Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
द्वितीयो भाग / सूत्र - ४७-४८, द्वितीयः किरणे विशिष्टेति । भिक्षोरुद्गमोत्पादनैषणादिशुद्धभिक्षाशीलस्य प्रतिमा प्रतिज्ञाविशेषः, भिक्षुशब्दस्वरसात्सा प्रतिज्ञाऽऽहारविषया ग्राह्या, तथा च विशिष्टस्य तपस आहारादिनियमनरूपस्याभिग्रहः प्रतिज्ञाविशेषो भिक्षुप्रतिमेत्यर्थः । तस्या भेदानाह सा चेति, मासिकी द्वैमासिकी त्रैमासिकी चातुर्मासिकी पञ्चमासिकी षाण्मासिकी सप्तमासिकी प्रथमसप्तरात्रिंदिवा द्वितीयसप्तरात्रिंदिवा तृतीयसप्तरात्रिंदिवाऽहोरात्रिकी एकरात्रिकी चेति द्वादशविधा सेत्यर्थः । तत्र मासिकीमाद्यां प्रतिमां वक्ति आमासमिति, यावन्मासपरिसमाप्तीत्यर्थः, विशिष्टेति, विशिष्ट स्थानेऽवस्थितेन दात्राऽविच्छिन्नरूपेण सकृदेव दत्तस्यान्नस्य पानस्य च परिग्रहरूपेत्यर्थः, एलूकस्यापवरकस्यैकं पादमन्तः परं बहिर्व्यवस्थाप्य ददत्या नो गुविण्या नो बालवत्साया नवा बालकं क्षीरं पाययन्त्या हस्तेनाहारोऽत्र ग्रहीतुं कल्पते, एका अशनस्य पानीयस्य चैका दत्तिरेव ग्राह्या, दत्तिश्च करस्थाल्यादिभ्योऽव्यवच्छिनधारया या भिक्षा पतति सा, भिक्षाविच्छेदे च द्वितीया दत्तिर्भवति, प्रतिमामेनां प्रतिपन्नो भिक्षुनित्यं परिकर्मवर्जनाद्व्युत्सृष्टकायः, देवमानुषतिर्यग्योनिकृतपरिषह्याणामविकृतभावेन सहनशीलः क्षमी भवेत्, नियमविशेषा अधिका आगमेभ्यः प्रतिपत्तव्याः । ईदृशक्रमविशेषेण द्वैमासिकी त्रैमासिकी चातुर्मासिकी पञ्चमासिकी षाण्मासिकी सप्तमासिकी च प्रतिमा विज्ञेयाः, परन्तु प्रथमातो द्वैमासिक्यादिषु एकैकदत्तिवृद्धिर्भवेदित्याशयेनाह एवमिति ॥
ભિક્ષુપ્રતિમાનું વર્ણન भावार्थ - "विशिष्ट तपनो ममि, मे मिप्रतिमा' उपाय छे. ते प्रतिभा पार प्रा२नी छ. માસ સુધી વિશિષ્ટ સ્થાનમાં અવસ્થિત દાતાએ અવિચ્છિન્ન એક વાર આપેલ અન્ન-પાનના ગ્રહણવાળી એકમાસિકી પ્રતિમા. એ પ્રમાણે બે માસથી માંડી સાત માસ સુધી વિશિષ્ટ સ્થાનમાં અવસ્થિત વ્યક્તિદ્વારા ક્રમથી બે વાર-ત્રણ વાર ચાર વાર-પાંચ વાર-છ વાર આપેલ અન્ન-પાનના ગ્રહણરૂપ છ પ્રતિ वियारवी."
१. भावभिक्षुर्द्विधा नोआगमत आगमतश्च, आगमतो भिक्षुशब्दार्थस्य ज्ञाता, उपयोगो भावनिक्षेप इति वचनात्, नोआगमतः संयतः भिक्षणशीलो भिक्षुरिति व्युत्पत्तेः, ननु भिक्षणशीलत्वं रक्तपटादावतिव्याप्तं तेषां भिक्षाजीवित्वेन भिक्षणशीलत्वात्, मैवं, तेषामनन्यगतिकत्वेन भिक्षाशीलत्वात्, अयम्भावः शब्दस्य निमित्तं द्विविधं व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तमिति, यथा गोशब्दस्य गमनक्रिया व्युत्पत्तिनिमित्तं, तदुपलक्षितञ्च सास्नादिमत्त्वं प्रवृत्तिनिमित्तं, तेन गच्छत्यगच्छति वा गवि गोशब्दः प्रवर्त्तते उभयावस्थायामपि प्रवृत्तिनिमित्तसद्भावात् । तथा प्रकृतेऽपि भिक्षाशीलत्वं व्युत्पत्तिनिमित्तं, तदुपलक्षितश्चेहपरलोकाऽऽशंसाविप्रमुक्ततया यमनियमेषु व्यवस्थितत्वं प्रवृत्तिनिमित्तं, भिक्षमाणे अभिक्षमाणे वा भिक्षौ प्रवृत्तिनिमित्तसद्भावात्स एव भिक्षुः न रक्तपटादिः, नवकोट्यपरिशुद्धाहारभोजितया तेषु प्रवृत्तिनिमित्तस्याभावादिति ॥
Loading... Page Navigation 1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776