Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 690
________________ द्वितीयो भाग / सूत्र - ३०, द्वितीयः किरणे ६४३ अथैवंभूतेषु सार्धद्वयद्वीपेषु आर्यम्लेच्छभूयिष्ठेषु कर्माकर्मभूमिप्रज्ञापनायाह - मेरुगिरेर्दक्षिणतो निषधस्योत्तरतो देवकुरवः, नीलपर्वताइक्षिणेन तदुत्तरेणोत्तराः कुरवः, देवकुरूत्तरकुरुभ्योऽन्यत्र भरतैरावतविदेहाः कर्मभूमयः ॥ ३०॥ __ मेरुगिरेरिति । पल्योपमस्थितिकदेवकुरुनामदेवसम्बन्धाद्देवकुरवः, एते च विदेहक्षेत्रे बोध्याः । उत्तरकुरूनाह नीलपर्वतादिति, तदुत्तरेणेति, देवकुरूत्तरेणेत्यर्थः, एवञ्च विदेहा मन्दरदेवकुरूत्तरकुरुभिर्व्यवच्छिन्नमर्यादा एकक्षेत्रान्तःपातिनोऽपि क्षेत्रान्तरा इव भवन्ति परस्परेण तत्रत्यमनुष्याणां गमनागमनाभावादिति बोध्यम्, उपसंहरति देवेति, विदेहान्त:पातिनां देवकुरूत्तरकुरूणां कर्मभूमित्वप्रसङ्गवारणायान्यत्रेति, तथा च देवकुरूत्तरकुरवो हैमवतादयश्चाकर्मभूमय इति भावः,भरतैरावतविदेहा इति, पञ्च भरतानि पञ्चैरावतानि पञ्च विदेहा इत्यर्थः, कर्मभूमय इति, यद्यप्यष्टविधस्य कर्मणो बन्धस्तत्फलानुभवनं सर्वेष्वेव मनुष्यक्षेत्रेषु साधारणं तथापि सम्यग्दर्शनज्ञानचारित्रात्मकमुक्त्युपायस्य ज्ञातारः कर्तार उपदेष्टारश्च भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्तेऽत्रैव जातास्सिद्ध्यन्ति तस्मात्सकलकर्माग्नेविध्यापनाय सिद्धिभूमयः कर्मभूमय इत्यस्यार्थः, अकर्मभूमिषु वर्तमानानाञ्च मनुष्याणां ज्ञानदर्शनयोस्सत्त्वेऽपि सततभोगपरिणामित्वेन सर्वदा चरणप्रतिपत्तिर्नास्ति, यद्वाऽसिकृषिमषिविद्यावणिक्शिल्पात्मकषड्विधकर्मणां भरतैरावतविदेहेष्वेव पूर्वोक्तेषु दर्शनात्कर्मभूमय इति भावः । ततश्च विदेहश्चतुर्विधः पूर्वविदेहो यो मेरोजम्बूद्वीपगतः प्राग्विदेहः, एवं पश्चिमतस्सोऽपरविदेहः, दक्षिणतो देवकुरुनामा विदेहः, उत्तरतस्तु उत्तरकुरुनामा विदेह इति । ननु पूर्वापरविदेहयोः कर्मक्षेत्रानुभावकत्वेन महाविदेहव्यपदेशताऽस्तु, देवकुरूत्तरकुरूणां त्वकर्मभूमित्वेन कथं महाविदेहत्वेन व्यपदेशो, मैवम्, प्रस्तुतक्षेत्रयोर्भरताद्यपेक्षया महाभोगत्वान्महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठानत्वाच्च महाविदेहशब्दवाच्यत्वोपपत्तेरिति ॥ १. कल्पपादपफलोपभोगप्रधाना भूमयो हैमवतपञ्चकहरिवर्षपञ्चकदेवकुरुपञ्चकोत्तरकुरुपञ्चकरम्यकपञ्चकहैरण्यवतपञ्चकरूपास्त्रिंशदकर्मभूमयः । क्षेत्रभेदेनामुनाऽकर्मभूमिका. अपि त्रिंशद्विधाः, हैमवतपञ्चके हैरण्यवतपञ्चके च पल्योपमायुष्काश्चतुर्थातिक्रमभोजिनो गव्यूतिप्रमाणशरीरोच्छ्रायाः वज्रर्षभनाराचसंहननिनः समचतुरस्रसंस्थानाः, पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योपमायुष्काः षष्ठभक्तातिक्रमाहारग्राहिणो द्विगव्यूतिप्रमाणशरीरोच्छ्रायाः संहननसंस्थानाभ्यां पूर्वोक्ताभ्यां युक्ताः, पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु त्रिपल्योपमायुष्काः अष्टमभक्तातिक्रमाहारिणः गव्यूतित्रयप्रमाणशरीरोच्छ्रायाः पूर्वोक्तसंहननसंस्थानयुता मनुष्या भवन्ति ॥

Loading...

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776