SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 विशेषा० श्रुतस्याऽपि बहुत्वलक्षणो हेतुः प्रागुक्त एव, किमितीह पुनरप्युच्यत ? इति चेत् । सत्यम् , किन्तु श्रुतोपलब्धा बहुत्वात् , शेषोपलधास्तु तत्स्वाभाव्याद् न शक्यन्तेऽभिधातुम् , इति विषयविभागदर्शनार्थ तस्येह पुनरुपन्यासः॥ अपरस्त्वाह-ननु मत्याधुपलब्धानामपि केषाश्चिदभिलाप्यत्वात किमुच्यते 'सेसोवलद्धभावा साभध्वत्ति' । सत्यम, किन्तु तेषां श्रुतविषयत्वेनैवाभिधानाशक्यत्वस्योक्तत्वाददोषः ॥ इति गाथार्थः ॥ १३९॥ . विनेयः पृच्छति केत्तो एत्तियमेत्ता भावसुय-मईण पज्जया जेसिं ? । भासइ अणंतभाग, भण्णइ जम्हा सुएऽभिहियं ॥१४॥ कुतः पुनरेतावन्तो भावश्रुत-मत्योः पर्याया उपलब्धार्थविषया विशेषाः , येषां सर्वेणापि जन्मनाऽनन्तभागमेव भाषत इति प्रागुक्तम् । अत्र गुरुराह-भण्यतेऽत्रोत्तरम्-- यस्मात् भूत्रे आगमे वक्ष्यमाणमभिहितम् , तस्मात्तयोरेतावन्तः पर्यायाः॥इति गाथार्थः॥१४० किं तत् सूत्रेऽभिहितम् । इत्याह पैण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण अणंतभागो सुयनिबद्धो ॥१४॥ प्रज्ञाप्यन्ते प्ररूप्यन्त इति प्रज्ञापनीया वचनपर्यायत्वेन श्रुतज्ञानगोचरा इत्यर्थः । के ?..भावा ऊर्ध्वाधस्तिर्यग्लोकान्तर्निविष्टभूभवन-विमान-ग्रह-नक्षत्र-तारका-ऽर्केन्द्रादयस्ते सर्वेऽपि मिलिताः । किम् ? इत्याह-अनन्ततम एव भागे वर्तन्ते । केषाम् ?, अत्राह- अनभिलाप्यानामर्थपर्यायत्वेनाऽवचनगोचरापन्नानामित्यर्थः, अनभिलाप्यवस्तुराशेरभिलाप्यपदार्थसार्थः सर्वोऽप्यनन्ततम एव भागे वर्ततइत्यर्थः । प्रज्ञापनीयपदार्थानां पुनरनन्तभाग एव चतुर्दशपूर्वलक्षणे श्रुते निबद्धो भगवद्भिर्गणधरैः साक्षाद् ग्रथितः॥ इति गाथार्थः॥१४॥ कुतः पुनरेतद् विज्ञायते यदुत- प्रज्ञापनीयानामनन्तभाग एव श्रुतनिबद्धः १, इत्याह जं चोदसपुव्वधरा छट्ठाणगया परोप्परं होति । तेण उ अणंतभागो पण्णवणिजाण, जं सुत्तं ॥१४२॥ यद् यस्मात् कारणाचतुर्दश : षट्स्थानपतिताः परस्परं भवन्ति, हीनाधिक्येनेति शेषः, तथाहि- सकलाभिलाप्यवस्तु १ कुत एतावन्मात्रा भावनुत-मत्योः पर्याया येषाम् ।। भाषतेऽनन्तभागं, भण्यते यस्मात् श्रुतेऽभिहितम् ॥ १४० ॥ २ प्रज्ञापनीया भावा अनन्तभागस्तु अनभिलाप्यानाम् । प्रज्ञापमीयानां पुनरनन्तभागः श्रुतनिबद्धः॥११॥ ३ यच्चतुर्दशपूर्वधराः षट्स्थानगताः परस्परं भवन्ति । तेन तु अनन्तभागः प्रज्ञापनीयानां, थत् सूत्रम् ॥ १२ ॥ वेदितया य उत्कृष्टश्चतुर्दशपूर्वधरः, ततोऽन्यो हीन-हीनतरादिः, आगमे इत्थं प्रतिपादितः,तद्यथा-"अणतभागहीणे वा, असंखेजभागहीणे वा, संखेजभागहीणे वा, संखेज्जगुणहीणे वा, असंखेजगुणहोणे वा, अणंतगुणहणि वा"। यस्तु सर्वस्तोकाभिलाप्यवस्तुज्ञायकतया सर्वजघन्यः, ततोऽन्य उत्कृष्ट उत्कृष्टतरादिरप्येवं प्रोक्तः, तद्यथा “ अणंतभागब्भाहिए वा, असंखेज्जभागब्भहिए वा, संखेजभागब्भाहए वा संखेजगुणब्भहिए वा, असंखेज्जगुणब्भाहए वा, अणंतगुणब्भहिए वा" । तदेवं यतः परस्परं पदस्थानपतिताश्चतुर्दशपूर्वविदः, तस्मात् कारणात् यत् सूत्रं चतुर्दशपूर्वलक्षणं तत् प्रज्ञापनीयानां भावानामनन्तभाग एवेति । यदि पुनर्यावन्तः प्रज्ञापनीया भावास्तावन्तः । सर्वेऽपि सूत्रे निबद्धा भवेयुः, तदा तद्वेदिनां तुल्यतैव स्यात् , न षस्थानपतितत्वमिति भावः ॥ इति गाथार्थः॥१४२ ॥ आह- ननु यदि सर्वेऽपि चतुर्दशपूर्वविदः, तर्हि कथं तेषां परस्परं हीनाधिक्यम् ? इत्याह अक्खरलंभेण समा ऊणहिया होंति मईविसेसेहिं । ते वि य मईविससे सुयनाणभंतरे जाण ॥१४॥ चतुर्दशपूर्वगतसूत्रलक्षणेनाऽक्षरलाभेन समास्तुल्याः सर्वेऽपि चतुर्दशपूर्वविदः, ऊनाधिकौस्ते मतिविशेषैर्भवन्ति क्षयोपशमवैचिच्याद् यथोक्ताक्षरलाभानुसारिभिरेव तैस्तैर्गम्याविषयैर्विचित्रैर्बुद्धिविशेषै-नाधिका भवन्तीत्यर्थः । इह च मतिशब्दोपादानविभ्रमात् ते मतिविशेषा मा भूवन्नाभिनिबोधिकज्ञानविशेषाः, इत्यत आह- " ते वि येत्यादि । इदमुक्तं भवति- मतिशब्देनेह श्रुतमतिर्विवक्षिता, न त्वाभिनिबोधिकमतिः। ततश्च यैश्चतुर्दशपूर्वविदो हीनाधिकास्तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि श्रुतज्ञानान्तर्भाविनएव विद्धि, न त्वाभिनिबोधिकान्तर्वर्तिन इति भावः । यद्येवं ते वि य मईविसेसे सुयनाणं चेव जाणाहि' इत्येवमेव प्रगुणं कस्माद् नोक्तम् , किमभ्यन्तरशब्दोपादानक्लेशेन ? । नैतदेवम् , अस्यापि न्यायस्य दृष्टत्वात् , अङ्गाभ्यन्तरादिव्यपदेशवत् , यथा ह्यङ्गमेवाऽङ्गाभ्यन्तरम् , एवं श्रुतमेव श्रुताभ्यन्तरमित्युक्तं भवति अथवा छन्दोभङ्गभयादभ्यन्तरग्रहणम् , यदि वा 'सुयनाण-' इत्यनेन चतुर्दशपूर्वलक्षणं श्रुतमधिक्रियते, ततश्च तानपि गम्यान् मतिविशेषांश्चतुर्दशपूर्वाक्षरलाभरूपस्य श्रुतस्यैवाऽभ्यन्तरे जानीहि त्वं, न व्यतिरितानिति शिष्योपदेशः, चतुर्दशभिरपि हि पूर्वैः कश्चित् साक्षात् , कश्चित्तु गम्यतया सर्वोऽप्यभिलाप्यः पदार्थोऽभिधीयत एव ततश्च गम्या अपि मतिविशेषास्तदन्त विन एव, तदनुसारित्वात ॥ इति गाथार्थः ॥ १४३॥ , अनन्तभागहीना वा, असंख्येयभागहीना वा, संख्येयभागहीना वा; संख्येयगुणहीना वा, असंख्येयगुणहीना वा, अनन्तगुणहीना वा। २ अनन्तभागाभ्यधिका वा, असंख्येयभागाभ्यधिका वा, संख्येयभागाभ्यधिका वा, संख्येयगुणाभ्यधिका वा, असंख्येयगुणाभ्यधिका वा, अनन्तगुणाभ्यधिका वा। ३ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥ १३ ॥ ४ घ. छ 'कास्तु'। For Private and Personal Use Only
SR No.020904
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorN/A
AuthorDivyadarshan
PublisherDivyadarshan
Publication Year
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size69 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy