Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 740
________________ द्वितीयो भाग / सूत्र - १० - ११, तृतीय: किरणे ६९३ अस्यैव प्रकारान्तरेण भेदमाह - द्विविधोऽपि स प्रथमाप्रथमचरमाचरमसमययथासूक्ष्मभेदात्पञ्चविधः । अन्तर्मुहूर्त्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमय एव निर्ग्रन्थत्वं प्रतिपद्यमान: प्रथमसमयनिर्ग्रन्थः । अन्यसमयेषु विद्यमानोऽप्रथमसमयनिर्ग्रन्थः । अन्तिमसमये विद्यमानश्चरमसमयनिर्ग्रन्थः । शेषेषु विद्यमानोऽचरमसमयनिर्ग्रन्थः । आद्यौ पूर्वानुपूर्व्या अन्त्यौ च पश्चानुपूर्व्या व्यपदिष्टौ प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्त्तमानो यथासूक्ष्मनिर्ग्रन्थः ॥ ११ ॥ द्विविधोऽपीति । उपशान्तक्षीणमोहरूपोऽपीत्यर्थः । प्रथमसमयनिर्ग्रन्थमाहान्तर्मुहूर्त्तप्रमाण इति, उपशान्तमोहत्वक्षीणमोहत्वान्यतररूपनिर्ग्रन्थत्वस्यान्तर्मुहूर्त्तमानत्वात्तदूर्ध्वं परिणामान्तरप्राप्तेरिति भावः । प्रथमसमय एवेति, उपशान्तमोहत्वादिरूपो यो भावो यत्समयावच्छेदेन जीवेनावाप्तपूर्वस्तादृशभावविशिष्टस्तत्समयस्तस्य जीवस्याप्रथमसमयभाव उच्यते, अप्राप्तपूर्वभावसम्बद्धसमयस्तु प्रथमसमय उच्यते तदानीमेव प्राप्तत्वात्, उक्तञ्च 'जो जेण पत्तपुव्वो भावो सो तेण अपढमो होइ । सेसेसु होइ पढमो अपत्तपुव्वेसु भावेसु' इति तत्र तादृशप्रथमसमयावच्छ्न्निनिर्ग्रन्थत्वात् प्रथमसमयनिर्ग्रन्थ इति भावः । प्राप्तपूर्वभावविशिष्टसमयवानप्रथमसमयनिर्ग्रन्थ इत्याहान्यसमयेष्विति, अप्राप्तपूर्वभावसम्बद्धसमयान्यतद्भावसम्बद्धसमयेष्वित्यर्थः । चरमसमयनिर्ग्रन्थमाहान्तिमसमय इति, चरमत्वं पर्यन्तवार्त्तित्वं तच्च सापेक्षिकं, तथा च निर्ग्रन्थावस्थायाः यावन्तस्समयास्तेषु प्रान्तवर्तिसमयविशिष्टनिर्ग्रन्थावस्थावान् चरमसमयनिर्ग्रन्थ इत्यर्थः । तत्पूर्ववर्त्तिसमयविशिष्टनिर्ग्रन्थावस्थावांस्त्वचरमसमयनिर्ग्रन्थ उच्यत इत्याह शेषेष्विति प्रान्तसमयपूर्ववर्त्तिसमयेष्वित्यर्थः । ननु प्रथमा प्रथमसमयनिर्ग्रन्थयोश्चरमाचरमनिर्ग्रन्थयोः किं कृतो विशेष इत्यत्राहाद्याविति, पूर्वानुपूर्व्येति, विवक्षितसमयसमुदाये यः प्रथमस्तस्मादनुक्रमेण परिपाटिविरच्यते चेत्तदा स क्रमः पूर्वानुपूर्वीत्युच्यते तामवलम्ब्याद्यद्वयभेद आहत इति भावः । अन्त्यौ चेति पश्चानुपूर्व्येति, तत्रैव यः पाश्चात्यचरमस्तस्मादारभ्य व्यत्ययेन क्रमपरिपाटिर्विरच्यते चेत्तदा स क्रमः पश्चानुपूर्वीत्युच्यते, तामवलंब्यान्त्यभेदद्वय उक्त इत्येव विशेष इति भावः । यथासूक्ष्मनिर्ग्रन्थमाह प्रथमादीति, निर्विवक्षितसमयविशेषो वस्तुतस्तत्समयेषु वर्त्तमानो निर्ग्रन्थो यथासूक्ष्मनिर्ग्रन्थ इत्यर्थः ॥

Loading...

Page Navigation
1 ... 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776