Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 144
________________ J a vir Jan Aradhana Rendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 137 विशेषा० केषां पुनरसौ सर्वजघन्योऽक्षरानन्तभागः प्राप्यते १, इत्याह थीणद्धिसहियनाणावरणोदयओ स पत्थिवाईणं । बेइंदियाइयाणं परिवड्ढए कमविसोहीए ॥ ४९९ ॥ स्त्यानर्धिमहानिद्रोदयसहितोत्कृष्टज्ञानावरणोदयादसौ सर्वजघन्योऽक्षरानन्तभागः पृथिव्यायेकेन्द्रियाणां प्राप्यते । ततः क्रमविशुद्ध्या द्वीन्द्रियादीनामसौ क्रमेण वर्धत इति ॥ ४९९ ॥ तमुत्कृष्टः, मध्यमश्वैष केषा मन्तव्यः , इत्याह उकोसो उक्कोसयसुयणाणविओ, तओवसेसाणं । होइ विमझो मज्झे छट्ठाणगयाण पाएण ॥ ५० ॥ स एवाक्षरानन्तभाग उत्कृष्टो भवत्युत्कृष्टश्चतज्ञानविदः संपूर्णश्रुतज्ञानस्येत्यर्थः । अत्राह- नन्वस्य कथमक्षरानन्तभागः, • यावता श्रुतज्ञानाक्षरं संपूर्णमप्यस्य प्राप्यत एव । सत्यम्, किन्तु संलुलितसामान्यश्रुत-केवलारापेक्षयैवाऽस्याक्षरानन्तभागो विवक्षितः 'केवलिवज्जाणं तिविहभेओ वि' इत्यनन्तरवचनात् , अन्यथा हि यथा केवलिनः संपूर्णकेवलाक्षरयुक्तत्वेनाऽक्षरानन्तभागनिविघोऽपि न संभवति, इति तर्जनं कृतम् , एवं संपूर्णश्रुतज्ञानिनोऽपि समस्तश्रुताक्षरयुक्तत्वेनाऽक्षरानन्तभागस्त्रिविधोऽपि न संभवतीति तर्जनमपि कृतं स्यात् । तस्मादसमिलितसामान्याक्षरापेक्षयैवाऽस्याऽक्षरानन्तभागः प्रोक्तः । सामान्ये चाक्षरे विवक्षिते केवलाक्षरापेक्षया श्रुतज्ञानाक्षरस्य संपूर्णऽप्यनन्तभागवर्तित्वं युक्तमेव, केवलज्ञानवपर्यायेभ्यः श्रुतज्ञानस्वपर्यायाणामनन्तभागवर्तित्वात. तस्य परोक्षविषयत्वेनाऽस्पष्टत्वाच्चेति । यच्च समुदितख-परपर्यायापेक्षया श्रुत-केवलाक्षरयोस्तुल्यत्वं तदिह न विवक्षितमेवेति। ___ अन्ये तु- 'सो पुण सव्वजहनो चेयण्णं' इत्यादिगाथायां “स पुनरक्षरलाभः" इति व्याचक्षते । इदं चानेकदोषान्वितत्वाद, जिनभद्रगणिक्षमाश्रमणपूज्यटीकायां चादर्शनादसंगतमेव लक्षयामः, तथाहि-'तेस्स उ अणंतभागो निच्चुग्घाडो' इत्याद्यनन्तरगांथायामक्षरानन्तभाग एवं प्रकृतः, अक्षरलाभस्त्वनन्तरपरामर्शिना तच्छब्देन कुतो लब्धः १, किमाकाशाद् पतितः । किंञ्च, यद्यक्षरलाभ इतीह व्याख्यायते, तर्हि 'केवलिवज्जार्ण तिविहभेओ वि' इत्यत्र किमिति केवलिनो वर्जनं कृतम् । यथा हि श्रुताक्षरमाश्रित्यो १ स्त्यानर्धिसाहितज्ञानावरणोदयतः स पृथिव्यादीनाम् । द्वीन्द्रियादिकानां परिवर्धते क्रमविशुद्ध्या ॥ ४९९ ॥ ३. घ. छ. 'डूढइ क' । ३ उत्कृष्ट उत्कृष्टश्रुतज्ञानविदा, ततोऽवशेषाणाम् । भवति विमभ्यो मध्ये पदस्थानगतानां प्रायेण ॥ ५.०॥+केवलाके.-। ४ प.छ... 'भो विसे'। ५ गाथा ४९७। क. 'स्याऽन'। ७ गाथा ४९८ । (द! स्कृष्टोऽक्षरलाभा संपूर्णश्रुतज्ञानवतो लभ्यते, तथा केवलाक्षरमङ्गीकृत्योत्कृष्टोऽसौ केवलिनोऽपि लभ्यत एव, कि तद्वजनस्य फलम् ।। क्षमाश्रमणपूज्यैश्च 'थीणद्धि' इत्यादिगाथायामित्थं व्याख्यातम्- "सच किल जघन्यतोऽनन्तभाग" इत्यादि नेह प्रक्रमे गृह्यते, किन्तु श्रुताक्षरमेवेति । तदयुक्तम् , चिरन्तनटीकाद्वयेऽप्यक्षरस्य सामान्यस्यैव व्याख्यानात् । किञ्च, विशेषतोत्र श्रुताक्षरे गृह्यमाणे 'तस्य श्रुताक्षरस्याऽनन्तभागः सर्वजीवानां नित्योद्घाटः' इति व्याख्यानमापद्यते । एतच्चाऽयुक्तम्, संपूर्णश्रुतज्ञानिनां, ततोऽनन्तभागादिहीनश्रुतज्ञानवतां च श्रुताक्षरानन्तभागवत्चानुपपत्तेः । किञ्च, (सो उण) 'केवलिवज्जाणं तिविहभेओ वि' इत्येतदसंबद्धमेव स्यात् , केवलिनः सर्वथैव श्रुताक्षरस्यासंभवेन तद्वर्जनस्याऽऽनर्थक्यप्रसङ्गादिति । परमार्थ चेह केवलिनः, बहुश्रुतावा विदन्ति, इत्यलं प्रसङ्गेन । _ विमध्यममक्षरानन्तभागमाह- ततस्तस्मादुत्कृष्टश्रुतज्ञानविदोऽवशेषाणामेकेन्द्रिय-संपूर्णश्रुतज्ञानिनोर्मध्ये वर्तमानानां पदस्थानपतितानामनन्तभागादिगतानां प्रायेण विमध्यो मध्यमोऽक्षरानन्तभागो भवति । एकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाः केचित् श्रुतमाश्रित्य तुल्या अपि भवन्ति, अत उक्तम्-प्रायेणावशेषाणां विमध्यम इति । अयमर्थ:-विवक्षितादेकस्मादुत्कृष्टश्रुतज्ञानिनोऽवशेषाणामपि केषाश्चिदुत्कृष्टश्रुतज्ञानवतां तत्तुल्य एवाऽक्षरानन्तभागो भवति, न तु विमध्यम उत्कृष्ट इत्यर्थः॥ इति सप्तचत्वारिंशदाथार्थः ॥ ५० ॥। ॥ इत्यक्षरश्रुतं समाप्तमिति ॥ अथ तत्मतिपक्षभूतमनक्षरश्रुतमाह ऊँससियं नीससियं निच्छूढं खासिअं च छीयं च । निस्सिंघियमणुसारं अणक्खरं छेलियाईयं ॥५०॥ उच्चसनमुच्छसितं, भावे निष्ठाप्रत्ययः । तथा, निःश्वसनं निःश्वसितम् । निष्ठीवनं निष्ठूतम् । कासनं कासितम् । क्षवण क्षुतम् । निःसिङ्घनं निःसिङ्गितम् । अनुस्वारवदनुस्वारम् , अक्षरमपि यदनुस्वारवदुच्चार्यत इत्यर्थः । एतदुच्छुसिताद्यनक्षरश्रुतम् । न केवलमेतत् , किन्तु सेण्टनं सेण्टितम् , एतदादि चाऽनक्षरश्रुतमिति प्राक्तनसमुच्चयार्थचशब्दयोरेकोऽत्र योज्यते । आदिशब्दात् पूत्कृत-सीत्कारादिपरिग्रहः॥ इति नियुक्तिगाथार्थः॥ ५०१॥ १ प. छ. 'नफ' । २ गाथा ४९९ । ३ गाथा ४९७ ॥ ४ प.छ. 'मध्यमो म'।+चेति-1xजघन्यो -15निरयतम५ उच्छ्वसितं निःश्वसितं निष्ठूतं कासितं च क्षुतं च । नि.सिडितमनुस्वारमनक्षरं सेण्टितादिकम् ॥५०॥ ६ घ.छ. 'दिन' । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339