________________
Shri Mahavir Jain Aradhana Kendra
विशेषा०
www.kobatirth.org
46
चतुर्दशपूर्वलक्षणश्रुतानुसारित्वेन यदेतद् मतिविशेषाणां तदन्तर्भावित्वमुक्तम्, तदेव समर्थयन्नाह -
1
'जे अक्खराणुसारेण विसेसा तयं सुयं सव्वं । जे उण सुयनिरवेक्खा सुद्धं चिय तं मइन्नाणं ॥ १४४॥ येऽक्षरानुसारेण श्रुतग्रन्थमनुसृत्य जायन्ते मतिविशेषास्तत् सर्वं श्रुतमेव इत्यसकृदुक्तम् । ये तु यथोक्तश्रुतनिरपेक्षाः स्वयमेवोत्प्रेक्षितवस्तुतत्त्वा मतिविशेषाः समुत्पद्यन्ते तच्छुद्धं मतिज्ञानमेव, इत्येतदप्यनेकधा प्रागप्यभिहितम् । तस्माच्चतुर्दशपूर्वगताक्षरानुसारेण जायमानाः प्रस्तुतमतिविशेषाः सर्वे श्रुतमेव । इति गाथार्थः ॥ १४४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
तदेवं द्रव्यश्रुतादिश्रुतस्वरूपप्रतिपादनप्रकारेण 'बुद्धिदिट्ठे अत्थे जे भासह ' इत्यादिमूलगाथां व्याख्याय ' ' केई बुद्धिद्दिद्वे महसहि भासइत्यादिना दर्शितमपि विशेषदूषणाभिधित्सया पुनरपि मतान्तरमुपदर्शयन्नाह -
* केइ अभासिज्जन्ता सुयमणुसरओ वि जे मइविसेसा । मन्नंति ते मइच्चिय भावसुयाभावओ, तन्नो ॥१४५॥ केचिद् व्याख्यातारः — मन्नति ते मइ च्चियत्ति ' तान् मतिविशेषान् श्रुतमनुसरतोऽपि मतिरेवेति मन्यन्ते । ये किम् ? इत्याहभाष्यमाणा येषु शब्दप्रवृत्तिर्नास्तीत्यर्थः, श्रुतानुसारिणोऽपि मतिविशेषा ये शब्दप्रवृत्तिरहिताः केवलं हृद्येव विपरिवर्तन्ते ते मतिज्ञानमेवेति केचिद् मन्यन्त इति भावः । तदेतद् न । कुतः १, इत्याह- भावश्रुताभावप्रसङ्गात्, तदभावश्च ''किं सदो मरुभयं भावसुर्य सव्वहाऽजुत्तं ' ' संदो ता दव्यसुयं मइराभिणिबोहियं नवा उभयं ' इत्यादिपूर्वोक्तग्रन्थाद् भावनीयम् । इति गाथार्थः ॥ १४५ ॥
किश्च,
हि मइ सुयनाणविऊ छट्ठाणगया परोप्परं होज्जा ? । भासिज्जंतं मोत्तुं जइ सव्वं सेसयं बुद्धी ॥ १४६ ॥ यदि भाष्यमाणं मुक्त्वा शेषकं सर्वमपि बुद्धिर्मतिज्ञानमित्यर्थः, तर्हि मति श्रुतज्ञानाभ्यां विदन्तीति मति-श्रुतज्ञानवेदिनः परस्परं स्वस्थाने परस्थाने च कथं षट्स्थानेपतिताः स्युः १ न कथञ्चिदित्यर्थः तथाहि सर्वेणाऽपि जन्मना मति श्रुतेोपलब्धानामर्थानामनन्तभागएव भाष्यत इति प्रागिवोक्तम् । ततश्च मतिज्ञानी श्रुतज्ञानिनः सकाशात् सदैवाऽनन्तगुणाधिकः, श्रुतज्ञानी वितरस्माद् नित्यमनन्त
१ येऽक्षरानुसारेण मतिविशेषास्तत् श्रुतं सर्वम् । ये पुनः श्रुतनिरपेक्षाः शुद्धमेव तद् मतिज्ञानम् ॥ १४४ ॥ २ गाथा १२८ । ३ गाथा १३२ । ४ केचिदभाष्यमाणाः श्रुतमनुसरतोऽपि ये मतिविशेषाः । मन्यन्ते तान् मतिरेव, भावश्रुताभावतः, तद् न ॥ १४५ ॥५ क. ग. 'न्ते मति' । ६ गाथा १३२ ॥ ८ कथं मति श्रुतज्ञानविदः पद्स्थानगताः परस्परं भवेयुः १ । भाष्यमाणं मुक्त्वा यदि सर्वं शेषकं बुद्धिः ॥ १४६ ॥
७ गाथा १३३ ।
गुणहीन एव प्राप्नोति, इति न तावत् परस्थाने पदस्थानपतितत्वम् । स्वस्थानेऽपि श्रुतज्ञानी अन्यस्मात् श्रुतज्ञानिनः संख्यातेनैव हीनोsधिको वा स्यात्, न त्वसंख्यातेन, अनन्तेन वा, भाषकचतुर्दशपूर्वविदां संख्येयवर्षायुष्कत्वेनाऽसंख्येयस्याऽनन्तस्य वा भाषणस्यैवाSसंभवादिति । अस्यैव च विशेषणदूषणस्याऽभिधानार्थं पुनरत्रेदं मतान्तरमुपन्यस्तम्, अन्यथा हि "केई बुद्धिद्दिडे महसहिए भासओ सुर्य' इत्यादिना सर्वमिदं प्रागभिहितमेव ॥ इति गाथार्थः ॥ १४६ ॥
१ गाथा १३२ ।
x
षदु-1
तदेवं 'बुद्धि अत्थे' इत्यादि पूर्वगतगाथा श्रुतस्वरूपाभिधायिना प्रकारेण व्याख्याता, मति श्रुतयोश्च भेदस्य व्याख्येयत्वेन प्रस्तुतत्वात् तदभिधायकत्वेनापि मतान्तरेण व्याख्याता, तच्च व्याख्यानमयुक्तत्वाद् दूषितम् । अथाऽऽत्माभिमतेन निरवद्यमति श्रुतभेदमकारणैतां व्याख्यातुमाह
सामन्ना वा बुद्धी मइ सुयनाणाई तीए जे दिट्ठा। भासइ, संभवमेत्तं गहियं न उ भासणामेतं ॥ १४७॥
मसहियं भावसुयं तं निययमभासओ वि मइरन्ना । मइसहियं ति जमुत्तं सुअवउत्तस्स भावसुयं ॥ १४८ ॥ स्वविहितप्रथमव्याख्यानापेक्षया वाशब्दो यदिवेत्यर्थः, 'बुद्धिद्दिद्वे अत्थे ' इत्यत्र येयं बुद्धि:, असौ सामान्या गृह्यते ; ततः ये किम् ? इत्याह- ' मइ- सुयनाणाई ति ' मति श्रुतज्ञाने द्वे अपि बुद्धिरिहेत्यर्थः, तया मतिश्रुतज्ञानात्मिकया बुद्ध्या दृष्टा भावास्तेषु मध्ये यान् भाषते तद् भावश्रुतमित्युत्तरगाथायां संबन्धः । भाषत इत्यत्र च भाषणस्य संभवमात्रं गृहीतम्, न तु भाषणमात्रम् । - ततश्वेदमुक्तं भवति तत्राऽन्यत्र वा देशे, तदाऽन्यदा वा काले, स चाऽन्यो वा पुरुषः, सति सामग्रीसंभवे निश्वयेनैतान् भाषत एव, इत्येवं या भावान्तर्विकल्पे लवमानान् भाषणयोग्यतायां व्यवस्थापयति, तेऽभाष्यमाणा अपि भाषणयोग्याः सन्तो भावश्रुतं भवन्ति, न तु भाष्यमाणा एवेति भावः । एवं च सति मत्युपलब्धानामनभिलाप्यानामर्थानां भाषणायोग्यत्वाद् भावश्रुतत्वमपाकृतं भवति, भाषणयोग्यानां त्वभाष्यमाणानामपि सर्वेषां विकल्पप्रतिभासिनामर्थानां भावश्रुतत्वमावेदितं भवति । अत एव पर्यवसितमर्थं द्वितीयगाथायामाह - नियतं निश्चितं तद् भावश्रुतमभाषमाणस्यापि भवति, योग्यतामात्रेणैव भाषणस्य गृहीतत्वादिति भावः ॥
आह- ये सामान्यबुद्धिदृष्टा अर्थ ये भाषणयोग्याः, यदि तेषां भावश्रुतत्वम्, तर्हि मतिज्ञानान्तर्वर्त्यपायविकल्पावभासिनामपि तत्प्रसङ्गः, न हि तेऽपि न भाषणयोग्याः इत्याशङ्कयाह- 'मतिसहितमिति' । अस्य व्याख्यानमाह - 'मइसहियं तीत्यादि' मतिसहितमिति
२ गाथा १२८ । ६ सामान्या वा बुद्धिर्मति श्रुतज्ञाने तया ये दृष्टाः । भाषते, संभवमात्रं गृहीतं न तु भाषणामात्रम् ॥ १४७ ॥ मतिसहितं भावतं तद् नियतमभाषमाणस्याऽपि मतिरन्या । मतिसहितमिति यदुक्तं श्रुतोपयुक्तस्य भावश्रुतम् ॥ १४८ ॥
For Private and Personal Use Only