Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 755
________________ ७०८ तत्त्वन्यायविभाकरे रूपश्रीबिरुदं प्रजेशसविधात्प्राप्तं स्ववैदुष्यतः, येन श्रीयुतदेवसूरिनृपतिर्जातः स विज्ञस्ततः । तत्पट्टेऽजनि सूरिशेखरवरः श्रीसर्वदेवः पुनः, सद्विद्याललनाविलाससदनं चारित्रचूडामणिः ॥ २३ ॥ -- - ततो यशोभद्रकनेमिचन्द्रौ तत्पट्टभद्रासनमुख्यराजौ। जातौ मुनी संयमशौर्यभाजौ, द्वौ कोविदौ सूरिवरौ सतीखें ॥ २४ ॥ अतात्यजीद् यो विकृती: समग्राः, अपात्सदा काञ्चिकनीरमेकम् । सोऽभूत्ततः श्रीमुनिचन्द्रसूरिः तत्पट्टशाली शमवीचिमाली ॥ २५ ॥ आचार्यवर्याजितदेववादि-श्रीदेवसूरिप्रमुखा अभूवन् । प्राज्ञा विनेया विनयप्रशम्याः, शिष्येषु धुर्या मुनिचन्द्रसूरेः ॥ २६ ॥ तत्रादिमाच्छ्रीजयसिंहसूरिः, कुशाग्रबुद्ध्याजितदेवसूरिः । जज्ञे मुनीशः कविचक्रवर्ती, दिगन्तरालप्रथितातिकीर्तिः ॥ २७ ।। सोमप्रभाचार्यवरः शतार्थी, पूर्वो द्वितीयो मणिरत्नसूरिः। उभौ च तस्याभवतां विनेयौ, प्रतीक्ष्यपादौ जितवादिवादौ ॥ २८ ॥ सानुग्रहप्रचरणप्रथितोदयो यः, स्वःसानुमानिव बभौ मणिरत्नपट्टे । चारित्ररत्नखनिमान् गुणधातुपूर्णः, कल्याणराजिजटिलः सुरसेव्यपादः ॥ २९ ॥ श्रीमज्जगच्चन्द्रमुनीन्द्रमुख्यः, तत्त्वज्ञराट् चान्द्रकुलाब्धिचन्द्रः । चन्द्रातिसौम्याकृतिकस्तपस्वी, स सूरिवर्यस्तनुताच्छिवं वः ॥ ३० ॥ युग्मम् ॥ सुदुस्तपा धीरवरेण याव-ज्जीवं मुदा येन तपस्विना सः । आचाम्लरम्या विदधे तपस्या, प्रशंसनीयो न कथं सुधीभिः ॥ ३१ ॥ यो द्वादशाब्दे विगते सुराज्ञः, श्रीराणकात्सत्तमजैत्रसिंहात् । आघाटसंज्ञे नगरेऽभिरामे, प्रापत्सुरम्यं बिरुदं तपेति ॥ ३२ ॥ बाणाष्टवक्षोरुहचन्द्रसङ्खये, वर्षे सुधान्यादिकसन्निकर्षे । विस्तीर्णतेजा भुवि पप्रथेऽयं, तपेति गच्छः सुखदस्ततोऽच्छः ॥ ३३ ॥

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776