________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
43
विशेपा०
'केई बुद्धिहिटे मइसहिए भासओ सुयं, तत्थ । किं सद्दो मइह्नभयं भावसुयं सव्वहाऽजुत्तं ॥ १३२ ॥
इह केचनाऽप्याचार्या मति-श्रुतयोर्भेदं प्रतिपिपादयिषवो 'वुद्धिद्दिढे अत्थे जे भासइ' इत्यादिमूलगाथायां 'बुद्धिः श्रुतबुद्धिः' इति न व्याख्यानयन्ति, किन्तु 'बुद्धिर्मतिः' इति व्याचक्षते । ततश्च बुद्ध्या मत्या दृष्टेषु बहुवर्थेषु मध्ये कांश्चित् तदृष्टानर्थान् मतिसहितान् भाषमाणस्य श्रुतं भवति ॥
आह-ननु मतिज्ञान्येव मतिसहितो भवति, तत् कथमर्थानां मतिसहितत्वं विशेषणम् । सत्यम् , किन्तु मुलगाथायां मईसहियं' इति वचनाद् मत्युपयोगे वर्तमानोऽत्र वक्ता गृह्यते, अतस्तस्य मत्युपयोगसहितत्वादर्थानामप्युपचारतस्तत्सहितत्वमुच्यते । तस्माद् मतिज्ञानदृष्टानर्थीस्तदुपयुक्तस्यैव भाषमाणस्य श्रुतं भवतीति तात्पर्यम्। अनुपयुक्तस्य तु वदतो द्रव्यश्रुतम् , पारिशेष्यादभाषमाणस्य पदार्थपर्यालोचनमात्ररूपं मतिज्ञानम् , इति मति-श्रुतयोर्भेदः। तदेवं कैश्चिद् मूलगाथायाः पूर्वार्धे व्याख्याते मूरिर्दूषणमाह-'तत्थ किं सदो इत्यादि ' तत्र तैरेवं व्याख्याते भावश्रुतं सर्वथैवाऽभुक्तं स्यात् सर्वथा तदभावः प्रामोतीत्यर्थः, तथाहि- किं भाष्यमाणः शब्दो भावश्रुतम् , मतिर्वा, उभयं वा? इति त्रयी गतिः । अस्य च त्रितयस्य मध्ये नैकमपि भावश्रुतं युक्तमिति भावः।।इति गाथार्थः॥१३२॥
कथम् , इत्याह. सदो ता दव्वसुयं मइराभिणिबोहियं नवा उभयं । जुत्तं, उभयाभावे भावसुयं कत्थ तं किंवा ? ॥१३३॥
- मत्युपयुक्तस्य शब्दमुदीरयतो यस्तावच्छब्दः स द्रव्यश्रुतमेव, इति कथं भावश्रुतं स्यात् १, मतिस्त्वाभिनिबोधिकज्ञानम् । भवतु तर्हि मति-शब्दलक्षणमुभयं समुदितं भावश्रुतम् , इत्याह- 'नवा उभयं जुत्तं ति' नैव यथोक्तमुभयं समुदितमपि भावश्रुतं युक्तम् , प्रत्येकावस्थायां तद्भावाभावात् , न हि प्रत्येकं सिकताकणेष्वसत् तैलं समुदितावस्थायामपि भवतीति भावः । तदेवमुभयस्य स्वतन्त्रस्याऽस्वतन्त्रस्य वा भावश्रुतत्वेताऽभावे सति तद् भावश्रुतं क शब्दादौ ?, किंवा तत् ?, न किश्चिदिति भावः ॥ इति गाथार्थः॥ १३३॥
अथ भापापरिणतिकाले मतेः किमप्याधिक्यमुपजायते, इत्युभयस्य श्रुतत्वं न विरुध्यते; इत्याह- . +3-1 १ केचिद् बुद्धिदृष्टान् मतिसहितान् भाषमाणस्य श्रुतं, तन्त्र । किं शब्दो मतिरुभयं भावश्रुतं सर्वथाऽयुक्तम् ॥ १३२ ॥
२ गाथा १२८ । ३ शब्दस्तावत् द्रव्यश्रुतं मतिराभिनियोधिकं नवोभयम् । युक्तं, उभयाभावे भावश्रुतं व तत् किंवा ? ॥ १३३ ॥ भासापरिणइकाले मईए किमहियमहण्णहत्तं वा ? । भासासंकप्पविसेसमेत्तओ वा सुयमजुत्तं ॥१३॥
मतेरन्तर्विज्ञानविशेषस्य भाषापरिणतिकाले शब्दप्रारम्भवेलायां पूर्वावस्थातः किमधिकं रूपं संपद्यते ?, येनोभयावस्थायां सा शानान्तरं स्यात् श्रुतव्यपदेशः स्यादित्यर्थः । 'अहण्णहत्तं वेति' अथवा अन्यथात्वं किं मतेर्भाषापरिणतिकाले निर्मूलत एवाऽन्यथाभावः कः, येन श्रुतत्वं स्यात् १, न कश्चिंदिति भावः। भाषाऽऽरम्भ एवात्र विशेषः, इति चेत; इत्याह--' भासेत्यादि' भाषायाः संकल्पनारम्भः स एव विशेषमात्रं, मात्रशब्दो मनागपि विकारभवननिषेधार्थः, तस्माद् भाषासंकल्पविशेषमात्राद् मतेः श्रुतत्वमयुक्तम् । एतदुक्तं भवति-- अन्तर्विज्ञानस्य स्वयमविशिष्टस्य बाह्यक्रियारम्भादत्यन्तजातिभेदाभ्युपगमे धावन-वल्गन-करास्फोटनादिबाह्यक्रियाऽऽनत्याद् मतेरानन्त्यमेव स्यात् , स्वयं चाऽनुपजातविशेषाणां ज्ञानानां शब्दपरिणतिसंनिधानमात्रत एव ज्ञानान्तरत्वेऽतिप्रसङ्गः स्यात्, अवध्यादिष्वपि तथाप्राप्तः ॥ इति गाथार्थः ॥ १३४ ॥
तदेवं कैश्चिद् विहितं मूलगाथायाः पूर्वार्धव्याख्यानं दूषितम् , अथोत्तरार्धव्याख्यानमुपदर्य दूषयितुमाह--
ईयरत्थ वि मइनाणे होज्ज सुयं ति किह तं सुयं होइ ? । किह व सुयं होइ मई सलक्खणावरणभेयाओ?॥१३५॥
'बुद्धिद्दिष्टे अत्थे' इत्यत्र बुद्धिर्मतिज्ञानं व्याख्यातम् , तन्मतेन ' ईयरत्थ वि होज सुयं उवलद्धिसमं जइ भणेज्जा' इत्यु तरार्धगतस्येतरत्रशब्दस्य मतिज्ञानमेव वाच्यम् , शब्दसहितमते व्यभावश्रुतत्वेनोक्तत्वात् , तदितरस्य मतिज्ञानस्यैव तत्र संभवात् । ततश्च तव्याख्यानमनूय दूषयति- इतरत्रापि मतिज्ञाने श्रुतं भवेद् यद्युपलब्धिसमं भाषेत इति यत्तरुच्यते, तदयुक्तम् , यतो हन्त ! यद मतिज्ञानं, तत् कथं श्रुतं भवितुमर्हति ? । श्रुतं चेत्, कथं वा तद् मतिर्भवेत् । कुतः पुनरित्यं न भवति , इत्याह-मति-श्रुतयोर्यत् स्वकीयं लक्षणं, कर्म चाऽऽवारकं, तयोर्भेदेनाऽऽगमे प्रतिपादनात् । यदि च यदेव मतिज्ञानं तदेव श्रुतम् , यदेव च श्रुतं तदेव मतिज्ञानं स्यात्, तदा लक्षणा-ऽऽवरणभेदोऽपि तयोर्न स्यात् ।। इति गाथार्थः ॥ १३५॥
तदेवं बुद्धिद्दिढे अत्थे जे भासइ' इत्यादिमूलगाथा मति-श्रुतभेदप्रतिपादनपरतया व्याचिख्यासोः परस्य 'मति वश्रुतं न युज्यते' इति प्रतिपादितम् । यदि तु द्रव्यश्रुतं साऽभ्युपगम्यते तदा न दोषः, इत्युपदर्शयन्नाह
. भाषापरिणतिकाले मत्या किमधिकमथाऽन्यथात्वं वा । भाषासंकल्पविशेषमात्रतो वा श्रुतमयुक्तम् ॥ १३ ॥ १ इतरत्रापि मतिज्ञाने भवेत् श्रुतमिति कथं तत् श्रुतं भवति ।। कथं वा श्रुतं भवति मतिः खलक्षणाऽऽवरणभेदात् ।। १३५ ॥३ गाथा १२८ ।
For Private and Personal Use Only