________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा. स्थाणु-पुरुषादिपर्यायविवेकाभावप्रसङ्गात् , श्रुतनिश्रितत्वस्य चाऽन्यथा समर्थितत्वादिति स्थितम् ॥ इति गाथार्थः ॥ १६९ ॥
यद्यनक्षरा मतिर्न भवति, सहि लक्खणभेया हेऊफलभावओ' इत्यादिगाथायां प्रतिज्ञातोऽक्षरा-अक्षरभेदाद मति-श्रुतयोभेंदः कथं गमनीयः' इत्याह
उभयं भावक्खरओ अणक्खरं होज बंजणक्खरओ। मइनाणं सुत्तं पुण उभयं पि अणक्खरक्खरओ॥१७॥
हाऽक्षरं तावद् द्विविधम्-द्रव्याक्षरम् , भावाक्षरं च । तत्र द्रव्याक्षरं पुस्तकादिन्यस्ताऽकारादिरूपम् , ताल्वादिकारणजन्यः शब्दो पा एतच्च व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते । भावाक्षरं स्वन्तःस्फुरदकारादिवर्णज्ञानरूपम् । एवं च सति भाषक्खरओ सि'भावाक्षरमाश्रित्य मतिज्ञानं भवेत् । कथंभूतम् ' इत्याह-'उभयं ति' उभयरूपम्- अक्षरवत, अनक्षर चेत्यर्थः।मतिज्ञानभेदे खवग्रहे भावाक्षरं नास्तीति तदनक्षरमुच्यते, ईहादिषु तु तनेदेषु तदस्तीति मैतिज्ञानमक्षरवत् प्रतिपाद्यत इति भावः । 'अणक्खरं होज बंजणक्खरओ ति' व्यञ्जनाक्षरं द्रव्याक्षरमित्यनर्थान्तरम् , तदाश्रित्य मतिज्ञानमनक्षरं भवेत् , न हि मतिज्ञाने पुस्तकादिन्यस्ताकारादिकं शब्दो वा व्यञ्जनाक्षरं विद्यते, तस्य द्रव्यश्रुतत्वेन रूढत्वात् , द्रव्यमतित्वेनाप्रसिद्धत्वादिति । 'सुत्तं पुणेत्यादि। सूत्रं श्रुतज्ञानं, पुनरुभयमपि- द्रव्यश्रुतम् , भावश्रुतं चेत्यर्थः, प्रत्येकमनक्षरतः, अक्षरतश्च भवेत् । इदमुक्तं भवति
" जैससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईअं" ॥१॥ इत्यादिवचनाद् द्रव्यश्रुतमनक्षरम्- पुस्तकादिन्यस्ताक्षररूपम् , शब्दरूपं च तदेव साक्षरं, भावश्रुतमपि श्रुतानुसार्यकारादिवर्णविज्ञानात्मकत्त्वात् साक्षरम् , पुस्तकादिन्यस्ताकाराद्यक्षररहितत्वाच्छब्दाभावाच्च तदेवाऽनक्षरम् , पुस्तकादिन्यस्ताक्षरस्य शब्दस्य च द्रव्यश्रुतान्तःपातित्वेन भावश्रुतेऽसत्त्वात् । तदेवं मते वश्रुतस्य च साक्षरा-ऽनक्षरकृतो नास्ति विशेषः, प्रत्येकं द्वयोरप्यक्षरानक्षररूपत्वेनोक्तत्वात् । केवलं सामान्येन 'श्रुतं' इत्युक्ते तन्मध्ये द्रव्यश्रुतं लभ्यत इति कृत्वा तत्र द्रव्यश्रुतमाश्रित्य द्रव्याक्षरमस्ति, मतौ तु तन्नास्ति, तस्या द्रव्यमतित्वेनाऽरूढत्वादिति । एवमनयोर्द्रव्याक्षरापेक्षया साक्षरा-ऽनक्षरत्वकृतो भेदः॥ इति गाथार्थः ॥ १७०॥ .. तदेवमक्षरे-तरभेदाद् मति-श्रुतयोर्भेदमभिधाय मूके-तरभेदात् तमभिधित्सुराह
१ गाथा ९७ । २ उभयं भावाक्षरतोऽनक्षरं भवेद् व्यअनाक्षरतः । मतिज्ञानं सूत्रं पुनरुभयमपि अनक्षरा-ऽक्षरतः ॥ १७॥
३. उच्छ्वसितं निःश्वसितं निक्षिप्तं कासितं च क्षुतं च । निःसिवितमनुस्वारमनक्षरं सण्डितादिकम् ॥३॥ . से-परप्पच्चायणओ भेओ मूओयराण वाऽभिहिओ । जं मूयं मइनाणं स-परप्पञ्चायगं सुत्तं ॥ १७१ ॥
अन्यैस्तु कैश्चिदाचार्यैः स्व-परप्रत्यायनतो मति-श्रुतयोर्भेदोऽभिहितः । कयोरिव ? इत्याह- मूके-तरयोरिव- यथा हि भूकः खमात्मानमेव प्रत्याययति प्रतीतिपथं नयति, न तु परम् , तत्पत्यायनहेतुवचनाभावात् । इतरस्त्वमूकः खं परं च प्रत्याययति, वचनसद्भावात् । तथा च सति यथा मूक-मुखरयोर्भेदः, एवं मति-श्रुतयोरपि, यद् यस्मात् परमत्यायनहेतुद्रव्याक्षराभावाद् मूकं मतिज्ञानम्, मुखरं तु श्रुतज्ञानम् , कुतः १, स्व-परप्रत्यायकत्वात् - द्रव्याक्षरसद्भावेन परप्रत्यायकत्वस्याऽपि तत्र लभ्यमानत्वादिति भावः ॥ इति गाथार्थः ॥ १७१॥
एतदाचार्यो मति-श्रुतयोस्तुल्यताऽऽपादनेन किश्चिद् दूषयितुमाह- सुयकारणं ति सद्दो सुयमिह सो य परबोहणं कुणइ । मइहेयवो वि हि परं बोहेंति कराइचिट्ठाओ ॥ १७२ ॥
इह तावद् भवन्तं पृच्छामः- हन्त ! शब्दः श्रुतमुच्यते, उपलक्षणत्वात् पुस्तकादिन्यस्ताऽक्षरविन्यासश्च श्रुतमभिधीयते "सुयकारणं ति ' श्रुतकारणत्वात्- कारणे कार्योपचारादिति भावः। स च शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च परवोधनं परमत्यायन करोतीत्येवं परतः श्रुतज्ञानं परमत्यायकमुच्यते, न तु स्वतः, इति तावद् भवतोऽभिप्रायः । एतच्च मतिज्ञानेनाऽपि समानम् । कुतः ! इत्याह-हि यस्माद् मतिहेतवोऽपि मतिजनका अपि करादिचेष्टाविशेषाः परं बोधयन्त्येव, तथाहि- अक्षरात्मकत्वात् किल शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च श्रुतस्य कारणम् , कर-शीर्षादिचेष्टास्तु अक्षररहितत्वात् किल मतिज्ञानस्य हेतवः- कर-वक्त्रसंयोगे हि कृते भुजिक्रियाविषया किल मतिरुत्पद्यते, शीर्षे च धृनिते निवृत्ति-प्रवृत्तिविषया सा समुपजायते, इत्येवं मतिहेतवः करादिचेष्टा अपि परप्रबोधिका एव ॥ इति गाथार्थः॥ १७२॥
यदि मतिहेतवोऽपि परं प्रबोधयन्ति, ततः किम् ? इत्याह- नै परप्पबोहयाइं जं दो वि सरूवओ मइ-सुयाई । तकारणाइं दोण्ह वि बोहेति तओ न भेओ सिं ॥१७॥
स्व-परप्रत्यायनतो भेदो मूके-तरयोरिवाऽभिहितः । यद म मतिज्ञानं स्व-परप्रत्यायकं श्रुतम् ॥११॥ २ श्रुतकारणमिति शब्दः श्रुतमिह स च परबोधनं करोति । मतिहेतवोऽपि हि परं बोधयन्ति करादिचेष्टाः ॥ १२॥
न परप्रबोधके यद् द्वे अपि स्वरूपतो मति-श्रुते । तत्कारणानि द्वयोरपि बोधयन्ति ततो न भेदोऽनयोः॥१७॥
For Private and Personal Use Only