Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
७०७
ग्रन्थकारपरम्परापरिचयः॥ यो नागपूर्यां नमिनाथमिम्बं, संप्रत्यतिष्ठत्सुरमहत्त्वपूर्णम् । श्रीवीरसूरिः समभूत्ततः सः, तत्पदृशेषोरगवासुदेवः ॥ १५ ॥ तत्पट्टे जयदेवसूरिरभव-च्चारित्रपावित्र्यभृद्, देवानन्दगुरुस्ततः समजनि त्राता पतत्प्राणिनाम् । विद्वान् विक्रमसूरिराट् गणपतिनिर्ग्रन्थ आसीत्ततः, योगिश्रीनरसिंहसूरिवृषभो जज्ञेऽथ विज्ञेश्वरः ॥ १६ ॥ श्रीनागहूदतीर्थरक्षणकृते नग्नाटजेता क्षणात्, तत्पझेशसमुद्रसूरिनृपतिः सज्ञाततत्त्वोऽभवत् । सञ्जातो हरिभद्रसूरिसवयाः श्रीमानदेवस्ततः, आसीच्छ्रीविबुधप्रभो यतिपतिः प्राज्ञप्रकाण्डस्ततः ॥ १७ ॥ भव्यानन्ददसूरितल्लजजयानन्दस्ततो जातवान्, भक्ताम्भोजरवी रविप्रभंगुरुः संख्यावतामग्रणीः । सूरीशोऽजनि शुद्धकीर्तिकर्यशोदेवो बभूवाँस्ततः, . प्रद्युम्नस्मयहत्ततः समजनि प्रद्युम्नसूरीश्वरः ॥ १८ ॥ येनाकार्युपधानवाच्यरुचिरग्रन्थो मुदे ज्ञानिनां, उत्पेदे स ततस्तपोधनवरः श्रीमानदेवः प्रभुः। . जज्ञे श्रीविमलादिचन्द्रसुगुरुः सत्स्वर्णसिद्धिस्ततः, जता गोपगिरीशकोविदमणेर्वादाङ्गणे शास्त्रवित् ॥ १९ ॥ वेदाङ्काङ्कमिते समं सुमनुजैः श्रीवैक्रमाब्दे गते, श्रीलोद्योतनसूरिराट् प्रविहरन् पूर्वावनीतः सुधीः । आगात्सोऽर्बुदमुख्यशैलसविधे टेलीवटद्रोरधः, लग्नेऽच्छे स्वपदेऽष्टसूरिवृषभान् प्रातिष्ठिपत्पावनः ॥ २० ॥ सन्मौक्तिकाच्छो वटसंज्ञगच्छः, ततो जगत्यां सुगुणैकगुच्छः । अपप्रथद्व्याप्ततमोऽपहारी, यथाऽन्तरिक्षे सवितुः प्रकाशः ॥ २१ ॥ श्रीसर्वदेवो नतसर्वदेवः, प्रशस्यशिष्यैः कृतपादसेवः ।। प्रख्यातकीर्तिः प्रथमोऽत्र सूरिः, जज्ञेऽथ तत्पट्टसरःसरोजम् ॥ २२ ॥
Loading... Page Navigation 1 ... 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776