Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 128
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir _121 विशेषा० यदुक्तम्- ईय न सवणाइकाले नाणे' इति तत्राह- को व सवणाइकालो उप्पाओ जम्मि होज से नाणं नाणं च तदुप्पाओ य वो वि चरिमम्मि समयम्मि॥२६॥ वाशब्दश्वशब्दार्थे । कश्च श्रवणादिकालो व्यवहारवादिन् । भवतोऽभिप्रेता, यत्र शान निषेधयसि । हन्त-: त्वया मतिज्ञानस्योत्पादसमय एव श्रवणादिकालोऽवगन्तव्यः, यत्र 'से' तस्य शिष्यस्य मतिज्ञानं भवेत् , नाऽपरः । अथाऽऽदित आरभ्य गुरुसंनिधाने धर्मश्रवणादय एव मतिज्ञानस्योत्पादकाला, नापरोऽवगम्यत इति चेत् । नैवम् , इत्याह- ' नाणमित्यादि ' ज्ञानं च मतिज्ञानलक्षणं, तदुत्पादश्च तस्योत्पत्तिहेतुभूतः क्रियोलक्षणः, एतौ द्वावपि धर्मश्रवणादिक्रियासमयराशेश्वरमसमय एव भवता, न प्रथमादिसमयेषु, तेष्वपरापराणामेव धर्मावबोधादिकार्याणामुत्पत्तेः । न च तद्रोधादिमात्रादपि सम्यग्ज्ञानोत्पत्तियुज्यते, अभव्येष्वपि तत्सद्भावात् । तस्माद् विशिष्ट एव कस्मिंश्चिद् धर्मश्रवणादीनां चरमसमये मतिज्ञानं, तदुत्पादचा अतो युक्तमुक्तम्- 'जुत्तं तदंतम्मि' इति, अस्माभिरपि क्रियाकालस्याऽन्तसमय एव तस्येष्यमाणत्वात् । तस्माद् न सर्वेषु धर्मश्रवणादिक्रियासमयेषु मतिज्ञानम्, नापि सर्वेषामपि तेषामुपरमे, किन्त्वेकमिस्तच्चरमसमये तदारभ्यते, निष्पद्यते च । अतः क्रियमाणमेव कृतम् । यदि कृतमपि क्रियते निश्चयवादिन् । तर्हि पुनः पुनरपि क्रियता, कृतत्वाविशेषात , अतः करणानवस्थेति चे क्रियाकाल-निष्ठाकालयोरभेदात् । यदि हि तदुत्पादयित्री क्रिया प्रारब्धा सती उत्तरसमयेष्वपि प्राप्येत, तदा स्यात्पुनरपि तत्करणम् , एतच्च नास्ति, यतोऽसौ तदुत्पादयित्री क्रिया न पूर्व, नाप्युत्तरत्रॉस्ति, किन्तु तस्मिन्नेव चरमसमये प्रारभ्यते, निष्ठां च याति, इति कुतः पुनरपि कार्यकरणम् , अतोन तत्करणानवस्थेति । तस्मात 'इयन सवणाइकाले नाणं' इत्यनेन यदि सर्वेष्वपि धर्मश्रवणादिसमयेषु मतिज्ञानं निषिध्यते, तदा सिद्धसाध्यता । अथ चरमक्रियासमयेऽपि तद् निवार्यते, तदयुक्तम्, तत्र तस्य प्रसाधितत्वादिति । तस्मिंश्च धर्मश्रवणादिक्रियाचरमसमये सम्यक्त्वं ज्ञानं च प्रतिपद्यमानं प्रतिपन्नमेवेति । अतः सम्यग्दृष्टिांनी च सम्यक्त्व-जाने प्रतिपद्यते । इति निश्चयनयमततात्पर्यम् । ..... व्यवहारनयस्तु ब्रूते- तस्मिंश्चरमसमये सम्यक्त्व-ज्ञानयोरयाप्यसौ प्रतिपद्यमानकः, प्रतिपद्यमानं चाप्रतिपन्नमेव । अतो मिध्यादृष्टिः, अज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते । उत्तरत्र क्रियानिष्ठासमये तु सम्यक्त्व-ज्ञाने युगपदेव लभते । अतः प्रस्तुते सम्य १.गाथा ४१७ । २ को वा श्रवणादिकाल उत्पादो यस्मिन् भवेत् तस्य ज्ञानम् । ज्ञानं च तदुत्पादश्च द्वावपि चरमे समये ॥ ४२ ॥ ३ क.ग. 'गन्तव्य इ' । ४ घ.छ. 'याक्ष' । ५ क.ग. 'त्रापि कि' ।। क्त्वद्वारे एतन्मतेन सम्यग्दृष्टिराभिनिबोधिकस्य पूर्वप्रतिपन्न एव भवति, न तु प्रतिपद्यमानकः, सम्यक्त्व-ज्ञानयोर्युगपल्लाभात् , तत्काले च क्रियाया अभावात् , तदभावे च प्रतिपद्यमानकत्वायोगादिति । निश्चयनयमतेन तु सम्यग्दृष्टेराभिनिबोधिकस्य पूर्वपतिपन्नः, प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाश्च युगपद्भावस्य समर्थितत्वात् । इत्यलमतिविस्तरेण ॥ इति गाथात्रयोदशकार्थः ॥ ". ज्ञानद्वारे-मति-श्रुता-ऽवधि-मनःपर्याय-केवलभेदात् पञ्चधा ज्ञानम् । व्यवहारनयमतेन मति-श्रुता-ऽवधि-मनःपर्यायज्ञानिन आभि निवोधिकस्य पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानका, ज्ञानिनो मतिज्ञानप्रतिपत्त्ययोगस्यैतन्मतेन मागुक्तत्वात् । केवलिनां तूभयाभावः, तेषां क्षायोपशमिकज्ञानातीतत्वात् । मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानवन्तस्तु प्रतिपद्यमानकाः कदाचिद् भवन्ति, युक्तेदेर्शितत्वात् , ने तु पतिपन्नाः। निश्चयनयमतेने तु मति-श्रुता-ऽवधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्तेः थतत्वात् । मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवन्ति, न तु प्रतिपद्यमानकाः, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चादन्त्यावस्थायां मनःपर्यायज्ञानसद्भावात् । केवलिना तूभयाभावः । एवं मत्याद्यज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः । दर्शनद्वारे- चक्षु-रचक्षु-रवधि-केवलदर्शनभेदाद् दर्शनं चतुर्धा । अत्राऽऽयदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपधमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वमतिपन्ना एव, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात, लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् "सव्वाओ वि लद्धीओ सागरोवउत्तस्स उववज्जति" इति वचनादिति । केवलदर्शनिनां तूमयाभावः। संयतद्वारे--संयतादये आभिनिबोधिकस्य पूर्वप्रतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमाना अपि भजनया प्राप्यन्ते । ननु सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते ।। सत्यम्, किन्तु योऽतिविशुद्धिवशात् सम्यक्त्वं, चारित्रं च युगपत् प्रतिपद्यते, स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वात् संयतो मतेः प्रतिपद्यमानको भवतिः उक्तं चाऽऽवश्यकचूर्णी- “नथि चरित्तं सम्मत्तविहूर्ण दसणं तु भयणिज्ज"। भजनामेवाह- "सम्मत्त-चरिताई जुग उपयोगद्वारे- उपयोगो द्विधा- पंञ्च ज्ञानानि, त्रीणि चाज्ञानानि साकारोपयोगः, चत्वारि दर्शनानि अनाकारोपयोगः । तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । अनाकारोपयोगे तु प्रतिपन्ना एव, न तु प्रतिपद्यमानकाः, १क.ग. 'न पूर्वप्र' । २ क.ग. 'न म' । ३.छ. 'वः म' क. 'व एव म' । सर्षा अपि लब्धयः साकारोपयुक्तस्योपपद्यन्ते । नया५क.ग. 'यश्वामि' । नास्ति चारित्रं सम्यक्त्वविहीन, पर्शनं तु भजनीयम् । ७ सम्यक्त्व-चारिने युगपत्, पूर्व च सम्यक्त्वम् दन्यव-। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339