Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 127
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 विशेषा० पलाशे तु तत्कार्यभूतश्छेदः' इत्युच्यमानं शोभा बिभर्ति । किञ्च, क्रियाकाले कार्य न भवति, पश्चात्तु भवति, इत्यनेनैतवापद्यते यदुत- क्रियैव हतका सर्वाऽनर्थमूलमेषा, कार्यस्योत्पित्सोर्विघ्नहेतुत्वात् , यावद् शेषा प्रवर्तते तावत् वराक कार्य नोत्पद्यते, अत: प्रत्युत्ताऽसौ तस्य विघ्नभूतैव, ततस्त्वदभिप्रायेण विपर्यस्ततयैव प्रेक्षावन्त एतां प्रारभन्त इति । क्रियैव कार्य करोति, केवल तद्विरामे तद् निष्पद्यत इति चेत् । तर्हि हन्त ! कस्तयाऽस्य विरोधः, येन तस्कुर्वत्या अप्यस्यास्तकालमतिबाह्य पश्चाद् निष्पयते, न पुनस्तत्कालेऽपि ! क्रियोपरमेऽपि च जायमान कार्य तदनारम्भेऽपि कमावू न भवति, क्रियाऽनारम्भ-तदुपरमयोरर्थतोऽभिमत्वात् ? 'इति । अथाऽक्रिययति द्वितीयः पक्षा, तर्हि हिमवद्-मेरु-समुद्रादिव घटादयोऽप्यकृतका एव प्रामा, तत् तेषामपि कारणभूतक्रियामन्तरेणैव प्रवृत्तेः, तपा-स्वाध्यायादिक्रियाविधानं च मोक्षादीन मति साध्वादीनामनर्थकमेव स्यात् , क्रियामन्तरेणैव सर्वकार्योत्पत्तेः। अतस्तूष्णीभावमास्थाय निष्परिस्पन्दनानि निराकुलानि तिष्ठन्तु त्रीण्यपि सुषनानि, क्रियारम्भविरहेणाऽप्यहिका-ऽऽमुमिकसमस्तसमीहितसिद्धेः। न चैवम् । तस्मात् क्रियैव कार्यस्य की, तत्काले एवं च तद् भवति, न पुनस्तदुपरमे । अतः क्रियमाणमेव कृतमिति स्थितम् ।। ४२२ ।। आह- ननु यदि क्रियासमयेऽपि कार्य भवति, तर्हि तत् तत्र कस्माद् न दृश्यते ।। दृश्यत एवेति चेत् । नन्वहमपि किमिति तदून पश्यामि , इत्याशङ्कयाह पैइसमयकजकोडीनिरैविक्खो घडगयाहिलासो सि । पइसमयकजकालं थूलमइ ! घडम्मि लाएसि ॥४२३॥ इह यद् यस्मिन् समये प्रारभ्यते, तत् तत्र निष्पद्यते दृश्यते च, केवलं स्थूला सूक्ष्मेक्षिकाबहिर्भूतत्वाद् बादरदर्शिनी मतिर्यस्य तत्संबोधन हे स्थलमते! त्वं घटे लगयसि । किम् १, इत्याह- प्रतिसमयोत्पन्नानां कार्यकोटीनां कालः प्रतिसमयकार्यकालस्तं सर्वमपि 'घटस्यैवाऽयं समस्तोऽपि मत्पिण्डविधान-चक्रभ्रमणादिक उत्पत्तिकाल' इत्येवमेकस्मिन्नेव घटे संवन्धयसीत्यर्थः । कथंभूतः सन् १, इत्याह-प्रतिसमयोत्पद्यमानासु मृत्पिण्ड-शिवक-स्थास-कोशादिकासु, सिद्ध-केवलिमभृतीनां ज्ञानजननादिकासु च कार्यकोटिषु निरपेक्षः। कुतः पूनरेतत, इत्याह- यतो घटगताभिलाषोऽसि वं, घटोऽस्यां मृदु-दण्ड-चक्र-चीवरादिसामग्रथामुत्पत्स्यत उत्पत्स्यत इत्येवं केवलघटाभिलाषयुक्तत्वाद् भवत इत्यर्थः । इदमुक्तं भवति-प्रतिसमयमपरा-ऽपराण्येव शिवकादीनि कार्याण्युत्पद्यन्ते, दृश्यन्ते च, तानि च तथो १५.छ. 'सतः स्था'। २ घ.छ. 'वत' + क्रियोपरमे-1 संबध.-1 । प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलापोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे झगयसि ॥ ४२३ ॥ ४ घ. छ. रिवेक्खो' । त्पद्यमानानि त्वं नावबुध्यसे, घटोत्पत्तिनिमित्तभूनैवेयं सर्वाऽपि मृत्-चक्र-चीवरादिसामग्री, इत्येवं केवलघटाभिलापयुक्तत्वात् , ततस्तन्निरपेक्ष एव स्थूलमतितया सर्वमपि तत्कालं घटे लगयारी । ततश्च प्राक्तनक्रियाक्षणेष्वनुत्पन्नत्वाद् घटमदृष्ट्रवं पे- 'क्रियाकाले घटलक्षणं कार्यमहं न पश्यामि' । इदं तु नावगच्छसि यदुत-चरमक्रियाक्षण एव घटःप्रारभ्यते, प्राक्तनक्रियाकाले तु शिवकादय एवारभ्यन्ते, अन्यारम्भे चाऽन्यद् न दृश्यत एवेति ॥ ४२३ ॥ व्यवहारबादी माह को चरिमसमयनियमो पढमे च्चिय तो न कीरए कजं । नाकारणं ति कजं तं चेवं तम्मि से समए ॥४२४॥ प्रथमसमयादारभ्य यद्यपरापराणि कार्याण्यारभ्यन्ते, तर्हि कोऽयं चरमसमयनियमः, येन विवक्षित कार्य प्रथमसमय एव न क्रियते, अकरणे च ततस्तत् तत्र न दृश्यते ?- नन्वाद्यकार्यवद् विवक्षितमपि तत्रैव क्रियतां, दृश्यतां चेति भावः । अत्र निश्चयः प्रत्युत्तरमाह- नाकारणं क्वचित् कार्यमुत्पद्यते, नित्यं सद-सत्वप्रसङ्गात् । न च तत् कारणं 'से' तस्य विवक्षितकार्यस्य तदन्त्यसमये एवाऽस्ति, न प्रथमादिसमयेषु, अतो न तेषूत्पद्यते, नापि दृश्यत इति ॥ ४२४ ॥ तदेवं 'क्रियाकाल एव कार्य भवति, न पुनस्तदुपरमे' इत्युक्तम् । अथैवं नेष्यते, तर्हि प्रस्तुतमाभिनियोधिकज्ञानमेवाऽधिकत्योच्यते उप्पाए वि न नाणं जइ तो सो कस्स होइ उप्पाओ ?। तम्मि य जइ अण्णाणं तो नाणं कम्मि कालम्भि ? ॥४२५॥ उत्पादनमुत्पादः कार्यस्योत्पत्तिहेतुभूतः क्रियाविशेषस्तत्रापि यदि मतिज्ञानं नेष्यते भवता- क्रियमाणावस्थायामपि यदि कार्य त्वया नाभ्युपगम्यत इति भावः, तर्हि उत्पंद्यमानस्याऽसत्त्वात् स कस्योत्पादो भवेत् ? इति कथ्यताम् । न ह्यविद्यमानस्य खरविषाणस्ये. . . वोत्पादो युक्तः । यदि च तस्मिन्नुत्पादकालेऽप्यज्ञानम् , तर्हि ज्ञानं कस्मिन् काले भविष्यति ? इति निवेद्यताम् । उत्पादोपरम इति चेत् । न, कथमन्यत्रोत्पादः, अन्यत्र तूत्पन्न मिति १ । उत्पादोपरमे च भवत् कार्यमुत्पादात् प्रागपि कस्माद् न भवति, अविशेषात् ? इत्याद्युक्तमेवेति ॥ ४२५॥ +T-पायः१ घ.'तू-ची'। २ कश्चरमसमयनियमः प्रथम एव ततो न क्रियते कार्यम् । नाकारणमिति कार्य तचैवं तस्मिंस्तस्य समये ॥ ४२५॥ भवतु- भवन- ३ ३ उत्पादेऽपि म ज्ञानं यदि ततः स कस्य भवत्युत्पादः । तस्मिंश्च यद्यज्ञानं ततो ज्ञानं कस्मिन् काले ॥ ४२५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339