Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 760
________________ ७१३ ग्रन्थकारपरम्परापरिचयः ॥ मध्येसभं भाति यदीयवाणी, पानीयवत्कर्ममलं हरन्ती ।। औदात्त्यगाम्भीर्यमयी सुचार्वी, माधुर्यधूर्या शुचितां वहन्ती ॥ ७० ॥ हिंसापराञ्श्रीमदकब्बरादीन्, नृपाननेकान्यवनेषु मुख्यान् । दयामयास्तान्विदधञ्जगत्यां, व्याख्यानधाराधरधारया यः ॥ ७१ ॥ श्रीसेनसूरिप्रमुखैः स्वशिष्यैः, विद्याश्चतस्रः समुपेयिवद्भिः । वज्रीव देवैः समुपास्यमानः, जगद्गुरुर्जङ्गमकल्पशाखी ॥ ७२ ॥ समागतान्वादिगजान्सुसज्जान्, वादस्थले सिंह इवाधिगर्छन् । स हीरसूरिजिनशासनस्य, पुस्फोर जित्वा विजयध्वजं तान् ॥ ७३ ॥ श्रीसेनसूरिः शमिसेनताभाक्, तत्पट्टचूडामणिताधरोऽभूत् । वादे विजेता वदवादिवृन्दम्, श्रीजैनसच्छासनदण्डनाथः ॥ ७४ ॥ रूपेण कामतुल्यो यो, वृत्त्या कामविनाशनः । स जीयात्सेनसूरीशः, पादाभ्यां लोकपावनः ॥ ७५ ।। यस्मै जहाङ्गिरनृपेण सगौरवेण, सन्मण्डपाचलचये बिरुदं प्रदत्तम् । दीव्यञ्जहाङ्गिरमहासुतपेति सोऽभूत्, तत्पट्टहाटकघटो गणिदेवसूरिः ।। ७६ ।। तत्पट्टसूरोऽजनि सिंहसूरिः, दुर्वादिदन्तावलसिंहरूपः । तदन्तिषत्सत्यगणिर्बभूव, क्रियाप्रियाश्लेषसुखोपभोक्ता ॥ ७७ ।। न्यायाचार्ययशःसतीर्थ्यविनयोपाध्यायसाहाय्यतः, शैथिल्यं स्वगणे समीक्ष्य विदधौ कार्मः क्रियोद्धारकम् । सत्यं नाम चकार सत्यमिति यः स्वीयं तपस्वी ततः, गच्छं स्वच्छममुं तपेति विदध-ञ्जीयात्स सत्यश्चिरम् ॥ ७८ ॥ तच्छिष्यकर्पूरगणिस्ततोऽभूत्, क्रियैककर्पूरसुगन्धपूर्णः । क्षमागणीशः समभूत्ततः सः, तदीयशिष्ये वरतां दधानः ॥ ७९ ॥ प्रतिष्ठिता सप्तशती च येन, तीर्थङ्करस्य प्रतिमा मनोज्ञा । ' तत्पादवासी जिननामकोऽभूत्, षड्जीवरक्षाकरणप्रवीणः ।। ८० ॥ युग्मम् ॥

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776