________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
है । अथ नैवमेकतरे तदपि यदक्षरप्रभवन सदनपेक्षम् ॥'
51 विशेषा०
मइकाले वि जइ सुयं तो जुगवं मइ-सुओवओगा ते । अह नेवं एगयरं पवजओ जुजए न सुयं ॥१६६॥
स्थाणु-पुरुषादिपर्यायविवेकलक्षणे मतिकालेऽपि यदि श्रुतव्यापार इष्यते, ततो युगपदेव मति-श्रुतोपयोगी ते तव प्रसज्येते, न चैतद् युक्तम् , समकालं ज्ञानद्वयोपयोगस्य निषिद्धत्वात् । अथैतद्दोषभयाद् नैवमुपयोगद्वयं युगपदभ्युपगम्यते, तःकतरं प्रतिपद्यमानस्य- स्थाणु-पुरुषादिपर्यायविवेककाले मतिज्ञानं श्रुतज्ञानं वेच्छतो भवत इत्यर्थः, किम् ? इत्याह- 'जुज्जए न सुयं ति ' श्रुतमिह पतिपत्तुं न युज्यते, किन्तु मतिज्ञानमेव, इदमुक्तं भवति- "सावकाशा-ऽनवकाशयोरनवकाशो विधिर्बलवान्" इति न्यायादन्यत्राऽनवकाशं मतिज्ञानमेवैकं तवैकतरं प्रतिपद्यमानस्येह प्रतिपत्तुं युज्यते न तु श्रुतम् , तस्याऽन्यत्र श्रुतानुसारिण्याचारादिज्ञानविशेषे साबकाशत्वात् । एवं च सति स्थाणु-पुरुषादिपर्यायविवेको मतेरेव, न तु श्रुतात् , स चाऽक्षराभिलापसमनुगत एव, इति नैकान्तेन मतिज्ञानमनक्षरमिति भावः ॥ इति गाथार्थः ॥ १६६ ।।
किञ्च, अक्षरानुगतत्वमात्रमुपलभ्य स्थाणु-पुरुषादिपर्यायविवेको भवताश्रुतनिश्रित उक्तः, एवं चातिप्रसङ्गः प्राप्नोतीति दर्शयति
जैइ सुयनिस्सियमक्खरमणुसरओ तेण मइचउक्कं पि । सुयनिस्सियमावन्नं तुह तं पि जमक्खरप्पभवं॥१६७॥
यदि स्थाणु-पुरुषादिपर्यायविवेकविधानेनाऽक्षरमनुसरतः प्रमातुर्ज्ञानं श्रुतनिश्रितं भवता प्रोच्यते, तेन त.त्पत्तिक्यादिमतिचतुष्कमपि तव श्रुतनिश्रितमापन्नम् , यस्मात् तदप्यक्षरमभवं वर्णाऽऽलिङ्गितमित्यर्थः- तदपि हि नेहादिविरहेण जायते, ईहादयश्च न वर्णाभिलापमन्तरेण संभवन्ति । तस्माद् मतिचतुष्कमपि त्वदभिप्रायेण श्रुतनिश्रितमायातम्, न चैतदस्ति, आगमेऽश्रुतनिश्रितत्वेन तस्याऽभिधानात् । तस्माद् देवानांप्रियेणाऽद्यापि श्रुतनिश्रितस्य स्वरूपमेव नाऽवगम्यते, तत् किं वयं ब्रूमः ॥ इति गाथार्थः॥१६७ ॥
तदेवं श्रुतनिश्रितवचनश्रवणमात्राद् विभ्रान्तस्तत्स्वरूपमजानानः परो युक्तिभिर्निराकृतोऽपि विलक्षीभूतः प्राहजैइ तं सुएण न तओ जाणइ सुयनिस्सियं कहं भणियं ? । जं सुयकओवयारं पुचि इण्हि तयणवेक्खं ॥ १६८॥ यदि तं स्थाणु-पुरुषादिपर्यायसंघातं श्रुतेन न जानाति सकोऽसौ ज्ञानी, तर्हि श्रुतनिश्रितमेवावग्रहादिकं सूत्रे कथं केन प्रका
मतिकालेऽपि यदि श्रुतं ततो युगपद् मति-श्रुतोपयोगी ते । अथ नैवमेकतरं प्रपद्यमानस्य युज्यते न श्रुतम् ॥ १६६ ॥ २ यदि श्रुतनिश्रितमक्षरमनुसरतस्तेन मतिचतुष्कमपि । श्रुतनिश्रितमापन्नं तव तदपि यदक्षरप्रभवम् ॥ १७॥
३ यदि तत् श्रुतेन न सको जानाति, श्रुतनिश्रितं कथं भणितम् ।। यत् श्रुतकृतोपचार पूर्वमिदानीं तदनपेक्षम् ॥ १६ ॥ रेण भणितम् ?- मतिः स्वयमनक्षरैव, यस्त्विहाऽक्षरोपलम्भः स यदि श्रुतनिश्रितो नेष्यते, तर्हि कथमन्यथाऽसौ घटिष्यते । इति विस्मयभयाऽऽपूरितहृदयस्य परस्याऽयं प्रश्न इति भावः ॥
अत्रोच्यते-ननु भवानेव प्रष्टव्यो योऽसमीक्षितमित्थं प्रभाषते- योऽक्षरोपलम्भः स सर्वोऽपि श्रुतनिश्रयेति । अथ न ज्ञायते भवता, तर्हि वयमेव ब्रूमः, श्रूयताम्- 'जं सुयेत्यादि ' श्रुतं द्विविधम्- परोपदेशः, आगमग्रन्थश्च । व्यवहारकालात् पूर्व तेन श्रुतेन कृत उपकारः संस्काराधानरूपो यस्य तत् कृतश्रुतोपकारं, यज्ज्ञानमिदानीं तु व्यवहारकाले तस्य पूर्वप्रवृत्तस्य संस्काराधायकश्रुतस्या
नपेक्षमेव प्रवर्तते तत् श्रुतनिश्रितमुच्यते, न त्वक्षराभिलापयुक्तत्वमात्रेणेति भावः ॥ इति गाथार्थः ॥ १६८॥ .. एतदेव भावयन्नाह
पुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं । तं निस्सियमियरं पुण आणिस्सियं मइचउक्कं तं ॥ १६९ ॥
। व्यवहारकालात् पूर्व यथोक्तरूपेण श्रुतेन परिकर्मिता- आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेयत् सांप्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तच्छुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम् । इतरत् पुनरश्रुतनिश्रितम् , तच्चौत्पत्तिक्यादिमतिचतुष्कं द्रष्टव्यम् , श्रुतसंस्कारानपेक्षया सहजत्वात् तस्य । अत्राह-ननु
“भूरनित्थरणसमत्था तिवम्गसुत्तत्थगहियपेयाला । उभओलोगफलवई विणयसमुत्था हवइ बुद्धी" ॥१॥ इत्यादिवचनात् तत्रापि मतिचतुष्के वैनयिकी मतिः श्रुतनिश्रिता समस्ति । सत्यम् , किन्तु सकृच्छ्रुतनिश्रितत्वे सत्यपि बाहुल्यमङ्गीकृत्याऽश्रुतनिश्रितं तदुच्यत इत्यदोषः । तस्माद् यदुक्तम्-'जं मइनाणमणक्खरमक्खरमियरंच सुयनाणं' इति । तदयुक्तम् , मतेरनक्षरत्वे
१ पूर्व श्रुतपरिकर्मितमतेर्यत् सांप्रतं श्रुतातातम् । तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ १६९॥
२ भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतप्रमाणा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः॥१॥ ३ गाथा १६२ । * इममेवाऽभिप्रायं नन्द्यध्ययनेऽस्या एव गाथाया विवरणस्थले श्रीमन्मलयगिरिसूरिरप्याह-तथ,"नन्वश्रुतनिश्रिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्यात्रिवर्गसूत्रार्थगृहीतसारत्वम्, ततोऽश्रुतनिश्चितत्वे नोपपद्यते, म हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहांतसारत्वं संभवति । अत्रोच्यते-इह प्रायोवृत्तिमाश्रित्याऽश्रुतनिश्रितत्वमुक्तम् , ततः स्वल्पश्रुतभावेऽपि न कश्चिद्दोषः" इति। .
"इहातिगुरुकार्य दुर्निर्वहत्वाद् भर इव भरस्तन्निस्तरणे समर्था भरनिस्तरणसमर्थाः, यो वर्गास्त्रिवर्या लोकरूड्या धर्मा-ऽर्थ-कामास्तवर्जनोपायप्रतिपादकं यत् सूत्रं यश्च तदर्थस्तौ त्रिवर्गसूत्रायौं, तयोर्गृहीतं पेयालं प्रमाण सारो वा यया सा तथाविधा" इति भन्दिटीकायां व्याख्यातोऽस्या अर्थः ।
For Private and Personal Use Only