________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
49
विशेषा० शब्दो न केवल इति तत्र भावश्रुतत्वं भविष्यति । तदयुक्तम् । कुतः इत्याह-संकरः सांकर्य, संकीर्णत्वम्, मिश्रत्वमिति यावत: मति-श्रतयोस्तस्य प्राप्तः। निर्विशेषभावाद् वा-यदेव मतिज्ञानम् , तदेव भावश्रुतमिति प्रतिपादनादेकमेव किश्चित स्यात, नोभयमिति भावः। अस्तु विशेषाभाव इति चेत् । नैवम् । कुतः१ इत्याह-खलक्षणावरणभेदात् । कथंभूतात् । इत्याह-पूर्वोक्तलक्षणात 'किर व सुर्य होइ मई सलक्खणावरणभेयाओ' इति पूर्वाभिहितगाथावयवोक्तस्वरूपात , इदमुक्तं भवति-अभिनिबुध्यत इत्याभिनिबोधिकम् । श्रयत इति श्रुतम, इत्यादिकं मति-श्रुतयोयेत स्वकीयं स्वकीयं लक्षणम, आवारकं च कर्म, तयोर्भदात प्रवाभिहितस्वरूपाद मतिश्रतयोनिर्विशेषभावो न युज्यते । यदि हि तयोनिर्विशेषता-एकत्वं स्यात, तदा लक्षणभेदः, आवरणभेदश्च पूर्वोक्तखरूपो न स्यादिति भावः ॥ इति गाथार्थः ॥ १५५॥ __ अथ द्रव्य-भावश्रुतयोरनेन दृष्टान्तेन भेदः प्रतिपाद्यते, सोऽपि न युक्त इति दर्शयन्नाह* कैप्पेजेज व सो भाव-दवसुत्तेसु तेसु वि न जुत्तो । मइ-सुयभेयावसरे जम्हा किं सुयविसेसेणं ? ॥ १५६ ॥
यदि वा भाव-द्रव्यश्रुतयोः सः-वल्क-शुम्बोदाहरणाद्भेदः कल्प्येत-भावश्रुतं हि कारणत्वात् किल वल्कसदृशं, शब्दलक्षणं । द्रव्यश्रुतं कार्यत्वात् शुम्बप्रतिमम् , इत्येवमनयोर्भेद इष्येतेति भावः। तयोरप्यसौ न युक्तः । कुतः इत्याह- यस्माद् मति-श्रुतयोभैदाभिधानेऽवसरमाप्ते 'किं सुयविसेसेणं ति' श्रुतयोर्द्रव्य-भावश्रुतलक्षणयोर्विशेषो भेदः श्रुतविशेषस्तेनाभिहितेन किं?-असंबद्धत्वाद न किञ्चिदित्यर्थः॥ इति गाथार्थः ॥ १५६॥
अथाऽन्यथा पराभिप्रायमाशङ्कमानः पाह- असुयक्खरपरिणामा व जा मई वग्गकप्पणा तम्मि । दव्वसुयं सुम्बसमं किं पुण तेसि विसेसेणं १ ॥१५७
श्रुतानुसार्यक्षरपरिणामो यस्यां सा श्रुतानुसार्यक्षरपरिणामा न तथा- श्रुतानुसारित्वरहितशब्दमात्रपरिणामाऽन्विता या मतिरित्यर्थः, तस्यां वा वल्ककल्पना क्रियते, तजनितशब्दरूपं तु द्रव्यश्रुतं शुम्बसदृशम्, अतस्तयोः प्रस्तुतोदाहरणाद् भेदो युक्तियुक्तो भविध्यति । श्रुतानुसार्यक्षरपरिणामा मतिर्भावश्रुतमेव स्यात् , अतः पूर्वस्माद् न विशिष्येत, इत्यश्रुताक्षरपरिणामित्वं विशेषणम् । सा च +कपि- १ गाथा १३५। २ कल्प्येत वा स भाव-द्रव्यश्रुतयोस्तयोरपि न युक्तः । मति-श्रुतभेदावसरे यस्मात् किं श्रुतविशेषेण ॥१५॥
३ अश्रुताक्षरपरिणामा वा या मतिर्वल्ककल्पना तस्याम् । द्रव्यश्रुतं शुम्बसमं किं पुनस्तयोविशेषेण । ॥१५॥ पर्युदासाश्रयणादश्रुतानुसारिणा शब्देनैवान्विता गृह्यते, न तु शब्दपरिणामरहिताऽवग्रहरूपा, तस्याः शब्दजनकत्वाभावेनाऽनन्तरं शुम्ब । सदृशद्रव्यश्रुताभावादिति ॥ . अत्रोत्तरमाह- 'किं पुण तेसिं विसेसेणं ति' किं पुनस्तयोर्यथोक्तमति-द्रव्यश्रुतयोविशेषेण भेदेनोक्तेन ?- अप्रस्तुतत्वाद्न किश्चिदित्यर्थः। श्रुतज्ञानेनैव सहात्र मते:दो विचारयितुं प्रक्रान्तः,इत्यतः किं द्रव्यश्रुतेन सह तच्चिन्तया ? इति भावः॥इति गाथार्थः॥१५७॥
एतदेव भावयन्नाह.. ईहई जेणाहिकओ नाणविसेसो न दव्व-भावाणं । न य दव-भावमेत्ते वि जुज्जए सोऽसमंजसओ ॥१५८॥
इहास्मिन् प्रक्रमे येन कारणेन ज्ञानयोरेव मति-श्रुतलक्षणयोर्विशेषो भेदोऽधिकृतो न तु द्रव्य-भावयोर्मतिज्ञान-द्रव्यश्रुतलक्षणयो, इत्यतः किं तद्भेदाऽभिधानेन ? इति । नच यथोक्तद्रव्य-भावयोरप्यसौ युज्यते । कुतः इत्याह- असमञ्जसतो दृष्टान्त-दान्तिकयोसदृश्यात् ॥ इति गाथार्थः॥१५८॥
तथाहि.. जह वग्गा सुबत्तणमुर्वेति सुंबं च तं तओऽणण्णं । न मई तहा धणित्तणमुवेइ जं जीवभावो सा ॥१५९॥
यथा वल्काः शुम्बत्वमुपयान्ति-आत्माऽव्यतिरिक्तशुम्बपरिणामापन्नाः शुम्बमित्युच्यन्ते, न तु शुम्बाद् व्यतिरिक्ताः; तदपि च शुम्ब तेभ्यो वल्केभ्योऽनन्यरूपमव्यतिरिक्तम् । न तथा मतिर्ध्वनित्वमुपैति, यद् यस्मात् कारणात सा मतिराभिनिबोधिकज्ञानत्वेन जीवभावो जीवपरिणामः, शब्दस्तु मूर्तत्वाद् न जीवभावः, इत्यतः कथममूर्तपरिणामा मतिमंर्तध्वनिपरिणाममुपगच्छेत् । अमूर्तस्य मूर्तपरिणामवि. रोधात् । तस्माद् दृष्टान्त-दान्तिकयोर्वैषम्यादिदमपि व्याख्यानमुपेक्षणीयम् ॥ इति गाथार्थः ॥ १५९ ॥
पुनः परवचनमाशङ्कय तस्यैव शिक्षणार्थमाहअह उवयारो कीरइ पभवइ अत्यंतरं पिजं जत्तो। तं तम्मयं ति भण्णइ, तो मइपुव्वं जओ भणियं ॥१६॥
१ ख. 'न्तयेत् ? इति'। २ इह येनाऽधिकृतो ज्ञानविशेषो न द्रव्य-भावयोः । न च द्रव्य-भावमात्रेऽपि युज्यते सोऽसमअसतः॥ १५ ॥ ३ यथा वल्काः भुम्बत्वमुपयान्ति शुम्बं च तत् ततोऽनन्यत् । न मतिस्तथा ध्वनित्वमुपैति यजीवभावः सा ॥ १५९ ॥अवग्रस्पाया मत्याः। ४ अथोपचारः क्रियते प्रभवत्यर्थान्तरमपि यद् यस्मात् । तत् तन्मयमिति भण्यते, ततो मतिपूर्व यतो भाणितम् ॥१६॥
For Private and Personal Use Only