Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 759
________________ ७१२ तत्त्वन्यायविभाकरे कालीवाग्र बिरुदं दधद्गुरुवरो (प्रापद्बालसरस्वती बिरुदं) यो दक्षिणे राष्ट्रके, बाल्ये श्लोकसहस्रकं नवनवं कण्ठे चकारानिशम् । स्तोत्रं संतिकरं नृणां सुखकरं प्रादीभत्सुन्दरं, आसीच्छीमुनिसुन्दरोभिधगुरुस्तत्पट्टधौरेयकः ॥ ५९॥ श्रीरत्नशेखर विशारदवर्यधुर्यः, सूरीशशेखरसमो नयभङ्गविज्ञः । श्राद्धप्रतिक्रमणसूत्रसुवृत्तिकर्ता, तत्पट्टशेखरवरः समभूत्ततोऽसौ ॥ ६० ॥ श्रीलक्ष्मीसागरः सूरिर्जज्ञे तत्पट्टमण्डनः । अभूच्छीसुमतिः साधुः तत्पट्टाब्धिविधूपमः ॥ ६१ ॥ दाक्षिण्यदाक्ष्यमुनितादिगुणालिपुष्टाः, तत्पट्टचैत्यशिखराग्रसुवर्णकुम्भाः । ये जैनशासननभ:किरणेशितारः, दीक्षां ददुहरगिरिप्रमुखर्षिनणाम् ।। ६२ ॥ स्वाचारमार्गं मुमुचुर्न धन्याः, ये ते वसन्तः श्लथसाधुमध्ये । गच्छप्रभूतप्रभुताविशिष्टाः, हेमादिमाः श्रीविमला अभूवन् ।। ६३ ॥ युग्मम् ।। आनन्दसूरिविमलान्तिभोऽभूत्, तत्पट्टदीव्यन्मणिहारनाथः । समुद्धरन् साधुपथं श्लथं यः, तपस्विनिर्ग्रन्थसमाजराजः ॥ ६४ ॥ प्रभावयजैनमिदं सुशासनं, समर्थयन्नागमतत्त्वगूढताम् । प्रचारयन्देशनया स्वधर्मकं, प्रवर्धयन्विश्वतले यशोलताम् ॥ ६५ ॥ युग्मम् ॥ तत्पट्टभद्रासनराजतेजाः, आप्तोक्तिवेत्ता जयिदानसूरिः । हतप्रमादो जितवादिवादो, महाप्रतापी समभून्मुनीन्द्रः ॥ ६६ ॥ युग्मम् ॥ वैराग्यरत्नप्रभाववनीभृद्, वैदग्ध्यचूतस्त वसन्तमासः । सौभाग्यसौजन्यविहारभूमिः, क्रियाङ्गनाक्रीडनकान्तकुञ्जः ॥ ६७ ॥ तत्पट्टपद्माकरराजहंसः, कुपाक्षिकाज्ञानतमिस्रहंसः ।। कारुण्यसिन्धुः शमराजसौधः, श्रीहीरसूरिनतसूरिरासीत् ॥ ६८ ॥ युग्मम् ॥ स्याद्वादसिद्धान्तमबाध्यमेनं, प्रमाणयन्युक्तितिप्रयुक्तम् । समन्वयन्भिन्नमतानि विद्वान्, स्वकीयसिद्धान्तसुचारुदृष्ट्या ॥ ६९ ॥

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776