Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
७१६
तत्त्वन्यायविभाकरे
श्रव्यं काव्यं प्रसृमरगुणं चारुसन्दर्भगर्भं, श्रुत्वा लौकेः कविकुलकिरीटेत्युपाधिः प्रदत्तः । येभ्यः पूज्यक्रमणकमला लब्धिसूरीशितारः, ते पायासुर्भविककृषिकान्देशनावारिदानात् ॥ ९९ ॥ मूलत्राणप्रदेशे दुरधिगमतमे कष्टकोटिं सहित्वा, प्राणिप्रत्राणमय्या मधुमधुरगिरा देशनागाङ्गनीरम् । भुञ्जानान् सन्निहत्य द्विजपशुसमजं काश्यपं हिंस्रलोकान्, चक्रुस्तान्पाययित्वा पलघसिरहितान् लब्धिसूरीश्वरास्ते ॥ १०० ॥
श्रीलब्धिसूरिर्वटपद्रपूर्यां, जित्वा मुकुन्दाश्रमवादिवर्यम् । वादाक्षवाटे जिनशासनेऽस्मिन्, जेतेतिकीर्ति विभराञ्चकार ॥ १०१ ॥
तत्त्वन्यायसुमावली विलसितं स्याद्वादकुञ्जाश्रितं, भङ्गीवल्लिनयागराजिजटिलं न्यायप्रकाशाख्यया । गुञ्जल्लक्षणभृङ्गसङ्गघटितं जात्याङ्कितं व्याख्यया, तत्त्वन्यायविभाकरोपवनकं, सच्छब्दलालित्यभृत् ॥ १०२ ॥
नव्यप्राच्यसुनीतिरीतिसरणिं प्रालम्ब्य विद्यावता,
यद्येनाऽरचि मालिकेन महता कारुण्यपुण्याब्धिना ।
तत्त्वाकाङ्क्षिविलासिखेलनकृते व्याख्यानवाचस्पति:, जीयाद्भूमितले स निर्मलयशाः श्रीलब्धिसूरीश्वरः ॥ १०३ ॥ युग्मम् ॥ वर्षे त्र्यङ्कनवौषधीपतिमिते तीर्थे वरे स्तम्भने, तत्त्वन्यायविभाकरं सुललितं ग्रन्थं समारब्धवान् । ईलादुर्गपुरे समाप्तिमकरोत् तस्यैकसत्पद्धतेः, सद्गुह्यार्थकमूलसत्ररचनात् श्रीलब्धिसूरीश्वरः ॥ १०४ ॥ बाणाङ्काङ्कमृगाङ्कवत्सरमिते श्रीवैक्रमे तत्र वै, व्याख्यामारभते स्म तस्य महतीं न्यायप्रकाशाभिधाम् ।
Loading... Page Navigation 1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776