Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
द्वितीयो भाग / सूत्र - २, नवमः किरणे
४१७
પ્રશ્ન એ થાય છે કે-નયની પ્રમાણથી ભેદપૂર્વક લક્ષણની રચના અયુક્ત છે, કેમ કે-સ્વાર્થવ્યવસાયી છે અને પહેલાં અપ્રતિજ્ઞાત છે. જો સ્વાર્થના એકદેશનો પરિચ્છેદક હોઈ નય સ્વાર્થનિશ્ચાયક નથી એમ કહેવાય છે, તો સ્વાર્થનો એકદેશ વસ્તુરૂપ છે ત્યારે વસ્તુ પરિચ્છેદક હોઈ નય પ્રમાણ જ છે. જો વસ્તુરૂપ નથી, તો અવસ્તુ વિષયરૂપ નયનું મિથ્યાજ્ઞાનપણું થાય ! આવી શંકાના સમાધાનરૂપે કહે છે કે
ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तं, स्वार्थव्यवसायकत्वात्पूर्वमप्रतिज्ञातत्वाच्च, यदि स्वाथैकदेशव्यवच्छेदकत्वान्नयस्य न स्वार्थव्यवसायकत्वमुच्यते तदा यदि स्वार्थैकदेशो वस्तुरूपस्तदा वस्तुपरिच्छेदकत्वान्नयः प्रमाणमेव, न चेद्वस्तुरूपस्स तर्हि तद्विषयस्य नयस्य मिथ्याज्ञानत्वं स्यादित्यत्राह -
यथार्थवस्त्वेकदेशग्राहकत्वान्नयस्य यथार्थनिर्णयत्वरूपप्रमाणत्वं नास्त्येव । अत एव च नाप्रमाणत्वं, अपि तु प्रमाणाप्रमाणाभ्यां भिन्नं ज्ञानान्तरमेव ॥२॥
यथार्थेति । यथार्थं हि वस्त्वनन्तधर्मात्मकं, तदेकदेशः प्रतिनियतधर्मवान् तत्परिच्छेदकत्वान्नयो न यथार्थपरिच्छेदकः, अतो न प्रमाणं, स्वाथैकदेशो हि न वस्तु, अन्यस्वार्थैक देशानामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषङ्गाद्वा, तथा च वस्त्वेकदेशपरिच्छेदको नयः कथं प्रमाणं स्यात्, कथञ्चिद्वस्तुभिन्नत्वादिवैकदेशस्य कथञ्चित्प्रमाणभिन्नत्वान्नयस्येति भावः । तर्हि मिथ्याज्ञानं स्यादित्यत्राहात एवेति, यथा वस्त्वेकदेशो नावस्तु, इतरैकदेशानामप्यवस्तुत्वप्रसङ्गेन क्वचिदपि वस्तुव्यवस्थानुपपत्तेः, तथा प्रमाणैकदेशो नयोऽपि नाप्रमाणं, किन्तीत्यत्राहापित्विति, प्रमाणैकदेशो नयो राश्यन्तर एवेति भावः, न खलु नयः प्रमाणमेव, एकान्तेन प्रमाणाभिन्नतयाऽनिष्टत्वात् नाप्यप्रमाणमेकान्ततस्ततो भेदस्यानभ्युपगमात्, नापि संशयः, प्रकारस्यैक्यात्, एकत्र विरुद्धोभयप्रकारकज्ञानरूपत्वात्संशयस्य, नापि विपर्ययः, द्रव्यार्थिकादीनां नयानामस्तित्वादिमति कथञ्चिदस्तित्वाद्यवगाहनात्, नवाऽनध्यवसायो विशेषकोट्यल्लेखित्वात् । सप्तभङ्गपरिकरितवस्त्वगाहितात्पर्याभावादेव चालौकिकप्रामाण्याभाववत्त्वं तस्य, तद्वति तत्प्रकारकत्वरूपं लौकिकं प्रामाण्यन्तु न तस्य बाधितमतो न व्यवहारविरोधः, तथा च नयसमुदायसम्पाद्यत्वात्प्रमाणस्य तत्प्रतिज्ञाने तददूरवर्त्तिनो नयस्य 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यत' इति न्यायेन प्रतिज्ञातत्वमेवेति लक्षणप्रणयनं नाप्रस्तुतमिति भावः ॥ ननु प्रमाणस्य नयसमुदायात्मकत्वात्प्रत्येकं नयानामप्रमाणत्वे तत्समुदायस्य कथमलौकिकप्रमाणता, प्रत्येकं हि सिकतासु तैलमभवत्तासां समुदाये न तदृश्यते इति चेन्न यतः प्रत्येकमनर्येषु मणिषु रत्नावलीत्वव्यवहाराभावेऽपि गुणविशेषपरिपाट्या प्रतिबद्धास्त एवासादयन्ति यथा रत्नावली