________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
_121
विशेषा०
यदुक्तम्- ईय न सवणाइकाले नाणे' इति तत्राह- को व सवणाइकालो उप्पाओ जम्मि होज से नाणं नाणं च तदुप्पाओ य वो वि चरिमम्मि समयम्मि॥२६॥
वाशब्दश्वशब्दार्थे । कश्च श्रवणादिकालो व्यवहारवादिन् । भवतोऽभिप्रेता, यत्र शान निषेधयसि । हन्त-: त्वया मतिज्ञानस्योत्पादसमय एव श्रवणादिकालोऽवगन्तव्यः, यत्र 'से' तस्य शिष्यस्य मतिज्ञानं भवेत् , नाऽपरः । अथाऽऽदित आरभ्य गुरुसंनिधाने धर्मश्रवणादय एव मतिज्ञानस्योत्पादकाला, नापरोऽवगम्यत इति चेत् । नैवम् , इत्याह- ' नाणमित्यादि ' ज्ञानं च मतिज्ञानलक्षणं, तदुत्पादश्च तस्योत्पत्तिहेतुभूतः क्रियोलक्षणः, एतौ द्वावपि धर्मश्रवणादिक्रियासमयराशेश्वरमसमय एव भवता, न प्रथमादिसमयेषु, तेष्वपरापराणामेव धर्मावबोधादिकार्याणामुत्पत्तेः । न च तद्रोधादिमात्रादपि सम्यग्ज्ञानोत्पत्तियुज्यते, अभव्येष्वपि तत्सद्भावात् । तस्माद् विशिष्ट एव कस्मिंश्चिद् धर्मश्रवणादीनां चरमसमये मतिज्ञानं, तदुत्पादचा अतो युक्तमुक्तम्- 'जुत्तं तदंतम्मि' इति, अस्माभिरपि क्रियाकालस्याऽन्तसमय एव तस्येष्यमाणत्वात् । तस्माद् न सर्वेषु धर्मश्रवणादिक्रियासमयेषु मतिज्ञानम्, नापि सर्वेषामपि तेषामुपरमे, किन्त्वेकमिस्तच्चरमसमये तदारभ्यते, निष्पद्यते च । अतः क्रियमाणमेव कृतम् ।
यदि कृतमपि क्रियते निश्चयवादिन् । तर्हि पुनः पुनरपि क्रियता, कृतत्वाविशेषात , अतः करणानवस्थेति चे क्रियाकाल-निष्ठाकालयोरभेदात् । यदि हि तदुत्पादयित्री क्रिया प्रारब्धा सती उत्तरसमयेष्वपि प्राप्येत, तदा स्यात्पुनरपि तत्करणम् , एतच्च नास्ति, यतोऽसौ तदुत्पादयित्री क्रिया न पूर्व, नाप्युत्तरत्रॉस्ति, किन्तु तस्मिन्नेव चरमसमये प्रारभ्यते, निष्ठां च याति, इति कुतः पुनरपि कार्यकरणम् , अतोन तत्करणानवस्थेति । तस्मात 'इयन सवणाइकाले नाणं' इत्यनेन यदि सर्वेष्वपि धर्मश्रवणादिसमयेषु मतिज्ञानं निषिध्यते, तदा सिद्धसाध्यता । अथ चरमक्रियासमयेऽपि तद् निवार्यते, तदयुक्तम्, तत्र तस्य प्रसाधितत्वादिति । तस्मिंश्च धर्मश्रवणादिक्रियाचरमसमये सम्यक्त्वं ज्ञानं च प्रतिपद्यमानं प्रतिपन्नमेवेति । अतः सम्यग्दृष्टिांनी च सम्यक्त्व-जाने प्रतिपद्यते । इति निश्चयनयमततात्पर्यम् । ..... व्यवहारनयस्तु ब्रूते- तस्मिंश्चरमसमये सम्यक्त्व-ज्ञानयोरयाप्यसौ प्रतिपद्यमानकः, प्रतिपद्यमानं चाप्रतिपन्नमेव । अतो मिध्यादृष्टिः, अज्ञानी च सम्यक्त्व-ज्ञाने प्रतिपद्यते । उत्तरत्र क्रियानिष्ठासमये तु सम्यक्त्व-ज्ञाने युगपदेव लभते । अतः प्रस्तुते सम्य
१.गाथा ४१७ । २ को वा श्रवणादिकाल उत्पादो यस्मिन् भवेत् तस्य ज्ञानम् । ज्ञानं च तदुत्पादश्च द्वावपि चरमे समये ॥ ४२ ॥
३ क.ग. 'गन्तव्य इ' । ४ घ.छ. 'याक्ष' । ५ क.ग. 'त्रापि कि' ।। क्त्वद्वारे एतन्मतेन सम्यग्दृष्टिराभिनिबोधिकस्य पूर्वप्रतिपन्न एव भवति, न तु प्रतिपद्यमानकः, सम्यक्त्व-ज्ञानयोर्युगपल्लाभात् , तत्काले च क्रियाया अभावात् , तदभावे च प्रतिपद्यमानकत्वायोगादिति । निश्चयनयमतेन तु सम्यग्दृष्टेराभिनिबोधिकस्य पूर्वपतिपन्नः, प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाश्च युगपद्भावस्य समर्थितत्वात् । इत्यलमतिविस्तरेण ॥ इति गाथात्रयोदशकार्थः ॥
". ज्ञानद्वारे-मति-श्रुता-ऽवधि-मनःपर्याय-केवलभेदात् पञ्चधा ज्ञानम् । व्यवहारनयमतेन मति-श्रुता-ऽवधि-मनःपर्यायज्ञानिन आभि निवोधिकस्य पूर्वप्रतिपन्ना भवन्ति, न तु प्रतिपद्यमानका, ज्ञानिनो मतिज्ञानप्रतिपत्त्ययोगस्यैतन्मतेन मागुक्तत्वात् । केवलिनां तूभयाभावः, तेषां क्षायोपशमिकज्ञानातीतत्वात् । मत्यज्ञान-श्रुताज्ञान-विभङ्गज्ञानवन्तस्तु प्रतिपद्यमानकाः कदाचिद् भवन्ति, युक्तेदेर्शितत्वात् , ने तु पतिपन्नाः। निश्चयनयमतेने तु मति-श्रुता-ऽवधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्तेः
थतत्वात् । मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवन्ति, न तु प्रतिपद्यमानकाः, पूर्वसम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चादन्त्यावस्थायां मनःपर्यायज्ञानसद्भावात् । केवलिना तूभयाभावः । एवं मत्याद्यज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः ।
दर्शनद्वारे- चक्षु-रचक्षु-रवधि-केवलदर्शनभेदाद् दर्शनं चतुर्धा । अत्राऽऽयदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपधमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वमतिपन्ना एव, न तु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात, लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात् "सव्वाओ वि लद्धीओ सागरोवउत्तस्स उववज्जति" इति वचनादिति । केवलदर्शनिनां तूमयाभावः।
संयतद्वारे--संयतादये आभिनिबोधिकस्य पूर्वप्रतिपन्ना नियमाल्लभ्यन्ते, प्रतिपद्यमाना अपि भजनया प्राप्यन्ते । ननु सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते ।। सत्यम्, किन्तु योऽतिविशुद्धिवशात् सम्यक्त्वं, चारित्रं च युगपत् प्रतिपद्यते, स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वात् संयतो मतेः प्रतिपद्यमानको भवतिः उक्तं चाऽऽवश्यकचूर्णी- “नथि चरित्तं सम्मत्तविहूर्ण दसणं तु भयणिज्ज"। भजनामेवाह- "सम्मत्त-चरिताई जुग
उपयोगद्वारे- उपयोगो द्विधा- पंञ्च ज्ञानानि, त्रीणि चाज्ञानानि साकारोपयोगः, चत्वारि दर्शनानि अनाकारोपयोगः । तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमात् सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । अनाकारोपयोगे तु प्रतिपन्ना एव, न तु प्रतिपद्यमानकाः,
१क.ग. 'न पूर्वप्र' । २ क.ग. 'न म' । ३.छ. 'वः म' क. 'व एव म' । सर्षा अपि लब्धयः साकारोपयुक्तस्योपपद्यन्ते । नया५क.ग. 'यश्वामि' । नास्ति चारित्रं सम्यक्त्वविहीन, पर्शनं तु भजनीयम् । ७ सम्यक्त्व-चारिने युगपत्, पूर्व च सम्यक्त्वम् दन्यव-।
For Private and Personal Use Only