________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
50
विशेषा ०
भावसु, तेण मई वग्गसमा सुंबसरिसयं तं च । जं चिर्तिऊण तया तो सुयपरिवाडिमणुसरइ ॥ १६१ ॥ अथेोपचारः क्रियते-उपचारविधिराश्रीयते, ततश्चाऽर्थान्तरमपि यद् यस्माद् प्रभवति तत् तन्मयमिति भण्यते, यथा " तदपथ्यमियन्तं विक्रियाविस्तरमुपगतम्" "तदेकं वचनमेतावन्तं विपाकमापन्नम्" इत्यादि । ततश्चाऽतन्मयेऽपि ध्वनौ मतिगता ज्ञानमयतोपचर्यते । तथाच सति वल्क- शुम्बसादृश्येन मति श्रुतयोरयं भेदः सिद्धो भवति ।।
एवमुक्ते आचार्यः सुहृद् भूत्वा परं शिक्षयति- ' तो महपुव्यमित्यादि ' हन्त ! यद्युपचारवादी भवान्, ततो मतिपूर्व भावश्रुतं यस्मादागमे भणितं, तेन कारणेन मतिर्वल्कसमा, तब भावश्रुतं शुम्बसदृशम्, इत्येवं दृष्टान्तोपनयं कुरु, येनोपचारमन्तरेणाऽपि सर्व सुस्थं भवति, यथा हि वल्काः शुम्बकारणं, तथा मतिरपि भावश्रुतस्य, यथा च शुम्बं वल्कानां कार्य तथा भावश्रुतमपि मतेः । कुतः १ इत्याहयद् यस्मात् कारणात् तया मत्या चिन्तयित्वा ततः श्रुतपरिपाटिमनुसरति वाच्यवाचकभावेन परोपदेशश्रुतग्रन्थयोजनां वस्तुनि करोति तस्माद् मतिश्रुतयोर्वल्कशुम्बयोरिव कार्यकारणभावाद् भेदसिद्धिः, इत्येवं दृष्टान्तोपनयो युक्तिं संसहते, न तु परोक्तप्रकारेण ॥ इति गाथाद्वयार्थः ॥ १६० ॥ १६१ ॥
तदेवं वल्क- शुम्बोदाहरणादप्यभिहितो मति श्रुतयोर्भेदः; सांप्रतं त्वक्षरा ऽनक्षरभेदात् तमभिधित्सुः पराभिप्रायं तावदुपन्यस्यन्नाहअन्ने अणक्खर-ऽक्खरविसेसओ मइ-सुयाई भिंदंति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं ॥१६२| अन्ये केचनापि सूरयोsनक्षरा ऽक्षरवद्विशेषतो मति श्रुते भिन्दन्ति, यद् यस्मात् किल मतिज्ञानमनक्षरम्, श्रुतज्ञानं त्वक्षरबद् भवति, इतरच्चानक्षरवदुच्छ्रसितादीत्यर्थः ॥ इति गाथार्थः ॥ १६२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अत्राचार्यो दूषणमाह
जैइ मइरणक्खरच्चिय भवेज्ज नेहादओ निरभिलप्पे | थाणु-पुरिसाइपज्जायविवेगो किह णु होजाहि ? ॥ १६३ ॥ यदि त ! मतिरनक्षरैव स्यात् - अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाभिलापे स्थाण्वा
१ भावश्रुतं, तेन मतिर्वल्कसमा शुम्बसदृशं तच्च । यच्चिन्तयित्वा तथा ततः श्रुतपरिपाटिमनुसरति ॥ १६१ ॥ २ ख. 'मुपेतम् ' । ३ अन्येऽनक्षरा ऽक्षरविशेषतो मति श्रुते भिन्दन्ति । यद् मतिज्ञानमनक्षरमक्षरमितरच श्रुतज्ञानम् ॥ १६२ ॥ + चिंते ॥ ४ यदि मतिरनक्षरैव भवेद् नेहादयो निरभिलाप्ये । स्थाणु-पुरुषादिपर्यायविवेकः कथं तु भवेत् ? ॥ १६३ ॥
दिके वस्तुनि ईहादयो न प्रवर्तेरन् । ततः किम् ?, इत्युच्यते तस्यां मतात्रनक्षरत्वेन स्थाण्वादिविकल्पाभावात् 'स्थाणुरयं पुरुषो वा' इत्यादिपर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकादिना परिच्छेदो न स्यात्, तथाहि - यदनक्षरं ज्ञानं न तत्र स्था- पुरुषपर्यायादिविवेक:, यथाऽवग्रहे, तथा चेहादयः, तस्मात् तेष्वपि नासौ प्रामोति ।। इति गाथार्थः ।। १६३ ।।
अथ विभ्रान्तस्य परस्योत्तरमाह
सुयनिस्सियवयणाओ अह सो सुयओ मओ न बुद्धीओ । जइ सो सुयवावारो तओ किमन्नं मइन्नाणं ॥ १६४॥
आगमे मतिज्ञानं द्विधा प्रोक्तम् - श्रुतनिश्रितमवग्रहे- हादिचतुष्कम्, अश्रुतनिश्रितं चौत्पत्तिक्यादिबुद्धिचतुष्टयम् । ततश्च सूरिरित्थं पराभिप्रायमाशङ्कते - अथैवं परो ब्रूयात्- आगमे श्रुतनिश्रितत्वेनापि मतिज्ञानस्य भणनात् श्रुतात् श्रुततोऽक्षरात्मकादसौ स्था-पुरुपादपर्यायविवेको मतः, न बुद्धेर्न मतेः सकाशात्, तस्याः स्वयमनक्षररूपत्वात् । अत्रोत्तरमाह- ' जइ सो इत्यादि ' यदि हन्त ! स स्थाणु-पुरुषादिपर्यायविवेकः श्रुतव्यापारः, तर्ह्यवग्रहं मुक्त्वा किमन्यद् मतिज्ञानम् ? न किञ्चिदित्यर्थः । यदि स्थाणु-पुरुषादिपर्यायविवेकोऽक्षरात्मकत्वात् श्रुतव्यापार इष्यते, तदेहा-पायादयो मतिभेदाः सर्वेऽप्यक्षरात्मकत्वात् श्रुतत्वमापन्नाः, इत्यतोऽक्षराऽभिलापरहि तवग्रहं मुक्त्वा शेषस्येहादिभेदभिन्नस्य सर्वस्याऽपि मतिज्ञानस्याभावप्रसङ्ग इति भावः ॥ इति गाथार्थः ॥ १६४ ॥
अथाsन्यथा परस्य वचनमाशङ्कयं दूषयितुमाह
अह· सुयओ वि विवेगं कुणओ न तयं सुयं सुयं नत्थि । जो जो सुयवावारो अन्नो वि तओ मई जम्हा ॥१६५॥ अथ श्रुतादपि स्थाणु-पुरुषादिविवेकं कुर्वतः प्रमातुर्न तत् श्रुतम्, किन्तु मत्यभावभीत्या मतित्वेनाऽभ्युपगयते; हन्त ! तर्हेकत्र संधित्सतोऽन्यतः प्रच्यवते, यत एवं सति श्रुतं क्वचिदपि नास्ति श्रुताभावः प्राप्नोतीत्यर्थः । कुतः ? इत्याह- यो यश्चरणकरणादिप्रतिपादनलक्षणोऽन्योऽपि श्रुतस्याऽऽचारादेर्व्यापारः सकोऽसौ यस्माद् मतिज्ञानमेव, अक्षरात्मकत्वात्, स्थाणु-पुरुषादिपर्यायविकवत् ॥ इति गाथार्थः ॥ १६५ ॥
अथ स्थाणु-पुरुषादिपर्यायविवेको मतिश्च श्रुतं च भविष्यतिः अतो नैकस्याऽप्यभावप्रसङ्ग इत्याह
२ श्रुतनिश्रितवचनादथाऽसौ श्रुततो मतो न बुद्धेः । यदि स श्रुतव्यापारस्ततः किमन्यद् मतिज्ञानम् ? ॥ १६४ ॥ ३ अथ श्रुततोऽपि विवेकं कुर्वतो न तच्छ्रुतं श्रुतं नास्ति । यो यः श्रुतव्यापारोऽन्योऽपि सको मतिर्यस्मात् ॥ १६५ ॥
For Private and Personal Use Only