________________
द्वितीयो भाग / सूत्र - १० - ११, तृतीय: किरणे
६९३
अस्यैव प्रकारान्तरेण भेदमाह -
द्विविधोऽपि स प्रथमाप्रथमचरमाचरमसमययथासूक्ष्मभेदात्पञ्चविधः । अन्तर्मुहूर्त्तप्रमाणे निर्ग्रन्थकालसमयराशौ प्रथमसमय एव निर्ग्रन्थत्वं प्रतिपद्यमान: प्रथमसमयनिर्ग्रन्थः । अन्यसमयेषु विद्यमानोऽप्रथमसमयनिर्ग्रन्थः । अन्तिमसमये विद्यमानश्चरमसमयनिर्ग्रन्थः । शेषेषु विद्यमानोऽचरमसमयनिर्ग्रन्थः । आद्यौ पूर्वानुपूर्व्या अन्त्यौ च पश्चानुपूर्व्या व्यपदिष्टौ प्रथमादिसमयाविवक्षया सर्वेषु समयेषु वर्त्तमानो यथासूक्ष्मनिर्ग्रन्थः ॥ ११ ॥
द्विविधोऽपीति । उपशान्तक्षीणमोहरूपोऽपीत्यर्थः । प्रथमसमयनिर्ग्रन्थमाहान्तर्मुहूर्त्तप्रमाण इति, उपशान्तमोहत्वक्षीणमोहत्वान्यतररूपनिर्ग्रन्थत्वस्यान्तर्मुहूर्त्तमानत्वात्तदूर्ध्वं परिणामान्तरप्राप्तेरिति भावः । प्रथमसमय एवेति, उपशान्तमोहत्वादिरूपो यो भावो यत्समयावच्छेदेन जीवेनावाप्तपूर्वस्तादृशभावविशिष्टस्तत्समयस्तस्य जीवस्याप्रथमसमयभाव उच्यते, अप्राप्तपूर्वभावसम्बद्धसमयस्तु प्रथमसमय उच्यते तदानीमेव प्राप्तत्वात्, उक्तञ्च 'जो जेण पत्तपुव्वो भावो सो तेण अपढमो होइ । सेसेसु होइ पढमो अपत्तपुव्वेसु भावेसु' इति तत्र तादृशप्रथमसमयावच्छ्न्निनिर्ग्रन्थत्वात् प्रथमसमयनिर्ग्रन्थ इति भावः । प्राप्तपूर्वभावविशिष्टसमयवानप्रथमसमयनिर्ग्रन्थ इत्याहान्यसमयेष्विति, अप्राप्तपूर्वभावसम्बद्धसमयान्यतद्भावसम्बद्धसमयेष्वित्यर्थः । चरमसमयनिर्ग्रन्थमाहान्तिमसमय इति, चरमत्वं पर्यन्तवार्त्तित्वं तच्च सापेक्षिकं, तथा च निर्ग्रन्थावस्थायाः यावन्तस्समयास्तेषु प्रान्तवर्तिसमयविशिष्टनिर्ग्रन्थावस्थावान् चरमसमयनिर्ग्रन्थ इत्यर्थः । तत्पूर्ववर्त्तिसमयविशिष्टनिर्ग्रन्थावस्थावांस्त्वचरमसमयनिर्ग्रन्थ उच्यत इत्याह शेषेष्विति प्रान्तसमयपूर्ववर्त्तिसमयेष्वित्यर्थः । ननु प्रथमा प्रथमसमयनिर्ग्रन्थयोश्चरमाचरमनिर्ग्रन्थयोः किं कृतो विशेष इत्यत्राहाद्याविति, पूर्वानुपूर्व्येति, विवक्षितसमयसमुदाये यः प्रथमस्तस्मादनुक्रमेण परिपाटिविरच्यते चेत्तदा स क्रमः पूर्वानुपूर्वीत्युच्यते तामवलम्ब्याद्यद्वयभेद आहत इति भावः । अन्त्यौ चेति पश्चानुपूर्व्येति, तत्रैव यः पाश्चात्यचरमस्तस्मादारभ्य व्यत्ययेन क्रमपरिपाटिर्विरच्यते चेत्तदा स क्रमः पश्चानुपूर्वीत्युच्यते, तामवलंब्यान्त्यभेदद्वय उक्त इत्येव विशेष इति भावः । यथासूक्ष्मनिर्ग्रन्थमाह प्रथमादीति, निर्विवक्षितसमयविशेषो वस्तुतस्तत्समयेषु वर्त्तमानो निर्ग्रन्थो यथासूक्ष्मनिर्ग्रन्थ इत्यर्थः ॥