदमुक्तं भवतिare करादिचेष्टाऽनन्तरभावेनाऽवग्रहादीन् जनयति तथापि शब्दार्थ एव सा श्रुतज्ञानमेवेत्यर्थः यस्मात् तथापि विहितया तत्र शब्दार्थप्रत्ययो भवति । अतः शब्दार्थप्रत्ययजनकत्वात् कारणे कार्योपचारात् शब्दार्थप्रत्यय एव सा न पुनर्मतिः तथा कर्तापि " भोक्तुमिच्छत्यसौ ' इत्यादि प्रतिपत्ता जानात्वित्यभिप्रायवानेव भाषणशक्त्यभावे करादिचेष्टां करोति । ततश्च केsपि शब्दार्थश्रोतनाभिप्रायेण क्रियमाणत्वात् करादिचेष्टा शब्दार्थ एव । ततश्चैषाऽपि श्रुतकारणत्वात् श्रुत एवान्तर्भवति, शब्दवत्, न मतौ,
I
१ क. 'अतोऽपि वि' । २ गाथा १७३ । ३ सा वा शब्दार्थ एव तयाऽपि यत् तस्मिन् प्रत्ययो भवति । कर्तापि खलु तदभावे तदभिप्रायः करोति चेष्टाम् ॥ १७५ ॥ ४ क. ग. 'तात्पर्यार्थः । ५ क. ग. 'कर्ता श' |
For Private and Personal Use Only