________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
श्रुतात्मकबुद्ध्युपलब्धानस्तिदुपयुक्तस्यैव वदतो द्रव्यश्रुतभावश्रुतरूपमुभयश्रुतं भवति, तच्छ्रतमित्युक्तेऽपि सामर्थ्यादुभयश्श्रुतं लभ्यते 'जे भासइ' इत्यनेन शब्दरूपस्य द्रव्यश्रुतस्य सूचितत्वात् , 'बुद्धिद्दिढे अत्थे' इत्यनेन, 'मईसहियं' इत्यनेन च भावश्रुतस्याऽभिषित्सितत्वादिति । तदेतावता 'सोइंदिओवलद्धी' इत्यादिगाथोक्तस्योभयश्रुतस्य स्वरूपमुक्तम्। यान् पुनः प्रथम श्रुतबुद्ध्या दृष्टानपि पश्चादभ्यासबलादेवाऽनुपयुक्तो वक्ति तद् द्रव्यश्रुतम् , इत्येतावद् गाथायामनुक्तमपि सामोद् गम्यते; तथा यान् श्रुतबुद्ध्या पश्यत्येव, न तु मनसि स्फुरतोपि भाषते तद् भावश्रुतम् , इतीदमपि स्वयमेवाऽवगन्तव्यम् । तदेतावता किं तद् द्रव्यादिश्रुतम्, कथं वा तद् भवति', इत्येवं चिन्तितम् । अथ 'को वा भावसुयंसो' इत्यादि चिन्त्यते- तत्र भावश्रुतमुभयश्रुताद् द्रव्यश्रुताचाऽनन्तगुणम् , एतस्मात्तूभयश्रुतं द्रव्यश्रुतं चानन्ततमे भागे वर्तत इति भावनीयम् , वाचः क्रमवर्तित्वात् , आयुषश्च परिमितत्वात् सर्वेषामपि भावश्रुतविषयमूतानामनामनन्ततममेव भागं वक्ता भाषत इति भावः । ततश्च भावश्रुतस्याऽनन्ततम एव भागो द्रव्यश्रुतत्वेनोभयश्रुतत्वेन च परिणमतीत्युक्तं भवति । एतच्च सर्वमनन्तरमेव भाष्यकारः स्वयमेव विस्तरतो भणिष्यतीत्यलं विस्तरेण ॥ सप आह-ननु यानुपयुक्तो भाषते तदुभयथुतम् , यांस्त्वनुपयुक्तो वक्ति तद् द्रव्यश्रुतमित्युक्तम् , यांस्तर्हि न भाषते, केवलं श्रुतबुद्ध्या पश्यत्येव, तत्रापि द्रव्यश्रुतरूपता, उभयश्रुतरूपता च किमिति नेष्यते? ; इत्याशक्याह-'इयरत्य वीत्यायुत्तरार्ध' 'जे भासइ तं सुयं' इत्युक्त तत्पतियोगिस्वरूपमभाषमाणावस्थाभावि भावश्रुतमेव इतरत्र शब्दवाच्यं भवति । ततश्चायमर्थः-द्रव्यश्रुतोभयश्रुताभ्यामितरत्रापि भावश्रुते भवेत् श्रुतं-द्रव्यश्रुतरूपता, उभयश्रुतरूपता वा भवेदित्यर्थः । यदि किं स्यात् ?, इत्याह-उपलम्भनमुपलब्धिस्तत्समं तत्पमाणं यदि भणेत्-यावद् वस्तुनिकुरम्बमुपलभते तावत्सर्वमुपयुक्तोऽनुपयुक्तो वा यदि वददित्यर्थः एतच्च नास्ति, श्रुतोपलब्ध्या उपलब्धानामर्थानामनन्तत्वात् , वाचः क्रमवर्तित्वात् , आयुषश्च परिमितत्वादिति । तस्मादभिलाप्यानां श्रुतोपलब्ध्या समुपलब्धानां भावानां मध्यात सर्वेणाऽपि जन्मनाऽनन्ततममेव भागं भाषते वक्ता, अतस्तत्रैवाऽनुपयुक्तस्य वदतो द्रव्यश्रुतरूपता, उपयुक्तस्य तु वदतउभयश्रुतरूपता भवेत, नेतरत्र भावश्रुते, भाषणस्यैवाऽसंभवात् ॥ इति पूर्वगतगाथार्थः ॥ १२८ ॥ (अभाग्रं -२०००)
तदेवं व्याख्याताऽस्माभिरियं गाथा, सांप्रतं भाष्यकारस्तव्याख्यानमाह
जे सुयबुद्धिद्दिढे सुयमइसहिओ पभासई भावे । तं उभयसुयं भन्नइ दव्वसुयं जे अनुवउत्तो ॥ १२९॥
गतार्थेव, नवरं सुखार्थ किञ्चिद् व्याख्यायते-श्रुतरूपा यका बुद्धिस्तया दृष्टाः पर्यालोचिता ये भावास्तन्मध्याद् 'मैईसहियं' १ गाथा ११७ । २ गाथा १२५ । ३ यान् श्रुतबुद्धिदृष्टान् श्रुतमतिसाहितः प्रभाषते भावान् । तदुभयश्रुतं भण्यत्ते द्रव्यश्रुतं याननुपयुक्तः ॥ २९ ॥ ४ गाथा १२८ ।। इत्यस्य तात्पर्यव्याख्यानमाह-श्रुतात्मकमतिसहितः श्रुतोपयुक्त इति यावत् , यान् भावान् प्रभापते तद् द्रव्य-भावरूपमुभयश्रुतं भण्यते । यान् पुनरनुपयुक्तो भाषते तद् द्रव्यश्रुतं शब्दमात्रमेवेत्यर्थः । यांस्तु श्रुतबुद्ध्या पर्यालोचयत्येव केवलं, न तु भाषते, तद् भावश्रुतमित्यर्थाद् गम्यते ॥ इति गाथार्थः॥ १२९ ।। : उत्तरार्धव्याख्यानयाह_ 'इयरत्थ वि भावसुये होज तय तस्समं जइ भणिज्जा । न य तरइ तत्तियं सो जमणेगगुणं तयं तत्तो॥१३०॥ . यद् भाषते तदुभयश्रुतं द्रव्यश्रुतं वेत्युक्ते भावश्रुतमेवेतरत्रशब्दवाच्यं गम्यते । ततश्चेतरत्राऽपि भावभुते भवेत् तद् द्रव्यश्रुतमुभयश्रुतं वा, यदि तत्सममुपलब्धिसम भणेत् , तच्च नास्ति, यस्माच्छूतज्ञानी खवुद्ध्या यावदुपलभते तावद् वक्तुं 'न तरति' न शक्नोति । कुतः १, इत्याह-यद् यस्मात् कारणात् ततो भाषाविषयीकृताच्छूतात् तदशक्यभाषणक्रिय भावश्रुतमनेकगुणमनन्तगुणम् , अतो नोपलब्धिसमं भणति ॥ इति गाथार्थः॥ १३०॥
उपलब्धिसममित्येतस्य समासविधिमाह
संह उबलहीए वा उवलद्धिसमं तया व जं तुल्लं । जं तस्समकालं वा न सव्वहा तरइ वोत्तुं जे ॥१३१॥ ; यद् भाषणमुपलब्ध्या सह वर्तते तदुपलब्धिसमम् , प्राकृतशैलीनिपातनात् सहस्य समभावः, या या श्रुतोपलब्धिस्तया तया सह यद् भाषणं तदुपलब्धिसममित्यर्थः, 'तया व जं तुलं ति' तया वोपलब्ध्या यत्तुल्यं समानं तदुपलब्धिसम-यावती काचिच्छ्रतोपलब्धिस्तत्तुल्यं तत्संख्यं यद्भाषणं तद् वोपलब्धिसममित्यर्थः। तस्समकालं वेति' तयोपलब्ध्या समकालं वा यद् भाषण तदुपलब्धिसमम् , यथा मध्ये शूलं वेदयतस्तत्समकालमेवाऽन्यस्मै तयथाकथनम् , एवमन्तः सर्वामपि श्रुतोपलब्धिमनुभवतस्तत्समकालमेव यद् भाषणं तद् वोपलब्धिसममिति भावः। किंबहुना, सर्वथा सर्वस्मिन्नपि समासविधावयं तात्पयार्थः। कः?, . इत्याह-श्रुतज्ञानी यावच्छूतबुद्धया समुपलभते, तावत् सर्व न तरति न शक्नोति वक्तुम् । 'जे' इत्यलङ्कारमात्रे ॥ इति गाथार्थः ॥१३१॥ .अथ कथं पुनरन्ये एतां गाथां मति-श्रुतभेदार्थे व्याख्यानयन्ति ?, इत्याह
१ इतरत्राऽपि भावश्रुते भवेत् तत् तत्समं यदि भणेत् । न च तरति (शक्नोति) तावत् स यदनेकगुणं तत् ततः॥ १३० ॥४-चे। २ सहोपलब्ध्या वोपलब्धिसभं तया वा यत् तुल्यम् । यत् तत्समकालं वा न सर्वथा तरति (शक्नोति) वक्तुम् ॥ १३१॥
For Private and Personal Use Only