Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
२४
तत्त्वन्यायविभाकरे ભેદનો પ્રસંગ આવી જાય ! ભવસ્થકેવલી અભવસ્થકેવલીરૂપે ઉત્પન્ન થાય છે-સિદ્ધત્વ પર્યાયરૂપે ઉત્પન થાય છે (સિદ્ધત્વ પર્યાયથી અભિન્ન કેવલજ્ઞાન પણ જાણવું.) કેમ કે-વસ્તુ, ઉત્પાદ, વ્યય કે ધ્રૌવ્ય આત્મક છે. અન્યથા, વસ્તુમાં ઉત્પાદ, વ્યય કે પ્રૌવ્ય ન માનવામાં આવે, તો વસ્તુસ્વરૂપની હાનિનો પ્રસંગ જ આવી यछ. लि.
अथेदं किं विषयं प्राप्य परिच्छिनत्ति किं वाऽप्राप्येत्याशङ्कायामाह - तद्वानेव सर्वज्ञः ॥१०॥
तद्वानेवेति । केवलज्ञानवानेवेत्यर्थः । इदञ्च केवलज्ञानस्य कथञ्चिदात्मव्यतिरेकमभ्युपेत्योक्तं तथा च कथञ्चिद्भेदाभेदसम्बन्धेन केवलज्ञानवान्सर्वज्ञ इत्यर्थः । आत्मपर्यायो हि केवलज्ञानं, आत्मा च परिच्छिनपरिमाणः, यो हि यस्य धर्मस्य तत्रैव वर्तते यथा घटे रूपम्, आत्मन्येव संवेदनाच्चात्मस्थं तत्, तथा चात्मस्थमेव विषयं परिच्छिनत्ति न विषयं प्राप्य, तस्य ज्ञेयदेशे गमनासम्भवात्, गमने चात्मनो निस्स्वभावत्वप्रसङ्गः स्यात्, तत्स्वभावत्वादात्मनः, आत्मधर्मत्वहान्यापत्तिश्च, आत्मविरहेऽपि भावात् । तथा केवलज्ञानं हि सकलज्ञानमुच्यते अलोकस्यानन्तत्वेन गमनतस्सकलोऽलोको ज्ञातुमशक्य इति । अत एव तद्वानित्यत्र नित्ययोगे मतुब् बोध्यः । सर्वज्ञ इति, अर्हदादिरित्यर्थः, एवशब्दो भिन्नक्रमः अर्हन् श्रीवर्धमानादिरेव तद्वान्निर्दोषत्वात, नान्यः कपिलादिः प्रमाणविरुद्धभाषित्वेन निर्दोषत्वासिद्धस्तथा चार्हन् मोक्षसंसारतत्कारणेषु निर्दोषस्तत्र प्रमाणाविरोधिवाक्यत्वाद्यथा क्वचिद् व्याध्युपशमे वैद्यः न चासिद्धिः, अर्हन् मोक्षसंसारतत्कारणेषु प्रमाणाविरोधिवचनवान् तत्र प्रमाणाबाध्यमानाभिमततत्तत्त्वात्, यस्य यत्राभिमतं तत्त्वं प्रमाणेन न बाध्यते स तत्र प्रमाणाविरोधिवाक्, यथा रोगस्वास्थ्ये तत्कारणतत्त्वे भिषग्वर इत्यनुमानेन तत्सिद्धेरिति ॥
આ કેવલજ્ઞાન શું વિષયને સંયુક્ત થઈને જાણે છે કે વિષયની સાથે સંયુક્ત થયા વગર જાણે છે? આવી શંકામાં કહે છે.
भावार्थ - " शानवामो ४ 'सर्व' वाय छे." વિવેચન – “કેવલજ્ઞાનવાન જ આ વચન કેવલજ્ઞાનનો કથંચિત્ આત્માથી ભેદનો સ્વીકાર કરી કહેલ છે. તથા કથંચિ ભેદ-અભેદ સંબંધથી કેવલજ્ઞાનવાળો “સર્વજ્ઞ છે. ખરેખર, આત્માનો પર્યાય જ કેવલજ્ઞાન છે અને આત્મા પરિમિત પરિમાણવાળો છે. ખરેખર, જેનો જે ધર્મ છે, તે ધર્મ તેમાં જ વર્તે છે.
१. गमनं हि स्वदेशपरित्यागपूर्वकमपरदेशप्राप्तिः, तथा च ज्ञानस्यात्मदेशं विहाय ज्ञेयदेशप्राप्तौ निःस्वभावत्वमात्मनो भवेत्, स्याच्च ज्ञेयस्यात्मरूपत्वं एवञ्चात्मधर्मत्वं केवलस्य न स्यात्, आत्मविरहेऽपि भावादिति भावः ॥