________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
41
विशेषा०
तथा पुस्तक-पत्रादिन्यस्तमपि तत्कारणत्वाद् द्रव्यश्रुतमित्यर्थः । तद् मुक्त्वा शेषं शेपचक्षुरादीन्द्रियोपलब्धिरूपं मतिज्ञानम् ।' भावसुयमक्राणमित्यादि' न केवलं श्रोत्रेन्द्रियोपलब्धिः श्रुतम् यश्च श्रुतानुसारित्वाद् भावश्रुतं भावश्रुतरूपः शेषेषु चक्षुरादीन्द्रियेष्वक्षराणां लाभः परोपदेशार्हद्वचनानुसारिण्यक्षरोपलब्धिरित्यर्थः, सोऽपि श्रुतम् इत्येवं मूलगाथायां संबन्धः कार्य इति हृदयम्, स च प्राग् वृत्तौ कृत एव । तस्माच्चाक्षरलाभाच्चक्षुरादीन्द्रियेषु यच्छेषमश्रुतानुसार्यवग्रहे- हायुपलब्धिरूपं, तद् मतिज्ञानम्, इत्येवमिहाऽप्येतत् संबध्यते ॥ इति गाथार्थः ॥ १२४ ॥
अथ परः पूर्वापरविरोधमुद्भावयन्नाह -
Acharya Shri Kailassagarsuri Gyanmandir
ts सुयमक्खरलाभो न नाम सोओवलद्धिरेव सुयं । सोओवलद्धिरेवक्खराई सुइसंभवाउ ति ॥ १२५ ॥
इयमपि प्राग् मूलगाथावृत्तौ दर्शितार्थैव, तथापि विस्मरणशीलानामनुग्रहार्थं किञ्चिद् व्याख्यायते । ननु यद्युक्तन्यायेन शेषेन्द्रियाक्षरलाभोऽपि श्रुतम् तर्हि 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्' इति यदवधारणं कृतं तदसङ्गतं प्राप्नोति, शेषेन्द्रियाक्षरलाभस्यापि श्रुतत्वात् । अत्रोत्तरमाह-- 'सोओवलद्धिरेवेत्यादि ' यद्यसौ शेषेन्द्रियारलाभोऽपि श्रोत्रेन्द्रियोपलब्धिर्न स्यात्, तदा स्यादेवाऽवधारणमसंगतम्, तच्च नास्ति, यतः शेषेन्द्रियद्वाराऽऽयातज्ञानेऽपि प्रतिभासमानान्यक्षराणि श्रोत्रेन्द्रियोपलब्धिरेव ||
अहो ! महदाश्रर्य, यतो यदि शेषेन्द्रियाक्षरलाभः, कथं श्रोत्रोपलब्धिः १ सा चेत्, कथं शेषेन्द्रियाक्षरलाभः १, इत्याशङ्कयाह - ' सुरसंभवाउ त्ति' शेषेन्द्रियज्ञानप्रतिभासभाजि अक्षराणि श्रोत्रोपलब्धिरेव । कुतः १, इत्याह- तेषां श्रुतेः श्रवणस्य संभवात् इदमुक्तं भवति - अभिलापरूपाणि ह्येतान्यक्षराणि, अभिलापश्च तस्मिन् वा विवक्षिते काले, अन्यदा वा तत्र वा विवक्षिते पुरुषे, अन्यत्र वा श्रवणयोग्यत्वाच्छ्रोत्रेणोपलभ्यते । अतः श्रोत्रोपलम्भयोग्यत्वेन श्रुतिसंभवात् सर्वोऽप्यभिलापः श्रोत्रोपलब्धिरेव ; इति न किञ्चिदवधारणं विरुध्यते ।। इति गाथार्थः ।। १२५ ।।
किं सर्वोsपि शेषेन्द्रियाक्षरलाभः श्रुतम्, आहोखित् कश्चिदेव १, इत्याह
Hisa सुक्खराणं जो लाभो तं सुयं मई सेसा । जइ वा अणक्खरच्चिय सा सव्वा न प्पवत्तेज्जा ॥ १२६ ॥
३ यदि श्रुतमक्षरलाभो न नाम श्रोत्रोपलब्धिरेव श्रुतम् । श्रोत्रोपलब्धिरेवाऽक्षराणि श्रुतिसंभवादिति ॥ १२५ ॥
२ सोऽपि खलु श्रुताक्षराणां यो लाभस्तत् श्रुतं मतिः शेषः । यदि वाऽनक्षरैव सा सर्वा न प्रवर्तेत ॥ १२६ ॥
सोsपि च शेषेन्द्रियाक्षरलाभः स एव श्रुतं यः किम् ?, इत्याह- यः श्रुताक्षराणां लाभः, न सर्वः, यः संकेतविषयशब्दानुसारी, सर्वज्ञवचनकारणो वा विशिष्टः श्रुताक्षरलाभः, स एव श्रुतम्, न त्वश्रुतानुसारी; ईहा-पायादिषु परिस्फुरदक्षरलाभमात्रमित्यर्थः । ' इति यदि पुनरक्षरलाभस्य सर्वस्यापि श्रुतेन क्रोडीकरणादनक्षरैव मतिरभ्युपगम्येत, तदा सा यथाऽवग्रहे- हा उपायधा रणारूपा सिद्धान्ते प्रोक्ता, तथा सर्वाऽपि न प्रवर्तेत सर्वाऽपि मतित्वं नानुभवेदित्यर्थः किन्त्वनक्षरत्वादवग्रहमात्रमेव मतिः स्यात्, वीहादयः, तेषामक्षरलाभात्मकत्वात् । तस्माच्छ्रुतानुसार्येवाऽक्षरलाभः श्रुतम्, शेषं तु मतिज्ञानम् ॥ इति गाथार्थः ॥ १२६ ॥ तदेवं व्याख्याता भाष्यकृताऽपि 'सोइंदिओवलद्धी' इत्यादिगाथा सांप्रतं त्वस्यां यः श्रुतविषयः पर्यवसितोऽर्थः प्रोक्तों भवति, तं संपिण्डयोपदर्शयति
न
देव्वयं भावसुयं उभयं वा किं कहं व होज्जति । को वा भावसुयंसो दव्वाइसुयं परिणमेज्जा ? ॥१२७॥
इह 'सोइंदिओवलद्धी' इत्येतस्यां गाथायां ' मोत्तूणं दव्वसुयं' इत्यनेन पुस्तकादिन्यस्तं द्रव्यश्रुतमुक्तम्, अक्षरलाभवचनात्तु भावश्रुतम्, श्रोत्रेन्द्रियोपलब्धिवचनेन तु शब्दः, तद्विज्ञानं चेत्युभयश्रुतमुक्तम् । तत्राऽनन्तर वक्ष्यमाणपूर्वगतगाथायामेतच्चिन्त्यते - किं तद् द्रव्यादिश्रुतम् ?, कथं वा तद् भवति ?, को वा कियान् वेत्यर्थः, भावश्रुतस्यांशो भागो द्रव्यश्रुतं द्रव्यश्रुतरूपतया, आदिशब्दादुभयश्रुतरूपतया वा परिणमेत् ? ।। इति गाथार्थः ॥ १२७ ॥
का पुनरसौ पूर्वगतगाथा, इत्याह
बुद्धि अत्थे जे भास तं सुयं मईसहियं । इयरत्थ वि होज सुयं उवलद्धिसमं जइ भणेज्जा ॥ १२८ ॥
मति श्रुतयोर्भेदोऽत्र विचार्यत्वेन प्रस्तुतः इत्यतः केचिदेतां गाथां तदनुयायित्वेन व्याख्यानयन्ति ; भाष्यकारस्तु तेनाऽपि प्रकारेण पश्चाद् व्याख्यास्यति, सांप्रतं तु प्रस्तावनाऽनुयायित्वेन तावद् व्याख्यायते - तत्र बुद्धिः श्रुतरूपेह गृह्यते, तया दृष्टा गृहीताः पर्यालोचिता बुद्धिदृष्टा अभिलाप्या अर्थाः पदार्थाः, ते च बहवः सन्ति, अतस्तन्मध्याद् वक्ता यान् भाषते वक्ति तच्छ्रुतम् । कथं यान् भाषते १, इत्याह- मतिः श्रुतोपयोगरूपा तत्सहितं यथा भवति, एवं यान् भावान् भाषते तच्छ्रुतमुभयरूपमित्यर्थः । इदमुक्तं भवति
१ गाथा ११७। २ श्रुतं भावश्रुतमुभयं वा किं कथं वा भवेदिति । को वा भावश्रुतांशो द्रव्यादिश्रुतं परिणमेत् ? ॥ १२७ ॥ ३ बुद्धिष्टेऽर्थे यान् भाषते तत् श्रुतं मतिसहितम् । इतरत्राऽपि भवेत् श्रुतमुपलब्धिसमं यदि भणेत् ॥ १२८ ॥
For Private and Personal Use Only