Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 140
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 133 विशेषा० निष्पादका इति हेतोः । एतदपि कुतः १, इत्याह- श्रद्धय-ज्ञेय-क्रियाफलोपयोगिनो यतेरिति कृत्वा-श्रदेयत्वेनोपयोगात् , ज्ञेयत्वेनो. पयोगात् , त्यागा-ऽऽदानादिक्रियारूपं यच्छ्रद्धान-ज्ञानफलं तदुपयोगित्वाच्चेति । कथंभूतास्ते सर्वद्रव्य-पर्यायाः १, इत्याह-दर्शन-ज्ञान-चारित्रगोचराः सम्यग्दर्शन-ज्ञान-चारित्रविषयभूताः, ते हि सम्यगदर्शनेन श्रद्धीयन्ते, ज्ञानेन तु ज्ञायन्ते, चारित्रस्याऽप्याहार-वस्त्र-पात्रायुपकरण-भेषज-शिष्यादिद्वारेणोपष्टम्भहेतवो बहवो भवन्ति “अव्ववहारओं नेरइया" इति बचनात् । अथवा, “ पैढमम्मि सव्वजीवा बीए चरिमे य सव्वदव्वाई । सेसा महव्वया खल तैदिक्कदेसेण दव्वाणं " ॥ १॥ इति वचनात् । एते सर्वेऽपि ज्ञान-दर्शन-चारित्रगोचराः, व्रतानां चारित्रात्मजत्वात् , चारित्रस्य च ज्ञान-दर्शनाभ्यां विनाऽभा। वात् । अत एवैते श्रद्धेयत्वाधुपयोगिनः, एतानन्तरेण श्रद्धानाद्ययोगात , विषयमन्तरेण विषयिणोऽनुपपत्तेः। के यथा स्वकार्यनिष्पादकाः । सन्तो यतेर्भवन्ति १, इत्याह- यथा ज्ञान-दर्शनादिरूपा: स्वपर्यायाः, स्वधनं वा यथा भिन्नमपि देवदत्तादेर्भवति, तथा सर्वेऽपि द्रव्य-पर्यायास्त्यागा-ऽऽदानफलत्वात् प्रत्येकं सर्वेषामप्यकारादिवर्णानाम् , उपलक्षणत्वाद् घटादीनां च भिन्ना अपि भवन्तीति ।।४८२।।४८३॥ न चैतदुत्सूत्रम्, इति दर्शयति ऍगं जाणं सव्वं जाणइ सव्वं च जाणमेग ति । इय सव्वमजाणतो नागारं सव्वहा मुणइ ॥ ४८४ ॥ इह सूत्रेऽप्युक्तम्-"जे एगं जाणइ से सव्वं जाणइ, जे सर्व जाणइ से एगं जाणइ" इति । किमुक्तं भवति- एक किमपि वस्तु सर्वैः स्य-परपर्यायैर्युक्तं जाननत्रयुध्यमानः सर्व लोका- लोकगतं वस्तु मर्वैः स्व-परपर्याययुक्तं जानाति, सर्ववस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तुज्ञानस्य । यश्च सर्व सर्वपर्यायोपेतं वस्तु जानाति स एकमपि सर्वपर्यायोपेतं जानाति, एकपरिज्ञानाविनाभावित्वात सर्वपरिज्ञानस्य । एतच्च प्रागपि भावितमेवेति । अतः सर्वे सर्वपर्यायोपेनं वस्त्वज्ञानानो नाकाररूपमक्षरं सर्वथा सर्वप्रकारः सर्वपर्यायोपेतं जानाति । तस्माच्छेषसमस्तवस्तुपरिज्ञानरेवैकमक्षरं ज्ञायते, नाऽन्यथेति भावः ॥ ४८४ ॥ यदि नामैवम् , तथापि प्रस्तुते घटादिपर्यायाणामक्षरपर्यायत्वे किमायानम् ?, इत्याह-- +अय्यबहारीमो- अव्यवहारिणो नैरयिकाः। प्रथमे सर्वजीवा द्वितीये नरमे च सनद्रव्याणि । शेषा महावताः खलु तदेकदेशेन द्रव्याणाम् ॥1॥ . ३ घ.छ. 'तदेक'। । एक जानन् सर्व जानाति सर्वच जानकमिति । इति सर्वमजानन् नाकारं सर्वथा जानाति ॥ ४८४ ॥ . ५ य एकं जानाति स सर्व जानाति, यः सबै जानाति स एकं जानाति । ६ घ.छ. 'नालेव, ए'। 'जेसु अनाएसु तओ न नजए, नजए य नाएसु । किह तस्स ते न धम्मा घडस्स रूवाइधम्म व्व ? ॥४८५॥ - तत् तस्माद् येषु घटादिपर्यायेष्वज्ञातेषु यदैकं प्रस्तुतमक्षरं न ज्ञायते, ज्ञातेषु च ज्ञायते, ते घटादिपरपर्यायाः कथं न तस्य धर्माः ? अपि तु धमो एव, यथा घटस्य रूपादयः। प्रयोगः- येषामनुपलब्धी यद नोपलभ्यते. उपलब्धी चोपलभ घटस्य रूपादयः, नोपलभ्यते च प्रस्तुतमेकमक्षरं समस्तघटादिपरपर्यागाणामनुपलब्धौ, उपलभ्यते च तदुपलब्धी, इति ते तस्य धर्मा इति ॥ ४८५॥ . इइ चाक्षरं विचारयितनं ' प्रस्तुतम्' इत्येतावन्मात्रेणैव तत्सर्वव्य-पर्यायराशिममाणं साधितम् । न चैतदेव केवलमित्थंभूतं द्रष्टव्यम् , किन्त्वस्ति यत् किमपि वस्तु; तत् सर्वमित्थंभूतमेव, सर्वस्याऽपि व्यावृत्तिरूपतया परपर्यायसद्भावात् , इत्याह न हि नवरमक्खर सम्वदन्य-पजायमाणमण्णं पि । जं वत्थुमत्थि लोए तं सव्वं सवपज्जायं ॥४८६॥ गतार्थैव ॥ ४८६ ॥ यद्येवम् , किमक्षरमेवाऽङ्गीकृत्येदं पर्यायमानमुक्तम् !, इति भाष्यकार एनोत्तरमाह इहक्खराहिगारो पण्णवणिज्जा य जेण तन्विसओ । ते चिंतिजंतेवं कइभागो सव्वभावाणं ? ॥४८७॥ इहाऽक्षराधिकारो यस्मात् प्रस्तुतः, अतस्तस्यैवेदं पर्यायमानमुक्तं द्रष्टव्यम्, उपलभ्यते च सर्व वस्त्वित्थमेव । भवत्वेवम् , किन्तु प्रस्तुतस्याक्षरस्य के स्वपर्यायाः, के च परपर्यायाः १, इत्यादि निवेद्यताम् , इत्याह--'पण्णवणिज्जेत्यादि' तस्य सामान्येनाऽकाराधक्षरस्य स्वपर्यायतया विषयस्तद्विषयः । येन यतः के ?, इत्याह- प्रज्ञापनीया अभिलाप्याः पर्यायाः, न,पुनरभिलाया। अतस्तएव चिन्त्यन्ते विचार्यन्ते । कथम् १, इत्याह- कतिथो भागस्ते भवन्ति । केषाम् १, सर्वभावानां सर्वेषामभिलाप्या-नभिलाप्यपर्यायाणां समुदितानामित्यर्थः । इदमुक्तं भवति- अभिलाप्यं वस्तु सर्वमक्षरेणोच्यते । अतस्तदभिधानशक्तिरूपाः सर्वेऽपि तेस्याऽभिलाप्याः प्रज्ञापनीयाः स्वपर्याया उच्यन्ते । शेषास्त्वनभिलाप्याः परपर्यायाः । अतस्तेभिलाप्याः खपर्यायाः सर्वपर्यायाणां कतिथो भागो भवति, इत्येवं विचिन्त्यत इति ॥ ४८७॥ येष्वज्ञातेषु ततो ज ज्ञायते, ज्ञायते च ज्ञातेषु । कथं तस्य ते न धर्मा घटस्य रूपादिधर्मा इव ॥१८५॥ ३ स्व.प.छ. 'ते तस्य ध'। ३ न हि नवरमक्षरं सर्वव्य-पर्यायमानमन्यदपि । यद् वस्त्वस्ति लोके तत् सर्वं सर्वपर्यायम् ॥ ४८६ ॥xप्रस्तुतकाक्षरस्य- ४ इहाक्षराधिकारः प्रज्ञापनीयाश्च येन तविषयः। ते चिन्त्यन्त एवं कतिभागः सर्वभावानाम् । ॥१८७॥ ५ घ.छ. 'तदमि' । ६ प.छ. 'ख-परप' । । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339