________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा.
अहव मई दव्वसुयत्तमेउ भावेण सा विरुज्झेजा । जो असुयक्खरलाभो त मइसहिओ पभासेज्जा ॥१३६॥
अथवा मतिर्द्रव्यश्रुतत्वमेतु- आगच्छतु न तत्र वयं निषेद्धारः, फेवलमेतदेव निर्बन्धेनाऽभिदध्मो यदुत- भावेन भाषश्रुतत्वेन सा मतिर्विरुध्येत दर्शितन्यायेन विरोधमनुभवेत् , इदमुक्तं भवति- 'केई बुद्धिबिहे मइसहिए भासओ मुर्य' इत्यत्र गाथाचे योऽसौ श्रुतशब्दः स यदि द्रव्यश्रुतवाचित्वेन व्याख्यायते तदा विरोधो न भवति । कथम्, इति चेत् । उच्यते-बुद्धिर्मतिस्तदृष्टान् मत्युपयोगसहितानर्थान् भाषमाणस्य सा मतिः शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वात् द्रव्यश्रुतम् , अभाषमाणस्य तु मतिज्ञानम् , इत्येवं मति-द्रव्यश्रुतयोर्भेदः प्रोक्तो भवति, न तु मति-श्रुतज्ञानयोः केवलं विरोधपरिहारमात्रमित्थमुपकल्पितं भवति ॥ • अत्राह कश्चित्- ननु यदि मत्युपयोगे वर्तमानो भाषेत कश्चित् , तदा द्रव्यश्रुतकारणत्वाद् मतिः स्यात्' द्रव्यश्रुतम् , एतच्च न भविष्यति इत्याह- 'जो असुयेत्यादि' योऽश्रुतानुसार्यक्षरलाभा, तं मत्युपयोगे वर्तमानो भाषेत वक्ता, नात्र कश्चित् संदेह यस्तु श्रुतानुसार्यक्षरलाभस्तं श्रुतोपयोगे एव वर्तमानो भाषेत, अतो न तच्छब्दस्य मतिः कारणम् , श्रुतपूर्वत्वात् तस्येति भावः, इदमुक्त भवति- यः परोपदेशाहद्वचनलक्षणं श्रुतमनुसत्याऽक्षरलाभोऽन्तः स्फुरति तं श्रुतोपयोगे एव वर्तमानो भाषते, यस्त्वश्रुतानुसारी स्वमत्यैव पर्यालोचित इहा-ऽपायेषु स्फुरत्यक्षरलाभः, तं यदा मत्युपयोगसहित एव भाषते, तदा तस्य शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वाद भवत्येव मतिद्रव्यश्रुतम् ।। इति गाथार्थः ॥ १३६ ॥
. अथाऽस्मिन्नेव मते व्यश्रुतत्वपक्षे ' इयरत्थ वि होज सुर्य' इत्यादौ मूलगाथाया उत्तरार्धे योऽर्थः संपद्यते तमाचार्यः प्रदर्शयन्नाह
ईयरम्मि वि मइनाणे होज तयं तस्सम जइ भणेजा । न य तरइ तत्तियं सो जमणेगगुणं तयं तत्तो॥१३७॥ ... भाषमाणस्य मतिद्रव्यश्रुतमित्युक्तम् , अतोऽभाषमाणावस्थाभावि मतिज्ञानमितरत्रशब्दवाच्यं भवति । ततश्चेतरत्राप्यभाषमाणावस्थाभाविनि मतिज्ञाने भवेत् तद् द्रव्यश्रुतं यदि तत्समं मतिज्ञानोपलब्धिसमं भणेत् , यावद् मतिज्ञानेनोपलभते तावत् सर्व वदेदित्यर्थः एतच्च नास्ति । कुतः? इत्याह-न च नैव 'तरति' शक्नोति स यावद् मतिज्ञानेनोपलभते तावद् वक्तुम् । कुतः ? इत्याह
१ अथवा मतिर्दव्यश्रुतत्वमेतु भावेन सा विरुध्येत । योऽश्रुताक्षरलाभस्तं मतिसहितः प्रभाषेत ॥ १३६॥ २ गाथा १३२ ।
३ गाथा १२८ । ४ इतरस्मिन्नपि मतिज्ञाने भवेत् तत् तत्समं यदि भणेत् । न च तरति (शक्नोति ) तावत् स यदेनकगुणं तत् ततः ॥ १३ ॥ यद् यस्मात् ततो वक्तुं शवयात् तत् सर्वमपि मतिज्ञानोपलब्धमनेकगुणमनन्तगुणम् ॥ इति गाथार्थः ॥ १३७ ।।
अत्र विनेयः पाह
केह मइ-सुओवलद्धा तीरंति न भासिउं, बहुत्ताओ । सव्वेण जीविएण विभासइ जमणंतभागं सो ॥१३८।
नन्वनन्तरगाथायां मत्युपलब्धाः सर्वेऽपि वक्तुं न शक्यन्त इत्युक्तम् , पूर्व तु श्रुतोपलब्धा अपि सर्वेऽभिधातुं न पार्यन्त इत्य भिहितम् । तदेतत् कथं, यद् मति-श्रुतोपलब्धा भावा न तीर्यन्ते भाषितुम् । अत्राह-बहुत्वात् प्राचुर्यात् । तत्रैतत् स्यात्-कुतः पुन रेतावद् बहुत्वं तेषां निश्चितम् ? इत्याह- यद् यस्मात् कारणात् सर्वेणाऽप्यायुषा स मति-श्रुतज्ञानी समुपलब्धानामनामनन्ततममेव भाग भाषत इत्यागमे निर्णीतम् , तस्माद् बहुत्वावगमः ॥ इति गाथार्थः ॥ १३८ ॥
अथ मत्याग्रुपलब्धार्थानां सामस्त्येनाऽभिधानाशक्यत्वे पूर्वोक्तम् , अपरमपि च हेतुं विषयविभागेनाऽभिधित्सुराह
तीरंति न वोत्तुं जे सुओवलद्धा बहुत्तभावाओ । सेसोवलद्धभावा साभव्वबहुत्तओऽभिहिया ॥१३९॥
सर्वेऽपि श्रुतोपलब्धा भावा न तीर्यन्ते न पार्यन्ते वक्तुम् । 'जे' इति पूर्ववदेव । कुतस्ते वक्तुं न पार्यन्ते ?, इत्याह- बहुत्व भावाद् बहुत्वसद्भावादेवेत्यवधारणीयम् , न तु तत्स्वाभाव्यादित्यभिप्रायः। 'सेसोवलद्धभावा साभव्यत्ति' शेषं श्रुतादन्यत प्रस्तुत मतिज्ञानं, समानवक्तव्यताप्रस्तावलब्धानि मत्य-ऽवधि-मनःपर्याय-केवलानि वा शेषाणि तेन तैवा उपलब्धा ज्ञाताः शेपोपलब्धास्ते र ते भावाश्चेति समासः, स्वाभाव्यादेवाऽनभिलाप्यात्मकत्वादेव न तीर्यन्ते भाषितुम् ।।
आह-नन्वेते यथाऽनभिलाप्यत्वादभिधातुं न शक्यन्ते, तथा बहुत्वादपि, तत् किमित्यनभिलाप्यस्वभावत्वमेवैकमत्र हेतुत्वेनोच्यते । सत्यम् , किन्त्वभिलाप्यत्वे सति बहुत्वा-ऽल्पत्वचिन्ता क्रियमाणा विभ्राजते, ये तु मूलत एवाऽनभिलाप्यास्तेषु बहुत्व लक्षणो हेतुरुच्यमानोऽपि निष्फल एव, अनभिलाप्यात्मकत्वेनैवाभिधानाशक्यत्वस्य सिद्धत्वादिति ॥ किञ्च, 'बहुत्तोऽभिहिय त्ति बहुत्वाच्छेषोपलब्धा भावा यथा वक्तुं न शक्यन्ते तथा 'कह मइसुओबलद्धा तीरन्ति न भासिउं, बहुत्ताओ इत्याद्यनन्तरगाथायाम भिहिता एव, इति किं बहुत्वहेतूपन्यासेन, पौनरुक्त्यप्रसङ्गात् । शेषज्ञानेषु मध्ये मतिरेव स तत्र प्रोक्तः, अत्र त्ववध्यादीन्यपि गृही तानि सन्ति, अतस्तदर्थमयमिहापि वक्तव्य इति चेत् । नैवम् , मतेरुपलक्षणत्वेनाऽवध्यादिष्वप्यसौतत्र द्रष्टव्य इत्यदोषः। यद्येवम् , त
, कथं मतिश्रुतोपलब्धा तीर्यन्ते न भाषितुं, बहुत्वात् । सर्वेण जीवितेनाऽपि भाषते यदनन्तभागं सः ॥ १३॥ मत२ तीर्यन्ते न वक्तुं श्रुतोपलब्धा बहुत्वात् । शेषोपलब्धभावा स्वाभाव्य-बहुत्वतोऽभिहिताः ॥ १३९॥ ३ गाथा १३८ ।
For Private and Personal Use Only