________________
San Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
उभयहा मइनाणं' इति वचनाद् यदि तस्मिन्नपि मतिज्ञाने शब्दपरिणामो भवति, ततस्तस्पिन्नपि किं न श्रुतं-तदपि भावश्रुतरूपता किं न प्रतिपद्यते । इत्यर्थः, शब्दपरिणामस्य श्रुतत्वेनोक्तत्वादिति भावः । अत्राऽऽचार्य उत्तरमाह-'भासहज नोवलद्धिसमं ति' यद यस्मात् कारणादुपलब्धिसमं मतिज्ञानी न भापते, ततो न मतिज्ञानस्य श्रुतरूपता ॥ इति गाथार्थः ॥ १५१॥
कथं पुनरुपलब्धिसममसौ न भणति ? इत्याह
अभिलप्पा-ऽणभिलप्पा उवलद्धा तस्समं च नो भणइ । तो होउ उभयरूवं उभयसहावं ति काऊण॥१५२॥
मागुक्तन्यायेनाऽभिलाप्या-ऽनभिलाप्याः पदार्था मतिज्ञानोपलब्धाः, एवंभूतोपलब्ध्या च समं भणितुं न शक्नोत्येव, अनभिलाप्यानां सर्वथैव वक्तुमशक्यत्वादिति भावः॥
अत्र परः पाह- तो होउ इत्यादि' ततस्तर्हि भवतु मतिज्ञानमुभयरूपं श्रुत-मतिरूपम् । कुतः १, इत्याह- उभयस्वभावमिति कृत्वा, अभिलाप्या-ऽनभिलाप्यवस्तुविषयत्वेन द्विस्वभावत्वादित्यर्थः, इदमुक्तं भवति- यदभिलाप्यपदार्थानुपलभते भाषते च, तत् श्रुतज्ञानमस्तु; अनभिलाप्यपदार्थास्तु भाषणाऽयोग्यान् यदवगच्छति, तद् मतिज्ञानं भवति ॥ इति गाथार्थः ॥ १५२ ॥ . . अत्रोत्तरमाह
9 भासइ तं पि जओ न सुयादेसेण किन्तु समईए । न सुओवलडितल्लं ति वा जओ नोवलडिसम॥१५॥
यदपि किञ्चिदभिलाप्यवस्तूपलब्धं मतिज्ञानी भाषते तदपि यतो न श्रुतादेशेन, किन्तु स्वमत्या, अतो न तत् श्रुतमिति । इदमुक्तं भवति- परोपदेशः, श्रुतग्रन्थश्च श्रुतमिहोच्यते, तदादेशेन तु तदनुसारेण विकल्प्य यदा भाषते, तदा श्रुतोपयुक्तस्य भाषणात श्रुतमुपपद्यत एव; यत्र तु स्वमत्यैव पर्यालोच्य भाषते न तु श्रुतानुसारेण, तत्र श्रुतोपयुक्तत्वाभावाद् मतिज्ञानमेव । तदेवं भासइ जं नोवलद्धिसम' इत्यस्य गाथावयवस्य 'अभिलप्पा-णभिलप्पा उबलद्धा' इत्यादिना व्याख्यानं कुर्वताऽऽचार्येण मविज्ञानी मतिज्ञानोपलब्ध्या समं न भाषते, अतस्तत्रोपलब्धिसमं भाषणं न भवति, इत्यतो न मतिज्ञाने श्रुतरूपतेत्युक्तम् । श्रुतज्ञानी त्वभिलाप्यानुपलभते, तांश्च भाषते, अतस्तत्रैवोपलब्धिसमत्वस्य सद्भावात् श्रुतरूपतेति भावः ॥
१ गाथा १५० । २ अभिलाप्या-ऽनभिलाप्या उपलब्धास्तत्समं च न भणति । ततो भवतूभयरूपमुभयस्वभावमिसि कृत्वा ॥ १५२ ॥ प्रतिपाद्यत-॥ । यद् भाषते तदपि यतो न श्रुतादेशेन किन्तु स्वमत्या । न श्रुतोपलब्धितुल्यमिति वा यतो नोपलब्धिसमम् ॥१५३॥ ४ गाथा १५१। ५ गाथा १५२ ।
सांपतं तु मतिज्ञानी श्रुतोपलब्ध्या तुल्यं समं न भाषत इत्येवमुपलब्धिसमत्वाभावमुपदर्शयबाह-'न सुऔवलद्धीत्यादि' वाशब्दः प्रकारान्तरद्योतकः, ततश्च न श्रुतोपलब्ध्या तुल्यं मतिज्ञानी भाषत इति वा, यतो यस्मात् कारणाद् नोपलाब्धिसमं मतिज्ञानिनो भा. पणम् , तस्माद् न तत्र श्रुतरूपता, इदमुक्तं भवति- श्रुतोपलब्धौ परोपदेशा-ईद्वचनलक्षणश्रुतानुसारेणोपलब्धानर्थान् भाषते, मत्युपलब्धौ तु तदुपलब्धानेव, इत्यतो न मतिज्ञानिनो भाषणं श्रुतोपलब्धिसमम् । ततश्च न तत्र श्रुतसंभवः ॥ इति गाथार्थः ॥ १५३॥ ।
तदेवं 'सोइंदिओवलद्धी होइ सुयं' इत्यादिमुलगाथया तत्वतः श्रोत्रेन्द्रियविषयमेव श्रुतज्ञानम् , सर्वेन्द्रियविषयं च मतिज्ञानमित्येवं मति-श्रुतयोर्भेदः प्रतिपादितः तत्सतिपादनक्रमे च 'बुद्धिद्दिढे अत्थे जे भासई' इत्यादिगाथा समायाता, सा च द्रव्य-भावोभयश्रुतरूपाऽभिधायकत्वेन मति-श्रुतयोर्भेदाभिधानपरतया च व्याख्याता, तयाख्याने चाऽवसिते इन्द्रियविभागादपि मति-श्रुतयोर्भेदः। सांप्रतं वल्क-शुम्बोदाहरणात् तमभिधित्सुराह
अन्ने मन्नति मई वग्गसमा सुबसरिसयं सुत्तं । दिट्ठन्तोऽयं जुत्तिं जहोवणीओ न संसहइ ॥ १५४ ॥
अन्ये केचनाऽप्याचार्या मन्यन्ते । किम् ?, इत्याह- वल्कसमा वल्कसदृशी मतिः, ततः सैव यदा शब्दतया संदर्भिता भवति- . तज्जनितो यदा शब्द उत्तिष्ठतीत्यर्थः, तदा तदुत्थशब्दसहिता श्रुतमुच्यते, तच्च शुम्बसदृशं वल्कजनितदवरिकातुल्यं श्रुतं भवति, एवं तदभ्युपगमः शोभन इति चेत् । नैवमित्याह- "दिलुतोऽयमित्यादि' अयं बल्कशुम्बदृष्टान्तो यथा तैरुपनीतः- उक्तप्रकारेण प्रकृते । योजितः, तथा युक्तिं न सहते-न क्षमते, अन्यथा त्वस्मदभिमतवक्ष्यमाणप्रकारेणोपनीयमान एषोऽपि युक्तिक्षमो भविष्यतीति भावः। इति गाथार्थः॥ १५४॥
कुतो न संसहते ? इत्याह
भाँवसुयाभावाओ संकरओ निव्विसेसभावाओ। पुव्वुत्तलक्खणाओ सलक्खणावरणभेयाओ ॥१५५॥ नैष दृष्टान्तो युक्ति क्षमत इति सर्वत्र साध्यम् , मतेरनन्तरं शब्दमात्रस्यैव भावेन भावश्रुतस्याऽभावप्रसङ्गात् । अथ मतिसहितोऽयं
१ गाथा ११७॥२-ख. सूत्रगा'।३ गाथा १२८ । ४ ख. णितस्तम'1xविव ५ अन्ये मन्यन्ते मतिर्वल्कसमा शुम्बसदृशं श्रुतम् । दृष्टान्तोऽयं, युक्ति यथोपनीतो न संसहते ॥ १५॥ ६ ख. 'गमे शोभनं' । ७ भावश्रुताभावात् संकरतो निर्विशेषभावात् । पूर्वोक्तलक्षणात् स्वलक्षणा-ऽऽवरणभेदात् ॥ १५५ ॥
For Private and Personal Use Only