________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
क्षणान्तरमप्याह
'किंवा नाणेऽहिगए सद्देणं जइ य सहविन्नाणं । गहियं तो को भेयो भणओ सुणओ व जो तस्स ॥१२०॥
यदि वा ज्ञाने ज्ञानविचारेऽधिकृते किं पुद्गलसङ्घातरूपेण शब्देन गृहीतेन कार्यम् , अप्रस्तुतत्वात् ।। अथ श्रोत्रेन्द्रियोपलब्धिशब्देन शब्दविज्ञानं गृह्यत इति । अत्राइ-'जइ येत्यादि' यदि ध श्रोत्रेन्द्रियोपलब्धेः शब्दस्य कारणभूतत्वात् कार्यभूतत्वाचोपचारतो वक्तगत श्रोतगतं च शब्दविज्ञानं श्रोत्रेन्द्रियोपलब्धिशब्दवाच्यत्वेन गृहीतम् , तच्च युवतः श्रुतं शृण्वतस्तु मतिरित्युच्यते । हन्त ! सतस्तर्हि तस्य विज्ञानस्य अवतः शृण्वतो वा यो भेदो विशेषः, स कः? इति कथ्यताम् , येन तद् वक्तुः श्रुतं, श्रोतुश्च मतिः स्यात् इति नास्त्यसौ विशेषः, शब्दज्ञानत्वाविशेषादिति भावः । किश्च, एवं सति श्रोतुरपि कदाचिच्छ्रत्यनन्तरमेव ब्रुवतः सैव शब्दजनिता तन्मतिरवशिष्टा श्रुतं प्रसजति 'बेन्तस्स सुयं' 'सुणओ मई' इत्यभ्युपगमात् । ततश्च तदेवैकत्वं मति-श्रुतयोः, इति कोऽतिशयः कृतः स्यात् । इति । किच, यदि शृण्वतः सर्वदैव मतिरित्ययमेकान्तः, तर्हि यदेतद् व्यक्तं सर्वत्रोच्यते-- आचार्यपारम्पर्येणेदं श्रुतमायातमिति, तदसत माप्नोति, तीर्थकरादर्वाक् सर्वेषामपि श्रोतृत्वेन मतिज्ञानस्यैवोपपत्तेः । अथ नैवम् , तर्खेकत्वं मति-श्रुतयोः ।। इति गाथार्थः ॥ १२० ॥
तदेवं 'केई बेन्तस्स सुर्य' इत्यादि दूषयित्वा प्रस्तुतप्रकरणोपसंहारव्याजेन परमेव शिक्षयन्नाह__ भैणओ सुणओ व सुयं तं जमिह सुयाणुसारि विण्णाणं । दोण्हं पि सुयाईयं जं विन्नाणं तयं बुद्धी ॥१२॥ - तस्माद् ‘ब्रुवतः श्रुतं, शृण्वतस्तु मतिः' इत्येतद् न युक्तम् । उक्तदूषणात , अनागमिकत्वाच्च । किं तर्हि युक्तम् । इति चेत् । उच्यते-- भणतः शृण्वतो वा यत् किमपि श्रुतानुसारि परोपदेशाहद्वचनानुसारि विज्ञानं, तदिह सर्व श्रुतम् , यत् पुन योरपि वक्तश्रोत्रोः श्रुतातीतं हृषीक-मनोमात्रनिमित्तमवग्रहादिरूपं विज्ञानं, तत् सर्व बुद्धिर्मतिज्ञानमित्यर्थः । तदेवं द्वयोरपि वक्त-श्रोत्रोः प्रत्येक मति-श्रुते यथोक्तस्वरूपे अभ्युपगन्तव्ये, न पुनरेकैकस्यैकैकमिति भावः ॥ इति गाथार्थः ॥ १२१॥
भवत्वेवम, किन्तु 'सीओवलद्धी जइ सुयं न नाम सोउग्गहादओ बुद्धी इत्यादिना यः परेण प्रर्वपक्षो व्यधायि. तस्य तर्हि का परिहारः ? इत्याशक्य भाष्यकार एवेदानीं 'सोइंदिओवलद्धी होइ सुर्य' इत्यादिमूलगाां विवृण्वन्नाहशब- १ किंवा ज्ञानेऽधिकृते शब्देन, यदि च शब्दविज्ञानम् । गृहीतं ततः को भेदो भणतः शृण्वतश्च यस्तस्य ? ॥ १२०॥ २ गाथा ११९ । + रयि
३ भणतः शृण्वतो वा श्रुतं तद् यदिह श्रुतानुसारि विज्ञानम् । द्वयोरपि श्रुतासीतं यद् विज्ञानं तद् खुद्धिः ॥ १२१॥ ४ गाथा ११८ । ५ गाथा ११७ ॥ - सोइंदिओवलडी चेव सुयं न उ तई सुयं चेव । सोइंदिओवलद्धी वि काइ जम्हा मइनाणं ॥ १२२॥
इह श्रोत्रेन्द्रियोपलब्धिशब्दस्य तृतीया-षष्ठसिमासः, बहुव्रीहिश्च: आद्यसमासद्वयेन भावश्रुतम् , बहुव्रीहिणा तु भावश्रुतानुपयुक्तस्य बदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु ब्रुवत उभयश्रुतं गृहीतमिति प्राग्वृत्तौ दर्शितं सर्व द्रष्टव्यम् । अवधारणविधिमपि प्रागुपदर्शितमाह- 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतं' इत्येवमवधारणीयम् । 'न उतई तिन पुनः 'सा श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति । कुतो नैवमवधार्यते ?, इत्याह- यस्माच्छोडेन्द्रियोपलब्धिरपि काचिदश्रुतानुसारिणी अवग्रहे-हादिमात्ररूपा मतिज्ञानमेव, अतः 'श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति नावधार्यत इति भावः । एवं च सति ‘ने नाम सोउग्गहादओ बुद्धी' इत्यादि परेण यत् प्रेरितं, तत् परिहतं भवति, श्रोत्रावग्रहादीनामपि बुद्धिरूपतायाः समर्थितत्वात् ॥ इति गाथार्थः ॥ १२२ ॥ ___तदेवमवधारणविधिना श्रोत्रावग्रहादीनां मतित्वं समर्थितम् , यदि वा 'सेसयं तु मइनाणं' इत्यत्र योऽसौ तुशब्दः, ततोऽपि तेषां तत् समर्थ्यत इति दर्शयन्नाह- ...
तुसमुच्चयवयणाओ व काई सोइन्दिओवलद्धी वि । मइरेवं सइ सोउग्गहादओ हुन्ति मइभेया॥१२३॥
सेसयं तु मइनाणं' इत्यत्र योऽसौ तुशब्दः समुच्चयवचनः, ततश्च किमुक्तं भवति ?-शेषकं मतिज्ञानं, काचिदनपेक्षितपरोपदेशाहद्वचना श्रोत्रेन्द्रियोपलब्धिश्च मतिज्ञानमित्येवं वा श्रोत्रावग्रहादयो भवन्ति मतिभेदाः । तथा च न परिहीयते, ततश्च ‘ने नाम सोउग्गहादओ बुद्धी' इत्यादि परमेर्य प्रतिक्षिप्तमेव ॥ इति गाथार्थः ॥ १२३ ॥
मूलगाथाया व्याख्यातशेष व्याख्यानयन्त्राह- .
पत्ताइगयं सुयकारणं ति सद्दो व्व तेण दव्वसुयं । भावसुयमक्खराणं लाभो सेसं मइन्नाणं ॥ १२४ ॥
मूलगाथायां 'श्रोत्रावग्रहादयः, शेषकं च मतिज्ञानम् , इत्युक्ते शेषस्य सर्वस्याऽप्युत्सर्गतो मतित्वे प्राप्ते, अपवाद:- मौत्तूणं दव्वसुर्य ति' इत्युक्तम् । तत्र किं तद् द्रव्यश्रुतं यदिह वज्येते ?, इत्याह भाष्यकार:-पत्रादिगतं पुस्तक-पत्रादिलिखितम् , तेन कारगेन द्रव्यश्रुतं, येन किं.१, इत्याह- श्रुतकारणमिति । किंवत् १, इत्याह- शब्दवदिति यथा भावभुतकारणत्वाच्छब्दो द्रव्यश्रुतम् ,
१ श्रोत्रेन्द्रियोपलब्धिश्चैव श्रुतं न तु सा श्रुतं चैव । श्रोत्रेन्नियोपलब्धिरपि काचिद् यस्माद् मतिज्ञानम् ॥ १२॥ २ गाथा ११८ । ३ गाथा ११७ ! ४ तुसमुच्चयवचनाद् वा काचिच्छ्रोनेन्द्रियोपलब्धिरपि । मतिरेवं सति श्रोत्रावग्रहादयो भवन्ति मतिभेदाः ॥ १२३॥ ५ पत्रादिगतं श्रुतकारणामिति शब्द इव तेन द्रव्यश्रुतम् । भावश्रुतमक्षराणां लाभः शेषं मतिज्ञामम् ॥ १२ ॥
For Private and Personal Use Only