Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
तत्त्वन्यायविभाकरे
વિવેચન – જેનાથી ઉંચે અને નીચે લોકની વૃદ્ધિ છે, તે રુચકથી ઉંચે નવસો જોજન, નીચે નવસો જોજન મળીને અઢારસો જોજન થાય છે. તેટલા પરિમાણવાળો તીર્હાલોક છે. વ્યંતરાદિ નિવાસયોગ્ય તીર્કાલોક છે. ઝલ્લરી આકૃતિવાળો-સઘળે ઠેકાણે સમતલવાળો, તુલ્ય વિધ્યુંભ અને આયામવાળો, વાદિત્રવિશેષ ઝલ્લરી કહેવાય છે. તેની સમાન તીર્આલોકનો આકાર છે, કેમ કે-અલ્પ ઉંચાઈવાળો છે. તુલ્ય આયામ વિખુંભરૂપ મહા વિસ્તાર છે. ઊર્ધ્વ અધોમાનનો અત્યંત સંકોચ હોવાથી કહે છે કે‘તિર્યવિશાલ’ તીએઁ વિશાલ છે. એટલે વિધ્વંભ અને આયામથી એક રજ્જૂપ્રમાણવાળો છે.
६३४
૦ જે કારણથી તિર્યક્ પ્રચય(વિસ્તાર)વિશેષથી અવસ્થિત સ્વયંભૂરમણ પર્યંતના અસંખ્યાત દ્વીપસમુદ્રો છે, તે કા૨ણે તિર્યશ્લોક સંજ્ઞાવાળો, અથવા તિર્યક્ શબ્દ મધ્યમ પર્યાયવાળો (વાચક) છે. ત્યાં ક્ષેત્રના પ્રભાવથી મધ્યમ પરિણામવાળા જ દ્રવ્યો સંભવે છે. એથી મધ્યમપરિણામી દ્રવ્યના યોગથી લોક પણ 'तिर्यग्योऽ' 'हेवाय छे.
के पुनस्तत्रावस्थिता इत्यत्राह
मध्यलोकाभिधाने तिर्यग्लोके पूर्वपूर्वापेक्षया द्विगुणविस्तारा असंख्याता वलयाकृतयो जम्बूद्वीपादिस्वयम्भूरमणसमुद्रान्ता द्वीपसमुद्रास्सन्ति ॥ २७ ॥
-
मध्यलोकाभिधान इति । तिर्यग्लोकस्यैव मध्यलोक इति नामान्तरम्, न तु लोकस्यास्य चतुर्दशरज्जुमानस्य मध्यत्वात्, ननु कथं तर्हि तिर्यग्लोकस्य मध्यलोक इति नामान्तरमिति चेन्न मध्यमपरिणामद्रव्यपूर्णत्वात्, ऊर्ध्वाधोलोकव्यवहारान्यथानुपपत्तेर्वा, यन्निरूपितं हि ऊर्ध्वत्वमधस्त्वञ्च तदेव मध्यं भवतीति भावः । जम्बूद्वीपदीति, द्विर्गता आपोऽत्रेति द्वीपाः, दाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युपष्टम्भहेतुलक्षणाभ्यां प्राणिनः पान्तीति वा द्वीपाः । जम्ब्वा सुदर्शनापरनाम्न्याऽनादृतदेवावासभूतयोपलक्षितो द्वीपस्तत्प्रधानो वा द्वीपो जम्बूद्वीपो निखिलद्वीपसमुद्राणामभ्यन्तरीभूतः, अथवा प्रतिविशिष्टस्यजम्बूवृक्षस्यासाधारणाधिकरणत्वादयं जम्बूद्वीप उच्यते, नच केनायं संकेतितो जम्बूवृक्षसत्त्वाज्जम्बूद्वीप इतीति वाच्यम्, संज्ञासंज्ञिसम्बन्धस्यानादित्वात्, न च तथापि संज्ञाकर्त्तुरावश्यकत्वमेकान्तानादित्वाभावादिति वाच्यम्, पुरुषप्रवाहस्याप्यनादितया प्रवाहानादित्वोपपत्तेर्जम्बूतरोश्च सर्वदा सत्त्वाल्लोकसन्निवेशस्य च न
१. जम्बूद्वीपः निखिलसमुद्राणामभ्यन्तरवर्त्ती शैषद्वीपसमुद्रेभ्यः क्षुल्लकः तैलापूपसंस्थानसंस्थितः अद्वितीयवज्ज्ररत्नात्मकजगत्या जम्बूद्वीपप्राकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगरप्राकारकल्पया सर्वदिक्षु सम्परिक्षिप्तः चतुर्द्वारोपशोभितः भरतैरवतहैमवतहैरण्यवतहरिरम्यकमहाविदेहवर्षोपशोभिताश्च । तथाऽयं पृथिवीपरिणामोऽपि, पर्वतादिमत्त्वात् अपरिणामोऽपि, नदीहूदादिमत्त्वात्, जीवपरिणामोऽपि, मुखवनादिषु वनस्पत्यादिमत्त्वात् । पुद्गलपरिणामौऽपि मूर्त्तत्वस्य प्रत्यक्षसिद्धत्वात् । अत्र पृथग्जीवपरिणामत्वाभिधानं परमते पृथिवीजलयोः जीवत्वाव्यवहारात् ॥