________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
47
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
यदुक्तं तस्य कः तात्पर्यार्थः । इत्याह- श्रुतोपयुक्तस्यैव भाषमाणस्याभाषमाणस्य वा भावश्रुतं भवति, नाऽन्यस्य इदमुक्तं भवति - मतिसहितमिति श्रुतमतिसहितं यथा भवति, एवं यान् भाषते त एव भावश्रुतम्, नाऽन्ये । ततश्च श्रुतोपयुक्तस्यैव भाषणयोग्यानर्थान् विकल्पयतो भावश्रुतं सिद्धं भवति । एवं च सति श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्यासंभवाद् मतिविकल्पस्य भाषणयोग्यत्वे सत्यपि कुतो भावश्रुतत्वम् ? इति ॥
आह-- ननु सामान्या बुद्धिरिह गृहीता, श्रुतोपयुक्तत्वे च गृह्यमाणे कथं मतिदृष्टत्वमर्थानां संभवति । श्रुतबुद्धिदृष्टत्वस्यैव तत्र संभवात् । नैतदेवम्, मतिपूर्वे हि श्रुतम्, ततो यत्र श्रुतबुद्धिदृष्टत्वं तत्र मतिदृष्टत्वमस्त्येव, इति न काचित् क्षतिः, इत्यलमतिचर्चितेन । 'तदेवं श्रुतज्ञानोपयुक्तः सामान्य बुद्धिदृष्टानर्थान् संभवतो यान् भाषते तद् भावश्रुतमिति स्थितम् । नन्वर्थानां कथं भावश्रुतत्वम् १ ज्ञानस्यैव तत्संभवात् । सत्यम्, किन्तु विषय-विषायेणोरभेदोपचाराद् भावश्रुते प्रतिभासमाना अर्था अपि भावश्रुतम् इत्यदोषः । मन्नत्ति ' यथोक्ताद् भावश्रुतादन्या व्यतिरिक्ता मतिर्द्रष्टव्या, इदमुक्तं भवति - येऽभिलाप्या अपि सन्तो घटादयः श्रुतानुसा 'रित्वाभावेन श्रुतोपयुक्तैर्न विकल्प्यन्ते ये चार्थपर्यायत्वेन वाचकध्वनेरभावाद् मूलत एवाऽभिलपितुमशक्या अनभिलाप्याः, ते यस्यां विज्ञप्तौ प्रतिभासन्ते, सा मतिरित्यवगन्तव्या न तु श्रुतम्, अभिलाप्यवस्तुविषयायां श्रुतानुसारित्वाभावात्, अनभिलाप्यवस्तुविषयायां तु भाषणायोग्यत्वात् ।। इति गाथाद्वयार्थः ॥ १४७ ॥ १४८ ॥
4
अथेष्टतोऽवधारणविधिमुपदर्शयन्नाह -
'जे भासइ चेय तयं सुयं तु न उ भासओ सुयं चैव । केई मईए वि दिट्ठा जं दव्वसुयत्तमुवयंति ॥ १४९॥
' बुद्धिद्दिट्ठे अत्थे जे भासइ' इत्यत्र यान् कदाचित् संभवमात्रेण भाषत एव तच्छ्रुतमित्येवमेवावधारणीयम्, न तु भाषमाणस्य श्रुतमेवेति यान् भाषते तच्छ्रुतमेवेत्येवं नावधार्यत इत्यर्थः । कुतः १ इत्याह- यद् यस्मात् कारणात् केचिदभिलाप्याः पदार्था मत्या टा अवग्रहेणाऽवगृहीताः, ईहया त्वीहिताः, अपायविकल्पेन तु निश्चिता इत्यर्थः द्रव्यश्रुतत्वमुपयान्ति शब्दलक्षणेन द्रव्यश्रुतेन भाष्यन्त इत्यर्थः । यदि च भाषमाणस्य श्रुतमेवेत्यवधार्येत, तदैषामपि श्रुतत्वं स्यात्, न चैतदिष्यते श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्य तेष्वसंभवात्, तस्माद् यथोक्तमेवाऽवधारणम् ॥ इति गाथार्थः ॥ १४९ ॥ न द्रव्यो भयश्रुते -14 विज्ञप्तौ -x तच्छ्रुतमिल्येतद् -1
१ यान् भाषत एवं तत् श्रुतं तु न तु भाषमाणस्य श्रुतमेव । केचिद् मत्याऽपि दृष्ट्रा यद् द्रव्यश्रुतत्वमुपयान्ति ॥ १४९ ॥ २ गाथा १२८ । ३ ख, 'तमित्येतदवधा'। अथ यथोक्तव्याख्यानलब्धमति श्रुतभेदोपदर्शनपूर्वकमुपसंहरन्नाह-
एवं धणिपरिणामं सुयनाणं उभयहा मइन्नाणं । जं भिन्नसहावाई ताई तो भिन्नरूवा ॥ १५० ॥
एवं प्रागुक्तप्रकारेण केवलाऽभिलाप्यार्थविषयत्वात् सर्वमपि श्रुतज्ञानं ध्वनिपरिणाममेव ध्वनेः शब्दस्य परिणमनं विपरिवर्तनं परिणामो यत्र तद् ध्वनिपरिणामं भवत्येव, श्रुतानुसारित्वेनोत्पन्नमेव ह्येतदिष्यते श्रुतं च संकेतकालभाविपरोपदेशरूपः, श्रुतग्रन्थरूपश्च द्विविधः शब्दोऽत्राऽधिकृतः, तदनुसारेण चोत्पन्ने ज्ञाने ध्वनिपरिणामो भवत्येवेति । मतिज्ञानं तूभयथाऽपि भवति - शब्दपरिणामम्, अशब्दपरिणामं च, अभिलाप्यानभिलाप्यपदार्थविषयं ह्येतत् । ततश्च श्रुतानपेक्षखमत्यैव विकल्प्यमानेष्वभिलाप्येषु ध्वनिपरिणामोऽस्मिन्नपि प्राप्यते । अनभिलाप्यविषयतायां तु नासौ तत्र लभ्यते, अनभिलाप्यपदार्था हि स्वयमेव बुध्यमाना अपि वाचकध्वनेरभावाद् विकल्पयितुं, परस्मै प्रतिपादयितुं वा न शक्यन्ते, यथा नालिकेर द्वीपाऽऽयातस्य वयादयः क्षीरे-क्षु-गुड-शर्करादिमाधुर्यतारतम्यादयो वा ; इति कुतस्तद्विषयतायां ध्वनिपरिणामः ? । अभिलाप्यपदार्थेभ्योऽनन्तगुणाचाऽनभिलाप्याः सन्ति । ततोऽभिलाप्या ऽनभिलाप्यवस्तुविषयत्वाच्छन्दा-शब्दपरिणामं मतिज्ञानमिति स्थितम् । अथोपसंहरति- 'तो त्ति' तस्मात् ते मतिश्रुते स्वामि- कालादिभिरविशेषेऽपि भिन्नरूपे भेदवती मन्तव्ये । कुतः १ इत्याह- यद् यस्मात् कारणाद् द्वे अपि भिन्नस्वभावे- उक्तन्यायेनैकस्य ध्वनिपरिणामित्वात्, अपरस्य तूभयस्वभावत्वात् ॥ इति गाथार्थः ॥ १५० ॥
तदेवं मूलगाथायां 'बुद्धिद्दिद्वे अत्थे जे भासइ तं सुयं मईसहियं' इत्येतत् पूर्वार्ध 'सामण्णा वा बुद्धी' इत्यादिना व्याख्यातम् । अथ 'tयरत्थवि होज्ज सुर्य उवलद्धिसमं जड़ भणेज्जा' इत्येतदुत्तरार्ध व्याचिख्यासुराह
इयरति मन्नाणं तओ वि जइ होइ सहपरिणामो । तो तम्मि वि किं न सुयं भासइ जं नोवलद्धिसमं १॥१५१॥
' ईयरत्थ वि होज्ज सुर्य' इति मूलगाथोत्तरार्धे इतरशब्दस्य किं वाच्यम् १, इत्याह- इतरदिति मतिज्ञानं तत्राऽभिसंबध्यते, इत्याचार्येणोक्ते परः माह - ' तओ वि जइ होड़ सहपरिणामो तो तम्मि वि किं न सुयं ति' तत इति सप्तम्यन्तात् तस्प्रत्ययः, ततश्च
१ ख. घ. छ 'हारमाह' । २ एवं ध्वनिपरिणामं श्रुतज्ञानमुभयथा मतिज्ञानम् । यत् भिन्नस्वभावे ते ततो भिन्नरूपे ॥ १५० ॥ ३ क. ग. 'षयित्वात्' । ४ घ. छ. 'णामं श्रुता' । ५ गाथा १२८ । ६ गाथा १४७ १
७ इतरदिति मतिज्ञानं ततोऽपि यदि भवति शब्दपरिणामः । ततस्तस्मिन्नपि किं न श्रुतं भाषते यद् नोपलब्धिसमम् ? ॥ १५१ ॥
For Private and Personal Use Only