Page #1
--------------------------------------------------------------------------
________________ $ $ $ HREFRESHEETERESHEETESFER- ENE F परमपूज्य मोहनगल्लीगुरुवर्यपादपयेभ्यो नमः महोपाध्यायश्रीमन्मेघविजयगणिविरचितम् भविष्यदत्तचरित्रम् परमपूज्य-शांतर्ति-आचार्य श्रीमत् शान्तिसूरीश्वराऽन्तेवासि अनुयोगाचार्य पन्यासमवर कीर्तिमुनिसदुपदेशतः राजनगरवास्तव्यश्रेष्ठिगीरथरलालात्मजरतीलालस्तथा श्रेष्ठि प्रेमचन्द्रात्मजरिमतलालमदत्ताधिकसाहाय्येन संशोधकः प्रकाशकच पण्डित मफतलाल झवेरचन्द गांधी नागजीभुदरनी पोळ-अमदावाद. [प्रतयः 300] विक्रम संवत 1992 वीरसंवत 2462 इस्वीसन् 1936 SHEETESTEELTSFERESTLISH SH 弱 弱
Page #2
--------------------------------------------------------------------------
________________ आभारप्रर्दशन. आ ग्रन्थ परत्वे परमपूज्य शांतमूर्ति विद्वद्धर्य आचार्य श्रीमत् शान्तिसूरीश्वरजी महाराज साहेबनी आवा प्रकारनी मदद न होत तो जरूर आ ग्रन्थप्रकाशन अमारे माटे मुश्केलज होत माटे तेओश्रीनो तेमज तेओना विद्वान् शिष्य पंन्यास कीर्तिमुनिजीनो आभार मानीए छीए. मफतलाल झवेरचंद गांधी. नागजीभुदरनी पोळ, अमदावाद. श्री क्रीश्ना प्रिन्टरी, रतनपोळ-अमदावाद. मुद्रकः गोविंदलाल मोहनलाल जानी.
Page #3
--------------------------------------------------------------------------
________________ प्रस्तावना मविष्यदत्तचरित्रम XXX प्रस्ताविकम् सुस्पष्टमेवेदं सरलं सुन्दरं भविण्यदत्तचरित्रं श्रीमन्महोपाध्यायमेघविजयगणिवराणामेव कृतिः, ग्रन्थकारेणैव प्रत्यधिकारान्ते स्वनाम, निर्देशः कृतः, तथा च एतच्चरित्रकारप्रणीतनिम्नलिखितपद्यद्वयेन गुर्वादिनिर्देशोऽपि सुप्रतीत एव. तपागणाम्भोजसहस्रभानुः, सूरिर्जयी श्री विजयप्रभाह्नः / तत्पट्टदीपः श्रमणावनीपः प्रभासते श्रीविजयादिरत्नः // 76 // राज्ये तदीये विजयिन्यजत्रं, प्राज्ञाः कृपादेविजया बभूवुः / शिष्यो हि मेघाद्विजयस्तदीयोऽन्वभूदुपाध्यायपदप्रतिष्ठाम् // 77 // अनेन सुस्पष्टमेव विजयप्रभसूरिवरागां पट्टे रत्नसूरिवरराज्ये कृपाविजयशिष्यमेघविजयोपाध्याय एवाऽस्य प्रन्थस्य निर्माता. एतेषां विस्तरतो गुरुपरम्परा शिष्यपरम्परा च तत्कृत-शान्तिनाथचरित्र-लघुत्रिषष्ठिचरित्रादिप्रशस्तिभ्यो एव निर्णेतु शस्या. तथा च शान्तिनाथचरित्रे, तदनु गणधरालीपूर्वदिग्भानुमाली विजयपदमपूर्व हीरपूर्व दधानः // 66 // कनकविजयशर्माऽस्यान्तिषत् प्रौढधर्मा, शुचितरवरशीलः शीलनामा तदीय: कमलविजयधीरः, सिद्धिसंसिद्धितीरस्तदनुज इह रेजे वाचकश्रीशरीरः // 67 // चारित्रशब्दाद् विजयाभिधान-त्रयी सगर्भा धृतशीलधर्माः / एषां विनेयाः कवयः कृपायाः पद्यास्वरूपाः समयाऽम्बुराशौ // 68 // तत्पादाम्बुजभृङ्गमेघविजयः प्राप्तस्फुरद्वाचक-ख्यातिः श्रीविजयप्रभाख्यभगवत्सूरेस्तपागच्छपात् / नुन्नोऽयं निजमेरुपूर्वविजयप्राज्ञादिशिष्यैरिमाम् / चक्रे निर्मलनैषधीयवचनैः श्रीशान्तिचक्रिस्तुतिम् // 69 //
Page #4
--------------------------------------------------------------------------
________________ भविष्यद प्रस्तावना म तयैवाऽमुद्रितलघुत्रिषष्ठिचरित्रे सूरिविजयदानाख्यः श्रीहीरविजयप्रभुः / प्रभावकः श्रीयवनराजाऽकबरप्रतिबोधकः // 95 // श्रीमान् विजयसेनोऽस्मात् , सूरिविजयदेववाक् / महातपाः स्वतः शस्तः, सूरिः श्रीविजयप्रभः // 96 // तत्पट्टोदयशैलमौलिकमलालङ्कारभट्टारकः / श्रीमान् श्री विजयादिरत्नभगवान् प्रोद्भूतपूतप्रभः। नूतः श्रीपुरुहूतसंसदि सदा व्याहतदिव्याप्सरः / श्रेण्या पुण्यवरेण्यसदगुणगणैः प्रस्तूयमानः स्तुतौ // 97 // तद्राज्ये जयशालिनि जज्ञे सद्गुरोः कृपाविजयात् / श्री विजयप्रभसूरेरवाप्तवाचकपदः स मुनिः // 98 // श्री मेघविजयनामा विनयविलासे लघुत्रिषष्ठीयम् / चक्रे कोष्ठागारिकवनराजाऽभ्यर्थनायोगात् // 99 // स्वस्ति श्रीमत् प्रशस्यां वचनरचनया बुबुध धर्ममार्ग श्रीसूरिः सूरिकीर्तिः श्रमणगणतपाध्वन्यभूपस्वरूपः / श्रीमान् श्रीहीरपूर्वो विजयपदधरः श्रीधराभ्यर्चनीयः // 600 // कनकविजयनामा वाचकः प्रौढधामाऽप्यभवदिह विनेयः श्रेयसामेकपात्रम् / तदनु विशदशीलः शीलनामाकवीन्दुत्रितयमपि तदन्तेवासिनां प्रादुरास // 601 // कमलविजयनामायो द्वितीयश्च सिद्धेविजय इति तृतीयश्वारूचारित्रपूर्वः। प्रशमसमयसिन्धुः सिन्धुरस्तार्किकेषु समजनि जनितश्रीवाचकोऽस्मिन् गणेऽपि // 602 // श्रीकृपाविजयनामकवीन्द्राः सान्द्रचान्द्रमहसो यशसा ते तद्विनेयनयवाग् विनयाढयो निर्ममे जिनपवित्रम् // 103 //
Page #5
--------------------------------------------------------------------------
________________ प्रस्तावना मविध्यदत्त रित्रम एतद्ग्रन्थद्वयप्रशस्तितो निजं वंशपारम्पर्यमुल्लिखन् स्वस्य हीरविजयसूरिप्रक्रमलब्धात्मलाभत्वम्, प्राज्ञकृपाविजयशिष्यत्वम् , श्रीविजयप्रभसूरिसकाशादवाप्तोपाध्यायपदवौकत्वं, विजयरत्नसूरिवरराज्ये लघुत्रिषष्ठिनिर्माणत्वं च ज्ञापयति, एतेन प्रन्थकारस्य परम्पराक्रम इत्थं फलितो भवति.. होरसूरिवरा:-कनकविजयः-शोलविजयः कमलविजयः सिद्धिविजयः चारित्रविजयः कृपाविजयः मेघविजयः एतन्महोपाध्यायमेधविजयकृतसकलपन्थारम्भो 'ॐ ही श्री क्ली अर्ह ऐ नमः' मन्त्राक्षराङ्कितो दृश्यते प्रस्तुतग्रन्थारम्मेऽपि ॐ ऐं ही श्री अहं नमः' विद्यते एव, तथा च लघुत्रिषष्ठिशलाकाचरित-वर्षप्रबोध-भविष्यदत्तचरित्रव्यतिरिक्ताऽन्यसकलपन्थान्तमागे स्वस्य विजयप्रभसारराज्य
Page #6
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम प्रस्तावना RECCCCXXXXCCIDIEOXOOK: वर्तित्वमेव प्रत्यपादि, एतद्ग्रन्थत्रयविरचनासमये तु विजयप्रभसूरिपट्टागतविजयरत्नसूरिराज्यकालो, तत्तद्ग्रन्थान्तप्रदर्शितप्रशस्तिदर्शनेनैव ज्ञायते. एतेषां विजयप्रभसूरिवराणां जन्म-दीक्षा--पन्यास--सूरिपदादीनां संक्षिप्तकालनिर्देशो प्रदर्श्यते / विजयप्रभसूरिवराणां 1677 वर्षे माघसितएकादश्यां कच्छदेशे मनोहरपुरे उकेशज्ञातीय सा० शिवगणभार्या भाणबाइ गृहे जन्म, संवत् 1686 वर्षे दीक्षा,१७०१ वर्षे पन्यासपद,१७१० वर्षे गान्धारबन्दरे सूरिपदं,१७१३ वर्षे भट्टारकम् 1719 वर्षे उनायां स्वर्गमनं, एतच्च दिग्विजयकाव्य-उपाध्यायरविवर्द्धनगणिरचितश्रीपट्टावलीसारोद्धारादितोऽवसेयम्. प्रस्तुतग्रन्थप्रशस्तिनिर्दिष्टविजयरत्नसूरिवराणां कदा जन्म, दीक्षा, सूरिपदं, स्वर्गमनं च तन्निर्दिश्यते // विजयप्रभसूरिवराणां पट्टे 63 विजयरत्नसूरिः तेषां पिता हीरानन्द, माता च हीरादे, पालनपुरे 1710 वर्षे जन्म, 1722 वर्षे दीक्षा, 1732 वर्षे नागोरपुरे सूरिपदम्, सर्वायुः 63 वर्षाणि प्रपाल्य सं. 1773 भाद्रकृष्णद्वितीयायां उदयपुरे स्वर्ग गतः अतः स्पष्टमेव तेषां कृतिमध्ये स्वनिर्दिष्टरचनाकालमनुसृत्य 1727 वर्षे आद्या कृतिः देवानन्दाभ्युदयकाव्यम्, चरमा च 1760 वर्षे सप्तसन्धानकाव्यम् / अस्य भविष्यदत्तचरित्रस्य रचनाकालो 1732 तो 1760 अन्तर्गतो सम्भाव्यते / एते महोपाध्यायमेघविजयाः विजयप्रशस्तिमहाकाव्यपृष्ट 597 तमे विजयसेनसूरिसकाशात् प्राप्तोपाध्यायपदान्मेघविजयाद्, सेनप्रश्ने प्रथमोल्लासे प्रदर्शितप्रश्नकारकोपाध्यायमेघविजयाद्, तस्मिन्नेव ग्रन्थे 87 पत्राङ्के प्रश्नकारकपण्डितमेघविजयाद्, अजितप्रभसूरिकृतशान्तिनाथचरित्रोपरि बालावबोधरचयितुः लक्ष्मीविजयगुरुभाणविजयगुरुमेघविजयादपि भिन्ना एव, आये त्रयः विजयसेनमूरिराज्ये वर्तिनः अन्तिमस्तु गुरुपरम्परया भिन्नः। यत।
Page #7
--------------------------------------------------------------------------
________________ भविष्यरच-100 चरित्रम् एते पूज्यप्रवरा अनेकशिष्यपरिवृताः आसन् तत् शिष्यपरम्परा च गुरुमालानुसारतो प्रदर्श्यते. उ० मेघविजयः प्रस्तावना पं० भोजबिजयः / पं मेरुविजयः तेजवि० पनि सुन्दरवि. प्रेमवि० धनवि० स्थिरवि० रुपवि० पं० माणिक्य वि. पं० भानु वि० भाणविजयः] पं. कुशलविजय [1810 शीतलजिनप्रतिष्ठाकृत् ] तच्छिष्यपरम्परामध्येऽपि पं मेरुविजयस्य उल्लेखो वर्षप्रबोध-शान्तिनाथचरित्रमध्ये कृतः, प्रेमविजय-तेजविजय-भाणविजयानां कृतयः गौर्जरभाषा निबद्धाः वर्तन्ते एतेषां पूज्यप्रवराणां मौर्जरभाषा निबद्धाः कृतयोऽपि विद्यन्ते तद्यथा विजयदेवनिर्वाणरास-पार्श्वनाथनाममाला-चतुविंशतय:-दशनाममालास्तवन-शासनदीपकस्वाध्याय-जैनधर्मदापकस्वाध्याय-आहारगवेषणास्वाध्यायप्रभृतयः / . सप्तसंधानकाव्यप्रस्तावना-जैनगुर्जरकविद्वितीयखण्ड-जैनसाहित्यसंक्षिप्तेतिवृत्तादिषु उ०मेघविजयवर्णनेऽपि न क्वाऽपि एतत्कथानकोल्लेखो दृश्यते. तथा भाण्डागरेऽपि तत्प्रतयः दुर्लभा एव. अस्मिन् ग्रन्थमुद्रणेऽपि एका अर्धशुद्धा प्रतिर्लब्धा एतेनैव ज्ञायते एषा कृतिरविश्रुता नवीना एवं प्रकटीक्रियते. RECESSAREEKEKARAK
Page #8
--------------------------------------------------------------------------
________________ प्रस्तावना भविष्यदत्त चरित्रम XXXXXXXXXXX एतेषां कृतयः-देवानन्दाभ्युदयकाव्यम्, शांतिनाथचरित्रम्, विजयदेवमहात्म्यवृत्तिः, दिग्विजयमहाकाव्यम् , चन्द्रप्रभाब्याकरणं, मेघदूतसमस्या, युक्तिप्रबोधनाटकम् सप्तसन्धानमहाकाव्यम् लघुत्रिषष्ठिशलाकाचरित्रम् , मेघमहोदयः, उदयदीपिकाप्रभृतयः 1 देवानन्दाभ्युदयकाव्यम्-माघकाव्यसमस्यापूर्तिरूपम् , रचनाकालोऽस्य विक्रमाब्द 1727 2 शान्तिनाथचरित्रम्-नैषधीयमहाकाव्यपादपूर्तिस्वरूपम् सुन्दरम् अमुद्रितम्. 3 विजयदेवमहात्म्यवृत्ति:-वल्लभपाठकरचितग्रन्थोपरिटिप्पनकम्. 4 दिग्विजयमहाकाव्यम्-अमुदितम् , श्रीविजयप्रभसूरिचरितवर्णनपरम्. 5 चन्द्रप्रभाव्याकरणम्-लघुमध्यमोत्तमभेदैः त्रिप्रकारम् , पाणिनीयकौमुदीव प्रयोगसिद्धिप्रवणं, अष्टसहस्रश्लोकप्रमाणमागरानगरे विक्रमाब्द 1757 वर्षे रचितम्. 6 मेघदूतसमस्यालेख:-विजयप्रभसूरेरन्तिकं विज्ञप्तिरूपेण प्रेषितो लेखात्मको मेघदूतसमस्यारूपो मुद्रितः / युक्तिप्रबोधः-वाणारसीयमतखण्डनमय: चतुर्दशाधिकशतशास्त्रपाठानेकग्रन्थकारनामनिर्देशपुरस्सरः स्वोपज्ञवृत्तियुतो प्राकृतपद्यबद्धोऽयं ग्रन्थः मुद्रितः सप्तसन्धानमहाकाव्यम्-सर्वोत्कृष्टमतिविस्मयकरमस्मिन् काव्ये ऋषभदेव-शान्तिनाथ-नेमिनाथ-पार्श्वनाथ-महावीरस्वामिरुपाहतां तथा कृष्णरामयोः भिन्नान्यपि चरितानि वर्णितानि मुद्रितम् लघुत्रिषष्टिचरित्रम्-हेमचन्द्रसूरिप्रणीतत्रिषष्ठ्यनुसारेण पश्चश्लोकसहस्रमानोपेतोऽतीव सरलोऽयं प्रन्थोऽमुद्रितः वर्षप्रबोध:-ज्योतिर्विषयः संस्कृतप्राकृतभाषात्मकः सार्धत्रिसहस्रश्लोकप्रमाणोऽयं प्रन्थो मुद्रितः मातृकाप्रसादा-ॐनमः सिद्धम् वर्णाम्नायस्वरूपोऽयं प्रन्थोऽमुद्रितोऽस्य रचनाकाल: 1747 अन्येऽपि ब्रह्मबोधविंशतियन्त्रविधिभक्तामरस्तोत्रवृत्तिपञ्चतीर्थस्तुतिधर्ममञ्जूषाटिप्पनाचनेकसंस्कृतभाषात्मका ग्रन्था एतद्ग्रन्थकारोपज्ञा श्रूयन्ते.
Page #9
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् प्रस्तावना 2 एतेन एतेषां महोपाध्यायानां व्याकरण--काव्य-न्याय--ज्योतिषागमादिशात्रेषु नदीष्णत्वं सर्वजनाश्चर्यकरम् सुप्रतीतमेव. अमुद्रितपूर्वा एतककृतिरपि न सामान्या,अनुप्रास-यमकादिशाब्दिकालङ्कारप्राचुर्येणेयं रमणीया नाऽतिकाठिन्या नाऽतिसरला एतदद्भुतविषय- स्थापनरचनया श्रोतृणां तादात्म्यभावजनकत्वेन पञ्चम्याराधन-रात्रिभोजनत्याग-द्वादशवतविधानधर्मपरायणतादिगुणसन्मुखकरणेऽतिसमर्था एषा कृतिः, यतः प्राकृतजनानां तत्त्वविचारसन्दर्भितमनोज्ञग्रन्थप्रतिपादनेन न तथोपकारसम्भवो यथा पूर्वमहापुरुषानुभूताश्चर्यकरजीवनप्रसङ्गसन्दर्भितैतत्सदृशकथानकेन. एतत् ग्रन्थमुद्रणेद्वे प्रती प्राप्ते, एका पूज्यपादशान्तमूर्तिसिद्धिमूरीश्वराणां सत्का,अन्या च छाणीस्थभाण्डागारसत्का, आधा हस्तलिखिता नवीनाऽपि . अर्धशुद्धा संशोधिता च, क्वचिच्चाऽधिकारे द्वित्रिपयरहिता क्वचिच्चासंगतश्लोकेन कदर्थिता च, द्वितीयाऽन्यूनातिरिक्ता पूर्ववदेव किन्तु असंशोधितात्यशुद्धा च, एतग्मुद्रणे तु प्रथमा एव योजिता, किन्तु यत्र स्थले सन्दिग्ध-विरोध-न्यूनभावः तत्रास्माभिः धनपालकविविरचिता पूर्वमुद्रिता भविसयत्तकहानुसारेण [ ] एतचिन्हेन अस्मदल्पमत्यनुसारेण पूरितोऽपि विद्वद्भिर्विचार्य स्फुटीकरणीयः / प्रातःस्मरणीय-गांतमूर्तिसिद्धिसूरीश्वराः एतत्पन्थप्रकाशनप्रेरणयाऽत्यन्तोपकारकारकाः, तथा चोपाध्यायमनहरविजयाः, पन्यास कीर्तिमुनयः पण्डितगिरिजाशंकराः एतत्संशोधने यथावसरं साहाय्यार्पणेनोपकारपरायणाः। ___ अस्य संशोधने मया यथाशक्तिविहितप्रचुरपरिश्रमेऽपि यन्त्रदोष-भ्रमाऽल्पज्ञानादिप्रचुरकारणेन जनितस्स्वलना वाचकैः क्षन्तव्याः। कृपाशीलविद्वद्भिः चक्षुगोचरायासेनेयं संशोध्यशुऽद्विप्रेषणेनानुगृहणीयोऽहं, यतः पुनर्मुद्रणे ता अशुद्धीर्विशुद्धी करिष्यन्तीति / 1992 माघशुकदशमी मफतलाल झवेरचंद गांधी अमदावाद.
Page #10
--------------------------------------------------------------------------
________________ भविष्यदचरित्रम भविष्यदत्तचरित्रविषयाऽनुक्रमः प्रस्तावना अधिकारः विषयः पृष्ठाडून्सच्या. अधिकारः विषयः पृष्ठाडूसख्याः 1 भविष्यदत्तजन्मवर्णनम् .... .... 1- 5 8 कमलश्रियाः मुनिवचननिश्रीकरणम्, बन्धुदत्तहस्तिनापुर२ कमलश्रीदौर्भाग्य-भविष्यदत्तबाल्यावस्थावर्णनम् . 6-11 प्रवेशनेन स्वजनसमागमः, भविष्यानुरूपायाः भर्तृवियोगदुःख बन्धुदत्तेन सह भविष्यदत्तद्वीपान्तरगमनम् समुद्रोपकण्ठे .. वर्णनम् च .... ..... 55-62 वनान्तरे भविष्यदत्तस्य विमोक्षश्च .... 12-21 भविष्यदत्तस्य देवसाहाय्येन हस्तिनापुरप्रवेशः 63-72 4 भविष्यदत्ततिलकपुरवर्णनम् चन्द्रप्रभनमस्कार 10 भविष्यदत्तराजसभाप्रवेशः धनपतिबन्धुदत्तयोर्बन्धनम् / भविष्यदत्तप्रार्थनया विमोक्षश्च .... - 72-80 .... करणं च 21-26 11 भविष्यदत्तभविष्यानुरूपप्रियामेलापकवर्णनम् 80-86 / 5 भविष्यदत्ततिलकपुरप्रवेश-विवाह-राज्यप्राप्तिवर्णनम् 26-34 12 सुमित्रया सह भविष्यदत्तविवाहः, पञ्चमीव्रतोद्यापनं, 6 भविष्यदत्तस्य मातुर्मिलनाय भार्यया सह प्रयाणम् बन्धुदत्त विस्तरतो दानमहिमावर्णनम्, भविष्यानुरुपकमलदेवी . . भविष्यदत्त मेलापनम् च .... .... 35-46 गृहागमनवर्णनम् च .... 87-96 7 बन्धुदत्तकापटयेन मविष्यदत्तभविष्यावियोगः बन्धुदत्तालीककथनेन पोतनपुरनृपदूतप्रेषणम्, बन्धुदत्तयमुनानदसमागमश्च दूतनिर्घाटनपुरस्सरं भविष्यदत्तराज्यपट्टबन्धश्च 97-104 ...46-54
Page #11
--------------------------------------------------------------------------
________________ मविष्यवचन प्रस्तावना चरित्रम अधिकारः विषयः पृष्ठाडूसख्याः अधिकारः विषयः पृष्ठाइन्सख्याः 14 भविष्यदत्तसभामजयवर्णनम् .... 105-116 18 विस्तरतो पूर्वभवसम्बन्धीधनमित्रकीतिसेना१५ पोतनपुरनृपकुमारविमोक्षणम् भार्यया सह वर्णनम् .... ... 134-139 दोहदनिमित्ततिलकपुरगमनम् च .... 116-122 19 भविष्यदत्तभवान्तरवर्णनम् .... 140-146 भविष्यदत्तस्य तिलकपुर्या मुनिसकाशात् पूजा--प्रत-- 20 भविष्यदत्तस्य पुत्र राज्यस्थापन--दीक्षाकल्याणदया--स्वरूपधर्माख्यानश्रवणम् ... 123-126 वर्णनम् च 147-152 17 भविष्यदत्तमनोवेगपूर्वभवसम्बन्धप्रेमवर्णनम् 127-133 21 कमलश्रीभविष्यदत्त-भविष्यानुरुपस्वर्गमोक्षगमनम् च१५२-१६० शुद्धिपत्रम् : शुद्धिः पृष्ठम् पंक्ति अशुद्धिः शुद्धिः पृष्ठम् पंक्ति अशुद्धिः शुद्धिः पृष्ठम् पंक्ति __एँ 1 4 पुत्रः पुत्रैः 18 10 तपादयो तत्पादयो 28 द्वीपे 2 4 प्रियः प्रियैः 25 11 भर्या भया 31 4 मीयुषि 2 13 भित्तो-दि भित्तौ-दि 27 10 मुश्चति मुञ्चन्ति 31 11 जन्य 5 10 दवात् दैवात् 28 3 जम्म जन्म 33
Page #12
--------------------------------------------------------------------------
________________ BAL दत्तो प्रस्तावना भविष्यदत्तचरित्रम 10 ASARALLELESBAND अशुद्धिः शुद्धिः पृष्ठम् पंक्ति अशुद्धिः शुद्धिः पृष्ठम् पंक्ति अशुद्धिः शुद्धिः पृष्ठम् सङ्गाते, सङ्गीते दत्तो भोगान् 101 8 धन्यम धन्यमम 35 3 कयि कवि 63 13 सर्व सर्वे 108 अप्राक्षा. अप्राक्षी 391 रङ्ग रङ्गै 65 11 विडर दोहद दोहदैः 70 1 घात घातं रणि वणिग शनः शनैः .74 9 खलत् / स्खलत् 112. 7 साढव्यो सोढव्यो तिलव ... तिलक तिलका तिलकाधिपतिः 114 / महापति महीपति महा महो 116 3 दरिद्राणां दरिद्राणो 44 2 वाक्ष्यो वीक्ष्यो महु: मुंहुः बिडम्ब . विडम्ब 118 . 459 . मार्ग मार्गे 130 विनिक्षिप्यय्या विनिक्षिप्याड शमर्या., शमया 85 कार्यषु कार्येषु 132 मङ्गलम् मण्डलम् 47 6. विश्रम्भते विज़म्भते..८५ 13. विमनं . "विमानं 132 6 कृष्टं 49.11. वभाषे ... बभाषे ..88.1 दशमाः / / सार्थ सार्थे 54. 5. साधून साधून् 89 7 7 प्राति प्रीति 136 14 54 11. प्रतीयत .प्रतीयते ... 91.13... वकः . सूनु 57 3 त्यजां त्यजा ... 96 9. ध वं / 133. 11 महो 143
Page #13
--------------------------------------------------------------------------
________________ // श्रीपार्श्वनाथाय नमः॥ महोपाध्यायश्रीमन्मेघविजयगणिविरचिते श्रुतपञ्चमीमाहात्म्ये भविष्यदत्तचरित्रम् ॐ ऐ हो श्री अहे नमः प्रणम्याऽऽदिमतीर्थेश, श्रीपाच वीरमद्भूतं / माहात्म्यं श्रुतपञ्चम्या, बालबोधाय लिख्यते // 1 // सारस्वतं महो ध्येय-महो बोधविधायकम् / / यस्य प्रसादान्मन्दोऽपि, पामोति अवि गौरवम् // 2 // धर्मस्वभावो जीवस्याऽवश्यं वश्यकरः श्रियः। प्रादुर्भावोऽस्य तत्वज्ञैः, कार्यः प्रोत्सार्य दुर्मतिम् // 3 // द्रव्यक्षेत्रकालभावैः, स साध्यः साधुसातैः / तत्राऽपि समयस्याऽस्ति, प्राधान्यं मन्यते बुधैः // 4 // द्वितीयादीनि पर्वाण्याऽऽराध्यन्ते तेन धोधनः / सम्पाप्य समय कार्य, कुर्वन् सर्वत्र गीयते // 5 //
Page #14
--------------------------------------------------------------------------
________________ प्रथमोऽ भविष्यदत्त चरित्रम धिकार अर्हत्पूजादयादानैः, शीलेन तपसा जपैः / द्वितीयाऽराधिता धत्ते, द्विविधं धर्ममार्हतम् // 6 // पञ्चधा ज्ञानमल्यं, पञ्चाऽऽचारेषु धीरताम् / पञ्चम्येव गतिः पाप्या, पञ्चम्याऽऽराधनान्नृणाम् // 7 // वरदत्तादिसम्बन्धाः, सन्ति यद्यपि भूरयः / भविष्यदत्तसम्बन्धः, पाच्यो वाच्यस्तथाऽप्ययम् // 8 // इहैव जम्बुद्वीपेऽस्ति, क्षेत्र नेत्रमिवाऽवनेः। भारत सारतन्त्राढविषयैः परिभूषितम् // 9 // गुणैर्गुरु कुरुख्याति, दधानं तत्र मण्डलम् / अस्ति स्वस्तिपदं तस्मिन्नगरं हस्तिनापुरम् // 10 // अभिरामद्रुमश्रेणि, वाटिका परिपाटिका / शाटिकावत्पुरी नार्या, भाति शोभाऽतिरेकतः // 11 // अगग्यपण्यनैपुण्य-क्रयविक्रयहेतवे / समागतानां लोकानां, पुरं तत्मियमेलकं // 12 // विमानानां विमानत्वं, यत्राऽर्हच्चैत्यशोभया। विचार्य नार्यो देवानां, स्थिताः पश्चालिकाच्छलात् // 13 // धनैर्धान्यैस्तदाऽऽकीर्ण, न जीर्ण तत्कदाचन / सरामा लक्ष्मणा यत्र, कौशलायामिवोषिताः // 14 // आधप्रभोः पारणाऽभूत्र श्रेयांसकारिता / चक्रभृन्मघवाऽप्यासीत्तथा सनत्कुमारकः // 15 // शान्ति-कुन्युररश्चक्रधरास्तीर्थकरास्त्रयः / अत्राऽभूवन भूवलय-प्रभासम्भारकारणम् // 16 // गङ्गाप्रसङ्गाल्लोकानां माहेश्वर्य प्रतीयते / महाश्चर्यकरं यस्यां, वयस्या या दिवापुरः / / 17 / / तस्यामष्टमतीर्थेशस्तीर्थे सामर्थ्यमीयुषि / भूपालनाम्ना नृपतिः, प्रतिपक्षक्षयंकरः // 18 // प्रतापेन स मार्तण्डः, कीर्त्या राका निशाकरः / न्याये बुधः प्रजाशिक्षा-गुरुर्दीने मरुत्तरुः // 19 //
Page #15
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् प्रथमोऽविकार स्मरस्येव रतिस्तस्य, प्रियाऽऽसीत् प्रियसुन्दरी / / प्रीतिवत् प्रीतिपात्रं च, परा तिलकसुन्दरी // 20 // बुद्धया ज्येष्ठीभवंस्तत्र, श्रेष्ठी धनपतिः पुरे। कान्त्या क्षान्त्या सदा लीनः, पुण्यनैपुण्यवानभूत् // 21 // वणिग्वरः परस्तत्र, हरिहरिबलः कुले / तस्य प्रिया प्रियालक्ष्मी, सुरूपा शीलशालिनी // 22 // कमलश्रीस्तयोः पुत्री, सर्वाङ्गसुभगाऽभवत् / यूनां मनः कुरङ्गाणां, वागुरेव लसद्गुणा // 23 // हरेगृहं धनपतिः, श्रेष्ठयन्येद्युः समागतः। राजकार्येण केनाऽपि, स सन्माननिविष्टवान् // 24 // प्रेक्षां चक्रे पयोजाक्षी, तां सुतां कलशस्तनीम् / श्रेष्ठो तेनाऽनुरक्तोऽस्यां, प्राक्सम्बन्धादजायत // 25 // व्यवहारिमुखात्तस्यास्तातमभ्यर्च्य सादरं / उपयेमे महोत्साहात्तां कन्यां बहुलोत्सवैः // 26 // रेमे तया समं भोगैः, सा भोगैर्विविधैः पतिः / दिवस्पतिरिवेन्द्राण्या, शर्वाण्या वा महेश्वरः // 27 // तस्याश्चातर्यसम्भोगैः, प्रयोगैर्वचसां पियैः। रञ्जितात्मा मनाग भर्ता, न सेहे विरहं रहः // 28 // अशनैर्वसनैर्गन्धैः, प्रबन्धैरनुयोजनैः / अनुकूलयतिस्मैना, स्मितास्यां स्नेहसुद्धये // 29 // एवं दृढतरस्नेहाभोगेर्भुजानयोः सुखम् / कियानपि व्यतीयाय, समयः प्रमदाञ्चितः // 30 // पीत्या सक्ताऽनुरक्ता सा, भूता श्रीजिनशासने / कमलश्रीर्मनःखेदं, दधौ गर्भाऽनवाप्तितः // 31 // विवाहितास्तया साई, समाना वयसाऽपि च / प्रसूता हि स्त्रियः पुत्रान् , नाऽयाऽप्यस्याः समर्मता // 32 // इस्यमाना वयस्याभि-रेवं दैवानुभावतः / सा नत्वाऽर्हतमन्येयुः, पप्रच्छ मुनिपुङ्गवम् // 33 // XXXXCXEEEEEEEEEEEXXXX
Page #16
--------------------------------------------------------------------------
________________ प्रथमोऽ भविष्यदचचरित्रम स्वामिन् ! पशुक्रियासक्तिविक्रियाभिविडम्बिता / समयं गमयाम्युच्चैविना धर्म कुतः मुखम् // 34 // तेन मे तनयो भावी, नवाड कीदृशं सुखम् / भविष्यतीति सन्देह, व्यपाकुरु गुरुपभो ! // 35 // इति पृष्टः स्पष्टबोधाद्वभाषे स मुनिस्ततः / सुतं ते नृपतिर्भावी, धर्मकर्मणि तत्परः // 36 // निशम्य सम्यग वाचं सा, हृष्टाऽऽचष्ट निजं पतिम् / सोऽप्युत्साहमरात्माह, न ऋषेर्भाषितं मृषा // 37 / / यतः-अमोघा वासरे विद्युत्, अमोघं निशि गर्जितम् / अमोघा च ऋषेर्वाणी, अमोघं देवदर्शनम् // 38 // क्रमात्स्वल्पदिनैर्गर्भस्तस्याः कुक्षौ स्फटोऽभवत / तत्मभावान्निशि स्वमे, तया सिंहो निरीक्षितः // 39 // भविष्यसूचकः कश्चिन्मुनिमें गृहमागतः / इदं स्वमद्वयं वीक्ष्य, सा निद्रां विजही तदा // 40 // प्रवर्द्धमाने गर्भे सा, दोहद माप सादरं / जिनेन्द्रपूजने साधु-जने भक्तिविधीयते // 41 // प्रेम्णाऽऽलाप्य पतिः पृष्ठद्धा, तदीहां पर्यपूरयत् / सखीजनः प्रमोदेन, सेवां तस्या वितेनिवान् // 42 // पासूत समये पुत्रं, सा माचीव दिवाकरः / माङ्गल्यतीर्थसलिलैस्तस्य जज्ञेऽभिसेचनम् // 43 // नैमित्तिकं समाहूय, पित्रा तज्जन्मलग्नकम् / लिखितं तत्फलं तेन, सकलं प्रकटीकृतम् // 44 // भाग्यवान् नृपतिर्भावी, सुतोऽयं सद्गुणाकरः / श्रुत्वेदं श्रेष्ठिनाऽऽपूज्य, निमित्तको विसर्जितः // 45 // पितुः परिजनानां च जज्ञिरे बहुधोत्सवाः / न्यस्ताः कुकुमहस्ताश्च, चन्दनानां घटाच्छटाः॥४६॥ वोरणानि विचित्राणि, बद्धानि गृहपत्तिषु / मणिमुक्तामयान्यष्टौ, मङ्गलानि बभासिरे // 47 //
Page #17
--------------------------------------------------------------------------
________________ | प्रथमोऽ मविण्यदा चरित्रम राजयो जयसूचिन्यो, ध्वजानो रेजिरेऽजिरे / नऋतुर्नर्तका नाना, गात्रावर्तननर्तनैः // 48 // गेयं गाणिक्यमाणिक्यैः, पारेमे श्रोत्रयोः सुखम् / पेठुर्जयजयारावं, बन्दिनो दाननन्दिनः॥४९॥ विकारः राज्ञाऽप्याझा कृता बन्दि-मोचने पुरसेचने / श्रेष्ठिनः पुत्रसंपत्त्या, प्रमोदोत्फुल्लचेतसा // 50 // स्फारालङ्कारविस्तारैः, बन्धुसत्कारकारणात् / मार्गणानां मिष्टदानस्तदा जातो महन् महः // 51 / / भविष्यदत्तनामाऽस्य, ददे पित्रा तनूरुहः / पूर्वस्वमानुसारेण, तथा चारगुरोगिरा // 52 // जिनचैत्ये मुतो निन्ये, मात्राऽईदर्शनाय सः / गुरुपणामकृतस्तत्र, प्राप्ताशीर्वाक्यमङ्गलः // 53 // धात्रीभिर्पश्चभिलाल्यमानः स ववेनिशं / सौभाग्यसीमा भाग्यस्य, भूमिभूभिभुजां मियः // 54 // दम्पत्योः प्रणयस्तेन, तनुजेन मनागपि / व्यभिद्यत न सधष्कस्तदेधामास बालवत् // 55 // पल्लवैश्श्रुतवल्ली स्याल्लमैव सुमेधसां / फलेन सङ्गमे तस्याः, किं न स्यात्मियताधिका // 56 // सर्वानन्दमयो बभूव समयः, पित्रोः सुपुत्रोदयात् / द्वेषा तत्र हरिप्रिया प्रमुदिता जन्यङ्गजन्मेक्षणात् / राजो मण्डलवर्द्धनेन सकला प्रादुर्बभूवुः कलाः / सन्तुष्टः स्वजनश्चिरं सुमनसामामोदमेदस्विता // 57 // // इति श्रीभविष्यदत्तचरित्रज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते प्रथमोऽधिकारः।।
Page #18
--------------------------------------------------------------------------
________________ अथ भविष्यदत्तचरित्रे द्वितीयोऽधिकारः भविष्यदत्त चरित्रम् द्वितीयोऽ धिकार चन्द्रमभप्रभासारैरन्तस्तापे ध्वपाकृते / को न स्यादमृतग्राही, महानन्दसमृद्धये // 1 // बर्द्धमान इवाऽतीव, मालाय तदीक्षणे / प्रवर्द्धमानस्तनयः, सोऽभूल्लोकस्य वल्लभः // 2 // कुमारः मुकुमाराङ्गा, साङ्गसौभाग्यसनमः / जङ्गमः कल्पशाखीव, सुमनोभिरलङ्कृतः // 3 // निजाङ्के क्रियते राजा, चामरैर्विज्यते नरैः / उत्सङ्गादपरोत्सझे, नीयमानः स ऐधत // 4 // रमयन्ति रमण्यस्तं, चुम्बनैरविलम्बनैः / हृदयोपरि विन्यस्य, हस्यमानाऽऽननाऽम्बुजम् // 5 // भाशने शासनेनाऽस्य, राज्ञाकारि महोत्सवः / अहो पुण्यस्य नैपुण्यं, यत्परोऽपि निजीयते // 6 // पदे पदे सौख्यऋद्धि, प्रपेदे श्रेष्ठिनः सुतः। भजनालापचातुर्य, बभूवाऽध्ययनोचितः // 7 // उपाध्यायसमीपे यो, नीतः पठनहेतवे / विनीतस्तक्षणादेव, जग्राह सकलाः कलाः // 8 // माग संस्कारवशात्सर्वास्तस्मिन् विद्या उपस्थिताः / गुरुणा गुरुतां नीतेऽपरछात्राऽनुशासनात् // 9 // आयुर्वेद धनुर्वेदमभ्यसन विविधाऽऽयुधः / लाघवेनाङ्गसञ्चारैः, रणभावीण्यमासदत् // 10 // गजशिक्षा तदाऽऽरोई, तद्वशीकरणं तथा / शिल्पं समस्तमभ्यस्त, दृष्दैव श्रेष्ठिमनुना // 11 // . स्तोकैरेव दिनैः सर्व-वाङ्मयार्णवपारगः / द्वासप्ततिकलाशाली, भानुमालीव रेजिवान् // 12 //
Page #19
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम प्रथमोऽधिकारः हं निरीक्ष्य पिताऽवोचत्, प्रमोदाऽऽपूर्णमानसः / अहो महात्मा कोऽप्येषोऽस्माकं कुलकुलाधरः॥ 13 // प्रातः प्रियां प्रति माह, साहसी सिंहवत्सुतः / नयेन विनयेनाऽपि. कान्ते ! मत्तोऽधिकः श्रिया // 14 // तयाऽपुचे जीवितेश : पुण्यपेशलतां ह्यसौ / लभतां स च नामेव, वृद्धि बुद्धवतां सताम् // 15 // नयनाऽऽन्दनाः सर्वे, नन्दनाश्चन्दना भुवि / इष्टं विशिष्टं यद् यत्स्यात्तत्सर्वं पुण्ययोगतः // 16 // यतः-पाज्या राज्यादि संपत, सुभगशुभशताऽऽभोगसंभोगभोगाः। संयोगा निर्वियोगा विनयनयमतिःसंमतिः विश्वविश्वे। आज्ञा राज्ञामलध्या भवति भवतिरोधानबुद्धिः प्रसिद्धिः। सर्व सद्धर्मकर्मद्रुमकुसुमभरोद्भूतसौरभ्यमेतत् // 17 // फलदो यादृशस्ताक्, फलं स्यात्सकलं जने / जनकस्तभवान् श्रेष्ठी, तज्जन्यः किं नु हीयते // 18 // एवं तयोः सुदम्पत्योः, स्नेहालापेन मञ्जुलः / विलासः प्रासरन्नित्यं, वेलया रसवारिधेः // 19 // अन्योऽन्यं प्रणयाऽवेशाद्भोगान् भुञानयोस्तयोः / माग निबद्धं समुदितं, दुष्कर्म कमलश्रियाः // 20 // पत्युः स्नेहेऽपि सन्देहः, प्रत्युताऽनिष्ठताऽजनि / नाऽस्या दर्शनमेतस्मै, रोचते लोचनाम्बुजे // 21 // तारुण्ये पूर्णलावण्ये, सुभगेऽङ्गेऽपि नीरुजि / सरसे वचनोद्गारेऽप्यासीदासीच सा प्रिया // 22 // कमलश्रीस्थितियंत्र, बहिर्वा वेश्मनोऽन्तरे / श्रेष्ठी द्रष्टिं न दत्तेऽपि, तत्र वित्रस्तवद्रुषा // 23 // कार्याय नार्या याऽपैषि, चतुरा पत्युरन्तिके / आली व्यालीव सा मेने, पत्याऽसत्यविकल्पतः // 24 // किं न मे दर्शनारे, म्रियतां वाऽप्यसौ लघु / जनो न हर्ता कोऽप्यस्या, भर्ताऽसावित्यचिन्तयत् // 25 //
Page #20
--------------------------------------------------------------------------
________________ भविष्यदच चरित्रम द्वितीयोऽ COIधिकार भार्याकार्याणि सर्वाणि, भतृसाध्यान्यवेत्य सा। विविक्षति स्वयं गत्वा, तदा स क्षितिमीक्षते // 26 // आलापेऽपि महापापं, शोचनं तद्विलोकने / स्पर्श दुःखपरामर्श, श्रेष्ठी तस्या व्यजीगणत् // 27 // हास्येऽपि तस्याः संसर्गादास्यं तस्य मलीमसं / गुणेऽपि दोषधीज्ञे, अहो दुष्कर्मचेष्टितम् // 28 // पत्युनिस्नेहतामेवं, सा विमृश्य पदे पदे / मानभ्रंशाद् वरं मृत्युः, हृदीत्यालोचयत्यतः // 29 // : न कृतं विकृतं किञ्चित्, सुकृतं दुष्कृतं नवा / न शीललीलासंचाराद्, व्यभिचारविचारणा // 30 // कटाक्षैक्षितः कश्चित्, भीत्या पर नरो मया / नाऽऽलापि पापि मनसा, किं बभूव तथाऽप्यदः // 31 // पत्युः पीत्या चैपरोत्यमकारणमवारणं / सखीमुखेन वा साऽहं, पृच्छाम्येवमचिन्तयत् // 32 // सखीभिर्बहुधा पृष्टः, श्रेष्ठीनाचष्ट दुष्टधीः / प्रत्युताऽऽलापविच्छेद, तासां निर्वेदकृद् व्यधात् // 33 // अन्येधुः स्वयमभ्येत्य, भर्तारं सा व्यजिज्ञपत् / निरागसः किं सन्तापं, दत्से धत्से न मे हितम् // 34 // भवान् प्रतिक्षणं पार्थान्मां, संतत्याज न रागतः / सुधां मदधरापानादधरामन्वबुध्यत // 35 // कार्याण्युत्सार्य राज्यस्य, रागादागान्मदन्तिकं / ददौ मुखेन ताम्बूलं, क्व स स्नेहश्चिराद् गतः // 36 // अनिमित्तमिदं चित्तं, मत्तः केनाऽपि पापिना / उत्तारितं मुधा दोषमुद्भाव्य भवतः कथम् // 37 // स्त्रीणां चित्तं मृदुतरं, रोपं न सहते मनार / दुनिरिक्षणमात्रेण, खड्गेनैव वधक्रियाम् // 38 // दीर्घकालमियान क्लेशस्ताभिः किं सबते मिय! नाऽपेक्षते वियोगामिरिन्धनानां घनान्यपि // 39 //
Page #21
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् द्वितीयोऽ विकार EXERCISCEBOX तत्मसीद स्नेहशा, विलोक्याऽऽलापय स्वयम् / इत्युक्त्वा करसंस्पर्श पत्युर्यावच्चिकीर्षति // 40 // तावत्कोपाऽनलज्वाला-करालः स जगाविति / इतोऽपसर दूरे रे! याहि याहि पितुर्ग्रहम् // 41 // किं क्लेशेनाऽमुना साध्यमाराध्यमपरं भज / त्यज मद्गेहसंवासं, ब्रजस्व स्वैरविभ्रमे // 42 // ततः सगद्गदं वाला, बभाषे स्फुरतिाऽधरा / किं केन वञ्चितो बूषे, कुलिनाऽनुचितं वचः // 43 // त्वत्कुलं मत्कुलं वाऽपि, न मयाऽस्ति कलङ्कितम् / त्वते शरणं नाऽन्यस्तत्वा याम्यधुना प्रिय ! // 44 // प्रत्याय निजे गेहे, स्नेहे दत्ता जलाञ्जलिः / सबाष्पतरलाक्षी सा, स्वात्मनीत्यन्वभावयत् // 45 // इयस्कालं चिरं जीव ! पत्या मानेन वदितः / ततो विषयवान्छायाः, स्वयं किं न निवर्त्तसे // 46 // वीतरागैरयं रागस्त्यक्तो दुर्गतिसाधनम् / तं निरुद्धय विबुद्धयस्व. जिने तागृप्यभावनात् // 47 // इत्याशास्य स्वमात्मानं, मनाग वैराग्यमीयुषी / हास्यं लास्यं न वा मानमपमानरुचिं दधौ // 48 // नाऽखकार न नेपथ्यं, न माल्यं न प्रसाधनम् / कटासर्नेक्षण चक्रे, जल्पनं न विकल्पनम् / / 49 // त्रिकाल जिनपूजायां, ज्यायांसं भावमाश्रिता / पत्युदुर्वचनैर्नुन्ना, गृहं प्राप्ता हरेः पितुः // 50 // श्रेष्ठिना तद्गति हावा, मुक्तः कोऽपि जनोऽनुगः। तस्याः पित्रोः पुरोऽवाचि, वाचिकं तेन सत्वरम् // 51 // इयं हि भवतोः पुत्री, कुलमार्गोंचितक्रिया-गुणैः पियाऽपिया वापि, स्वगृहे रक्षतादिति // 52 // हरिदत्तेन तं श्रुत्वा, तां समाचास्य सदगिरा / विलक्षेन स्थितं गेहे, यद्भावि तद् ध्रुवं भवेत् // 53 //
Page #22
--------------------------------------------------------------------------
________________ कितीयो भविष्यदचचरित्रम धिकार यतः-उदयति यदि भानुः, पश्चिमायां दिशायां / प्रचलति यदि मेरुः, शीततां याति वहिः // विकसति यदि पर्म, पर्वताऽग्रे शिलायाम् / तदपि न चलतीय, भाविनी कर्मरेखा // 54 // इतो भविष्यदत्तोऽपि, रममाणः सुहृजनः / मातः स्ववेश्म नाऽद्राक्षीत, जननीं तत्र कुत्रचित् // 55 // कान्दिशीकः परिजनं, पश्यन् वाष्पाहतेक्षणम् / पृष्ट्वा कञ्चन तद्धेतुं, सोऽन्वगान्मातुरन्तिकम् // 56 // लक्ष्मीः स्वाऽङ्के निवेश्याम, स्वस्थीकृत्य श्रमातुरम् / पीत्या शिरश्चचुम्बाऽस्य, तनयायास्तनूरुहः॥५७॥ मा भीर्वत्से न धत्से किं, चिते संसारविक्रियां / इटोऽप्यनिष्टस्सोऽपोष्टः, स्याद्यथा कर्म निर्मितिः // 58 // विमृज्याऽश्रूणि नेत्राभ्यां, पुच्या लक्ष्मीजंगाविति / श्रेष्ठिनोपकृतं सम्यक, यवं निष्काशिता गृहात् // 59 // यद्येवं त्वं पुरश्वास्याः, कर्ता भर्ती भवन्नपि / तदा वृथोपयन्ता किं, हे ! दुर्जन ! न लज्जसे // 6 // यद्यस्माभिः समानेनाऽन्येनाऽस्याः पाणिपीडनम् / तदा दुःखं न दाताऽयं, धिगम पुरुषाधमम् // 61 // हरिरप्याह निःश्वस्य, घिग् दैवं वश्चिता वयम् / दुष्टेन श्रेष्ठिनाऽभ्यर्थ्य, मत्पुत्रीय कथिता // 62 // वत्से ! तिष्ठ ममाऽभीष्टे, खेदं मा कुरु चेतसि / विवेः परिणतिर्नुनमगम्या योगिनामपि // 63 // शुभं वाऽप्यशुभं वाऽस्तु. सर्व विधिवशाद् भवेत् / पौरुष पौरुष नाऽत्र, किमन्तर्गडुनाऽमुना // 64 // बालोऽप्यबालवत्योचे, यदि पित्रे न रोचिता / मोचिता कलया नैव, दैवं सेवामहे वयम् // 65 // यदि पित्रा न सन्मान्या, तकि दैन्यवचोभरैः। अनिच्छति जने सेवा, कीशी फलदा भवेत् // 66 //
Page #23
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम द्वितीयोऽ धिकार न सहेत परोकी, हर्ष वा निजके यकः। कार्यों न तस्य व्यामोहः, क्षणमात्रं विचक्षणः // 6 // प्रविश्य दैवस्य गृहे, केन तच्चरितं धृतं / अनाधारा हि साधाराः, साधारास्तु तदन्यथा // 68 // यतः-अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते / विधरेव तानि घटयति यानि पुमान्नैव चिन्तयति // 69 // यन्मनोरथशतैरगोचरं, यत्स्पृशन्ति न गिरः कवेरपि / स्वप्रवृत्तिरपि यत्र दलभा, लीलयैव विदधाति तद्विधिः॥७॥ एतद्वचनमाकर्ण्य, धीरोदारविम्भितम् / मातामहः प्रसन्नोऽभूत, सामान्यो न शिशुह्यसौ // 71 // मात्रा समं सः तत्रस्थः, क्रीडन् अञ्चाधिरोहगः / सालंकारतया रेजे, पुष्पितः कल्पपादपः // 72 // सन्मानदानः सुहृदां, जिनपूजनवन्दनः / गुरूणां भक्तिवात्सल्यैः, सोऽभूल्लोके महाशयः॥७३॥ कमलश्रीः सुखं तस्थौ, वीरमातेव देवनैः / भविष्यदत्तपुत्रेण, सेनान्येव समं शिवा // 74 // इति पतिपरिमुक्ता सूनुनाऽनूनभासा / व्यरुचत कमलश्रीः पाप्य लक्ष्मीनिवासं / गुरुरुचिहरिणाऽपि प्रातरास्पृश्यमाना / प्रविहसितमुखीभिः, सेव्यमाना सखीभिः / / 75 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते द्वितीयोऽधिकारः।।
Page #24
--------------------------------------------------------------------------
________________ तृतीयों मविण्यद परित्रम अथ भविष्यदत्त्चरित्रे तृतीयोऽधिकारः येन चन्द्रमसा दीतिर्नखभासा विनिर्जिता / स श्रीचन्द्रप्रभुयाञ्चन्द्रनिर्मलकीर्तये // 1 // अवमन्य गिरस्तेषा, विमुच्य कमलश्रियम् / पुनर्धनपतिश्चक्रे, धनदचसुवाग्रहम् // 2 // मणिमाणिक्यमुक्तादीन, वितीयौदार्यशालिना / श्रेष्ठिना परिणिन्ये सा, नाम्ना रूपवती कनी // 3 // कृताऽसौ स्वामिनी सर्व-गृहमारस्य सा वधः। पालयन्ती परिजनं, पत्युरानन्दिनी गिरा // 4 // सुखासनेऽधिरुणाऽसौ, सौभाग्यभरभूषणा / पौरस्त्रीभिः समं चैत्ये, ययौ पूजाकृतेऽईताम् // 5 // श्रेष्ठिनो राज्यमान्यत्वाद, लोकैः सर्वत्र पर्वणि / बहुमानाऽऽसनायैः साऽऽहूयते पूज्यते धनैः॥६॥ तयां समं धनपति-भौगान् स बुभुजे चिरम् / धन्यंमन्यः स्वमात्मानमान्दरसपेशलः // 7 // मियाननविधुज्योत्स्ना-समुहीपितमन्मयः / तदीयाधरपानेन, स पीयूषरसं पपी // 8 // कदापि जलकेलीभिः, कदाचिदनसेवनैः / तया समं रतिं चक्रे, दोगुन्दकसुरोपमः // 9 // हृदयंगमसम्भोगेलौनाया रसनिर्भरैः / कदापि गर्भसम्भूतिस्तस्या रेजेऽभिनन्दिनी // 10 // यथा यथा प्रवधे, गर्भस्तस्या मनोरथैः / तथा तथा स्तनौ स्फाति, जम्मतुः पाण्डुरौ पुनः // 11 // क्रूरग्रहाणामुदये, प्रसूता सुतमद्भुतं / प्रमोदितपरिजनश्चक्रे पित्रा महोत्सवः // 12 // 12
Page #25
--------------------------------------------------------------------------
________________ भविष्यदर चरित्रम तृतीयोऽधिकारः दीनानामुचितं दानं, गान धवलमालैः / कृत्वाऽभिषिच्य तनयं, सलिलैविमलैः फलैः॥ 13 // बन्धुदत्त इति स्वीयर्दत्तनामाङ्गजा क्रमात् / धाब्यादिविहितैर्यत्नेननन्द शातिनन्दनः // 14 // मात्राऽभिलालितः पित्रा, पालितः सकलाः कलाः / जग्राहाऽध्यापकस्याऽन्ते, विद्या रूपं मनस्विनाम् // 15 // यतः-विधा नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं / विद्या भोगकरी यशःसुखकरी, विद्या गुरूणां गुरुः / विद्या बन्धुजनो विदेशगमने, विद्या परं दैवतं / विद्या राजसु पूज्यते न तु धनं, विद्याविहीनः पशुः // 16 // विद्वत्वं च नृपत्वं च, नैव तुल्यं कदाचन। स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते // 17 // सवय शतसंयुक्तश्चिक्रीड क्रीडमध्यगः / नृपतेर्बहुमान्योऽयमन्यायान्न न्यवर्तत // 18 // नवार्यः श्रेष्ठिसूनुत्वात्कुकर्माल्लम्पटैविटैः। यत्र तत्र परिभ्राम्यन्, श्राम्यति स्म न दुर्णयात् // 19 // सर्पवत् कुटिलं गन्ता, मन्ता दोषस्य सद्गुणे / पैशुन्येनाऽशून्यमना, मनाग न विनयं दधौ // 20 // परस्त्रीलम्पटो लोकैर्षिकृतोऽधिकृतो मदे / धनित्वाद्राज्यमान्यत्वादुपदुद्राव पूर्जनम् // 21 // यतः-यौवनं धनसंपत्तिः, प्रभुत्वमविवेकिता / एकैकमप्यनय, किं पुनस्तच्चतुष्टयम् // 2 // ततो राज्ञाऽप्युपालन्धः, स्तब्धधीविनयोजितः / सोऽभूत स्वजनसम्बन्धे, गर्हणीयः पदे पदे // 23 // व्यवहारमिषेणाऽपि पुरान्निर्यात्ययं यदा / तदाऽऽकुलव्याकुलत्वं, न स्यादपयशोऽन्यथा // 24 // मत्वेति बन्धुभिः शीघ्रं, मेर्यमाणो धनार्जनं / बन्धुदत्तः स्वजननी, माह देशान्तरोन्मुखः // 25 //
Page #26
--------------------------------------------------------------------------
________________ भविष्यद परित्रम् तृतीयोऽधिकार मातः पृच्छामि चेदाज्ञां, ददासि यदि सम्पति / गच्छामि कनकद्वीपे, वाणिज्येन धनेच्छया // 26 // सा माह साहसं कस्मादकस्मात्कुरुषे मृषा / त्वपितुर्धनमाऽऽसप्तजन्मभोग्यं प्रवर्द्धते // 27 // न जानासि वणिग्मार्ग, जल्पने कम्पने मिथः / करसंज्ञादिसलेते, क्रयविक्रयकर्मणि // 28 // द्रव्यं देशं तथा कालं, भावं मत्वा सुधीनिजम् / सद्यः प्रतीक्ष्य वा वस्तु, दत्ते गृहणाति वाऽर्थतः // 29 // यतः-अर्पण किञ्चित् कलयाऽपि किश्चित् / मानेन किश्चित् तुलया च किञ्चित् / स्वल्पैर्मियैर्वा वचसां विलासैः / प्रत्यक्षचौराः वणिजो भवन्ति // 30 // अत्राऽन्तरे धनपतिः प्राप्तस्तत्र गृहाङ्गणम् / बभाणेदं वृथा खेदं, स्नेहच्छेदं करोषि किम् // 31 // भुक्ष्व भोगांश्चिरं सूनो! न्यूनो नास्ति धनैर्भवान् / अर्थार्जनस्य लोभेनाऽनथै कि लभसे मुधा // 32 // यतः-अर्थानामर्जने दुःखमर्जितानां च रक्षणे / आये दुःखं व्यये दुःखं, धिगर्थे दुःखभाजनम् // 33 // अवादीबन्दनः सत्यं, पित्रोर्वाक्यं तथाप्यहो / मदर्थार्जनकौशल्यान्मोदमुत्पादयामि वः // 34 // पाचीनं भुज्यते नव्यं, द्रव्यं नोपाज्यते यदा / तदा कातरचित्तस्य, न सिदिर्धर्मकर्मणोः // 35 // कुलमार्गप्रवृत्तस्याऽनर्थोऽपि यदि संभवेत् / हासावकाशः किं तत्रो-द्यमेन पुरुषोत्तमः // 36 // यतः-उद्यमे नास्ति दारिद्रय, जपतो नास्ति पातकम् / मौनेन कलहो नास्ति, नास्ति जागरतो भयम् // 37 // अधिगत्य बहपायैर्वन्धुदत्तविनिश्चयं / अर्थार्जनस्य समयात, पितृभ्यां भणितं पुनः / / 38 // EXCXCXCXCX यि तथाप्यहो / आये दुःख व्यये दबाज कि लभसे माने भुज्यते नव्यं,
Page #27
--------------------------------------------------------------------------
________________ भविष्यदरचरित्रम तृतीयोऽधिकारः चेदवश्यं तथा कार्य, न वार्य मङ्गलेच्छुभिः / प्रायः सुमनसां चेतो-वृत्तिसाध्या हि सिद्धयः // 39 // राजः प्रसादमासाघ, सुमुहूर्ते वणिग्वरः / चक्रे प्रयाणसामग्री, वस्तुमवाहवाहनैः // 40 // पुरेऽप्युद्घोषणा दत्ता, यः स्याज्जिगमिषुः श्रियै / संनद्यतां प्रसह्याऽयं, वणिग्पुत्रो यथेच्छया // 41 // तं निशम्य मुसार्थेश, धनेर्वा वाहनेर्जनाः / भाण्डानि प्रगुणीचक्रुर्गन्तुं, वाडौं च तत्समम् // 42 // इतो भविष्यदत्तेन, पृष्टाऽम्बा नतमौलिना / मातर्वाणिज्यविज्ञार्थी, बन्धुदत्तश्चलिष्यति // 43 // मयाऽपि तत्समं गम्यं, सम्यक् साथै महोद्यमः / विधीयते पुरे पौरैर्व्यवसायविचक्षणैः॥४४ // व्यवसायः श्रियो मूलमालस्यं विपदां पदं / विना देशान्तरं नार्थस्तदादेशं प्रयच्छ मे // 45 // तदाऽऽकर्ण्य वचः सुनोभाषे कमलश्रिया / कारयन्त्यश्रुभिः स्नानं, सगद्गदगिरा पुनः // 46 // साम्पतं साम्मतं नैतद्वचनं तनयोत्तम ! / अनिमित्तमहं त्यक्ता, तव तातेन कोपिना // 47 // त्वद्वक्त्रपीयूषरुचेः, सिक्तयाऽमृतधारया / जीवामि कामितं सर्व, मन्यमाना करस्थितम् // 48 // देशान्तरप्रयाणे ते, शरणं भविताऽत्र कः / वैमात्रेयेण सार्दै च, याने केनाऽनुमन्यते // 49 // भोजने योजने वाचां, स्वजने विजनेऽपि वा / दाने निदाने वैरं हि, वैमात्रयेण रक्ष्यते // 50 // श्रेष्ठिमान्यतया सर्वे, वणिजस्तद्वशंवदाः / असहायं विहाय त्वां, यान्ति चेद्वारकोऽत्र कः // 51 // विनयात तनयेनोचे, मातः! किं कातरा हदि / सहायं पुण्यनेपुण्यमत्राऽमुत्र तनूभृताम् // 51 //
Page #28
--------------------------------------------------------------------------
________________ भविष्यदन चरित्रम तृतीयोऽधिकार शैशवे रमते मातुरूत्सक रजतोऽर्भकः / व्यापारपारमामित्वं, जनकात्तस्य जायते // 53 // बाल्ये पित्रोरभावेऽपि, पुण्यं रक्षति देहिनः / देहि नस्तेन तन्मत्वाऽदेशं देशान्तराश्रये // 54 // सुतस्य मौढतायां हि, व्यामोहो न हितावहः / न साहसं विना सिदिमन्त्रे तन्त्रे धनार्जने // 55 // यतः-श्रियमनुभवन्ति धीराःन भीरवः किमपि पश्य / शवहतः कर्णः स्वर्णालङ्कृतिरञ्जनरेखाङ्कितं चक्षुः॥५६॥ वैमात्रेयस्तदा कि हि, पिता मे तस्य चैककः / किं विपयं स कर्ता मे, पश्यन्निजकुलोन्मुखम् // 57 // वणिपुत्राः पञ्चशती, तत्सार्थे सहचारिणः / तैः समं चलतः को वाऽवसरः स्याद्विरोधिनः॥ 58 // विरोधोऽपि मया पूर्वममुना वा न निर्मितः। किंवा नवनवैस्तकः कर्मायत्तं फलं नृणाम् // 59 // एवं सम्बोध्य जननी, बन्धुदताऽन्तिकं ययौ / भविष्यदत्तकः शुद्धथै, प्रस्थानदिवसस्य सः // 6 // तेनापि ज्येष्ठमायान्त, भ्रातरं वीक्ष्य सत्वरं / चक्रे वैनयिक कर्माऽभ्युत्थानाऽऽसनदानतः॥ 61 // सञ्जातं महदाचर्यमनभ्रा दृष्टिरय नः / नगरे निवसन् ज्येष्ठभ्राता येन विलोकितः // 62 // प्रसन्नाः कुलदेव्यस्तत् सफलं जीवितं हि नः / कृत्वा प्रसाद सम्माप्तो, ज्येष्ठ-भ्राता गुरोः समः // 63 // निमन्त्रणेन वः प्रेष्या, वयं कार्याय किं पुनः / गृहाङ्गणस्य पावित्र्य-कृते युष्याकमागमः // 64 // भविष्यदत्त इत्युक्तस्तेन प्रत्यब्रवीदिदम् / लघवोऽपि हि नः सेव्याः, यूयं तातनिषेविणः // 65 // राजसन्मानदानेन गुणैज्येष्ठाः धनेश्वराः / अस्माकं भवतां पार्च, प्राप्तौ स्याद्गुणगौरवम् // 66 // 1 e
Page #29
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम सृतीयोऽधिकारः यतः-राजमान्यं धनाढथं च, विद्यावन्तं तपस्विनम् / रणे शूरं च दातारं, कनिष्टे ज्येष्ठमामनेत // 67 // चलनायोद्यमं श्रुत्वा, यियासुर्धनसिद्धये / त्वदादेशं समीहे यद्विना सार्थ गतिः कुतः // 68 // अन्तर्दम्भसमारम्भस्तदाऽपाठीच्छठो हठात् / भवदीया वयं सार्थोऽन्यदीयो न हि तत्वतः॥ 69 // कृतार्था भाविनः सेवाकरणाद्भवतो वयम् / अनाथानां हि नो नाथा, ययूयं समुपस्थिताः॥७॥ इत्यक्त्वा तं विसाऽथ, स्वकीयां मातरं जगौ / मातः ! सार्थे सप्रेता मे, ज्येष्ठभ्राताऽत्र निश्चयात // 71 // दिशो मे वाससम्पूर्णा, यद्धातुर्मे सहागमः / मष्टव्यः सर्वकार्येषु, ज्येष्ठभ्राता सुदुल्लभः / / 72 // श्रुत्वा श्रोत्रविषं वाक्यं, सुनोरम्बाऽवदत्तदा / हे भद्र ! क्षुद्रवार्ता न, त्वं जानासि पुरातनीम् // 73 // एतन्माता धनं सर्व, लात्वा पितृगृहे ययौ / निस्सारं गृहमारं हि, चारयामि कथंचन // 7 // पद्ययं धनवान् भूत्वा, प्रत्यागच्छति मन्दिरम् / त्वत्तः सर्व धनं लात्वा, निस्सारयति वेश्मनः // 75 / / नाऽनेन सर्वथा भीतिः, कार्या कार्यादिसाधने / न विश्वासेाऽस्य सम्भाव्यः, पूर्ववैरानुबन्धतः // 7 // यतः-न विश्वसेत पूर्वविरोधितस्य शत्रोहि मित्रत्वमुपागतस्य / दग्धां गृहां पश्यत चूकपूर्णां काफमणीतेन हताशनेन // 77 // तेन देशान्तरे प्राप्ती, वने वा भुवनेऽम्बुवेः। परिष्ठाप्यस्त्वया नो चेद, त्वद्धनं स ग्रहीष्यति // 78 // अथ भविष्यदत्तोऽपि, जिनानभ्यर्च्य सादरं / दिव्यैर्विलेपनैपुष्पैर्वस्त्रैराभरणैर्वरैः // 79 // गुरून् भक्ताम्बुवस्त्राद्यैः, प्रतिलाभ्य निनाम्बया / भोजितः स्वजनैः सर्वैः, कृतमङ्गलकौतुकः // 8 //
Page #30
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम तृतीयो धिकार मातरं मधुरैर्वाक्यैः, सम्भाष्याऽऽशीर्वचोचितः / शिक्षां तदीयामादाय, प्रतस्थे शकुनहात् ॥विभिर्विशेषकम् // 81 // परदेशे धनोपानी, न्याय एव विधीयतां / न्यायेनोपार्जितं वित्तं, वर्द्धते सुखसाधनम् // 82 // कुलरीविन मोक्तव्या, कार्याऽकार्ये विवेकिना / केनापि सहन क्लेशः, कर्तव्यो धनमिच्छता // 83 // परस्त्रं धूलिवन्मान्यं, मावरः परयोषितः / स्वामिसन्मानयोगेऽपि, न स्मयो नैव विस्मयः // 4 // जिनधर्मे चिरं रागानाभक्ष्यं भक्ष्यते मनाक् / दृढव्रतं हि रक्षन्तु, जिनशासनदेवताः // 85 // कदाचित्पुण्यसम्भारात्सम्पदो वनिता बराः। राज्यं वा लभ्यते स्मार्या, तथापि जननी निजा // 86 // येन प्रत्यागमः सद्यो, भविता स्वजनप्रियः / अदृष्टा स्वजनैर्लक्ष्मीस्सतां सत्यप्यसत्यहो // 87 // इत्याद्यैः स्वजनादेशनिवेशे गुणसंपदाम् / सम्पूर्णहृदयः माप, सार्थसङ्गमनाऽऽस्पदम् // 88 // बन्धुदत्तोऽपि राजानं, नत्वाऽऽदेशं समुद्वहन् / वस्त्राऽलङ्कारदानेन, तेन सन्मानितोऽचलत् // 89 // पञ्चाशत्या वणिकपुत्रः, हयगन्त्रीरथस्थितैः / स्फरालङ्कारनेपथ्यैः, पौरविस्मयकारकैः // 9 // अन्वीयमानः स्वजनैर्गीयमानः स्तुतिव्रतैः / ददद्यथोचितं दानं, हयारूढो विनिर्ययौ // 91 // श्रेष्ठी धनपतिः सार्थे, समेत्य वणिजां चरान् / उवाच बहुमानेन, प्रयाणार्होनुशासनैः // 92 // सार्थेन रक्षितव्यो हि, यो जनोऽनुपलक्षितः / श्रान्ते भ्रान्ते सार्थजने, कार्या नैवाऽग्रतो गतिः // 93 // मिथः क्लेशो न सञ्चार्यः, स्मार्यों देवो जगत्पतिः। एकस्य व्यसने दैवात्सहाय्यं क्रियतां तथा // 94 // KEERRIXX
Page #31
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम तृतीयोऽधिकारः मदीयौ तनयावेतौ, बालौ न ज्ञातमण्डलौ / क्रये वा विक्रये दम्भ-सरम्भशौ न सम्पति // 95 // तदेतयोर्यथास्थानं, शिक्षा वाच्या विचक्षणैः / अन्योऽन्यमनयोर्वादे, बोधनीयौ धनार्जने // 96 // इत्याधुक्त्वा श्रष्ठिराजे, निवृत्ते श्रेष्ठिरः पुरः। प्रतस्थे बन्धुदत्तोऽपि, समारुह्य इयं वरं // 97 // कुरुमण्डलमुल्लद्ध्य, प्रयाणैः कतिभिर्दिनः / यमुनासरितं नौभिरुत्ततार स सार्थपः॥ 98 // स्मारयन् सर्वसाथै स्वं, वारयन् क्लेशतो नरान् / कारयन् उचितां वृत्ति, बन्धुदत्तः स जग्मिवान् // 99 // तत्तद्देश्यानि वस्तुनि, गृहन् वा ग्राहयन् परैः / व्यतिक्रम्य बहून् देशान्, स लेभे जलधेस्तटम् // 10 // ततः स्थलचरेभ्यः स्वमिभ्यमूः पण्यसंचयं / वाहनेभ्यः समुत्तार्य, वहनेषु दृढं दधौ // 101 // तत्र सांयात्रिकीभूय, भूयः श्रीकुलमन्दिरम् / चचाल बन्धुदत्तोऽन्धौ, कनकद्वीपबन्दिरे // 102 // पोताः स्वमातुरुत्सङ्गमिव सद्रससङ्गमम् / मदनद्वीपमभ्येत्य, तस्थूः रसजिघृक्षया // 103 // उत्तीर्य वहनेभ्यस्ते, महेभ्याः सानुजीविनः / भोक्तुं फलानि पातुं वा, जलानि भुवि रेमिरे // 104 // केचिदभुक्त्वा तरुच्छाया, सुप्ताः केचिद्धनान्तरे। जगृहुर्मुहुरुत्फुल्लकुसुमानि रिम्सया // 105 // जलस्य सङ्ग्रहे केचिद्वयापूतावलितुं पुरः / द्राक्षाणां मण्डपे केचित्तथा नागलताश्रये // 106 // क स्नानं वापिकासु, समुत्तोर्णा जलान्तरे / पसरन्मकरन्दाव्य सहस्रदलशालिनि // 107 // . भविष्यदत्तमुत्तीर्ण, रमणाय बनान्तरे / क्वाऽपि प्राप्तं स सम्भाव्य, बन्धुदत्तो व्यचिन्तयत् // 108 // XXXXXXXXXXXXXXXXXXXXXSALS
Page #32
--------------------------------------------------------------------------
________________ भविष्यदत्सचरित्रम तृतीयोऽधिकार मातुर्वचनिको स्मृत्वा, समाकार्य शनैनरान् / गच्छामि भ्रातरं मुक्त्वा, स्वेटसिद्धिस्तदा भवेत् // 109 // ध्यायन्नित्यादिदेशाऽसौ, सम्पाते सकले जने / इतश्चलन्नु भोः / शिघमारुह्य वहनावलीम् // 11 // कुर्वन्तूचैर्ध्वजपटान् , नटानिव समुद्भवान् / मुद्गरानायसान्य, लघून्नयन्तु भो जनाः // 111 // इत्यादेशमयाऽऽसाद्य, पोतपालस्तदा जगौ / अस्पष्टवणे यभ्राता, भवतां नाऽऽगतो वनात् // 112 // भ्रसंज्ञया निषेध्याऽमुं, मत्सरेणेतरान् जनान् / बन्धुदत्तो व्याजहार, व्याजवॉश्चलनोधमम् // 113 // समेष्यति ध्रुवं धाटी, तस्काराणां भयङ्करी / महेभ्यानामिह स्थानं, मत्वा तेषां जिघृक्षया // 114 // एवमस्मच्चरजनैः, संपत्युक्तमुपेत्य तत् / इत्येवं भाषमाणोऽयं, यानपात्रे रयाद्ययौ // 115 // प्रस्थापितेषु पोतेषु, वणिकपुत्रैनिवेदितम् / धुन्वद्भिनिजमूर्द्धानं, घर्षयद्भिः करौ मिथः // 116 // बन्धुदत्त ! न युक्तं ते, मोक्तं यद्भातृमोक्षणे / न गन्तुमुचितं पाद-मात्र सार्थपतेरिह // 117 / / मिथो न कश्चित्सङ्घर्षः, स्पष्टो वा कलहो नवा / तत्यक्त्वाऽमुं क्व गन्तव्यं, भव्यं न भवता कृतम् // 118 // कोपाटोपात्तदाऽभाणि, किं रे वो वार्तयाऽनया / ध्रुवं विरोधः सापल्यस्तत्र किं परिजल्पनैः // 119 // मिथस्तैश्चिन्तितं कार्यतज्जातं न सुन्दरम् / विश्वासघातः शास्त्रेषु, महापातककारणम् // 120 // धिगस्मान् येन बालस्य, कृतो मोक्षो वनान्तरे / गोत्रे मषीकूर्चिकेयं, जाता यजीविताऽवधि // 121 // दर्शनीयं मुखं स्वेषां, कथं कथनयाऽनया / शुभाचारपरिभंशे, वंशेऽस्माकं कथं स्थितिः // 122 //
Page #33
--------------------------------------------------------------------------
________________ चतुर्थोऽ भविष्यदत्तचरित्रम् 21 धिकारः SECXREETसद्ध अनीतिर्दा जने गर्हा, महानमितिर्गतिः / श्रेष्टिमूनोन्धुमोक्षे, जज्ञे लज्जाऽपिनो मनाक् // 123 // इत्येवं तुमलः समुच्छब्दयं स्वं निन्दयद्भिः कृतः / पौरैश्चौरजनाऽतिघोरविधिना मालिन्पमासादितैः तं श्रुत्वा जलधि लैरविरलैस्तस्मै पदत्ताञ्जलि-श्वञ्चद्वीचिकरैर्जघान पुलिनं, दुःखादिव व्याकुलः // 124 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते तृतीयोऽधिकारः अथ भविष्यदत्तचरित्रे चतुर्थोऽधिकारः भूयाश्चन्द्रप्रभो भूपः श्रीभोगाय प्रभाभृताम् / लक्ष्मणानन्दनश्चन्द्रलक्ष्मणासेवितः क्रमः // 1 // क्रमाद्भविष्यदत्तोऽय, पक्षाल्याऽधिकराननम् / आदाय जिनपूजार्थ, वापिकायाः पयोरुहान् // 2 // यावदायाति पाथोधेस्तीरे नीरेण शोभिते / यत्र सांयात्रिकास्तस्थुस्तत्र नैक्षत कश्चन // 3 // इतस्ततो विस्मयेन, पश्यन् दिग्वलयं पुरः / ददर्श दरतो गच्छत्पोतॉल्लघुकपोतवत् // // 4 // अहो किमेते सर्वेऽपि, मां मुक्त्वैव विनिर्गताः / किं वा सापल्यवरितादुरितं स्फुरितं मम // 5 // मातुरातुरया वाचा, भणितं किमुपस्थितम् / यदेते क्वाऽप्यरण्ये त्यां, मुक्त्वा यास्यन्ति निखपाः॥६॥ नापराद्धं मया किश्चित्, बन्धुदत्तस्य साम्पतम् / किन्तु सापल्यवैरेण, रेणवोऽस्याऽस्य पातुकाः॥७॥
Page #34
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् चतुर्थोऽधिकारः पापेन मतिहीनेनाऽकार्यमेतद्विनिर्मितम् / दत्तः कुले कलङ्कोऽयमनेन छलशालिना // 8 // यदि वा किं विकल्पेन, विषादेनाऽप्यलं हृदि / विधेविलसितादेवं, भावि तत्को निवारयेत् // 9 // यतः-जं चिय विहिणा लिहिय, तं चिय परिणमयइ सयललोयम्मि / इय जाणेविणु धीरा, विहूरे विण कायरा हुंति // 10 // धैर्यमालम्ब्य तत्कालं, मुक्त्वाऽऽशां स्वजनादिषु / भाग्यभावनयोत्तालश्चचाल वनसन्मुखः॥११॥ पविष्टः सिंहवत्तस्मिन् , कानने भीषणानने / मिश्रे तमिस्तवृक्षाणां, शाखाभिः स्थगिताम्बरे // 12 // अहो रात्रं यत्र रात्रेसति झिल्लिकारणैः / घूक्कृतं घूकवर्गस्य, शाश्वतं शाश्वतस्थिते // 13 // क्वचिद्वन्यगजेन्द्राणां, पिच्छलं मदवारिणा / दवारिणात्क्वचिदग्धं, दर्भसन्दर्भितं क्वचित् // 14 // क्वचिदगिरिगणागम्यं, रम्यं क्वापि लतागृहैः / क्वचित्सुरभिपुष्पोधैर्दारुणं सर्पसर्पणैः // 15 // नृत्यन्मयूरविस्तीर्णकलापछत्रमावहत् / वनं सूचयतीव स्वां, दुर्गवर्गेषु राजताम् // 16 // भ्रान्त्वा चिरं परिश्रान्तो, वने मृगेन्द्रसेवने / मण्डपे सोऽतिमुक्तद्रुसंकुलेऽथ निविष्टवान् // 17 // अपनीय श्रमं देहात्पाचे क्वाऽपि जलाशये / स्नात्वा पुष्पाञ्जलिः, पूजां स्मृताह तं स निर्ममे // 18 // आहृत्य ज्ञातवृक्षाणां, फलानि सुहितस्ततः / क्षणमात्रं विशश्राम, रमणीये रसातले // 19 // विश्राम्यन्तमिवाऽऽलोक्य, तं धमनब्जबान्धवः / किं तदैवाऽस्तशैलेन्द्रशिलासु निषसाद सः // 20 // सूरसङ्गमनादेव, प्रतीची रागवत्यभूद / जाता तत्मतिबिम्बेन, बिम्बेऽर्कस्यापि शोणता // 21 // 22
Page #35
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् चतोंडधिकारः रथे मर्यस्य विभ्रान्त्या, विशीर्णे जीर्णपत्रवत् / वियोजना रथाङ्गानां, अन्योन्यमुचिताऽभवत् // 22 // पमिनीमुखसङ्कोचाद्धसितेव कुमुदती / ताराः स्मरशरवाताऽवतारा रेजिरे दिवि // 23 // हृष्ट्वोधतान् कुलाजस्त्री-सङ्गमाय विहङ्गमान् / निश्चक्रमुहद्वाराद्वयभिचारपरा स्त्रियः // 24 // एतदाचारलोपोत्थपापैरिव तमोभरैः / व्याप्ता दिशस्ततो राज्यं, युक्तमासीत् कलङ्किनः // 25 // असहायस्तदा रात्रौ, साहसी हसिताननः / एकाकी भुवि सुष्वाप, हृदये निर्भयः स्वयम् // 26 // स्मृत्वा पञ्चनमस्कार, प्रत्यारव्यायाऽशनं निशि / आत्मानं आत्मना ध्यायन् , निदद्रौ निरुपद्रवः // 27 // मातर्महोदयायेवाऽमुष्य सन्दर्शितोदयः / भानुर्मार्गविकाशाय, करांश्चिक्षेप भूतले // 28 // पश्यन् गगनपान्थस्य, पथि यानमिवाऽयकम् / चचाल पुरतः काश्चिदिशमाश्रित्य सत्यधीः // 29 // शकुनैः प्रेर्यमाणोऽयं, निमित्तै पितोत्सवः / दक्षिणाऽतिभुजस्पन्दादाननन्द हृदन्तरे // 30 // स्तोकान्तरेण सन्मार्गः, प्राप्तस्तेन सुमेधसा / भ्रमता निश्चितं चित्ते, पन्थाः क्वापि प्रयास्यति // 31 // अध्वनाऽनेन गन्तव्यमिति निर्णीय सञ्चलन् / गिरिकन्दरमध्येऽगात, वेगात्साहसिकाऽग्रणी // 32 // अवमन्य भयं मृत्योः, स्मरन् पञ्चनमस्क्रियां / चन्द्रप्रभोदूंनाज्जगाम स गृहान्तरे // 33 // व्यतिक्रम्य कियन्मार्ग, मार्गयन् अभितोऽचलत् / अद्राक्षीद् कज्जलश्याम-तमालवनमग्रतः // 34 // पवनेरितपत्रालीसंज्ञयैव निमन्त्रयन् / तदनं प्रविवेशाऽसौ, मूखरं म्रमरस्वरैः // 35 //
Page #36
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 24 चतुर्थोऽधिकार उत्तीर्णे तरुसङ्कीर्ण, बने भवनशोभनं / ददर्श नगरं चार, चतुर्गोपुरभूषितम् // 36 / / उत्तवाभिश्यादि-प्रभया परिवेष्टितम् / पञ्चवर्णमणिज्योतिः कय्रालयराजितम् // 37 // पविश्य नगरे रत्न-स्वर्णवस्त्रकदम्बकम् / यथास्थानस्थितं भूयः, पश्यन्नेष विसिष्णिये // 38 // नागरः कोऽपि नैवाऽस्ति, वास्तव्यो द्रव्यनायकः / उदोपुरं पुरं केनाऽऽरक्ष्यते लक्ष्यतेऽत्र न // 39 // रामणीयकमारामे कामेनेवाऽऽहितं सुमैः / पासादे सादरा लक्ष्मीस्तदस्याः पतिरस्ति कः // 40 // न मजाः न व्रजाः स्त्रीणां, न गजा नाऽप्यजागणः / भूरिभाग्यवता भोग्ये, संशेते विभवे मनः // 41 // वणिग्मार्गापणश्रेण्यां, नाना वस्तूनि कान्तिभिः / रञ्जयन्ति मनो द्रष्टुः, परं नैव स दृश्यते // 42 // चैत्येषु जिनपतिमाः रलस्वर्णाशुभास्कराः। परं न पूजकः कश्चित् , विपश्चित्मेक्ष्यते पुरे // 43 // गन्धप्रबन्धैर्देवानां रञ्जनानि बनान्तरैः / पुष्पाणि सन्ति भूयांसि, परं न नायकः पुमान् // 44 // रसालसालेनालस्याल्लभ्याऽपि फलसन्ततिः / नैव भक्षयिता साक्षात्तथा रक्षयिताऽपि न // 45 // केनाऽपि वैरिवरस्य, योगेन नगरं द्रुतम् / उपद्रुतं राक्षसेन, मायते हेतुनाऽमुना // 46 // सर्वत्र नगरे धाम्यन् , लोचनानन्दनन्दनम् / राजद्वारं समीक्ष्याऽसौ, तदभ्यन्तरमासदत् // 47 // चतुरश्चतुरास्तत्र, ददर्श गजवर्जिताः / निरवा मन्दुराःसर्वाः कोशानाध्यक्षरक्षितान् // 48 // राजः सिंहासन हैम, शुभ्रमातपवारणम् / चामराणि परं तेषां, नाऽपश्यद्भोगनायकम् // 49 //
Page #37
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रमा चतुर्थोऽ धिकार तत्सर्वतः समुद्वीक्ष्य, धैर्यण सुरपर्वतः / श्रेष्ठिसूर्व हिरागत्य, प्रययौ जिनमन्दिरं // 50 // पवित्रैः स्वर्णकलशैर्विचित्रैः रत्नमण्डपैः / उच्चस्तरं तदालोक्य, स्वं कृतार्थयति स्म सः // 51 // वापिकासु कृतस्नानः, पान्यादाय तज्जलान् / चैत्यमभ्यन्तरेऽभेत्य, पणनामाऽष्टमं जिनम् // 52 // चन्द्रमभप्रभोबिम्ब, धुसृणैश्चन्दनैस्तथा / विलिप्य धूपदीपावैरग्रपूजां स निर्ममे // 53 // विधाय विधिना चैत्य-वन्दनां स्तवनैर्वरैः / प्रपेदे भगवद्धयानं, कायोत्सर्ग भजन् पुरः // 54 // कृत्वा ध्यान ततः प्रेक्षा-मण्डपे विहितासनः / जिनेन्द्र स्तोतुमारेभे, लेभे भवफलं ततः // 55 // जय जय महाराज ! व्याजक्रियां भवसम्भवामपनय नय प्रावीण्यं मे, स्वभावनयाऽनया / अतिशयमयं दृष्ट्वा बिम्बं तव स्तवनोचितं / रजति न मनः कस्याऽवश्यं विहस्य महात्मनः // 56 // निभृतमनसा ध्यानाधानानिधानमिव श्रियां त्वमसि लसितालोकं लोकंपृणस्तृणवत्परे। हृदि सुमनसां जातिभ्रान्तिप्रियाभवसङ्करैर्हरिहरमहेन्द्राधा नाद्याप्यमी स्मरजित्वराः // 57 // अजिनजिनस्तोत्रः श्रोत्रैः प्रपेयतरैर्वरैर्विमलसलिलस्नात्रैः पापियां सुधियां मियैः हरसि विलसन्नाम्ना धाम्ना तनोनितमां तमांस्युदयकमलामूलं स्थूलं तवैव नृणां स्मृतिः // हरिणीपद्यत्रयं // 58 // आदेयनामा मां देयादष्टमः स्पष्टमङ्गलम् / अर्हतामहतां नित्यलक्ष्मी भोगविवेः शिवः // 59 // स्तुत्वा तत्त्वाशयादेवं श्रेष्ठिमुर्मुदमावहन् / महानन्दपुरीवाऽस्य, तिलकद्वीपभूरभूत् // 6 //
Page #38
--------------------------------------------------------------------------
________________ भ्राम्यश्चैत्यमुपेत्य भाववशतश्च्यैत्यं समासेदिवान् / सूनुनमनूनपुण्यमहसा स श्रेष्ठिनस्तत्पुरे सानिध्येन सुरेशितुः पितुरिव श्रीमाणिभद्राशयात् / सम्पाप्स्यत्यचिरात्मसादरुचिरामानन्दिनी सम्पदाम् // 61 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते चतुर्थोऽधिकारः भविष्यदत्तचरित्रम चतुर्थोऽ धिकार अथ भविष्यदत्तचरित्रे पञ्चमोऽधिकारः कलापूर्णोऽप्ययं चन्द्रः, प्रभासयति मण्डलम् / चन्द्रप्रभस्तु भगवान् , लोकाऽलोकावभासकः // 1 // नत्वाऽचित्वा परिस्तुत्य, त्रिसायमष्टमं जिनं / सम्प्राप्तपरमानन्दः, श्रेष्ठिमूः सुप्तवान् भुवि // 2 // इतश्च भागविदेहाख्ये, क्षेत्रे मुनिर्यशोधरः / शुक्लध्यानेन संपाप, केवलज्ञानमुज्ज्वलम् // 3 // चतुर्णिकायास्त्रिदशा, रसात्तत्र समेयरुः / कैवल्यमहिमोत्साहविधित्साप्रेरितास्ततः // 4 // पपच्छाऽच्युतभूर्देवः, पाग जन्मनि विभो ! मम / मित्रं श्रीधनमित्रो यो, बभूव वणिजां वरः // 5 // मयि निःशल्यवात्सल्यो, जैन धर्ममुपाश्रितः / मदगिरा करुणागारः, सोऽधुना कां गतिं गतः // 6 // तद्गुणान् भावयन्नित्यं, स्थित्वा देवसभान्तरे / रञ्जयामि मनः स्वीयमेतदीयकथारसी // 7 // केवली स्पष्टमाचष्ट, तत्संशयविमोचने / करामलकवद्विश्चं, पश्यनश्यदुपद्रवः // 8 //
Page #39
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् 27 पञ्चमोऽधिकार: जम्बद्वीपस्य भरतेऽवसपिण्याः समुद्भवे / आर्यखण्डान्तरे क्षेत्र, कुरुजङ्गलसंज्ञकम् // 9 // हस्तिनापुरमत्राऽस्ति, भूपालस्तन्महीश्वरः / श्रेष्ठिधनपतिर्नान्ना, धाम्ना धनदसन्निभः // 10 // कमलश्रीः प्रिया तस्याः शीललीलासु तत्परा / भविष्यदत्तनामाऽभूदनमित्रः सुतस्तयोः // 11 // पाक्कर्मपरिणत्याऽस्य, माता निर्वासिता गृहात् / पितुहे सपुत्राऽस्थादवस्था विषमा समा // 12 // तस्याऽनुजस्तु सापल्यो, बन्धुदत्तो धनार्जनं / चिकीर्षुर्वहनारूढः, पाचलत् काश्चनीं भुवम् // 13 // साथै भविष्यदत्तोऽपि, मदनद्वीपमन्तरा / प्राप्तं तत्राऽमुचत् ज्येष्ठं, कनिष्टोऽनिष्टकर्मकृत् // 14 // स भाग्ययोगात्तिलकद्वीपे चन्द्रप्रभालये / अर्हद्भक्तिभतस्वान्तोऽधुना सुप्तोऽस्ति संस्तरे // 15 // निशम्य सम्यग् वृत्तान्तं, माग्वयस्य दिदृक्षया / अव्रजीत तिलकद्वीपे, जहांऽस्यास्यदर्शनात् // 96 // नमस्कृत्याऽष्टमं तीर्थेश्वरं स्तुत्वाऽतिभक्तितः / मा भून्निद्रा परिच्छेदः, सुहृद इत्यचिन्तयत् // 17 // चैत्यभित्तो वर्णपङ्क्ति लिखित्वाऽच्युतभूः सुरः / यक्षेशं माणिभद्राख्यं, तदक्षायै निदिष्टवान् // 18 // स्वस्थानमच्युते सुरे प्राप्ते यक्षपतिः स्वयम् / माणिभद्रस्तदासन्न स्सान्निध्यं कृतवांस्ततः // 19 // भविष्योऽपि विनिद्रस्सन् , प्रेक्षमाणो दिगन्तरम् / पुरतो भित्तिविन्यस्तवर्णानेवमवाचयत् // 20 // अहो भविष्यदत्त ! त्वं, सम्भ्रम मा वृथा कृथाः। चैत्यतः पूर्वदिग्भागे, सौवर्ण पञ्चमं गृहम् // 21 // आस्ते तत्र कुमारी या, पीना दीनपयोधरा / त्वया विवाह्या सा कान्ता, सुधातिमधुराधरा // 22 //
Page #40
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 28 पञ्चमोऽधिकार उत्तिष्टोत्तिष्ट किं सुप्तः, पत्तनाधिपतिर्भव / अच्युतस्थः सुहृत्माच्यस्त्वां जगादेति निर्जरः // 23 // विस्मितो वाचनादेव, देवं मे किमुपस्थितम् / असम्भाव्यं किमाश्चर्य, छलं वा किं बलात्कृतं // 24 // किं मुधा दुर्विकल्पेन, मरणादधिकं भयम् / नैवाऽस्ति दवात् पश्यामि, प्रत्ययं वाक्यसातैः // 25 // विमृश्य चलितः स्थानात, प्राप्तः पञ्चममन्दिरम् / सोपानश्रेणिमारुख, प्रेक्षां चक्रे स तत्स्थितिम् // 26 // मणिनिर्मितजालेषु, तन्मयीं तोरणावलोम् / कपाटरत्नकोटिभिः, प्रकटां स समैक्षत // 27 // विशन्नन्तश्चन्द्रकान्तिधवले धाम्नि सात्विकः / क्वचिन्मुक्तास्रजोऽपश्यत्कुट्टिमे रत्ननिर्मिते // 28 // स्फुटं स्फाटिककुड्येऽस्मिन्, भवने वस्तुमध्यगम् / बहिष्ठो व्यालुलोकेऽसौ, चतुराणामियं स्थितिः // 29 // ददृशेऽसदृशी तस्मिन्नेका, विस्मतलोचना / कुमारी रूपलावण्यारम्भाद्रम्मा विजित्वरी // 30 // दर्पणान्तः स्वागदप्पे, प्रेक्ष्यमाणा स्वरूपतः / विवृण्वती वेणिपाशं, साऽऽशक्यत सुरी ततः // 31 // भियन्तरेऽपि तां वीक्ष्य, चतुरो मदनातुरः / दृशोनिमेषं नाऽधत्त, देवावेशवशादिव // 32 // रक्तोत्पलश्रीविजिता, लीना तपादयोरिव / नखरत्नांशुसम्पत्त्या, पाप्ता मुकुटभूषणम् // 33 // गजेन्द्रकरसारूप्यं निरूप्यं जक्योर्द्वयोः / रोमराजिमिषात् पार्थे, संस्कारागसङ्गतिः // 34 // उदरे त्रिवली तस्या, रेजे सोपानपंक्तिवत् / स्तनशैलाधिरोहाय, मनोभवमहीपतेः // 35 // (अतिशेतां मुखं चन्द्र, तस्याऽवश्यं महीभुजाः / दधन्नयनसारद्वयीमेकमृगां न किं // 36 // ) ELLLLLORER
Page #41
--------------------------------------------------------------------------
________________ भविष्यदचचरित्रम पञ्चमोऽधिकारः पम्मिल्लवेल्लत्पुष्पोषैस्तस्यास्तारा वशीकृतौ / न विस्मयः सूर्यरुचेः स्थैर्ये सीमन्तनाऽगजे // 37 // राशा भशाऽनुरागेण, पश्यन्नेता सविभ्रमं / रसेन रमसंपत्त्यै, समालापयदेषकः // 38 // कासि त्वं कारणात् कस्मादस्मिन् शून्ये पुरे स्थिता / पीनस्तनि ! घनस्नेहात्सन्देहं मे व्यपाकुरु // 39 // पुरा पुराधिपोऽस्मिन् कः, शून्यं तत्केन हेतुना / परवस्तुनि चित्रं नो, विश्वसारत्वमत्र किम् // 40 // इति सम्भाषिताऽनेनाऽधोमुखी, मुमुखी स्थिता / गलदश्रुर्दशोलानकपोला कज्जलद्रवैः // 41 // ततः पुनरुवाचेमां, त्वन्मौनात्कोकिलीमिया / जडानां तेन वाचा त्वं, तान् विवेचय कामिनि ! // 42 // त्वन्मुखेन्दुरुचा वीक्षावशेनाऽत्राऽतिर्मुखम् / विशदीकुरु देवेन, पापितस्य पुरस्तव // 43 // त्वत्करग्रहणान्नीरभृङ्गारस्याऽपि सौष्ठवम् / सफलीकुरु नेत्राजक्षालनादनुवीक्षणात् // 44 // ततः सा सम्भ्रमाद्वासः, संवृत्योत्थाय संमुखम् / तस्य व्यापारयामास, नेत्रे जलपरिग्रहे // 45 // कटाक्षान् क्षेपयन्ती सा, तं निरीक्ष्य व्यचिन्तयत् / कोऽप्यसौ साहसी प्राप्तः, कुमारः शून्यमन्दिरे // 46 // अहं तु दग्धा देवेन, विमुग्धा स्वजनैविना / कुलकन्या पुरश्चैनं, कथं सम्भावयेऽधुना // 47 // इत्यामृश्य वामपादेनोल्लिखन्ती भुवं स्थिता / विहस्य कमलासूनुराललाप ततो ह्यमूम् // 48 // मानमुत्सारय स्वीयमातिथ्यं तथ्यमाचर / विनयेन कुलाचारे, भवत्युत्तमता स्फुटा // 49 // सुवर्णमयभृङ्गारे, पिधाय जलसम्भृतम् / अर्घाय पुरतो न्यास्थन् , मंक्षु भर्तुरिवाऽस्य सा // 50 //
Page #42
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् पञ्चमोऽधिकार 3:3XXXXXXXXXXXXXXXX तया दत्तासने स्थित्वा, श्रेष्ठिसूर्वदनं निजम् / जलैः प्रक्षालयामास, स्तुवन्नौचित्यचारुताम् // 51 // स्वर्णपत्रेण संवेष्टय, ताम्बूलं दत्तमेतया / कर्परमृगनाभ्यान्यं, स चखाद घनादरम् // 52 // क्षणं विश्राम्यतां प्रेम्णाऽऽलापयन् वा निभालयन् / वशीचकार चातुर्यक्रियायः कुमारकः // 53 // स्नात्वा स्मृत्वा नमस्कार, बुभुजे भुजविक्रमी / मोदकर्पतपुरायैस्तयैव परिवेषितैः // 54 // आचम्य सम्यक् पावित्र्यात् , ताम्बुलं चर्वयन् पुनः / मसृणैर्घसृणैर्लिप्तगात्रस्तस्थौ मुखेन सः // 55 // निविश्य पुरतस्तस्य, बभाषे मञ्चुभाषिणी / यदनेन पुरा पृष्टं, स्पष्टं तत्कथयाऽनया // 56 // राजा यशोधनोऽत्रासीत्, त्रासिताऽशेषशात्रवः / निखिलं तिलकद्वीपमवनीपः स मुक्तवान् // 57 // मत्पिता भवदत्ताख्यो, वणिविपणिमण्डनम् / माता मदीया मदन-वेगा शोलस्य मन्दिरम् // 58 // ज्येष्ठाऽस्या भगिनी नाम्ना, ज्ञानश्रीः स्नेहला हृदि / अहं भविष्यानुरूपा, भवदत्तस्य नन्दिनी // 59 // पाणेभ्योऽपि पिया तेषां, प्रयाणामपि देहिनाम् / जिनशासनभक्तानां, सक्तानां गुणसहि // 6 // सम्यक्त्वभाजामन्योऽन्यं वात्सल्यमभवदृढम् / त्रयाणां दानशीलादी, सममुधमशालिनां // 61 // . कुटुम्बस्मरणात्तस्याः, कण्ठो वैकुण्ठतामगात् / सगद्गदा गीरश्रूणि, भूतानि नयनाम्बुजे // 62 // आश्वास्य पुरतो ज्ञातुं, पृष्टा सा श्रेष्ठि सूनुना / प्रमाय॑ दृग्भ्यामणि, जज्ञेधोवदना पुनः // 63 // असुरः कोऽपि कोपेन, करालो व्यालबद्भमन् / अत्रोवास कृता तेन, जनमारिः पुरेऽखिले // 64 //
Page #43
--------------------------------------------------------------------------
________________ भविष्यदत्तचरिचम पञ्चमोऽधिकार मारिते सकले लोके, नृपति स निजनिवान् / अक्षता रक्षिता चैका, तेनाऽहं केन हेतुना / / 65 / / पुनः पुनीषयति, मां न मारयतेऽधमः / तत्त्वं सत्ववतां मुख्य!, गच्छ शीघ्रमितः स्थलात् // 66 // धीरो गभीरधीवीरः, परोपकारकारकः / मद्भाग्ययोगेनाऽऽकृष्टः, किं तिष्ठसि भयास्पदे // 67 // मत्वा वार्ता भर्यातयाः, प्रहसन् कमलाङ्गजः / मा भी भीरु भयं दूरे, त्वत्त इत्यवदत्स ताम् // 18 // अहमत्राऽऽगतो दैवात्, वाणिज्याय विनिर्गतः / गृहात विरहितः स्वीयैर्भमन् देशान्तरे परम् // 69 // पुण्यैः शून्यपुरेऽत्राऽपि, मापि त्वं खेदभेदनी / मया सेचनकं चित्तेऽवत प्रयणाम्बुधिः॥ 70 // मुखाकरोति यहत्त, बन्धुदत्तेन मेऽसुखम् / दृष्ट्वाऽनुरागिणीं त्वां हि, देवानामपि दुर्लभाम् // 71 // चणिग्वरकुले कन्या स्वमहं श्रेष्टिनोजजः / विधिना जनितो योगः, सोऽयं दूरस्थयोरपि // 72 // घटितः सामो येन, ममाऽयं कमलाभुवः / त्वया रत्या विधिमन्ये, स कर्ता नौ समीहितम् // 73 / / विजने सुजनाचारा, त्वमेका मम भक्तिकृत् / मीलिता विधिना तत्किं, मुक्त्वा यातुमहं क्षमः // 74 // अवसाऽनाथरक्षायै पौरुषं पुरुषे धृतम् / एकाकिनी स्त्रियं दूरे, मुश्चति पशवोऽपि न / / 75 // अङ्गे स्थापिता मौरी, योगभाजाऽपि शम्भुना / भवानुचारिणी बुदि, कुर्वन् कस्तां त्यजेत् स्त्रियम् // 76 // वचनामृतमापीयोत्पुलकाकुलकन्यका / जातस्मरशरावेधा कटाक्षेक्षणमातनोत् // 77 // भावानुद्भावयन्ती सा, विभ्रमैस्तरलेक्षणा / माह साहसमाधाय, कुरुतादुचितं तव // 78 //
Page #44
--------------------------------------------------------------------------
________________ पञ्चमोऽ भविष्यदत्त चरित्रम् विकार 32 मदर्य जीवितत्याग-सज्जोऽसि यदि सज्जन ! / तुभ्यं मयाऽपि तदर्त, चित्तं वित्तं तनुर्नन // 79 // तेनाऽप्यूचे न मेऽदचादानं न्यायेन युज्यते / कश्चिदास्यति चेत्त्वां मे, सेत्स्यतीष्टं तदावयोः // 8 // यदा न दाता त्वां कश्चित्, तदाऽपि मम तिष्ठतः / स्यात्साधार्मिकवात्सल्यम् , रक्षतो दुष्टराक्षसात् // 81 // एवं प्रपद्य तत्राऽसौ, तस्थौ निर्मलशीलवान् / अपनो भर्तभावेन, तया निश्चिन्तया तदा // 82 // कुलमार्गानुसारेणाऽऽलापयन् मञ्जुभाषितैः / भेजे भोजनवस्त्रादि-सेवया स तयाऽन्वहम् // 83 // श्रीमदष्टमतीर्थेश-पूजां स विदधेऽन्वहम् / विलिप्य चन्दनैर्गात्रं, स्नात्रं कृत्वा महोत्सवैः॥ 84 // कतिचिदिवसमान्ते, चकम्पे भूः सभूधरा / अकस्माद्गर्जितं व्योन्नि, प्रमृतं तिमिरं महत् // 85 // ऊर्ध्वकेशाः कृतक्लेशाः, कुर्वन्तः करुणं स्वरम् / समीयुर्भूतवेतालास्ततः प्राप्तो निशाचरः॥८६॥ अट्टहास स्फुटीकुर्वन, पद्भ्यां संघट्टयन् भुवम् / पवनैः पातयन् वृक्षान् , मादुरासीन्महासुरः॥ 87 // दुनिरीक्ष्यः स चर्मास्थिव्याप्तकायः करालवाक् / घोरघोणः शोणदृष्टिः, कोपाटोपभयङ्करः॥८८ // सप्ततालप्रमाणाः, कृतान्तः इव भीषणः / ज्वलदाहिनः ललजिहः, पाविशत्सोऽथ मन्दिरे // 89 // भीरु (रुतया मक्षु श्रेष्ठिसू-पृष्टिमाश्रयत् / कोऽयं वराकः किं कर्ता, मा भैषोस्त्वं कुमारिके ! // 90 // इत्युक्त्वा बालिकां तां सः, कुमारः स्फारविक्रमः / स्मरन् पञ्चनमस्कार, हकयामास तं प्रति // 91 // कोऽसि त्वं कातराल्लोकान, मुधा भापयसे किमु ? / दूरेऽपसर रेनो चेदसिना च्छेत्स्यते शिरः॥ 92 //
Page #45
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 33 पञ्चमोऽधिकारः मण्डलाय स्पृशन्नेवं, समुत्तस्थौ स यावता / दुर्शोभः सत्वशोभाभिर्नाभिभूतः सूरैरपि // 93 // धैर्यमस्य विचार्याऽयं, राक्षसः क्षोभमाप्तवान् / न सामान्यः नरो कोऽयमसहस्तेजसाऽञ्जसा // 94 // नगर्याः सकलो लोको, मया संहारितः पुरा / परं न चेदृशः कोऽपि, दृष्टः स्पष्टपराक्रमः॥९५ // चिन्तयन्तमिदं पोचे, राक्षसं धीरया गिरा / सजातीयान्नरात्रिघ्नन् , विघ्नं स्वस्य किमीहसे // 96 // अध माप्तोऽसि रे पाप ! सद्यो यमनिकेतनम् / वैरप्रतिक्रियां कुर्वे, त्वद्घातेन पुरः पुनः // 97 // दधावे खड्गमाकृष्य, कुमारस्तज्जिघांसया / तं विलोक्याऽवधिज्ञानाद प्रससादपलादनः // 98 // भविष्यदत्त ! कुशलमिह प्राप्तः कुतस्त्वकम् / माग जम्मन्युपकर्ता मे, निवर्तस्व रणाग्रहात् // 99 // मया कोपान्धचित्तेन, पूर्व नैवोपलक्षितः / स्वस्थीभूय मिथो वार्ता, कुरु स्नेहेन त्वं मया // 10 // कौशिकस्तापसः पूर्व-भवेऽभूवं दिगम्बरः / वज्रोदरेण नगरेऽपमानं कारितं मम // 101 // त्वया पाग् धनमित्रस्य, भवे वात्सल्यशालिना / अकारि निर्विकारेणोपकारः स्निग्धया गिरा // 102 // तस्प प्रत्युपकारोऽयं, मया ते क्रियतेऽधुना / तिलकद्वीपराज्येऽस्मिन्नभिषिक्तोऽसि भासुरे // 103 // धन्या कन्याऽप्यसौ दत्ता, रक्षिता तव भाग्यतः / मया सुरेण भूपोऽपि, पूर्ववैरात्समाइतः // 104 // श्रेष्ठिमनुर्निशम्यैवं, प्रशान्तः पाहतं पति / समयोचितमाधेहि, क्षमस्व मम दुष्कृतम् // 105 // .. ततस्तेनासुरेणैव, पाणिग्रहमहोत्सवः / पारेभे वाद्यनिों पैरुल्लासितदिगम्बरः // 106 //
Page #46
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम विकार विकुळ स्वजनान् वस्त्रालंकारभरभासुरान् / नारीणां नृत्यसङ्गातैषितस्तत्र मण्डपः // 107 // तां भविष्यानुरूपां स्वां, पुत्रीमिव विभूषणैः / वस्त्रैः प्रसाधयां चक्रे, सुरः पाक् स्नेहमेदुरः // 108 / / तीर्थोदकैः फलैस्तस्याः, विधाय स्नानमादरात् / भूषणैर्भूषयित्वाऽथ, वरपार्थे निनाय ताम् // 109 // सम्पाते सुमुहूर्ते द्राक्, दम्पत्योहिं तयोः सुरः। करमेलापकं चक्रे, दत्वा दानं यथोचितम् // 11 // दम्पतीं समनुज्ञाप्य, समये मां स्मरेः पुनः / भविष्यदत्तमित्युक्त्वा, शनिवेगस्तिरोऽभवत् // 111 // विवाहे मङ्गले जाते, दम्पती हृष्टमानसौ / चन्द्रप्रभालयं प्राप्तौ, चक्रतुर्जिनमर्चनम् // 112 // कुलक्रमायातसुरी, स्मृत्वा तावर्चनादिना / तस्थतुर्वासवेश्मान्तः, सम्भोगरसलालसौ // 113 // रममाणस्तया सार्द्ध, चतुरः सुरभासुरः / दिव्यसम्भोगसामग्र्याऽगमयत् समयं सुखैः // 114 // सुरस्योपद्रवे शान्ते, कान्ते तस्मिन् पुरे गणैः / न्यवात्सुर्धनिनो लोकाः, प्रमदाद्विशदाशयाः // 115 // भविष्यदत्तभूपोऽपि, सुरसानिध्ययोगतः / साम्राज्यं पालयामास, सविलासमकण्टकम् // 116 // एवं द्वादशवत्सरी परिगता, साम्राज्यमासेदुषः / पवाझ्या हि समं समङ्गलतया, सर्वाङ्गलीलाजुषः। भूपस्यास्य चिरं वणिग्वरसुतस्याऽपि प्रसादोदयात् / श्रीचन्द्रप्रभतीर्थकद्भगवतः, पूजाविधेर्नित्यशः // 117 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते पञ्चमोऽधिकारः 34
Page #47
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम षष्ठोऽधिकार अथ भविष्यदत्तचरित्रे षष्ठोऽधिकारः चन्द्रप्रभः प्रभु याद यदाननविनिर्जितः / निश्चन्द्रश्चन्द्रमा भेजे, क्रमाम्भोज कलाधरः॥१॥ इतश्च हस्तिनापुर्या, कमलश्रीरहर्निशम् / मनोवियोगसंपत्त्या, स्वमधन्यमन्यत // 2 // उच्छुननयना नैव, शयने विजने जने / बने वा भवने क्यापि, ययौ सा लेशतो रतिं // 3 // उन्मुखी द्वारमाश्रित्य, सुतलेखसमीहया। स्थिताऽपि न मनाक् खेदं, विवेद क्षुधया तृपा // 4 // वायसान् पालयामास, क्षिप्वाऽसौ स्वर्णपञ्जरे। यदमी ज्ञानिनः सूनोर्भवन्ति च गमागमे // 5 // यतः-अत्रस्थः सखि ! लक्षयोजनगतस्य पियस्यागमम् / वेत्त्याऽऽख्याति च घिग शुकादय इमे सर्वे पठन्तः शठाः / मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनम् / काकस्तेन गुणेन काश्चनमये व्यापारितः पञ्जरे // 6 // कदा स दिवसो भावी, यस्मिंस्तनयदर्शनम् / दुःखमेकं सुतो देशान्तरेऽन्यत्खलसङ्गतिः॥७॥ कृतपुण्याः खियः सर्वाः, पर्वागमनवासरे / रमन्ते नयनानन्दतनयैर्हस्तिनापुरे // 8 // न दुःखभाजनं काचिजने मत्तः पराङ्गना / पत्या त्यक्तानुरक्ताऽहं, वियुक्ता तनयादपि // 9 // नैमित्तिकान् शाकुनिकान् दैविकान् ज्ञानिनः परे / सन्तोष्याशनपानाधैः, प्रपच्छाङ्गजसङ्गमम् // 10 // साथै ये पस्थिताश्चान्ये, वणिकपुत्रास्तदोकसि / गत्वा लेख मुहल्लेखमाप्तं वा नाप्तमब्रूयात् // 11 //
Page #48
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 36 षष्ठोऽधिकार नाऽधिगत्याऽय तद्वार्तालेशं क्लेशं दधौ तथा / दुःखार्णवस्य संवासादिव नीरार्णवाशया // 12 // रुदती रुदती चैत्र, दैवं भावयति स्म सा / शुष्यन्ती स्वतनुं नूनमुपवासव्रतादिभिः // 13 // मुव्रता तीव्रतपसा, महाव्रतधराऽन्यदा / प्रत्यक्षा श्रुतदेवीव, प्राप्ता व्याप्ता गुणैः परैः॥१४॥ ववन्दे वन्दनापाठः, कमला विमलाशया। तयाप्युक्तं न ते युक्तं, शोचनं पद्मलोचने ! // 15 // जिनधर्म रतिं कुर्याश्चातुर्याः फलमीदृशं / किं पुत्रपितृमात्राद्यसम्बन्धैर्वन्धुरैरपि // 16 // जीवितव्ये चले लोके, नालुलोके फलं जनैः / सुकृतैर्दुष्कृतैः सौख्यं, दुखं वा देहिनां भवेत् // 17 // भवेऽस्मिन्नपरस्मिन् वा, प्रमादात् कर्म यत्कृतम् / तस्योदये स्वेष्टयोगो, वियोगो वा समुद्भवेत् // 18 // कमलश्रीस्तदामाक्षीद, दुःखं पुत्रवियोगजम् / क्षयमेति कथं स्वामिन्यामुष्पिकसमाधये // 19 // श्रुतपञ्चमिकाऽऽराध्या, तपोभिर्जिनपूजनैः / माऽभीष्टेन वियोगः स्यात्तस्यामचनतोऽहताम् // 20 // महाव्रतधरे ! धीरे ! कथं भट्टारिके! मया / श्रुतपञ्चमिकाऽऽराध्या, यत्साध्या सुखसन्ततिः॥ 21 // सुव्रता माह सुझानेऽनुयोगे प्रथमे पुनः / भणितं कार्तिके मासि, शुचौ वा फाल्गुनोदये // 22 // या शुक्ला पञ्चमी विश्व-प्रकाशाय प्रजायते / श्रतस्यापि च ताद्रप्यात्, श्रुतपञ्चमिका मता // 23 // एकाशनतपः कृत्वा, चतुर्थ्याऽपराहतः। विषयादिपरित्यागं, कुर्याद् व्रतविशुद्धये // 24 // निशायां शीलमधाय, प्रत्यूषे श्रीजिनार्चनात् / गुरूवत्वा श्रुतपूजाविधिना ध्यानतत्परः // 25 //
Page #49
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 37 षष्ठोऽधिकार सत्साक्षिकं चोपवास, प्रत्याख्याति समाहितः / त्यजेद् गृहादिव्यापार, धर्माख्यानश्रुतौ रतः // 26 // जीवाऽजीवपदार्थानां, भाविनां ज्ञानसङ्गमे / धर्माधर्मविचारं च, कुर्यात् ज्ञानविशुद्धये // 27 // अस्वलन् ब्रह्मचर्या , ध्यायेत् गुरुमहर्निशम् / पञ्चमीतीथिमापूर्य, परमेष्टिस्तुतिं जपेत् // 28 // मातः षष्टयां जिनेन्द्राों, विरचय्यैकमोजनी / पतिलाभ्य गुरून कुर्यात्पञ्चम्याराधनामिति // 29 // पश्चमास्यां तथा कुल्लघुपश्चमिकावतम् / आराधयति योऽशक्तः, स मुक्तस्त्यक्तमत्सरः // 30 // वर्षाणि एवं पञ्चैव, मासाः पक्षश्च पञ्च च / भवेत्तथाऽऽराधनतो, गुरुपश्चमिकाव्रतम् // 31 // उद्यापनेऽस्याः कर्त्तव्यं, पञ्चधा वस्तुढौकनम् / ज्ञानदर्शनचारित्रसाधनानि पृथक पृथक् // 32 // पूजोपकरणं छत्र-चामरे कलशादयः / ज्ञानोपकरणं शास्त्र, पट्टिकाधक्षमालिका // 33 // रजोहरणपात्रादि, व्रतोपकरणानि च / यथायोगं यथाशक्ति, समाधत्ते धनेश्वरः // 34 // शक्तिर्न तादृशी यस्य, स कुर्यादल्पनिष्क्रयात् / उद्यापनं हृदि श्रद्धां, महतों निर्वहन् जनः // 35 // अकृतेऽपि विधौ श्रद्धा, प्रदत्ते सकलं फलं / एकादिबिम्बपूजायां, सर्वे सर्वत्र पूजिताः // 36 // देवलोके महेन्द्रेण, तत्रस्थेनैव वन्दितः / चरमाईन् फलं लेभे, श्रद्धा साक्षी तदागमः // 37 // विधौ कृतेऽपि न श्रद्धा, तदा न तत्फलाश्रयः। आज्ञाखण्डनकर्तुर्याऽहतां पूजाऽपि निष्फला // 38 // आणाखंडणकारी, जइवि तिकालं महाविभूईए / पूएइ जिणवरिंदै, सव्वंपि निरत्थयं तस्स // 39 //
Page #50
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् षष्ठो 38 XXXSXXXXXXXXXXXXXSEX सुव्रतावचनादेवं, श्रुतपञ्चमिका व्रतं / प्रपेदे कमलश्रीः सा, जैनधर्मपरायणा // 40 // पतिमासं जिनार्चाभिः, सविस्तरतया तथा / गुरूपदेशश्रवणैर्दानरुद्यापर्धनैः // 41 // साधर्मिकाणां वात्सल्यैरारराध महातपः / सहमाना सोपसर्ग, परीषहपराभवम् // 42 // तपसाऽनेन मत्पुत्रवियोगदुःखनिर्गमात् / निरन्तरायधर्मेण सिद्धिर्भवतु शाश्वती // 43 // चिन्तयन्ती मनस्येवं, सुव्रता जिनमन्दिरे / तां निनाय गुरुपान्ते, सुरूषां तेजसा भृतां // 44 // तयाऽपि पृष्टो मुनिराट्, स्वामिन्मे तनयो गुणी / क्व कथं परदेशेऽस्ति, समागन्ता नवाऽञ्जसा // 45 // मुनिर्बभाषे ज्ञानात्मा, भोगासक्तो सुतोऽस्ति ते / अत्राऽऽगत्यार्द्धराज्यस्य, स्वामी दैवाद्भविष्यति // 46 // अद्यापि योषितां भाग्याद्विवोढा प्रौढविक्रमः / तत्मभावेन राजीति, वक्ष्यसे नरनायकैः // 47 // श्रुत्वा तत्त्वज्ञवाचं सोल्लसतीच सती तदा / दीनानां ददती दानं, शुद्ध धर्ममसाधयत् // 48 // अथाऽन्यदाऽमान्पुवन्ती, बन्धुदत्तस्य वाचिकम् / अरोदीत पुत्रविरहात , पीडिता रूपवत्यपि // 49 // किमस्माकं राजकार्यैः, किंवा बहुधनैरपि / अस्माकं जीवने पुत्रे, परदेशमुपस्थिते // 5 // श्रेष्ठीर्धनपतिर्भूपं, प्रत्याचष्टे नरोत्तम ! / सुतद्वयं विदेशस्थं, मन्मनः शल्यकारणम् // 51 // अद्यापि न समाचारस्तयोः प्राप्तश्विरादपि / वृद्धेन धनलुब्धेन, मयैतदयशोर्जितम् // 52 // रूपवत्यपि संत्यज्य, गृहकर्माणि सर्वथा / उपायान् शतशो ज्ञातुं, सन्देशं सा प्रचक्रमे // 53 //
Page #51
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् षष्ठोऽधिकार सामुद्रिकं वणिग्मार्गमाहूय स्वगृहाङ्गणे / अपाक्षात्ववाऽपि मत्सूनोर्वार्ता प्राप्ता नवा भुवि // 54 // नागरेःशिक्षितेईसैः, पृष्टा हंसा विदेशगाः। तेऽप्यूचुनैव ते दृष्टा, वणिपुत्राः खपुष्पवत् // 55 // रूपवत्या मुखं म्लानं, सन्देशाऽलाभतोऽभवत् / निजदुश्चरिताऽऽशङ्काकलङ्कादिव दारुणात् // 56 // यतः-सर्वत्र शुचयो धीराः स्वकर्मबलगर्विताः / स्वकर्मभयवित्रस्ताः, पापाः सर्वत्र शङ्किताः // 57 // हा ! मया शिक्षितः सूनुर्भविष्यदत्तमोचने / तद्घातपातकान्मातुरंगभूविपदा पदम् // 58 // यतः-आत्मनः कुशलाकाङ्क्षी परद्रोहं न चिन्तयेत् / स्थविरायै कृतो द्रोहो, वधू एवाऽपतघथा // 59 // अकालपस्थितः किं ते, सज्जद्वहनमम्बुधौ / सर्वेषां सममावर्तः, प्रवृत्तः क्वाऽपि दैवतः // 6 // मशिक्षया किमन्योन्य, विनष्टौ रणकारणात् / इत्याधनिष्टसङ्कल्पात्साऽजनिष्ट भयाकुला // 1 // इतश्च तिलकद्वीपे, भविष्यदत्तभूपतिः / पृष्टः स्वभार्यया प्रेम्णा, नाथ ! त्वं कथयाऽधुना // 12 // त्वद्भूपरत्नसंपत्त्या, देशः कः पेशलः श्रिया / नगरं नागराचारस्त्वया कि समलङ्कृतम् // 63 // कस्तत्र नृपतिर्यस्य, सभा त्वादशभासुरा / त्वद्गीतेषु पितुर्नाम, गेयं किं मागधैर्जनः // 64 // त्वदारङ्गसौभाग्यशोभाया मूलकारणम् / काऽम्बा बाल्ये त्वदुत्सगक्रीडया हृष्टमानसा // 65 // प्रश्नादस्मात्सस्मार, गुणान मातुः शुचातुरः। दृशोर्बाष्पजलप्लावादुल्लसत् स्नेहवारिधिः // 66 // जातेन तनुजातेन, मया कि जननीहितम् / विहितं येन दुःखाब्धी, पातिता दूरगामिना // 67 //
Page #52
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् पष्टोधिकार 40 RECEXXXXXXXXXXXXXXXXX दुर्जनानां विमलापैहदि शल्यवती सती / पत्यापमानिता माता, कथं हा ! विस्मृता मम // 68 // माप्तोऽहं बहुधाऽऽशाभिर्दोहदस्तनुशोषकः / कुक्षौ धृतः ससंभार, नवमासी यया सुतः // 69 / / तां विस्मार्य मियाभोगलम्पटः सुखसागरे / निमनोऽत्रैव विष्ठामि, हा ! कामविवशीकृतः // 70 // धिक् संसारमसारं हि, सारङ्गाक्षीवशीकृतः / पुत्रः स्वमातरं त्यक्त्वा, मुखमास्तेऽतिकातराम् // 71 // चेलाञ्चलाञ्चलाक्षी, ममार्जाभूणि नेत्रयोः / स्वयमप्यश्रुसलिलैः, कपोलौ सिञ्चती मुहुः // 72 // उत्तमप्रकृतिर्भर्त्ता, शुशोच वचसा मम / जननीं स्वां हृदि ध्यान्नित्युद्वेगमधाद्वधूः // 73 // मुखपक्षालनेऽन्योऽन्यं, प्रियसम्भाषणात्ततः / परस्परं समाश्वासान्मनसंवृतमेतयोः॥७४ // आधाय धैर्य मनसि, श्रेष्ठिमूरुत्तरं जगौ / जन्मभूमिः कुरुक्षेत्रे, मदीया हस्तिनापुरम् // 75 // भूपालस्तत्मजापालः, कालवत् परिपन्थिनाम् / श्रेष्ठो धनपतिर्नाम्ना, पिता मे धनिपुङ्गवः // 76 // कमलश्रीस्तव श्वश्रूः, पुत्री हरिबलस्य सा / लक्ष्मीकुतिसमुत्पन्ना, प्रसन्ना धर्मकर्मसु // 77 // वैमात्रेयो बन्धुदत्तश्चित्ते कपटलम्पटः / धनार्जनाय पायोधौ, चचाल वाहनैरसौ // 78 // तत्साथै वणिजोऽन्येऽपि, पस्थितास्तद्वदप्यहं / प्रतस्थे मदनद्वीपे, दुर्वाताद्वहनागतिः॥ 79 // सापन्त्यमत्सरावेशाद्वञ्चयित्वा स मां बने / बन्धुदत्तः प्रवहणैर्ययौ काञ्चनभूमिकाम् // 8 // भ्रमन् वनेऽहं निस्नेहमतिमुक्तकमण्डपे / व्यतिक्रम्य निशं मातर्लेभे शैलग्रहायनम् / / 81 / /
Page #53
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् षष्ठोऽधिकार प्राप्त व्याप्तं धनैर्धान्यनगरं नगरन्ध्रगम् / मया तेन पथा लोकः, कोऽपि नाऽलोकि तत्पुरे // 82 / / भ्रान्त्वा चिरमहं चैत्यं, समेत्य ध्वजसङ्कुलम् / चन्द्रप्रभमभु नाम, नामं नामं प्रसुप्तवान् // 83 // भित्तिन्यस्ताक्षरश्रेण्या, ज्ञात्वा लाभं गृहान्तरे। दैवादत्राऽऽगमे पन-नेत्रां त्वामहमाप्तवान् // 84 // इयान् कालस्तव प्रेम्णा, व्यतिक्रान्तोऽप्यबुद्धयत / क्षण द्विषयासक्त्या, मया विवशवेतप्ता // 85 / / माता मम वियोगेन, रूदती स्नेहविहला / मृता जीवति वा चिते, खेदः संजायतेऽधुना // 86 // सम्यक् संगम्यते स्वीयैः, सफलो विभवस्तदा / क्रियते दानसन्मानैरन्यथा सन्नसम्मयम् // 87 // सुखं तदेव यदृष्टमिष्टैबन्धुजनैर्धनैः / तदालोकं विना सर्वमस्नेहरतिकेलिवत् // 88 // अन्धकारे यथा नृत्यं, यथा स्वमे मुजि क्रिया / तथाऽवकेशी तरुवन, सुखं बन्धुजनैर्विना // 89 // ताभ्यामेव विनिश्चित्य, बन्धुसङ्गमहेतवे / पारेभे सार्थसंयोगे, पुरात् प्रस्थातुमुद्यमः // 9 // नगरारक्षकाः पूर्वपाक्षिका राक्षसा हताः / न्यवात्सीन्नूतनो लोकस्तथा वात्सल्यवान सः॥९१ // उत्तमा प्रकृतिर्यात्र, विकृतिर्नेति चेतसा / नागमिष्यति सा दूरदेशे बन्धुनिवन्धनात् // 12 // सामन्ता ये राजभक्ताः, क्रमायाताः सुमेधसः / मृताः केचिद्गताः केपि, नष्वा देशांतरे पुनः // 93 // त्वया संवड़िता नाथ ! नव्या नव्याशयान ते / भवंति यदि सामन्तास्तदा को रक्षकोऽमुधौ // 94 // न सामन्तैर्विनाश्चीयं हास्तिकं वा प्रयुज्यते / रक्षणीयः कथं कोशः, क्रोशमात्रेऽपि तत्पथि // 95 //
Page #54
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 42 BEEXXXXXXXXXXXXX बलवान् स्वयमेवाऽसि, रणकर्मविचक्षणः। तथाप्येकाकिनं हन्तुं, वञ्चितुं, बहवः क्षमाः॥९६ // श्रीरामचन्द्रो बलवान्, सुकृतैर्लक्ष्मणान्वितः / मोत्साहिवाहिनीयोगाजितस्तेनापि रावणः // 97 // यतः-एको ध्याने द्वौ तु पाठे, त्रयो गीते परे पथि / पञ्च मन्त्रे पडास्थाने, सङ्घामो बहुभिर्जनः॥९८॥ कार्य समस्तैर्न त्रस्तैर्विश्वस्तैर्गम्यते पथि / न तादृशो दृशोर्गिमेत्येकोऽप्यनुजीवकः // 99 // पायमात्रमादाय, गम्यते चेद्गतेन किं / यथाई बन्धुसन्मानं, कार्य देशान्तरागतेः॥१०॥ द्रव्येण सर्व सम्भाव्य, तदक्षारक्षकैर्भवेत् / ते विश्वस्ताः परिध्वस्ताः, कथं तद्गम्यतेऽम्बुधौ // 101 // तद्विमृश्य प्रयातव्यं, कार्या बुदिर्बलीयसी / धीपनानां धनं होतद्, दुःसाध्यस्यापि साधनम् // 102 // एवमुक्ते मनस्विन्या, साधुसाध्वित्ययं जगौ / धनं गुप्ततया ब्राय, सर्वत्राऽप्यभयं यतः // 103 // सैन्यैरदैन्यनगराद्राजाऽयं राजपाटिकां / विधातुं निरगात्सान्तःपुरः पौरसमन्वितः॥१०४॥ शनैः शनै राजकोशाधन निष्काश्य कानने / स्थापितं पट्टगेहेषु, रक्ष्यमाणं स्वरक्षकैः // 105 // जिनमष्टममानम्य, साररत्नादिवास्तवं / तूलिकान्तस्तु कान्ताया, संगोप्यायमगानिशि // 106 // विवरण विनिर्गत्य,स नृपः सह योषिता / मन्त्रिषु न्यस्य साम्राज्य-भारं तद्वनमाययौ // 107 // निर्वृत्य सर्वसामन्तामन्त्रिणश्च पुरोषसः / तस्थौ रोषसि पाथोघेर्भूपः स्वल्पपरिच्छदः // 108 // तस्या वयस्या नागर्याः, प्रत्यावृत्ताः शनैः शनैः / तयाऽपि चक्रे सन्मानं, दानं तासां यथोचितम् // 109 //
Page #55
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् षष्ठोऽधिकार 43 प्रतीक्ष्यमाणः सार्थाय, नृपतिः सिन्धुरोधसि / निकेतनैहिः सद्भिर्वस्त्राणामुच्चकेतनैः // 11 // अन्वेयुः सिन्धुनातिध्यमिवाकारि महीपतेः / मबाह्य लोलकल्लोलैः, पापितैर्मणिभिस्तटम् // 111 // नाना नाम गुणास्सर्वे, मणयचोपलक्षिताः / क्षिप्तास्ते स्वर्गमञ्जूषां भृत्यैरानीय सम्पूटे // 112 // हरिचन्दनकाष्टानि, कुतोऽप्यानीय वादिना / पुजीकृतानि कस्तुरीघनसारपुटैः समम् // 113 // मुक्ताफलानि स्थूलानि, विचित्राभरणान्यपि / रक्तकबुककेयूरकटकादीनि भूरिशः // 114 // वेलयानीयमानानि, तानि जग्राह पार्थिवः / तिलबद्वीपजा लक्ष्मी मिपातेषामिवान्वगात् / / 115 / / दर्पणः कलशः छत्र-चामराणि च शुक्तिकाः / दक्षिणावर्तकाः शंखाः, हेमं सिंहासनं पुनः / / 116 // हेम्नश्चरुः कटाहश्च, प्रवालशकलानि च / स्वर्णकचोलकादीनि, नानापात्राणि सैकते // 117 // अस्य चक्रवरस्येव, सेवकीभूय वारिधिः / भूपतेः पाभूतीचक्रे, पुण्यपारभारतः किम् // 118 // तानि सर्वाणि संगृह, स्वनाम्नाई समादवे / प्रसादं निष्पमादं स, मन्यमानोऽम्मुवेर्नृपः // 119 // उच्चस्तरतरोर्बध्वा, ध्वज वध्वा समं नृपः / सुखेन गमयामास, निवसन् समयं स्वयं // 120 // दीपाद द्वीपान्तरं दुः, पवनैर्यवनैरिव / भ्राम्यमाणः स्खलत्पोतो बन्धुदत्तस्तदा ययौ // 121 // बहनानां पञ्चशतीं, क्रमात्तत्रैव तस्थुषीं / उन्मुखीभूय पश्यन् स, साथै मत्वा प्रसेदिवान् // 122 // षणिकपुत्राः समुत्तीर्णाः, मदनद्वीपमेत्य ते / व्यवसायपरिभ्रष्टा मलिनास्या निरुद्यमाः / / 123 / /
Page #56
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम पष्ठोधिकार 44 स्मृतं तैर्बनमुद्रीक्ष्य, यत्कृतं कर्मदारुणम् / मुक्तो भविष्यदत्तोऽत्र, बन्धुदत्तेन पापिना // 124 // कोऽप्युवाच महासत्याः, शापपापादिवात्मना / क्षीणद्रव्या दरिद्राणां भ्रमामो भुवि मुद्रया // 125 // सितध्वजपट प्रेक्ष्य, दूरतस्तेऽनुसारतः / प्राप्ता लसल्लतागेहे, मिथुनं ददृशुर्दशा // 126 // पल्यङ्के तुलिका निष्टौ, दम्पती वीक्ष्य भासुरौ / भयोदभ्रान्ता वणिकपुत्राः, सुरक्रीडाभित्रकया // 127 // ज्ञापितो बन्धुदत्तस्तै-विहस्तैखस्तमानसैः। सोऽप्यागात्सुभटैः साकं, दिक्षुर्भिक्षुवेषभृत् // 128 // कोलाहलं ततः श्रुत्वा, चकितां वनितां मियः / अभ्यधादभयं तेऽस्तु, खमी व्यापारिणः पुरः // 129 // भविष्यदत्तभूपालं, ललन्तं लीलया स्त्रिया। वीक्षापत्रः दशां वीक्ष्यापन्नः सन्न बन्धुदत्तकः // 130 // उत्थाय सकलत्रोऽपि, त्रपितं तं स्वकर्मणा / आलिङ्य गाढस्नेहेन, स्वासने संनिवेसिवान् // 131 // भ्रातः कातरता केयं, बैलक्ष्यं लक्ष्यते कथम् / इति पृष्टः समाचष्ट, स दुष्टः स्वविजम्भितम् // 132 // मुञ्चन्नश्रणि नेत्राभ्यां, प्रत्यूचे सोदरो लघुः / भ्रातः किं पृच्छसि स्वच्छाशय मां दुर्जनाशयम् // 133 / / पापिष्ठोऽहं महादुष्टोऽकृतार्थस्त्वां स्वसार्थतः / मुश्चन् निजकुलं चक्रे, कलंकमलिनं वि // 134 // दुःखमत्रैव सम्माप्तं, संभ्रमात् भ्रमता मया / दूरे वृद्धिमूलहानिर्दीपावीपान्तरेऽजनि / / 135 // भवे परत्र किं भावि, संभाव्या नरकस्थितिः / सौजन्यभाजने द्रोहं, व्यामोहात् त्वयि कुर्वतः // 136 // मयाऽपराद्धं ते भूयः, सर्वत्राऽकीर्तिकारणम् / क्षमस्व विश्वं तत्पादौ, त्वदीयौ शरणं मम / / 137 // BXSEXXXXXXXXXXXXXXXXXXX
Page #57
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 45 सप्तमोडधिकारः ज्येष्ठः श्रुत्वा तमाचष्ट, भ्रातः! शोचयसे किमु / त्वयाऽनिष्ट न सम्भाव्यं, भाव्यं भवति नाऽन्यथा // 138 // इदानों मुविमर्शन, विधेयं विधिना त्वया / आशापाशाद्विमोच्य स्वं, निलेशं देशमाश्रय // 139 // इत्याश्चास्य नृपः स्वीय, बान्धवं मुचिरं गिरा / स सन्मानासनैः सर्वान् , प्रीणयामासिवान् शनैः // 140 // अशनैर्वसनैर्भूषा-माल्यैघुसणलेपनैः / चक्रे तानात्मसदृशानिन्द्रः सामानिकानिव // 141 // गत्वा सरः समं स्नात्वा, दत्वा स्थानं यथोचितम् / नृपतिः माह कान्तारे, कान्ते ! बन्धुसमागमः // 142 // संपाप्याऽवसरं पाह, प्रियाऽप्रियं महाभयम् / हृदयं शङ्कते धृष्टो, न विश्वास्योऽयमात्मना // 143 // यतः-न विश्वसेत् पूर्व विरोधितस्य, शत्रोहि मित्रत्वमुपागतस्य। दग्धां गुहां पश्यत धकपूर्णा काकाणीतेन हुताशनेन // 144 // नृपोऽप्यूचे स किं कर्ता, विप्रिय मामकं प्रिये ! / अद्यापि पश्चात्तापः किं, नास्य दास्यं गतस्य मे // 145 // निन्दितो गर्हितो लोकः, प्राप्तो भूरिविडम्बनाम् / विरमिष्यति नो पापाद्विधिस्तस्याऽस्ति शासकः // 146 // सत्कृतोऽप्यपकर्ता नः, सत्यमुच्छालाः खलाः / तथाऽप्यस्मिन्न ते कार्य, मया तेऽभिहितं हितम् // 147 // यतः-खलस्सक्रियमाणोऽपि, ददाति कलहं सतां / दुग्धधौतोऽपि कि काको, प्रयाति कलहं सताम् // 148 // भक्तिस्तथापि कर्त्तव्या, त्वया सम्बन्धचिन्तनात् / इत्युक्ता भूभुजा चक्रे, वधूस्तद्विनय क्रियाम् // 149 // संपाध सकलं भक्तं, स्नात्वा नृपतिरादरात् / बन्धुदत्तं समाहृय, भोजयामास भक्तितः॥१५०॥ / परेऽपि च वणिकपुत्राः, भोजिता बहुभी रसैः / तुष्टुवुस्तस्य सौजन्य, दोर्जन्यं लघुबान्धवे // 151 //
Page #58
--------------------------------------------------------------------------
________________ भविष्यदर चरित्रम आशित्वा बन्धुदत्ताय, तस्मृलो ददौ स्वयं / नृपादेशेन ताम्बूलं, योपित्तोषितसज्जना // 152 // स्मिताननां तमालोक्य, वणिकपुत्राः बभाषिरे / पश्यन्तु सन्तः पुण्यस्य, दशामस्य महात्मनः // 153 // बन्धुदत्तस्तानचे वञ्चननायोपचारगी। भान्त्वाऽस्माभिने सम्पातं, किचिन्मूलेऽपि विस्मयात् // 154 // मया मुक्तस्त्वमेकाकी, बने पुण्यानुभावतः / माप्तवानीशी लक्ष्मी, साक्षादिव नितम्बिनीम् // 155 // इति कतिपयवाचां वैभवेनोपचार, व्यरुचदचिरेण क्ष्माभुजो रञ्जनाय मनसि निहतशल्यः शल्यवत्क्रूरकर्मा / घटितकपटवृत्तिवन्धुदत्तोऽप्रमत्तः // 156 // इति श्रीमविष्यदत्तचरित्रे नानपञ्चमीमाहात्म्यपवित्र महोपाध्यायश्रीमेघविजयगणिविरचिते षष्ठोऽधिकारः। ___अथ भविष्यदत्तचरित्रे सप्तमोऽधिकारः यन्नाम धामसाधर्म्यात्स्वमूर्दनि महेश्वरः / धत्ते चन्द्रं स नः पायाश्चन्द्रप्रभविभूत्तमः // 1 // स सन्मान्य वणिपुत्रान्, भविष्यदत्तकः सुधीः / बाखवस्तूनि संख्याय, भाण्डे चिक्षेप हस्ततः // 2 // नाम्नाङ्कितानि सर्वाणि, द्रव्याण्यालेख्य पत्रके / मञ्जषादौ विनिक्षिप्यय्यावन्धयद् दृढवन्धनैः॥३॥ वहनान्तर्गुषमागे, कर्मकृद्भिर्विनिक्षिपन् / तत्सारवस्तुसम्भारं, राजाऽज्ञायि जनैव्रजन् // 4 //
Page #59
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम सप्तमोऽधिकार भविष्यनृपते यान्, मङ्गलं यत्मसादतः / प्रजालोकः मुखं भेजे, रेजे राजेव वैभवैः // 5 // कृतमङ्गलकर्माऽयं, निर्माय सर्वसेवकान् / विसर्म्य पुररक्षायै, प्रस्थानायोन्मुखोऽभवत् // 6 // सर्वे मत्वा स्वबन्धनां, जन्मभूमि स्मरन् भृशं / पित्रोः प्रीति समाधाय, पुनरेष्यामि सत्वरम् // 7 // इत्यादिश्य जनान् सर्वान् , प्रणतान् साश्रुलोचनान् / प्रत्यावृत्त्य स्वयं तस्थौ, सिन्धुरोधो वनान्तरे // 8 // पासे मुहूर्ते प्रस्थातुं, लोकः सर्वः स्वकर्मसु / व्यापृतो वस्तुनिक्षेपावरोहारोहणैः क्रमात् // 9 // कोऽप्याह साहसात्माप्तः, स्वदेशः साम्मत जनैः / आचख्यौ कोऽपि रेऽस्ति, कुरुजालमालम् // 10 // जगौ कश्चिद् दुरुत्तारः, पारावारस्तरिष्यते / तदा जनपदासत्तेः, को वेत्ता विधिचेष्टितम् // 11 // भणितं वणिजा प्राप्त, वाणिज्यफलमीदशं / यद्येष्यामः सुखं गेहं, सार्थेऽस्मिन् द्रोहकारिणि // 12 // केनाऽप्यूचे कुतः क्षेम, बन्धुदत्तेऽत्र जीवति / कुविद्याध्यापके पापात्, कृतविश्वासघातके // 13 // भ्रान्त्वा देशान् महाकेशान्, अन्लेशाऽनवाप्तितः / मूलहानिभृता हानि, सार्थेन गमितानि किं // 14 // भविष्यदत्तभूपोऽयं, जाग्रन्मालशोभया / गन्ता गृहे स्वगेहिन्या, समं धन्यो महाशयः // 15 // बन्धुदत्तस्तु निस्त्रीको, दारिद्रोपद्रुतो द्रुतं / कथं दर्शयिता स्वास्य, हास्यः परिजनस्य सः॥ 16 // कर्ता ज्येष्ठः कनिष्टस्याऽनि स्मृत्वाऽस्थ वैकृतं / तत्सार्थवशतोऽनर्थोऽस्माकं सम्भाव्यते ध्रुवम् // 17 // अचिवान् कोऽप्यनूचानः, सज्जनानां गुणाम्बुधिः / कमलातनयो नास्मादनयः क्वापि जायते // 18 //
Page #60
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 48 षष्टाधिकार: इत्यालापपरे लोके, जाते सांयान्त्रिके तदा / वा. पिनं मुक्तामणिभिर्गणिभिः कृतं // 19 // पुष्पैनैवेद्यबलिभिरक्षतैर्दीपकैः कृता। पूजा हि जलदेवीनां जनैरन्धौ यियामुभिः // 20 // आरूढवान् पुरो भूपो, भविष्यदत्तकस्ततः। बन्धुदत्तछमचित्तो वणिम्भिरपरैः सह // 21 // वाद्यमानेषु वाद्येषु, जनताया जयारवैः / चालितैर्वाहनः सः, चेलुः सांयात्रिकाः समे // 22 // अत्रान्तरे करे न्यस्ता, दृग् भविष्यानुरूपया / जगाद नाममुद्रा मे, विस्मृता हा तरोरधः // 23 // श्रुत्वा भविष्यदत्तोऽपि, स्वयं प्रेम्णा वशीकृतः / यानपात्रात्समुत्तीर्य ययौ तल्लिप्सया रयात् // 24 // न मेऽस्ति किङ्करः कश्चित, प्रत्ययी यो नयेदिममां / मुद्रा लब्धां तां कर्तारो गुप्तामन्ये भ्रमादिति // 25 // गते तस्मिन्नवसरं, बन्धुदत्तः परामृशन् / विप्रतार्य धनैः पोत-पालं पोतानचीचलत् // 26 // यावदायात्ययं पश्चात्तावद् दैवानुभावतः / ववृधे जलप्ररेण, वेलयाः समयोऽम्बुधेः // 27 // पोतानामविमर्शन पोतानामिव निर्गमान् / निर्व्याजा व्याजहारैवं रामा श्यामानना भृशम् / रे रे तिष्ठन्तु तिष्ठन्तु, वहनं स्थापयन्तु भो / पश्चात् स्थिते धनाध्यक्षे, पत्यो मे चलनं कुतः // 27 // आकर्ण्य तद्गिरं धीरा, वणिकपुत्रा बभाषिरे / पुनः किमेतत्मारब्धं विश्वस्तवधपातकम् // 28 // तटे भविष्यदत्तोऽस्ति, नागतः केन हेतुना / बजामस्तं परित्यज्य, निर्लज्जा दुर्जना इव // 29 // कृते भूयोऽपराधेऽपि, तेन सन्मानिता वयम् / दत्वा यथोचितं वासोऽलङ्कारादि सभोजनम् // 30 //
Page #61
--------------------------------------------------------------------------
________________ भविष्यद चरित्रम सप्तमोऽधिकार 49 जानीमहे महेशस्य, बन्धुदत्तस्य चेष्टितम् / पापे निषक्तचित्तोऽसौ, नोपरन्ता कुकर्मणः // 31 // वणिजामेतदालापं, श्रृण्वन् पापनिषक्तधीः / बन्धुदत्तोऽवदत् सर्वान, किं पोतस्थापनं वृथा // 32 // चलन्तु जलधौ तूर्ग, पूर्ण वित्य न चाऽऽयं / यूयं न्यायदृशं दत्य, परमार्थविवर्जिताः // 33 // . पति मुक्त्वा ररचाऽसौ, जारे मद्वान्धवेना / वञ्चयित्वा च्छ लेनेमां, स प्रत्यगाभिजे पदे // 34 // मया किञ्चिद्धनं दत्वा, रोपिता वहने निजे / स्वीकरिष्याम्य, नारी, को दोषस्तद्वदन्तु मे // 35 // इयत्कालमयं सामनया भोगमाचरन् / गन्तुं स्वगेहे नो शक्तः, स्वजने पङ्क्तिभेदतः // 36 // परमार्थ मया साई, विचार्य कार्यकारिणा / ज्येष्टेन नागतं सार्थे, तकि मेऽवगतं वचः // 37 // मयाऽप्ययं पुरा मुक्तो, वने दुर्मतिमीयिवान् / प्रकाशयति सौजन्यं, तदप्यन्याय केवलम् // 38 // उच्चै?षयते योपा, निर्दोषाऽस्मीति बोधितुम् / या लुप्तशीललीला स्यात् तस्याः सर्वः परो निजः // 39 // चिलम्बेन फलं नो मे, न युष्याकं पयोनिधौ / दैवात्पवनवैगुण्ये, जलोपद्वसम्भवात् // 40 // यानपात्रे निजं वस्तु, स्थापितं जनदर्शने / वश्चनाय स्त्रिया ज्येष्टेनाऽऽकष्ट निशि तत्पुनः // 41 // धनवान् निर्धनो वाऽयं, किमनेन महीयसा / पित्रोः सामनेऽवश्य, कर्ताऽयं वोऽप्युपदकम् // 42 / / तैस्तयेत्युदितेऽचालीद्वहनाली महोदधौ / दैवान्नैवाऽभवत्कोऽपि, स्थातुं तत्र पराक्रमी // 43 // ततो भविष्यदत्तोऽपि, दध्यौ हा ! मम मृढताम् / छलितश्वलितेनाऽग्रेऽनेनाऽहं पशुवत्पुनः // 44 //
Page #62
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम सप्तमो दुष्कर्म विहितं पूर्व, मया विस्मारितं हि तत् / सो पुनः पापरतो मां, चिक्षेपाऽसौ महापदि // 45 // बन्धुदत्ते पुरं प्राप्ते, रूपवत्या महोत्सवः / वाती मदीयाममाप्य, मातुर्मे कीदृशं दिनम् // 46 // प्राणमियाया मे नार्या, अनार्यः किं करिष्यति / पतिव्रतायाः बैरूप्ये, करणे मरणं ध्रुवम् // 47 // दशं भृशं स विस्तार्य, दिशं पश्यन् जलाध्वनि / प्रियाविरहदुःखाविरं वभ्राम रामवत् // 48 // लतागृहान्तःकान्तारे, कान्तया यत्र सुस्थितम् / निश्चसन् निवसंस्तत्र, स मुमूर्छाऽतिदुःखितः॥४९॥ शीतलैस्तैिः किञ्चित्, क्षणात् पापितचेतनः / नाममुद्रा करे धृत्वा, संपाप जलधेस्तटम् // 50 // न बने भवने वल्लचा, रतिमाचरति क्षणम् / तस्मिन् विरहदुःखाऽपिज्वाल ज्वालयाऽऽकुलः // 51 // तत्मशान्तिमिवाऽधातुं, गलन्नेत्राम्बुभिर्भूत्रम् / स्नपयन्नमाधत्त, रोमाकूरोदयं नृपः // 52 // सशल्य इव न स्थातुं, यातुं वा प्रयितुं क्षमः / प्रत्यक्षामिव तां ध्यानात्पुरस्थां पर्यलापयत् // 53 // विधिना वञ्चितोऽस्मीति, निर्दोषोऽहं खलु पिये!] तमुपालभतेन्मुखः / ताइक्वीरलविरहात, किं मां तापयसे या // 54 // चन्द्रे चन्द्रमुखीवक्त्रध्यानान्निधसितं तथा / तदुष्णपवनप्लोषान्मन्ये जज्ञे कलङ्किता // 55 // शोचयन् मनसा राजाऽऽलोचयन दुर्विकल्पनां / मोचयन् जनताऽश्रणि, निन्येऽय नागरैः पुरम् // 56 // क्ष्यापः पाप पुरे चैत्यमथाऽष्टमजिनेशितुः / तुटाव तेन सन्तुष्टः, किश्चित्तापोपशामना / / 57 // जय त्वं विजयश्रीणां, लोलायाचास्मन्दिरम् / नाथ! त्वनाम-यावार्थ्यान्मत्तापोऽपि प्रशान्तवान् // 58 //
Page #63
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम सप्तमोऽधिकार राऽभवत् // 61 // पुरेशस्याऽपि न दृश्या, इतितो दृष्टी, स्वेष्टा संपदुपेयुषी तत्सेवया रयादेव देव ! स्युर्विभवाः नवा / जयन्ति चक्रिशकादीन् यल्लामाद अनि मानवाः // 59 // चन्द्रस्तु तनुतापाय, शैत्यभागपि मेऽभवत् / भवदाम्ना तु तज्जातमनातकस्लमोश मे // 60 // त्वत्पसादादसौ सौख्यलक्ष्मीरत्रैव सत्ता / त्वत्पादांभोजतो दरे, गमने सा तिरोऽभवत् // 61 // पादप्रसादश्चेद् भूयो, जातोस्त्यागमनात्पुरे / सुरेशस्याऽपि न दृश्या, वश्या सा भाविनी पुनः॥ 62 // नष्टापद भवतो रष्टौ, स्वेष्टा संपदुपेयुषी / कल्पद्रुकल्प ! दुर्मोह-विकल्पं दूरतः कुरु // 63 // इति स्तुत्वा महासस्वस्तश्चविद्राजमन्दिरे / गवाक्षे दर्शयामास, पुरं भूमिपुरंदरः // 14 // इतश्च विमलम्भेन, पीडिता बोडिना निजात् / नाममुद्राकृते स्वामि-प्रेषणाचरणात् मिया // 65 // हा दैवदग्धया स्निग्धो, मुग्धया प्रेषितः मियः। न ज्ञातोऽवसरः पोत-चलनस्य छलस्पृशाम् // 66 // किं कर्ता मां विना भर्ता, धर्ता खेदं स्वमानसे / घिग मां लुभां विभूषायां, पिये विमियकारिणीम् // 67 // पत्युविरहसंतप्ता, तूलिकां दुःखमूलिकाम् / पल्यङ्कमपि साशङ्क, दूरे तत्याज साजना // 68 // जरत्पीठस्य शकले, स्थित्वा दृष्टिं भुवस्तले / निधाय पत्युानेनाऽगमयत्समय वधूः॥ 69 // तां वशीकर्तुमन्येधुर्वन्धुदत्तोऽभ्यधादिति / किं मृगाति ! कटाक्षेन नेक्षसे मां वर्शवदम् // 70 // कार्य निकायं क्लेशानां, किमर्थं कुरुषे रुषा / पुरुषाशयमाधीय, देहि स्नेहरसं मयि // 71 // . प्रपद्य सघः कातत्वं, मयि प्रणयसभृते / राज्यलक्ष्मीसुखं भुङ्क्ष्व, नगरे हस्तिनापुरे // 72 //
Page #64
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम सप्तमो त्वदाज्ञां सकलः कर्ता, छोकः परिजनः पुनः / स्मरोन्मत्ते त्वदायत्ते, चिन्ता का मयि नायके // 73 // दायके स्वेष्टवस्तूनां, न न्यूनां विदि संपदम् / पूर्वमिष्टं यथा ज्येष्ठं, कनिष्ठं मां तथा भज // 74 // ब्रुवाणमेवं तं धृट, मत्वा क्रोधनिरोपतः। शोरश्रप्रवाहोऽपि, संवत्रे कान्तया तया // 75 // भिक्षुर्विवक्षुः पुनरप्ययं चाहनि दुर्णयः / यावत्का लिपत्यश्रु-परामर्षाय रागतः // 76 / / तत्क्षणं स महासत्या, प्रोचे रोषारुणेक्षणम् / रेऽपसर रे दुष्ट ! पापिष्ट ! स्त्रीषु लम्पट ! / / 77 // न नन्दसि चिरं पाप ! लक्षगैरेभिरुन्मदः / इयत्कालं देवरस्त्वं, साम्पतं शूकरः खरः॥ 78 // स्मृतं चारुकुलौचित्यं, नित्यं पशुभवस्तव / शङ्के रश्चिरं केनाऽऽसक्ता ! त्वजननी स्मरात् // 79 // पातकेनाऽमुना बज्रातः कस्य न जायते / शीर्वेशारकष्टिा , तब जाता च नोऽकुले // 8 // यमः समग्रसंहर्ता, कर्ता किं मरणात्परं / परं न स्वममध्येऽपि, शीललीलाक्षयो मम // 81 // विलक्षः स जगादेवं, मैवं वादीः क्रुधा गिरं / त्वर्थ एवानोंऽयं, मयाकारि विकारिणा // 82 // खण्डयामि सतीमान, तबलेन छलेन वा / अबला सबला किं स्यात्, पुरुषादुल्लसद्रुषः // 83 // [शात्वैवं बन्धुदन्तस्य, बलात्कारं तया तदा / रक्षणीय शीलं मून, मया युक्त्यैव सङ्गतम् ] कदाचिद्देवनैपुण्यालविता पियसामः। अकालमृत्युना कि मे, तद्विसम्बनमाश्रये // 84 // ध्यात्वेति मधुरैर्वाक्यैः, स बभाषे छलादमुम् / त्वदस्ते जीवितं न्यस्तं, करिष्ये समयोचितम् // 85 //
Page #65
--------------------------------------------------------------------------
________________ भविष्यदत्त सप्तमो:धिकार परिचम अत्रान्तरे प्रकोपेन, जलदेव्या महोदधौ / वैपरीत्येन वात्यायाः, पोता आवर्तमासदन् // 86 // निर्यामकानां दाक्षिण्य, वैलक्षण्यमगात्क्षणात् / ऋनटदिति ध्वानं, पोताश्चक्रुः परस्परम् // 87 // अकालोपस्थित प्रत्यु, मत्वा सांयात्रिका जगुः / अरे पतिव्रता केन, पापिनोत्तापिताऽस्ति किम् // 88 // भणन्तस्त्वेवमानम्य, वणिकपुत्रा महासतीम् / क्षमयां चक्रिरे सद्यः, प्रसद्य माह सा ततः // 89 // हे भ्रातरः कातराः, किं धर्मों यत्र दयोदयः / जीवन्तु सन्तः सुचिरं, शांतिः शान्तिकृदस्तु वः // 9 // देवेन दानवेनैष, विहितो यधुपद्रवः / रक्षायै मम तदश्यादधुनैव शिवं जने // 91 // इत्यस्याः कथनादेव, शिवमासीन्नभः स्वतः / स्वतः परतटे मापुर्वहनानि वनान्तिकम् // 92 // क्रयविक्रयकर्माणो, वणिजोऽभ्येत्य सत्वरम् / अन्योऽन्यं कुशलपनः, पीणयामासुराशु तान् // 93 // रत्नमेकं विनिष्काश्य, पन्धुदत्ताय सा ददौ / भवदत्तसुता तेनाऽग्राहयद्वाहनं घनम् / / 94 // तुकान् गजेन्द्रांस्तुरगान्, धनेनादाय साऽचलन् / जामा राज्यलक्ष्मीव, करमैारवाहनात् // 95 // सुखासनसमासीना, नवीना रूपतः शची / प्रेषयन् माभृतं राहो, बन्धुदत्तकरण सा // 96 // पटावासेषु तस्यैव, बन्धुदत्तस्य तस्युषी / सुमुखी नाऽन्तरं किञ्चित्, शापयामास तं गिरा // 97 // सालङ्कार विना वेष, बन्धुदत्तात्रयाऽभजन / पालयन्ती दृढ शील, पतिसङ्गमनोत्सुका // 9 // बनु दत्तादिवणिनां, रक्षायै पेषितं बलम् / भूपालेन नृपालेनाऽभ्याजगाम भयापहम् // 9 //
Page #66
--------------------------------------------------------------------------
________________ सप्तमोऽ धिकार भवदत्तमुताऽन्येधुश्चिन्तयामास चेतसि / प्रसब सबते दुःखं, कियत्कालं खलालये // 10 // भविष्यदान पत्युक्तिं विना स्त्रीणां, न भुक्तियुक्तिमावहेन् / तन्मेऽनशनमेवाऽस्तु, यावन्न भियसङ्गमः // 11 // चरित्रम ध्यात्वेति मुप्ता सा मार्गे, लतागेहाऽन्तरे क्वचित् / मोक्ता शासनदेव्येत्य, वत्से मा कुर्वधीरताम् // 102 // मा कार्षीः कायसंक्लेश, सुख प्राप्तासि सत्वरम् / न चिरं भविता पत्युर्विपलम्भस्तवोत्सुके // 103 // पातरुत्थाय तद्वाचा, गात्रमात्रावलम्बनम् / भोजनं चक्रुषी चेले, सा सार्थे दीनमानसा // 104 // केनापि सविकारं नो, भणिता पाणनायके / दूरदेवस्थितेऽत्रागा युवतीजनमध्यगा // 105 // अथ पथि कयौवाम्भोधिरोषः स्थितीनां, बनवसनविनिद्रीभावसंभावनानां / बहुदिनमिलनेन स्नेहभाजां जनानां, समजनि यमुनायाः पारवर्ती स सार्थः // 106 // मिलति परिजनौधे, भ्रातृपित्रादिके स्वे, दिवससरसताऽऽसीत्सवाणिज्यभाजां। दिशदिशि निशि चक्षुनिक्षिपन्ती सगाक्षीत्यसहत हत दुःख केवली तत्र साक्षी // 10 // / इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहाम्यपवित्रे महापाध्यायश्रीमेघविजयगणिविरचिते सप्तमोऽधिकारः EARNXXXXXXXXXXXX
Page #67
--------------------------------------------------------------------------
________________ अथ भविष्यदत्त्चरित्रे अष्टमोऽधिकारः / भविष्यदत्त चरित्रम अष्टमोडधिकार निस्तन्द्रचन्द्रपार्थेऽपि विनिद्रं क्रमनीरज / रेजे मैश्येव यत्समात्स श्रीचन्द्रप्रभः श्रिये // 1 // अथ रूपवती पुत्र-वियोगाद व्याकुला सती / निःश्वस्य स्वस्य दुःकर्म, निन्दती चेतसाऽशुचत् // 2 // कदाचिल्लोचनं वाम, मन्द मन्दं परिस्फुरत् / सा मत्वाऽऽनन्दसम्पत्ति, भाविनी मनसि न्यधात् // 3 // ततथुकूज काकोऽपि, मधुरध्वनिनाऽध्वनि / तदैव देवतः पापद्वर्धापकजनो गृहम् // 4 // नंद नंद चिरंजीव, श्रेष्ठिन् बर्दाप्यसे मया / यमुनासरितस्तीरे, बन्धुदत्तः समाययौ // 5 // वर्णानापीय कर्णाभ्यामन्योन्यकथनान्नृणाम् / वर्धापन पतिगृह, जज्ञे सर्वपुरोत्सवात् // 6 // रूपवत्या समं श्रेष्ठी, तं संस्थाप्य नरं पुरः / आचट भद्र ! सत्यं तदसत्यं वाऽभिधीयते // 7 // तेनोचे दीयतां दानं, क्रियतां मालक्रिया / किं दुर्विकल्पैर्जस्पैर्वा, हदि निधीयतां वचः // 8 // बखालङ्कारसत्कारस्तं तदामोदयन्नरम् / श्रेष्ठी ज्येष्ठीवभूवाऽस्य वचोभिस्तुष्टिगौरवात् // 9 // तमादाय नरं सार्थे, श्रेष्ठि पाप नृपान्तिकम् / नृपोऽप्यानन्दितः सयस्तत्संदेशाक्षरश्रुतेः // 10 // कदाऽऽगमिष्यतीत्युक्तः, माह सन्देशकः पुमान् / यमुनामुतरन्मुक्तः, ससार्थस्त्वरिताऽऽगमात् // 11 // भवत्सैन्येन साकं स, समेष्यति महाशयः। प्रयाणैः कविभिस्तेन, मुक्तोऽहं पुरतः पुरे // 12 //
Page #68
--------------------------------------------------------------------------
________________ भविष्यदरचरित्रम अष्टमोऽधिकार उपदां समुपादाय, पौरलोकोऽभ्यचीचलत् / मिलनायोत्सुकस्तस्य, माप्तस्याऽनभ्रष्टिवत् // 13 // राजा धनार्जने पृष्टे, बन्धुदत्तस्य तत्पुरः / सन्देशकनरोऽप्याऽऽख्यत् तद्वैभवमहोदयम् // 14 // हस्तिनः शतशः सार्थे, तुरगाश्च सहस्रशः। भार वहन्तः करभाः, वृषभा महिषाः परे // 15 // चलन्ति पुरतस्तस्य, बन्धुदत्तस्य शासनात् / रमणीया रमण्येका, वर्ततेऽस्य वशंवदा // 16 // तां सुखासनमासीनां, पुरस्कृत्य चलत्ययं / लक्ष्मीमिव निजामा-सातां दृढरागतः // 17 // पित्रोस्तदा प्रमोदोऽभूत्कोऽप्यपूर्वस्तु सर्वतः / पुत्रभाग्योदयश्रुत्या, नृपायैः सुतयोस्तयोः॥ 18 // हरिईरेरिबोत्तालः, श्रुत्वाऽवादीन्निजाङ्गजां / वत्से प्रमोदमाधत्स्व, सूनोः सार्थसमागमात् // 19 // नृपादेशाद् बन्धुदत्तप्रवेशोत्सवमादधे / श्रेष्टी स्वेष्टं ददददानं निदानं जयसंपदः // 20 // तोरणैः कलशाधानविधानः पण्ययोषितां / जयशब्दाभिमानश्च, पुरश्रधारणा कृता / 21 // क्रमेण नमरासन्नाऽऽरामे सार्थोऽवतीर्णवान् / स्वीयैः सम्मुखमायातैनन्दितः क्षेमयातया // 22 // हयारूदः श्रेष्ठिसूनुः, स्फारालङ्कारवेषभृत् / माविशन्नगरे बन्धुदत्तः सह साथैः वणिग्वरैः // 23 // गवाक्षस्थमृगाक्षीभिः, प्रेक्ष्यमाणः स कौतुकात् / वासामाशीर्वचो गृहन, समागान्निजमन्दिरे / / 24 // धन्यो धनपतिः श्रेष्ठी, सभाग्या रूपवत्यपि / यत्पुत्रेण विदेशेऽपि, खोसंपचाप्युपार्जिता // 25 // स्तूयमानः पुरन्ध्रीभिर्वन्धुदत्तः प्रणेभिवाम् / मातरं पितरं माताऽऽनन्दमाग्भारभारितः // 26 //
Page #69
--------------------------------------------------------------------------
________________ LE भविष्यदत्ता चरित्रम अष्टमोऽ कारः वरासने निविष्टः सन्, भवदत्तसुता. प्रति / संजया माह चैनाम् स, श्वसुरी पुरतः पिये ! // 27 / / मुखासनात्समुत्तीर्य साऽप्यासन्नजनैर्वृता / नाऽनमन्न बभाषेच, किञ्चिदाक्षिण्यमन्थरा // 28 // माताऽपि सर्वमारल्य-प्रयोगैर्विहितादरा / कृत्वा न्युज्छनकर्माणि, निजमूनुमचीकथत् // 29 // न प्रणामं करोत्येषा, नवा. संभाषते वधूः / निरामया मया दृष्टा, चिरात् पुण्योदयादपि // 30 // जनन्या वचनं श्रुत्वा, परिवारमुवाच सः / एकान्तेऽसौ संनिवेश्या, पित्रोविरहकातरा // 31 // युवतीभिस्तदैकान्ते, सेव्यमानाऽपि सा शोः। मुञ्चन्त्यश्रणि नोवाच, कयाचिद बहुभाषिता // 32 // त्यज मानं वृथा खेदं, कुरुषे किं विमर्शय / श्रेष्ठिसम समायाता, पुरमाधान्यमाऽश्रिता // 33 // स्मरस्यद्यापि किं पित्रोदरदेशान्तरस्थयोः / भूषणैर्भूषयात्मानं, रमस्व स्वामिनाऽमुना // 34 // इत्येवं भाष्यमाणाऽपि, भविष्या नाऽमुचन शुच / भर्तुवियोगतो दनाऽवामस्तासां तथा वचः // 35 // परवेषं समानीय, काचिवकुलवधर्ददौ / मुश्चद मलिनं वस्त्रं, परिधेहि नवं पुनः // 36 // गुणानुरूपस्ते भर्ता, कर्ता क्यापि न विभियं / दर्शनेऽपि स्मर इव, दृश्यते स्नेहवान् भृशम् // 37 // इत्यालापयति स्मैतां, काचिन सख्याय सादरा / मुग्धा स्निग्धशाऽपश्यद्वैदग्धीं तन्मगीदृशः // 38 // कजलं कारप्युपायाय, काचित घुसणलेपनं / दर्पणं दर्शयंत्यन्या, स्थिता तस्याः पुरोंजना // 39 // सम्प्रेक्ष्या सां बहुमेम्णा, व्यापार विविधं हि सा / स्मरन्ति भर्तृसंयोगं, मेने मनसि निष्फलम् // 40 //
Page #70
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम अष्टमोऽचिकार पुत्राऽऽगमनतुष्टेन, श्रेष्टिना स्वजनादयः / समीलिता निजावासे, भक्त्या भोजयितुं तदा // 41 // पठत्सु मागवेञ्चैस्तूर्याणां विजयस्वरैः। सन्मान्य स्वजनास्तेन, भोजिता मोदकादिभिः॥४२॥ हरिचन्दनकाश्मीर-जन्मादिकविलेपनैः / सत्कार्य पुष्पैर्विविधैर्वस्त्रैस्ते भूषणान्वितैः // 43 // ताम्बूलानि करे दत्वा, वणिकपुत्रा विसर्जिताः / विविशुः स्वगृहं सर्वे, महाऽऽडम्बरपूर्वकम् // 44 // प्रतिपदेशं पात्राणां, नर्त्तनैबन्दिकीर्त्तनैः / प्रवर्त्तनैमङ्गलानां, पुरं स्वःपुरवद्वभौ // 45 // पुरे जयारवश्चक्रे, मार्गणैर्धनवर्द्धिभिः / स्पर्द्धयेव वने भृङ्गैर्वसन्ताऽऽगमनात्तदा // 46 // कोकिलाभिर्वने गीत, भवने युवतिजनैः / लताः पल्लवितास्तत्र, परत्र वनिताः स्मिताः॥ 47 // समारेभे सुमनसा, वृन्दैरामोदवैभवः / यथेभ्यभवने तद्वत्पवनेन चले बने // 48 // इतश्च कमलश्रीः सा, मार्गयन्ती सुताऽऽगम / द्वारि निवेशयामास, कलशं जलसम्भृतम् // 49 // माङ्गणं चन्दनः सिक्तं, बद्धा वन्दनमालिका / जगुर्गीतं सुवासिन्यः, पुष्पमालाऽवलम्बिताः // 50 // केनाऽप्यागत्य सन्दिष्ट, सार्थः सर्वः समीयिवान् / भविष्यदत्तकः मुन्न ते मातर्विलोकितः // 51 // समाकर्ण्य वचस्तस्य, त्रस्यद्धरिणलोचना / शोचनात्सहसोत्तस्थौ, सम्भ्रान्तस्वान्तकातरा // 52 // पृष्टाः सर्वे वणिकपुत्राः, नाऽऽदिष्टं तैर्मनागपि / बन्धुदत्तसमीपेऽगाद्वेगात्सा भयविहला // 53 // वत्स ! वत्सलतापात्रं, त्वमाऽऽलोकि यया दृशा / तस्या विश्वोपकारित्वं, वय सावर्ण्यतो मणेः // 54 //
Page #71
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम अटमोऽधिकार RECECREEEEEEEEEEER दिवसोऽद्यतनः साधुः, माधुर्य मुखशीतगोः / यदस्माभिः समासंपादितसौख्यं मुखं तव // 55 // क्व ते सहोदरो ज्येष्ठ, इत्यादिष्टोऽनया रयात् / जगाद बन्धुदत्तोऽपि, सोऽगाद् द्वीपान्तरे ततः // 56 // विलम्बितं मया भूरि, दिवसान् स्निग्धचेतसा / सार्थस्य पारवश्येन, चलनं विहितं ततः॥ 57 // सोऽप्यागमिष्यत्यचिरात्, कमलाऽपि गिराऽनया / निश्चिकाय सुतस्याऽभूत्किमप्यकुशलं पथि // 58 // सम्भ्रमात्सहसोत्थाय, सा शुशोचे चिरं हृदि / वैपरीत्येन दैवस्य, हा! किं जज्ञे तनूभुवः // 59 // हा ! मया किं पुरा कर्म, कृतं विकृतवेतसा / इदृशं पुत्ररत्नं हा ! हारित प्राप्य दुर्लभम् // 60 // चलन्नपि त्वं मागेव, मयाऽवारि पुनः पुनः / नाऽत्र शात्रवसंसर्गः, सुखाय क्वाऽपि देहिनाम् // 61 // कस्मिन् मुहूर्ते धूर्तेन, सम हा ! प्रस्थितः सुतः / सर्वेषामुत्सवे पुर्या-महमेकाऽस्मि दु:खिता / / 62 // करुणस्वरमेतस्याः, श्रुत्वा नागरिको जनः / समागात्त्वरितस्तत्र, हरिदत्तगृहेऽखिलः // 63 // जातं भविष्यदत्तस्य, किमक्षेमस्य कारणं / पप्रच्छाऽन्योऽन्यमित्युच्चैः, सार्थपोरान्महाजनः // 64 // यदि ज्येष्ठसुतो नाऽगात्, श्रेष्ठिना तत्किमुत्सवः / पारेभेऽतिमहान् युक्तं, पितु तत्कदाप्यहो // 65 // लोके कलकलारावे, प्रसृते भूपतेरपि / मनो वैरूप्यमापन्नं श्रेष्ठिनो यशसा समम् // 66 // बन्धुदत्तं नृपोऽमाक्षीत्साक्षीकृत्य पणिगवरान् / स्फुटं कथय का वार्ता, भविष्यो नाऽऽगमत्कथम् // 67 // न जानीमो वयं राजन्नयं दुर्णयवान् भृशम् / अन्तर्तीपं तदैवाऽस्थात्, मदनाख्ये मदोद्धतः // 68 //
Page #72
--------------------------------------------------------------------------
________________ भविष्यदचचरित्रम अहमो स्वैरं जल्पन विसङ्कल्पः, स्वैरं कुर्वन मनीपया / गर्वपर्वतवद्वैरं, वणिकपुत्रैः समं वहन् // 69 // स्थितो द्वीपान्तरे रोषारोधितो बहुधाऽपि सः / नाऽऽजगाम यदा सार्थे, तदा चेलुर्वणिग्वराः // 70 // इत्यस्य वाचमापीय, सयः क्ष्यापोऽपि कोपितः / श्रेष्ठिन् धिक् त्वां यदुत्साई, कुरुषे तं सुतं विना / 71 // न्यषेत्सीत् श्रेष्ठिनो राज-द्वारे मंच समागमम् / धिगेनं दुर्मतिं वृदं, सुतपङ्किविभेदकम् // 72 // तन्निशम्य मुखं म्लानं, रूपवत्याः शुचाऽभवत् / तयाऽवीक्षि मुख मनोर्बन्धुदत्तस्य नीरसम् // 73 // ध्यातं. विरहदाहेन, दाग भविष्यानुरूपया / अत्राऽमुत्राऽपि दुकर्म, जन्तूनां दुःखसाधनम् // 74 // यदा स्पोऽप्पय दुष्टः, कर्ता शील विडम्बनां / तदाऽऽस्फाल्य मरिष्यामि, स्वात्मानमुपलादिना / / 75 // यथाकृतमनेनैतत्पातकं घातकर्मजं / प्रेक्ष्यते तत्फलं साक्षाद, भुञ्जानोऽयं तदा वरम् // 76 // कमलश्रीगुरोः पार्षे, निन्ये सुत्रतया तया / स्वामिन्नसौ न सौख्यादि हरिदत्तवणिकसुता // 77 // अस्यास्तनुद्भवः क्वाऽपि, तस्थौ केनापि हेतुना / न माप्तः शक्यतेऽनिष्ट, कनिष्टवचसाऽनया / / 78 // रूपवत्याः सपल्याश्च, बन्धुदत्तोजः पुनः / धनान्युपार्य सम्पाप्तः, स्वगृहं समहोत्सवम् // 79 // मुनिना शानिनाऽख्यायि, किं मुषा चिन्तनैर्भवेत् / धर्मे यत्नश्चिरं कार्यों, रत्नत्रितयशालिनि // 80 // जीवन्नस्ति मुतोऽप्यस्या, आगन्ता त्रिंशतः दिनैः / रजन्याः पश्चिमे यामे, मा मनः खेदमानय // 81 // वैशाखशुक्रपञ्चम्याः, रात्रौ तस्य समागमः / राज्यवान् भविता सूनुः, सविताऽस्याः कुलाम्बुजे // 82 //
Page #73
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम अष्टमोऽधिकारः वचनामृतमाऽऽपीय, मुनीन्दोः कमलाऽभवत् / उल्लसत्पुलकानन्दा, विनीयाऽनिष्टसंशयम् // 83 // गणयन्ती दिनान्येषा, विशेषादुद्यता व्रते / प्रतिज्ञा संदधे पुत्राऽनागमेऽनिप्रवेशने // 84 // श्रेष्ठी धनपतिः सर्वान, पौरानाहूय भूपतेः। दौकनं विपुलं कृत्वाऽवादीत विरचिताञ्जलिः // 85 // स्वामिन् विनाऽपराधं मां, किं दूरे राजकार्यतः / कुरुषे भूभुजः सर्व-सहास्ते भुञ्जते क्षमाम् // 86 // ततो राजाऽपि सङ्गोप्य, कोपं स जगदे तदा / समागच्छ स्वच्छमते ! निर्व्याज राजमण्डपे // 87 // ततः प्रसादमासाद्य, श्रेष्ठिनाऽऽमोदशालिना / कारितो बन्धुदत्तोऽपि, नृपदर्शनमादरात् // 88 // सन्मानितः स भूपेन, वस्त्रालङ्करणादिभिः / अन्तःपुरे ततो जाता, सत्कृताऽस्य प्रियाधिया // 89 // बन्धुदत्ताननं पश्यन्, विस्मितः श्रेष्ठिपुङ्गवः / न किञ्चित् कुरुते गर्वमयं लब्धाऽपि वैभवम् // 90 // मूल्येनेकस्य रत्नस्य, राज्यलक्ष्मी गजादिकाः / समाहिता न जाने तद्धनसङ्ख्याऽस्य कीदृशी // 91 // स्त्रीरत्नमपि भाग्येनाऽऽकृष्टमिष्टगुणान्वितम् / अनेनाऽऽनायि यद्पात, त्रपते भूपभामिनी // 92 // अहोऽस्य पुण्यपारभारः, सारः क्षितिपतेरपि / तदयं नैव सामान्यः, सद्भिर्मान्यः सुतोत्तमः // 93 // रूपवत्यपि सारूप्यं, निरुप्यऽस्या हरेः स्त्रियाः। वधू माह धृतोत्साहा, पुरः संस्थाप्य चाटुभिः॥ 94 // वत्से ! धत्से मनः खेदं, न दत्से प्रियमुत्तरम् / मत्सूनोर्या करे लग्ना, तस्याः किं न्यूनता सुखे // 95 // त्वत्सौभाग्येन सर्वोऽपि, पौरः परमहर्षवान् / अनुरक्तस्य पुत्रस्य, वासमन्दिरमाप्नुहि // 96 //
Page #74
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 62 अष्टमोऽधिकार तन्निशम्य शनैरूचे, दुःखसंतप्तया तया / नाऽहं करतलग्राहं, कारिताजवा तव // 97 // वृतान्तोऽस्याः जनन्याऽपि, ज्ञापितः स तनूरुहः / प्रत्युक्ताम्बा रुषा तेन, स्नुषा ते निश्चिताऽस्त्यसौ // 98 // द्वीपान्तरसमुत्पन्ना, स्वजनैविमलम्भिता / व्याकुला परदेशीय-भाषां जानाति नो मनाक् // 99 // विनिय शुचं भूयः, प्रियवाक्यैः प्रसादितां / परिणेष्यामि सद्योऽहं, त्यज व्यामोहमऽम्बिके ! // 10 // ततो धनपतिः श्रेष्ठी, रूपवत्या निवेदितः / पारेभे सहसोत्साहात्माणिग्रहमहोत्सवम् // 101 // समीक्ष्य विधिवैषम्यं, तद्भविष्यानुरूपया / चिन्तितं परदेशे मे, मियोऽहं हस्तिनापुरे // 102 // संभाव्यते कथं भाव्यः, सङ्गमो नौ महाऽन्तरे / दुःखं ममापि तस्याऽपि, निवार्य विधिनाऽधुना // 103 // शङ्के विरहसन्तापाजम्पामम्बुनिधी दधौ / मत्मियस्तेन मरणं, शरणं मम साम्पतम् // 104 // अयं हि स्मरसन्तापात्पापात्मा मां विडम्बयेत् / विलम्बयेत् सुधी को वा, जीवितुं शीलखण्डने // 105 // मत्वा केनचिदुत्तमेन कथिता, सन्धा पयोजश्रियाः / साऽपि मोतिमपात् मियागमदिनं निश्चिन्वन्ती चेतसा, येनोक्तं मुनिना तपोजपवता सानिध्यतोऽस्यैव मे / भूयात् पूर्णमनोरयः कथमपि श्रेयः समुद्भावनात् // 106 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते अष्टमोऽधिकारः
Page #75
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम नवमोऽधिकार अथ भविष्यदत्तचरित्रे नवमोऽधिकार यत्पादसेवया प्राप्त--सुधामयवपुर्विधुः / स्थापितो विष्णुना नेत्रे, सिद्धये सो जिनोऽष्टमः // 1 // भविष्यदत्तभूपालः, पालयन् राज्यवैभवम् / सेव्यमानः समानदि-सामन्तैर्भुवमन्वसात् // 2 // अमरीभिरिव स्त्रीभिर्विज्यमानोऽपि चामरैः / अन्तस्तापभरामाप. रति क्वापि वियोगवान् / / 3 // अशनं शयनं नाना-पाशनं शासनं सुवः / पाणनाशनमापेने, विना कान्तां स भूपतिः॥४॥ अतिश्चेत्यतोऽभ्येत्य, वीतरागत्वभावनात / स शैत्यमासदत किञ्चित्तस्थौ तत्रैव तेन सः॥५॥ कृतस्नानः समभ्यर्य, देवदेवमिहाऽष्टमम् / स मासुकफलाहारैः, पाणवृत्ति वितेनिवान् // 6 // 'कुत्र कीदृग्विधश्चाऽस्ति, भविष्यः पुण्यपेशलः / इत्येवं माणिभद्रेण, स्मृतः स पुण्यचेतसा // 7 // दृष्टस्तेन जिनागारे, पियावियोगदुःखितः / अच्युतस्वर्गिसख्येन, मुरूपपुरुषाकृतिम् // 8 // कृत्वाऽत्र चैत्ये चन्द्राभ, पणिपत्य जिनेश्वरं / तेन घुसा समालापि, कुशलं ते नरेश्वर ! // 9 // कलत्रस्य वियुक्तेः किं, दैन्यं सैन्यपतेरपि / विस्मितोत्फुल्लनयनस्तस्थौ भूयः स तदगिरा // 10 // निर्निमेषशा पश्यन्, मां मेमालापपेशलः / कोऽयमाविबभूवाऽत्र, सुरः सौन्दर्यभामरः // 11 // 1 सापय प्रन्ये नास्ति किन्तु धनपालकविरचितकथासम्बधेन संयोजितम् /
Page #76
--------------------------------------------------------------------------
________________ भविष्यदत्तन चरित्रम् नवमोऽधिकार प्रियाविरहवाती मे, मत्वा तोषयते मुदा / किमत्राऽशनिवेगोऽयं, प्राप्तो मनुजमायया // 12 // धैर्यमालम्ब्य भूपालोऽभाणी सात्विकाग्रणी / कस्त्वं नाम्ना निमित्तेन, केन प्राप्तो जिनालये // 13 // तदा चचक्षे यक्षेशः, सुरेशाऽदेशतो नृप! / माप्तोऽहं माणिभद्राख्यः, कार्य मिष्टं निवेदय // 14 // दर्शिता येन वर्णाली, पापितः संपदा पदं / तेन पागजन्मसम्बन्धात्, सुरेण प्रेषितोऽस्म्यहम् // 15 // निद्राभाभयाद्वर्णपडि धृत्वाऽच्युताध्मरः / रक्षणीयः पुरा मित्रं, त्वया मेऽनुपदं सुखः // 16 // इति मामनुशास्य स्वर्ययावच्युतनिर्जरः / इयत्कालं ममाऽपि त्वं, विस्मृतश्चलचेतसः // 17 // तत्साधर्मिकवात्सल्य-पुण्यावाप्त्यै त्वदीहितम् / करवाणि वियोगामिः: शाम्यतां मियसङ्गमात् // 18 // गन्तुं गजपुरे शोधं, विमाने मद्विकुर्विते / आश्रयस्व स्वर्गराज, इव शोभाऽतिभासुरः // 19 // एवमुक्ते तयोः सत्यां विमानं समवातरत् / उद्भासयदव्योममार्गमभितः प्रसरत्करैः // 20 // तदन्तईन्दुमे दाज्जगर्ज वलय दिशां / तेन शारदपायोद-वादलस्य भ्रमोऽभवत् // 21 // साडम्बरं मुरस्त्रीणां, मीतैः संपूरिताम्बरम् / वातनृत्यत्पताकाभिर्व्याप्तं तदभुवमाययौ // 22 // श्रेष्ठिसूस्तद्विमानेनाऽधिख्य पाचलचिवम् / साहीतैः पुरादन-स्वर्णमुक्ताफलैः समम् // 23 // अहो धर्मस्य साम्राज्यं, गुणमाज्यं विजृम्भते / असहाये सहायो स्युर्यतः सर्वे सुधाशनाः // 24 // मानवानां विमानोऽय, चलतरणिविम्बवत् / उन्मुखानां तदीक्षा, मनोविस्मयकृच यः // 25 // MEERCEOCKEEEEXCEKAR
Page #77
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम नवमोऽधिकार विमाने स गवाक्षस्थः सुरदत्तविभूषणैः, / वौविलेप दिव्यैः, रराज सुरराजवत् // 26 // नगर-ग्राम-शैलादीन् पश्यन् मुदितमानसः / क्षाणदगमपुरोपान्ते, विमानानमियिवान् // 27 // उद्वक्त्रकमला तत्र, कमलापि समातृका / सुतागमावधिदिनं प्राप्याभूद्भयविड्वला // 28 // वैशाखशुक्रपञ्चम्यां, कृताईत्पूजनोत्सवा / कमला सुबतार्याऽपि, चक्रतुर्जागरं निशि // 29 // अद्यापि नागतः मनुस्तत्पातलिताऽनले / प्रवेक्ष्यामीति निश्चित्य, निश्वासं कमलाऽमुचत् // 30 // नान्यथा स्याहषेणी, सम्पाप्तोऽवसरोऽप्ययम् / सुत्रता चिन्तयन्तीति, यावदासीत्वतोन्मुखी // 31 // तावनभोगणात्सयोऽचततार गृहाऽऽजिरे / विमानं मानवानां, तत्कान्त्या विस्मयकारणम् // 32 // किमेतदिति सम्भ्रान्त्या, लोके त्रस्यति सर्वतः / कमलश्रीजिनध्यानं दधावभ्यन्तरे ततः // 33 // विमानात् स समुत्तोर्णो, माणिभद्रेण शंसितः / भविष्यदत्तभूमिभुक, सुव्रतार्या प्रणेमिवान् // 34 // तयाऽपि कमलाऽवादि, पुत्रं प्रेक्ष्यस्व रंहसा / तद्वाचा तुष्टमनसा, तयाऽऽप्यालोकितः सुतः॥३५ / / प्रमोदमेदुरैरङ्गराऽऽलिलिङ्ग निजागजम् / मणिपत्य क्रमौ मातुस्तस्थौ सोऽपि पुरः स्फुरन् // 36 // मुश्चन्त्याऽशूणि मात्राऽयं, करेणोत्याप्य नन्दनः / आशीर्वाक्यैश्चिरं जीवेत्यादिभिस्तुष्टचेतसा // 37 // न्युग्छनानि वितन्वन्ती, मणिमुक्ताफलादिभिः / सरोमाञ्चभरोन्नीत-गात्रयष्टिय॑जम्भत् // 38 // मालानि वितेने सा, दधिदुर्वाऽक्षतादिभिः / कलशैजलसम्पूर्णैः स्नपयन्ती सुतं ततः // 39 //
Page #78
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम नवमोड़धिकारः PORRECORRECXXX भविष्यदत्तभूपेन, धूपेनाऽगुरुजन्मना / संतये कृतनैवेद्यो, माणिभद्रो विसर्जितः // 40 // कुशलं जननी पृष्टा, पुत्रेण पाह साऽधिकं / त्वदागमनयोगेन, मन्ये क्षेममयं जगत् // 41 // तुभ्यं यचिन्तितं क्षुद्र-रभद्रं दुर्जनैरिह / तत्तेषामेव देवेन, नीयतां व्याकुले कुले // 42 // वनावनाय, पुत्राऽहं, प्रविशन्ती भयाकुला / रक्षिता मुनिवाक्येन, तपःसंवरसादरा // 43 // श्रुतपञ्चमीकाऽऽराद्धाराद्धान्तोक्ततपोजपैः। तत्पभावात्तवाऽप्यासीद्विदेशे संपदागमः॥४४॥ बन्धुदत्तः कया रीत्या, पाविशनगरे बरे / एवं प्रश्ने जनन्याह, मासोऽभूत् तत्समागते // 45 // उपार्जितं धनं भूरि, गजाश्चादिपरिग्रहात् / नन्दितेन ततो राज्ञा, मोदितं सकलं पुरम् // 46 // कारितः समहोत्साहात, प्रवेशं भूभुजा पुरे / उत्तम्भितध्वजे सज-तोरणे मङ्गलैवरैः // 47 // श्रूयते वारीया नृणामाऽऽनीता स्त्री कुतोऽपि च / बन्धुदत्तेन मूर्तेव, लक्ष्मीः सौभाग्यशालिनी // 48 // आश्चर्यमेतत्सा नैव, केनाऽपि सह भाषते / नाऽलङ्करोति स्वदेई, नयनेऽस्या निरञ्जने // 49 // शुचं नाऽप्यमुचद दूरे, रुदतीस्तुदती भृशं / न दृशं भूतलादन्यत्, स्थले निक्षिपति क्षणम् / / 50 // न स्नाति भोज्यं नाऽनाति, पतितोद्वेगनीरधौ / न वेषाऽऽडम्बरं धत्ते, चित्ते जीवितसंशयात् // 51 // तथापि तस्याः पारेभे, श्रेष्ठी पाणिग्रहोत्सवम् / तैलोद्वर्त्तनमाङ्गल्यक्रियाद्यस्याः प्रवर्त्तते // 52 // श्रुत्वा स श्रेष्ठिमूर्येष्ठः, प्रवृत्तिर्मातुराननात् / नागमो मम संज्ञाप्यः, क्यापीत्यम्बां न्येषधयत् // 53 //
Page #79
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 67 नवमोऽधिकार स्वयं ययौ राजकुले, राजदर्शनहेतवे / डुढौके राजपुरतो, रत्नमेकं महार्घकम् // 54 // राज्ञा निरीक्ष्य तद्रत्नं, प्रशशंस कुमारकम् / स्वामिन्नेशरत्नाप्तिर्भाग्यमाज जनं विना // 55 // ततो राजाऽतितुष्टेन, साऽभिलाषं स जल्पितः / अधुना क्रियते किं ते, कार्यमार्य ! यदीहितम् // 56 // कुमारो विनयादाऽऽरव्यव, देवाऽस्मिन्नगरे मम / बन्धुर्वन्धुरसम्बन्धः, सर्वोऽप्यस्ति महाजनः // 57 // स मध्यस्थतया राजा, अष्टन्यो विजने पदे / तं तं परीक्ष्य कर्त्तव्यं, कार्य तद्गुणदोषयोः // 58 // पुनरप्यब्रवीत् भूपस्तुष्टोऽहं मणिनाऽमुना / ददामि माथितवर, तन्मार्गय यषेप्सितम् // 59 // ततः प्रसादं भूपस्य, पश्यन् स कमलाङ्गजः / ययाचे राजभवने, प्रवेशमनिवारितम् // 6 // आकार्य स प्रतिहारं, न्यवेदीदभूपतिगिरा / निषेध्यो न त्वया सौवेऽसौ धैर्यात प्रविशन्नयी // 61 // ततः सद्यः परावृत्त्य, छन्नीभूय स तस्थिवान् / मातामहकुलं सर्व, भाषयन् क्षेमवार्तया // 2 // सुस्थितः सूनुरम्बां स्वामाहूयाऽवोचदञ्जसा / आनीतां बन्धुदत्तेन, कुमारी तां विलोकय // 63 // साऽप्याह वनिता गुप्ता, रक्ष्यते विजने जनैः / किं कार्य गमने तत्र, पुत्र मे वैरकारणम् // 64 // वार्ताऽस्ति महती मातन प्रकाश्या यतस्ततः / यावद्राजसभां नैक्षे, साक्षीकृत्य स्वसज्जनान् // 65 // अम्बाऽविलम्बादाचष्ट, वत्स ! मे विनिवेदय / वृत्तान्तं त्वं यथावृत्तं, द्वीपान्तरगतस्य ते // 66 // विरहात्कातरः साश्रु-दृक् स मातरमूचिवान् / श्रूयते या कुमारीह, रूपलावण्यमन्दिरा // 67 // SEXEEEEEEEEEO
Page #80
--------------------------------------------------------------------------
________________ नबमो: भविष्यदत्त चरित्रम धिकार REEEEEEEEEEEEEEXXXX यस्याः कृते विवाहोऽयं, मारेभे श्रेष्ठिना स्वयं / सा स्नुषा तव मत्कान्ताऽपहता कैतवस्पृशा // 68 // प्रस्थाने यत्त्वयाऽऽदिष्ट, मम तेन सकलं कृतम् / वनमध्ये विमुक्तोऽहं, यत्र कोऽपि न मानवः // 69 // गतेऽस्मिन् अतिमुक्तानां, मण्डपेऽगमयं निशं / पातर्लब्धाऽध्वना-शैलकन्दरान्तः प्रविष्टवान् // 70 // नगरं शून्यमद्राक्ष, राक्षसा पीडितं पुरा / भ्राम्यस्तत्र विशश्राम, चिरं चन्द्रप्रभालये // 71 // देवाऽऽदेशेन सम्माप्ता, कुमारी सा विचक्षणा / मां संभोज्य तयाऽख्यायि, कथा स्वीया यथास्थिता / / 72 / / बाला मय्यनुरक्ताप्यदत्तादानधिया मया / न स्वीकृताऽशनिवेगस्तां मां सः प्रदत्तवान् / / 73 // विवास तां ममादत्त, पुरीराज्यं प्रसय सः / व्यतिचक्राम मे तत्र, पुरे द्वादशवत्सरी // 74 // त्वत्सामकृते पुर्याः, प्रस्थितस्य वनान्तरे / मीलितो बन्धुदत्तोऽपि, निर्द्धनः स्पर्धनो मया // 75 // पूर्वाऽपराधवैगुण्यं क्षामयन्नमयन्नरं / क्षुद्रः छिद्रेण मत्कान्तामानयद्धनसंयुताम् / / 76 // मां साधर्मिकवात्सल्यादच्युतेन्द्रः समानयत् / माणिभद्रं समादिश्य, प्राक्सम्बन्धात् पुरे स्यात् / / 77 // श्रुत्वा वृत्तं तमित्युक्तं, तनयेन प्रसूस्ततः / प्राप्तोऽसि पुग्यसाहाय्यात्, पिष्ट्वा कटं गृहेजः // 78 // वस्त्राभरणरत्नादि, यदानीतं पुराततः / सर्व सुतो निजाम्बायाः, पुरतः समढौकयत् // 79 // मसीद मातर्भषादि, परिधेहि ययोचितम् / अस्तु वस्तुकृतार्थ मे, यजातं तेऽासातम् // 8 // तद्वीक्ष्य कमला हात्, स्नात्वा शुद्धजलैरलं / कुर्कुमेनोद्वय॑ गात्रं, न्यलेपोद कुर्कुमद्रवैः // 81 / /
Page #81
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम नवमो:धिकार परिपाय दुकूलादिनि, स्वभाले तिलकं दधौ / अधरेऽलकजं रागं, कज्जलं नयनाम्बुजे // 82 // पुत्रवैभवसम्भारान्मानसं समलतम् / ततो बहिर्विभूषाभिस्तया देव्येव शोभिते // 83 // श्रोत्रयोनिहिते धाम-मण्डले कुण्डले तया। विरेजाते जगज्जेतुश्चक्रे इव मनोभुवा // 84 // सराभिस्तिसभिस्तस्या, ग्रैवेयकमदीपत / प्रसप्पंर्पकन्दर्प-त्रिवेणीतीर्थवधुवम् // 5 // हृदये मौक्तिकी माला, न्यस्ता सद्गुणशालिनी / मुखेन्दोरिव पीयूष-धाराऽऽधाररसश्रियः॥८६॥ काञ्चनाऽचलबत्तुङ्गो, स्तनावुभयपाश्चयोः / हृदयस्थितकामस्य, प्रासादाविव रेजतुः // 87 // रणन्ती रसना सार-किङ्किणीनां रणत्कृतैः / नितम्बे शुशुमे तस्याः, स्मरमाकारसन्निभा // 88 // वलयैः कलयैवान्तर्मणीनां बाहुसंस्थितैः / लावण्याम्बुधेर्वीचिति, वलयश्रीविशेषिता / / 89 // केयूरकणारोपाद्, भुजौ तस्याश्चकासतुः / मृणालशोभया पिक-भृङ्गशकारयुक्तया // 90 // स्वर्णनूपुरशब्देन, राजहंसपरिक्रमम् / क्रमणौ पचनेत्रायाः, स्फुटं सूचयतो जने // 91 // मुतः स्वर्णविभूषाभिभूषितां मातरं जगौ / नाम मुद्रां समादाय, गच्छस्व त्वं स्ववेश्मनि // 92 // परिवारेण सारेण, स्फारालङ्कारधारिणा / लीलया हस्तिनीवाऽगात्, चलन्ती कमला गृहम् // 93 // नागानेव भूभागादागाद्रूपेण सुन्दरी / पुरन्दराम्भोजनेत्रा, नरलोकमिवेयुषी // 94 // विस्मयं नागरनृणामानयन्ती प्रतिस्थलम् / अपूर्वरूपसंपत्त्या, कमलाऽभिनवा बभौ // 15 //
Page #82
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 70 नवमोधिकार सपल्या रूपवत्याः सा, सम्प्राप्ता निलयाङ्गणे / कमला वीक्षिता सर्वनता परिजनैस्ततः // 96 // विस्मयोत्फुल्लनयनस्तां समस्ताङ्गशोभितां / श्रेष्ठी दृष्ट्वा तदा दध्यौ, किमेषा काऽप्यहो सुरी // 97 // कान्तायाः कान्तिविभ्रान्ति, समीक्ष्याऽभिनवां प्रियः / गलन्मन्दतया पश्यदेतां लावण्यकारिणीम् // 98 // रूपवत्यपि सर्वांगभूषानेपथ्यधारिणीं। वीक्षमाणा सपत्नी तां, मनःक्षोभं समासदत् / / 99 // भविष्यदत्तो देवेन, पामोति ज्ञायतेऽधुना / प्रमोदै वणैरस्या, ह्याकाराद्वस्तुलक्षणम् // 10 // यतः-उदीरितोऽर्थः पशुनाऽपि गृह्यते, हयाचनागाश्च वहन्ति नोदिताः। अनुक्तमप्यूहति पण्डितो जनः, परेगितज्ञानफला हि बुद्धयः // 101 // नेग् भूषणसंपत्ति पतेरपि योषितां / प्रसत्तिराननेऽप्यस्याः, सुतमाप्त्याऽनुभाव्यते // 102 // दत्तं वरासनं तस्याः, सपल्या कमला पुनः / कटाक्षैर्वीक्ष्यमाणाऽऽख्यात्, प्रियं मधुरया गिरा // 103 // विवाह्या बन्धुदत्तेन, कन्या धन्या गुणैवरैः / श्रूयतेऽस्यै विभुषाय, दीयते यन्ममोचितम् / / 104 // रूपवत्याह यद्देयं, तदत्रैव निधीयतां / नाऽसौ सम्भाषते नाऽपि. कुरुते नोचितक्रियाम् // 105 / / उत्थाय कमला वध्वाः, समीक्षे वदनाम्बुजं / वदन्तीति गृहस्यान्त-र्ययौ किश्चिद्विहस्य सा // 106 // दिव्याभरणभूत्यैव, दूरादेव विलोक्य तां / प्रणम्याऽसनदानादि, चक्रेऽभ्युत्थाय सा वधूः // 107 / / अपच्छाऽऽगच्छ हे मातः, प्राप्तस्ते तनयो नृपः / तदुक्तिमेतामाऽऽपीय, संज्ञयै बमाण सा // 108 //
Page #83
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् नवमोऽधिकार सम्पाप्तस्तनयो नाम, मुद्रां तुभ्यमदादिमां / न ज्ञापनीयः कुत्राऽपीत्युक्त्वा साऽगात्सुतान्तिकम् // 109 // घनवर्षेण वल्लीव, पद्मिनी वारुणोदयात् / शरदातटिनीवाऽभूत्सा प्रसन्नानना तदा // 110 // तां तथाऽऽमोदसम्भारादुल्लसत्पुलकाङ्कुरां / निरूपयन् जहर्षोंच्चैः सर्वकुलवधूजनः // 111 // परस्परं जगावं, श्रृणु रुपवति ! स्नुषा / मुदिताऽश्रूणि तत्याज, तद्विधेहि महोत्सवम् // 112 // वरनेपथ्यमानीय, परिधापय सम्पति / कमलाऽऽलापयोगेन, विषादोऽस्याः प्रणष्टवान् // 113 // तैलाभ्यास्य समयो, मुहर्ने क्रियतामयं / इत्याभाषणमात्रेण, तुष्टाऽभाषिष्ट सा वधः॥ 114 // वस्त्रमन्यत् समानेयं, तैलाभ्यङ्गोचितं मम / ताभिः प्रसघ नारीभिस्तदुक्तिः सा समाहिता // 115 // तदा वस्त्रपरावर्ते, नखक्षतसमीक्षणात् / सख्या विहसितं पूर्व, तैलाभ्यङ्गस्तवाऽजनि // 116 // अन्या काचित् पुनः माह, न हास्यः समयोऽधुना / स्वापात्समत्कुणे मञ्चे, कण्ड्या नखरक्षतम् // 117 // काऽप्यवोचदुदृढाया, लक्षणं समवेक्ष्यते / अधरालक्तकव्यक्त्या, स्तनयोमा॑सलक्रिया // 118 // सन्निशम्याऽपराऽवादीद, द्वीपान्तरकुमारिका / इडगेव कुलाचारात्सम्भाव्या किं थोदितैः॥११९ // बासाऽवतारण कार्य, तत्पच्छन्नतया सखि! / विजने तां विनीयवाऽमृभिरभ्यङ्गनं कृतम् // 120 // इत्येवं वरमालरविरलैस्तूरस्वरापूरणात्, / गायन्तीषु वराङ्गनासु समभूदस्या महानुत्सवः // 121 // .
Page #84
--------------------------------------------------------------------------
________________ भविष्यदच पुत्रस्याऽऽामनेन मातुरतुलानन्दस्तयोः खिन्नता / सम्पाप्ता ननु बन्धुदत्तवदनं, दौर्जन्यजन्या पुनः // 121 // चरित्रम् / इति श्रीभविष्यदत्तचरित्रज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते नवमोऽधिकारः। धिकार दशमोऽ अथ भविष्यदत्तचरित्रे दशमोऽधिकारः सम्मुखो लाभकृञ्चन्द्रः, प्रभावाद् यस्य नामजात् / स श्रीचन्द्रप्रभो देवस्तन्याद्वोऽचलाऽस्पदम् // 1 // सापल्यस्य प्रयत्नं तं दुर्णयस्य स्मरन हृदि / मनस्वी कमलामनुर्विममर्श प्रतिक्रियाम् // 2 // हरिणा कृतसङ्केतो, लक्ष्म्या च कमलश्रिया / सज्जीचकार भूपाय, दौकनं स सुधीः स्फुटम् // 3 // सुमुहत मुहुः स्वीयान्, निमन्त्र्याऽऽपृच्छय मन्त्रिणे / चन्द्रप्रभजिनं ध्यायन, नृपास्थानमयं ययौ // 4 // उद्भटैः सुभटैर्भूमी रक्षादविचक्षणैः / कुन्तानुरागतो युक्त, व्यक्तं तद्भीमतां गतैः॥५॥ सिच्यते यत्र भूभागः, करिणा मदवारिणा / शिक्षयन्ति स्म गान्धर्वा, द्विधापि नटनक्रियाम् // 6 // विक्रमाऽऽक्रान्तदिकचक्रः, सामन्तैर्यत्समन्ततः / अधिष्ठितं महोदात्तैमीररसैरिव // 7 // पीसखैरुल्मुखायः, क्रियते नृपसाक्षिकः / पाक्षिकाऽपाक्षिकान्वीक्ष्य त्याज्याऽस्मिन् माक्षिकाधिया // 8 //
Page #85
--------------------------------------------------------------------------
________________ भविष्यद बारित्रम दशमोऽ 73 MONOCOCCOREBERROR दूराद्भपालमाऽऽलोक्य, स्वर्णसिंहासनस्थितम् / नमन्पतिपदं राज्ञाऽऽहूयताअत एव सः॥९॥ स्वजनैः सह राशोऽग्रे, माभृतं सुमहदनं / माणिमुक्ताफलाकोणे, डुडौके लोकवर्णितम् // 10 // भूपेनाऽपि स सन्मान्य, दानसम्भाषणादिभिः / न्यवेशि वणिजां योग्याऽऽसने श्रेष्ठिमुतोऽग्रिमः॥११॥ राजाऽदिष्टं विशिष्टं किं, कार्यमार्य! निवेदय / ततः कृताञ्जलिः मोचे, भुपालं स नयीश्वरम् // 12 // आहूयतां धनपतिः, सपुत्रोऽप्यवनीभुजा / तगिरा मुमुचे भूत्यस्तेन भूसंशया लघु // 13 // श्रेष्ठिनाऽऽगम्यतां शीघ्रमाऽऽमन्त्रयति भूपतिः / इत्युक्तः सः पुनः माह, विवाहव्याकुलोऽस्म्यहम् // 14 // निवृत्य भृत्यस्तद्राझे, जगाद श्रेष्ठिनो गृहे। विवाहस्तेन नाऽऽगन्ता, साम्मतं तक्रियाऽऽकुलः // 15 // भूप भविष्यदत्तोऽपि, कोपितोऽन्तर्य जिज्ञपत / सयो राजसमं नेयस्ततः कार्य यथेप्सितम् // 16 // क्रूरः कोऽपि ततो भूपेनाऽऽदिष्टः परिचारकः / श्रेष्ठिन् मुक्त्वाऽन्यकार्याणि, समागच्छ नृपाऽन्तिकम् // 17 // इति तद्वचसा क्षुधस्तं निवेश्य कृताऽऽदरम् / श्रेष्ठी पप्रच्छ विजने, बन्धुदत्तं महामतिः // 18 // आजुहोति नृपः शीघं, न जाने केन हेतुना / त्वया विदेशे वसता, कृतं चेत्कर्म कुत्सितम् // 19 // वन्निवेदय मां येन, गत्वा पञ्चकुलैः सह / प्रसाधते नृपः सद्यः, पतित्वा पादयोरपि // 20 // ममाऽपि हृदये भीतिविना न कारणं भवेत् / कदाप्याकरणं नेहम्, समाऽभूत्खलु भूभुजः // 21 // धृष्टः स्पष्टमयाऽऽचष्ट, पितः किं भयवानसि / पञ्चशतीवणिकपुत्रा मत्साथै द्वीपमैयरुः // 22 //
Page #86
--------------------------------------------------------------------------
________________ दशमोड भविष्यदत्तचरित्रम 74 चिकाट XXXXXSEXXXXXSEXEEEEEERROR तन्मध्यात कोऽपि केनाऽपि, व्यवसायादिहेतुना / निवेद्य भूपं वादायोपस्थितो भविता मया // 23 // जल्पता बहुमर्माणि, तेन व्युग्राहितो नृपः / आमन्त्रयति तन्नूनं, गन्तव्यं पञ्चभिः सह // 24 // प्रथमं तात ! यत्पृष्टस्त्वयाऽहं तद्वरं कृतं / तिष्ठन् व्यापारमाऽऽतन्वन्, बहुभिः सह न स्खलेत् // 25 // सार्थाऽनुमत्या कुर्वाणो, व्यवसायं विचक्षणः। खलेन केनचिन्मिथ्या-गिरा दोषेऽधिरोप्यते // 26 // तथापि स्वजनैः साई, गत्वा तत्र कृतोत्तरः / परस्परं न्यायवृत्त्या, भवत्येष सुनिर्मलः // 27 // तेन यैः सह सार्थेन, चलितं विषयांतरे। विहृतं व्यवसायादि, कृतं तत्सार्थसंमतेः // 28 // नैकाकिना मया किश्चिद्विहितं रहितं परैः। तेन ते तात! संमोल्या, वणिक् पुत्राः समेऽपि हि // 29 // नाऽहमेकोऽस्मि नृपतेश्चण्डदण्डस्य गोचरः / पिशुनः स निराकार्यों, वणिपुत्रैः परैरपि // 30 // बन्धुदत्तगिरा श्रेष्ठी, समाहूय वणि वरान् / ययौ राजकुले विभ्यत्, कार्याऽकार्यधियांधितः // 31 // भविष्यदत्तं तत्रैव, रहः संस्थाप्य भूपतिः। कोपारुणेक्षणः पाह, पुरे रे ! दुर्णयः कथम् // 32 // श्रेष्ठी गदगदगीराऽऽह स्वामिन्मम निरागसः। महत्कार्यसमारम्भे, किं वृथा विघ्नकारणम् / / 33 / / बन्धुदत्तस्तदाऽऽवादीद्, योऽस्माकं धनवैभवं / सहते न पुरः सोऽस्तु, यदि स्यानयबद्धधीः // 34 // शून्यं पैशुन्यमारब्धं, येन दुर्णयवादिना / स्थितः स किं तिरोभूय, समायाते महाजने // 35 // समत्सरतया मादुर्भूत्वाऽथ कमलाङ्गजः / स्वहस्तलिखितान्येषां दर्शयामास भूभुजे // 36 //
Page #87
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 75 दशमोऽ यद्धनं यस्य वहने, यावन्मात्रं निहितं / मन्मार्गगेन ते पापुलक्ष्यं वणिनां वराः॥ 37 // वक्त्रं मुकुलितं तस्मात्, श्रेष्ठिनः सतनूरुहः। संज्ञया ज्ञापितं राज्ञे, सर्वेषां गुप्तिरक्षणम् // 38 // भविष्यदत्तवदनं, प्रेक्ष्यमाणावपावशात् / रुदवाचाः कान्दिशीकाः, जाता सर्वे वणिग्वराः // 39 // रे दुष्टकर्मनिरताः, कलिना बलिना ध्रुवम् / प्रस्ताः समस्ता युगपत्कृतं यैः पापमीदृशम् // 40 // मुखे मृष्टा हदि दुष्टा, गोमुखव्याघ्ररूपिणः / निग्राह्याश्चौरवत्सर्व, स दण्डचण्डकर्मणाम् // 41 // इत्युक्ता भूभुजा पाणैर्मुक्ता इव वणिग्वराः / चकम्पिरे भयभ्रान्ताः, सर्वे ते नतदृष्टयः 42 // कमलागभुवा पोचे, न भेतव्यं मनागपि / नाऽपराधोऽत्र युष्माकं, बन्धुदत्तानुयायिनाम् // 43 // देव ! देव ! विमुश्चैतान्, वराकाननुजीविनः / सार्थेशस्याऽपराधे किं, दण्डयाः सानुयायिनः॥४४॥ वागेवं तन्निशम्याऽस्य, भूभुजा मियया गिरा / सर्वे सार्थजनाः पृष्टाः, मोचुर्नाथ ! जगत्पते ! // 45 // वयं वणिरुकुले जाता, घाताजीवस्य नो भयं / बन्धुदत्तेन यत्कर्म, कृतं कुलकलङ्ककृत् // 46 // लज्जामहे महेशानां, पुरस्तत्कथया वयम् / मुक्तोऽनेन वने पाप-चेतसा स्वीयसोदरः॥४७॥ भविष्यः पूर्णपुण्योऽयं, सकलत्रं सवैभवम् / लेभे साम्राज्यसम्पत्ति, तिलकद्वीपसाताम् // 48 // देशाददेशान्तरे देवाऽऽदेशाभ्रान्तिकृता घना। निरुद्यमाः समाजग्मुः, क्रमारतर्वे वणिग्वराः // 49 // अनेन चारुवाक्ये नाऽऽलापिताः पापिताः सुखम् / कमलामनना नून, विनयैर्भोजनादिभिः॥५०॥
Page #88
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम धमोशः 76 सत्कार्याऽस्मान् यथायोग्य, धनं स्वं वहनान्तरे / सोप्य पत्रेष्वाऽऽलेख्याऽरोहयत्स वधूं निजाम् // 51 // केनापि हेतुनोत्तीर्ण, वहनादेनमञ्जसा / मुक्त्वा तत्रैव सार्थेशो, वहनान्युदचीचलत // 52 // अयं पुननं भूरि, समादाय पुरादगात् / द्वयोः सौजन्यपैशुन्ये, मान्ययोस्तव वास्तवे // 53 // कमलायाः सुतो ज्येष्ठो, रूपवत्याः कनिष्ठकः / उभावपि श्रेष्ठिपुत्रौ, नयः को वाऽनयोऽनयोः // 54 // स्थाविव त्वदीयौ, तावन्योऽन्यं स्नेहभाजनम् / भाविनावनयोर्चादे, वज्रदण्डाय नः शिरः॥ 55 // वाती वणिग्वराणां तां, श्रुत्वा भूपः प्रसन्नग् / भविष्यदत्तं माह स्म, विजयस्तव वर्तताम् // 56 // राज्ञाऽपि प्रियसुन्दर्या, भावितः स्निग्धया दशा / प्रशंसितः सभासीनैः, साधु साध्विति धीसखैः॥ 57 // भूपेनाऽऽश्लिष्य वाढं सः, प्रेम्णाऽऽलोक्याऽभिनन्दितः / बालोऽयं कमलासूनुः, क्रीडितोऽस्माभिरन्वहम् // 58 // सिंहासने परिष्ठाप्य, चामरैर्वी जितो मया / छत्रं धृतं शिरस्यस्य, वाल्लभ्याऽभीष्टकारिणा // 59 // सौभाग्यादेष देवीनां, रादुत्सङ्गसङ्गमैः / वदितः स्नपितस्ताभिराभिमुख्येन चुम्बितः // 6 // पुत्रवबहुवात्सल्याखाऽलङ्करणादिभिः। चिरं परिचितो वेष, मया हा ! नोपलक्षितः॥ 61 // इयत्कालं स्थितो दूरे, मन्मनस्तेन दूयते / अस्माकमस्माद्विरहो, न भवेस्क्रियते तथा // 12 // राज्ञोऽभिमायमाऽऽसूत्र्य, सुमित्रा तनया तदा / ईयुषी प्रियसुन्दर्या, राज्ञा दत्ता प्रसन्नया // 63 // भविष्वदत्तं सत्कार्य, कृतसम्बन्धबन्धुरम् / वणिकपुत्रैः समं प्रेषीत, भूपतिः स्वस्वमन्दिरे // 64 //
Page #89
--------------------------------------------------------------------------
________________ | वशमोड भविष्यदरचरित्रम धिकार श्रेष्ठी स बन्धुदत्तश्च, रक्षितो गुप्तवेश्मनि / दापिताऽस्य गृहे मुद्राऽपराधान्महतस्तदा // 65 // रूपवत्याऽऽकुला नष्टवा, कस्यापि शरणं ययौ / भूपेन स्थापितः श्रेष्ठी, भविष्यः पौरसाक्षिकः // 66 // महाजनमथाहय, पृष्टवान् धृष्टचेष्टितम् / बन्धुदत्तस्य दृष्टं भो, राजद्वारे मजल्पतः // 67 // चौरोऽयं वनमध्ये तु, भविष्यं दुर्विरोधतः / मुक्त्वा गतोऽपि निर्भीतो, मदग्रेऽसत्यमब्रवीत् // 68 // इदानीमनुकूलाऽस्तु, शूला तूलाऽधिरोपणात् / बन्धुदत्तस्य निर्मूल-मतेः स्थूलाऽपराधतः // 69 // तस्य दुष्कर्म निर्माण-विस्मयाधूनयन् शिरः / अन्योऽन्यं निजगादेवं, पौरः सर्वो महाशयः // 70 // निहन्यते यदा राज्ञा, तदाऽस्माकं महीतले / अयशो भूपतेः निन्दा, जायते जीवितावधि // 71 // प्रियता कीदृशी राज्ञः, श्रेष्ठिनोऽत्यादरोऽपि सन् / प्रभोः पराङ्मुखीभावः, किमयं हि भयङ्करः // 72 // अयुक्तं विहितं कार्य, बन्धुदत्तेन दुधिया / परोपार्जितवित्तेन, प्रभुताऽत्मनि निश्रिता // 73 // न दोषः कोऽपि राज्ञोऽस्य, स्थितस्य नयवर्मनि / कदापि श्रेष्ठिनो मोक्षे, बन्धुदत्ते ध्रुवं मृतिः॥७४ // इत्याऽपृश्य चिरं लोकैर्विज्ञतः स महीपतिः / श्रेष्ठी प्रभो ! न सामान्यो, मान्यस्त्वद्राजकर्मसु // 75 // तदस्य पौरविज्ञप्त्या, स्वामिन्मोक्षो विधीयताम् / नास्त्यन्यायरुचिः काचिन, श्रेष्ठिनस्तदजानतः // 76 // बन्धुदत्तौरदण्डं, लभते यदि तदनं / गृहीतमन्यदीयं स्यादवश्यं क्षयकारणम् // 77 // किन्तु भ्रातृधनं त्वेक-पितृकत्वात्परस्य न / तदस्य सङ्ग्रहान्नैव, निग्रहायोचितोऽपयम् // 78 //
Page #90
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् दशमोऽधिकार: आजीविकाऽपहारेण, भवताऽयं नियम्यताम् / धनं भविष्यो गृह्णातु, यथालिखितमञ्जसा // 79 // तन्निशम्य प्रजापालः, कृपालुर्विदधे तथा / नयेन पौरविज्ञप्तस्तयोर्मोक्षोऽभवद् यथा // 8 // भविष्यदत्तमाऽऽभाष्य, पौरमेलापकस्ततः / श्रेष्ठिना बन्धुदत्तेनाऽन्योऽन्यं चक्रे सुसङ्गतिः // 81 // धनं लात्वा वने मुक्तोऽपराधं तं क्षमस्व भो / इति पौरजनादेशाद्भविष्यो बैरमत्यजत् // 82 // भविष्येन धने नीते, यथा लिखितमालये / श्रेष्ठिनाऽजानता पृष्ठो, ज्येष्ठमनुरनूनभाः॥ 83 // कन्यापाणिग्रहमहः, कार्यते चेन त्वयोच्यते / तेनाऽप्युक्तं सार्थलोकमापृच्छयेष्टं विधीयताम् // 84 // वणिकुपुत्रास्तेन पृष्टाः, मोचुः सार्थानुयायिनः / को विवाहः किमौत्सुक्य, बन्धुदत्तस्य किं तथा // 85 // भविष्यदत्तकान्तेयं, सुभगाऽस्ति पतिव्रता / रक्षितं शीलमनया बनयात्तनयात्तव // 86 // एतस्याः शीलमाहात्म्यालीला किं वर्ण्यते नरैः। यत्सरैरपि सानिध्यमुदधेर्विदधेऽन्तरे // 87 // बन्धुदत्तो दुर्विकल्पातां जजल्प महासतीम् / तदैव जलवेः क्षोभोऽभवद्बहनभावत् // 88 // सांयात्रिकेषु पश्यत्सु, भयातरलितेक्षणम् / निर्यामकेषु नश्यत्सु, जाते कलकलारवे // 89 // कपोत्पोतवत्पोते. दिवं प्राप्य भ्रमं गते / सगते जलधेर्लोलकल्लोलानां गणे मियः // 9 // एतस्याः शीलधैर्येण, जलदेवतया कृता / उपद्रवोपशान्तिोक, जनविस्मयकारिणा // 91 // मातः कातरलोकं त्वं, पोतभाभयादिह / रक्षतादक्षतब्रह्माऽस्माभिरित्युदिता सती // 92 // 78
Page #91
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् 79 दशमोऽधिकार यदि मे निजभर्तारं, विमूच्याऽपरभूस्पृशः / स्मराशयेन न स्पर्शस्तदाऽस्तूपद्रवक्षयः // 93 // वचनादेव देवस्य, सानिध्यादहनावली / पवनस्याऽनुकूलत्वात्, कूलमधेः समाश्रयत् // 94 // अभुञ्जानाऽकृतस्नानाऽस्माकमत्याग्रहात्पथि / अभुक्तौषधमात्र सा, तपःसंयमशालिनी // 95 // न केनचिज्जहासोच्चैः, प्रेक्षांचक्रे महीतलम् / अन्तस्तापाद गलवाष्पा, निनाय समयं स्वयम् // 96 // कुमारीति स्त्रियाऽभाणि, कयाचिदपि तद् गिरम् / श्रृण्वती किमपि पाह, नोत्तरं सा महासती // 97 // प्रश्नादुत्तरदानाद्वा माऽभूदाऽऽलापपापतः / सामान्ये जनसंसर्ग, इत्यस्यात्सा निरुत्तरा // 98 // वणिपुत्रोक्तवृत्तान्तमाऽऽकाऽतिप्रकोपवान् / श्रेष्ठिने बन्धुदत्तस्य, बन्धायाऽऽदिष्टवान्नृपः // 99 // अभ्येत्य त्वरया क्रुरैः, शूरैर्वध्वा उभावपि / अहो दुश्चेष्टितं काष्टापन्नं दुष्टस्य मत्पुरे // 10 // एकापराधवान् भूपैः, सोढव्यो गाढशासनैः / पुनर्णयवान् मून, हन्तव्यस्त्याज्य एव वा // 101 // यतः- स्थानं सर्वस्य दातव्यप्रेकवाराऽपराधिनः / द्वितीयपतने दन्ता, वक्त्रेणापि विवर्जिताः॥१.१॥ साक्षेप तो निचिक्षेप, वेपमानौ महापतिः / कारागारे ततः पौरः, पुनरासीद्भयाकुलः // 103 // अहो किमेतत्सञ्जातं, मोचितावपि बन्धनात् / व्यसनं पुनरप्याप्ती, पिगेनां कर्मविक्रियाम् // 104 // श्रुत्वा भविष्यदत्तोऽपि, गत्वा राजकुलान्तरे / भूपं विज्ञपयामास, प्रसङ्घतो विमोचय // 105 // वार्ताऽप्यसौ पापात्रं, मत्कुलस्य कलङ्ककृत् / कृतापराधे सुमनाः, सौजन्यं तनुते सदा // 106 //
Page #92
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम एकादशमोड Kाधिकारः 80 इत्येवं वचनैः सुधाधिमधुरैः सम्बोध्य भूवासवम् / विश्वानन्दनचन्दनातिशिशिरैरामोचयत्तौ पुनः / सन्मान्यः कमलासुतः श्रुतकथाऽऽलापेषु धीरैस्ततः / मापालस्य नयैस्तथार्थविनयैः प्राप्तः परां प्रौढताम् // 107 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते दशमोऽधिकारः अथ भविष्यदत्तचरित्रे एकादशमोऽधिकारः यत्सेवाऽनुभवाश्चन्द्रो राजाऽभून्मण्डलाधिपः / द्विजाऽधिपोऽपि स शिवं, देयाश्चन्द्रमभः प्रभुः // 1 // मुक्तेन बन्धुदत्तेन, स्मरता हदि विभियम् / मंसूपवे क्षुद्र-वार्त्तया नागरो जनः॥२॥ तथापि श्रेष्ठिसम्बन्धान्न केनाऽपि न्यवेधत / जायमानेऽतिकष्टेऽपि नृणां क्लेशात्परस्परम् // 3 // चरणछन्नसञ्चारात्, पुरे जनपदे नृपः / परितश्चरितं राजनीतेातुं समैहत // 4 // कः किं करोति किं केनाऽऽनीतं भीतोऽत्र को जने / कस्य कस्मिंश्चिरं रागो, द्वेषो पा कः परो निजः // 5 // इत्याचाऽवेदितुं राशा, प्रेषिता विषयान्तरे / चराः परिचरन्तस्तत्, शशंसुः परचेष्टितम् // 6 // यतः--गन्धेन गावः पश्यन्ति, ब्राह्मणाः शाखचक्षुषा / घरैः पश्यन्ति राजानश्चक्षुामितरे जनाः // 7 // राजधान्यां जनः सर्वो, वैमनस्यं व्यगाइत / रोदिति व्याप्तदुःखेन, कामं निःश्वसिति प्रभो // 8 //
Page #93
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम एकादशमोड धिकार स्थाने स्थाने कृतास्थानः, किञ्चिन्मन्त्रयते जनः / क्रयविक्रयकर्माणि, नोपक्रामति साधितुम् // 9 // हाहाकारपरः पौरः, सुन्दरं भूपुरन्दरम् / विज्ञापयामो यद्वा नः, स्थातुं नो शक्यते पुरे // 10 // वाती चरमुखात् ज्ञात्वा, जनमाऽऽहवन्नृपः / लोकन्याकुलता किं भो ! मयि राजनि जीवति // 11 // तिष्ठन्तु सुखिनः सर्वे, क्रयविक्रयकर्मणि / मयुंजतां महोत्साई, नाऽहं कस्याऽपि दुःखकृत् // 12 // तुष्टपौरस्तदाऽऽचष्ट, नृपवाक्यसुधाशनात् / बन्धनात् श्रेष्ठिनो लज्जा, पातिता भूभुजा वृथा // 13 // सन्मान्यतामयं वृद्धा, प्रसिद्धः सकले पुरे / श्रेष्ठी धनपतिात्या, माक्तनस्थितिकर्मणाम् // 14 // भुजिष्य इव पौराणां, विनयी नयवेदिनाम् / विशिष्यशिष्यवत्सेवां, भविष्योऽयं करिष्यति // 15 // श्रेष्ठिनाऽनेन सामस्त्ये, जानेऽसौ जन्यशालिना / पुरी प्रभासनीयाऽसौ, जगतीवांशुमालिना // 16 // बन्धुदत्तो मदोन्मत्तश्चितसन्तापको नृणाम् / असक्तं व्यसनासतः, क्लेशकद देशवासिनाम् // 17 // वणिक्कुले धूमकेतु-हेतुर्लोकशुचां परं / लाम्पट्येन परस्त्रीबु, रमते बाधते पुरम् // 18 // निर्वास्योऽयं त्वयाऽऽदेशाद, देशादस्मारतः सुखी। स्थाता पुरे जनः सर्वो, निरेजनतयाऽनया // 19 // पतिपद्य नरेन्द्रेण, पौरलोके विसर्जिते / अनिवार्यप्रवेशोगाद्भविष्यः स नृपान्तिके // 20 // मम विज्ञप्तिरेकाऽस्ति, या चकास्ति स्वरूपतः / भवानीव कुमारी सा, गीयतेऽद्यापि पूर्जनैः // 21 // मयोढा मनोरूढा, सा न मृदा कलाग्रहे / प्रेम्णा मृदाशयाऽनूढा, लक्षिता वेषवर्जनात् // 22 //
Page #94
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम एकादशमोड धिकार सा समुद्राश्रया द्वेषा, कुल्या तुल्याऽपि सीतया / ब्रह्मणा निर्मला देव ! ऋषितुल्या प्रभासता // 23 // मद्वियुक्ता न भुक्ताऽपि, पापिना बन्धुनाऽधुना / विडम्बिताऽनृतैर्वाचा, प्रपञ्चैश्चञ्चलेक्षणा // 24 // अस्याः परीक्षा दक्षाभि-मृगाक्षीभिर्विधापय / यतः कलंककलिका, नोन्मिषेत् कलिकारणम् // 25 // पण्डिता सुकृते शील-मण्डिताऽखण्डिता यदा। रज्यतेऽस्यां कुलीनेन, मया तद् युज्यते कुले // 26 // लुसाचारा विचारान्मे, धार्या भार्या न साम्पतम् / वेधा न बोधुं मेधावी, चरित्रं चलचक्षुषाम् // 27 // यतः-एकं वक्त्रविलोकनेन वचनेनाऽन्य परं विभ्रम-धंभास्तनदर्शनप्रभृतिभिर्व्यामोहयन्ति स्त्रियः॥ इत्येवं कुटिलासु कृत्रिमकृतस्नेहासु तास्वप्यलम् / किं रे चित्त ! रतिं करोषि विमुखं सिद्धयङ्गनासङ्गमात् // 28 // युक्तमुक्तं भविष्येणेत्यादिशन्नपतिः स्वयम् / जयलक्ष्मी परीक्षायै, चन्द्रलेखासमन्विताम् // 29 // ताभ्यामपि कृतस्फाराडम्बराभ्यां वराम्बरः / धृताऽलङ्कारणाऽऽरम्भाद्रम्मास्तम्भाय सज्जितम् // 30 // ते तत्र गत्वा भुवने, परिवारेण वेष्टिताम् / ललन्ती ललनां वाक्ष्यो-पचारादेवमूचतुः // 31 // अहो ते रूपलालित्य, लावण्यं पुण्यमद्भूतम् / यूनां दत्तक्षणे साक्षादीक्षणे तव कैतवात् // 32 // पश्येन बन्धुदत्तेन, प्रेषिते स्वः स्वरूपतः / भियं निवेदयतां मे. प्रियायै सत्वरं गते // 33 // गृहाण दर्पणं दात्पश्य प्राणेश्वरं निजम् / पथ्यं नेपथ्यमाधेहि, गेहिनि ! स्नेहिनि पिये // 34 // तवैव भाग्यसौभाग्यावन्धुदत्तो महीभुजा / सन्मानितोऽयं त्वामात्युमात्मा-येन तृणीकृतः // 35 // कातराः कातराक्षीणां, भोक्तारो नैव कर्हिचित् / भृशं नयदर्श मत्वा, भविष्यस्तु तिरस्कृतः // 36 // XXXXXXXX XXXXXXXXXXXX
Page #95
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम एकादशमोऽ. धिकार विकल्पैरिजल्पैस्त्वं, निर्विकल्प समाश्रय / सचित्तं बन्धुदत्तं द्राक, साहसोध्धुरकन्धरम् // 37 // अमुष्य शिष्यसङ्काश, भविष्यं रसविद्यया / त्यज नीरजनेत्रे ! त्वं, पबिनीव निशाकरम् // 38 // इत्यालापं महापापं, श्रृग्वती वृण्वती शुचम् / मुखमालिन्यमाषाय, दध्यावाध्यातमानसा // 39 // छलिना बलिना हा कि, बन्धुदत्तेन निर्जितः / सरलः सवलितो वाचा, ललितौचित्यवान् मियः // 40 // धनेन निधनं नीताऽवत्यनुरागिता [नीतोऽनुरक्तोमत्पति] भूमि-भूजोपात्तकीर्तेः किं हा ! विपर्ययमगात् खलु // 41 // स्थाने गत्वा तदाऽऽस्थाने, ज्ञानेनाऽनुत्तरोत्तरैः / बन्धुदत्तं तिरस्कृत्य, पीणयामि प्रियं गिरा // 42 // भृकुटीभङ्गुरं भालं, तन्वती क्रोधदुर्धरा / विपृश्येति चचालोग्र-लोचना शोचनाऽऽकुला // 43 // वधूर्विधूय लज्जा सा, सज्जंकृत्वा तनुं पुनः। विनिश्चित्य मूर्ति राज्ञः, सभायां पाप तापतः // 44 // भूभुजे जयलक्ष्मीः सा, चख्यौ गत्वा पुरो जवात् / महासतीमिमां पश्याऽभ्यायान्तीमरुणेक्षणाम् // 45 // सेहे न वा गन्धोऽपि, परस्य भियतोऽनया / महासत्या हि सन्तापः, शापहेतुनिरर्थकः // 46 // कम्पमानाघरा रोषाधोषा दोषाशयोज्निता / भटान् करटिनोऽयान्वा, लङ्थ्याडगात् नृपान्तिकम् // 47 // तर्जयन्ती बन्धुदत्तं, गर्जयन्ती क्रुधाऽध्वनः / वर्जयन्ती परान् दृष्टयाऽऽवर्जयंती निजं पतिम् // 48 // प्रलयाम्बुधिवेलेव, दुर्दरा कालरात्रिवत् / दुस्सहा स्पष्टमाचष्ट, घिग् रे दुर्णयकारिणः // 49 // दुर्विकल्पप्रबन्धेन, सम्बन्धमविमर्शयन् / अन्धः कं धर्ममावत्से, रेऽधमाऽधम देवर ! // 50 // भुजे जयला सा, सज्जंकला तर विमृश्येति चचालोय, मीणयामि मिय सिमगाव खलु // 41 //
Page #96
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम एकादशमो |धिकार REEEEEEEEEEEEEXX प्रियागमप्रतिज्ञाया, रक्षायै नोत्तरं ददौ / तुभ्यं सभ्यमसभ्यं वा, न वाक्लभ्यते [वाल्लभ्यं मेन] केनचित् // 51 // श्वसुरस्य हृदादशै, स्पर्शात्त्वद्वाक्यविक्रिया / दुष्कर्मन् ! मलिनीचक्रे, निष्कलङ्कस्य शूरवत् // 52 // श्रृण्वन् गिरं नृपस्तस्या, निर्दम्भां शापभीतितः / प्रसीदाऽस्मिन्निषीद त्वमासने मौढशासने ! // 53 // श्रेष्ठिनः पादयोप॑ष्टः, सूनुस्तेन प्रणामितः / मापेन मधुराऽऽलापे-नाऽऽश्वास्यैना महासतीम् // 54 // देशान्निर्वासितो बन्धु-दत्तः सह निजाम्बया / पुनरेष्यसि चेत्पाप ! शिर छेत्स्यामि ते तदा // 55 // इत्युक्या तं च निःसार्य, श्रेष्ठिनं ज्येष्ठमनुना / समं समजलं प्रेषीन्महीशः स्वनिकेतने // 56 // नृपादेशारिवल-प्रमुखैः स्वजनैभृशं / बोधिता कमलश्रीः सा, मेने गमनमालये // 57 // बहुमानेन माङ्गल्यतोरणादिमहोत्सवैः। श्रेष्ठिना सा नवोदेवाऽनीयत स्वगृहं तदा // 58 // गृहव्यापारभारोऽपि, तेनारोपि शुभोदयात् / तस्यां वश्यात्मना पत्र-श्रियां गादानुरागतः // 59 // तयोमिथुनयोश्चित्ताऽनुरागप्रतिबिम्बनात् / अरुणोऽरुणभासेव, सेव्यतेऽस्माऽस्तभुधरे // 6 // अनूनायाः प्रियमाप्ति-प्रमोदेन मृगीदृशः / भूसंजयेव निष्क्रान्तः, कान्तोऽब्जिन्यास्तिरोऽभवत् // 61 // स्थाने स्थाने सुमनसां, हसितानां सजां भरैः / जहास वासवेश्माऽपि, दम्पत्योर्मनसामिव // 62 // लिप्तं मलयजालेपैर्धवलैर्वासमन्दिरं / रेजे मिथुनं वक्त्रेन्दुद्वयज्योत्स्नाऽऽशयादिव // 63 // भवदत्तमुता मोचे, सख्या कांचनमालया / प्रगुणीकुरु कामस्य, धनुर्वल्ली तर्नु पुरः // 64 // XXXXXXXXXXXXXXXXXRARROR
Page #97
--------------------------------------------------------------------------
________________ मविण्यद चरित्रम एकादशमोड धिकारः मुवंशजां परं वक्त्रं, सगुणां मुतनोस्तनुं / पश्यन् कोदण्डभीत्येव, स्मरवश्यः पियो न किम् // 15 // तवांगसामादभूषा, लक्ष्मीरस्तु फलेग्रहिः / मणीनां स्वर्णसानिध्ये, विधेया परिधेयता // 66 // सख्याऽप्युदीरिता साक्षान्मृगाक्षी चिरमज्जनः / स्नपिता चन्दनालिप्ताऽऽभरणानि बभार सा // 67 // यथास्थलं विनिहितैर्भूषणैर्व्यरुचत्तरां / आरामभूरिव माप्त-नानाकुसुमपादपैः // 68 // करागुरुभूमात्य, मृणालेपभाजनैः / सकोण कुसुमैः पायनिभृतमञ्जसा // 69 // तदासवेश्म सम्पाप्य, दम्पती तौ निषीदतुः / पल्या मदतलाके कन्दर्पोन्मादसादरौ // 7 // आलिङ्ग्य मास्नेहाईतनुभिर्यद्रसाम्बुमिः। अन्योऽन्यविषसम्मानि, शमर्यामासतुः क्षणात् // 7 // भावां पुरादिनिष्कान्ती, दैवाद् दुर्जनसातौ / नामद्रां विसस्मार, तदाहं हंत लोलुपा // 72 // उत्तीर्य वाहनात्सयस्तदानयनहेतवे / भवान जगाम तेनाऽभूद्विरहोपद्रवो महान् // 73 // मृपावाक्यैरसभ्मेन, दूषिता दुःखिताऽप्यहं / तेनाऽस्मिन्न पुरे मन्दभाग्या मदधिका हि का // 74 // इत्यालापेमनःशल्यं, पत्युर्नार्या व्यपाकृतं, / ताभ्यां चुम्बनसारः स्यासिक्तः प्रणयपादपः // 75 // ताम्बूलदानैरन्योन्यं, मियः प्रणयवार्तया / चिरं विरहजं दुःखं, विसस्मरतुराशु तौ // 76 // माधाः खेदं सनिर्वेद, मिये ! विरहकातरे।। प्राप्ते नरभवे पुण्यादिष्टयोगो विश्रुम्भते / ' 77 // संपदः परमात्रं नो, दूरे स्युः भाग्यशालिनः / पिनष्टि सर्वाऽनिष्टानि, यदि स्यादर्मसनिधिः // 78 //
Page #98
--------------------------------------------------------------------------
________________ भविष्यदचरित्रम एकादशमोऽ विकास CE विभूतियश्चला तद्वद्, देहस्नेहादि विभ्रमः / भ्रममात्रमिदं विश्व, प्रतिभाति सचेतसाम् // 80 // निराधारस्य कान्तारे, मम मुक्तस्य बन्धुभिः / सम्बन्धः केन घटितः, समं मृगीदृशा त्वया // 81 // पुनर्विघटितः केन, कपटेन पटीयसा / यानपात्रं विनाऽम्भोधेरहं प्राप्तस्तट कथम् // 82 // भवन्ति भाविना भावा, विभावानां परिक्षयात् / सानिध्यमेत्य देवादेर्वादे तत्र यतेत् कः / / 83 // मामप्यच्युत देवेशः, माग्-जन्मसौहद स्मरन् / माणिभद्रं समादिश्य, विमानेन समानयत् // 84 // एवं तन्मिथुनं पुनः पुनरपि व्यामोह-वाक्यैर्मनस्तन्वानं रससंभृतं रतशतैरालिनैथुम्बनैः॥ निःसन्देहमनेहसाऽतिमहता, स्नेहं वहन्मानसं / सव्यासं विललास वासभवने संदीपिते दीपके // 45 // इति श्रीभविष्यदत्तचरित्रज्ञानपञ्चमीमाहात्म्यपवित्रेमहोपाध्यायश्रीमेघविजयगणिविरचिते एकादशमोऽधिकारः
Page #99
--------------------------------------------------------------------------
________________ अथ भविष्यदत्तचरित्रे द्वादशमोऽधिकार (वादशमोऽ भविष्यदन चरित्रम धिकारः नित्यं कुवलयाऽऽनन्दी, दक्षनातिमियः प्रभुः / सोमः शिवस्य तिलक, जीयाचन्द्रमभो जिनः // 1 // अन्येचुभूभुजाऽऽमन्त्र्य, भविष्यदत्तकः सुधीः / प्रेम्णा लेपविलेपेन, घुसणानां समर्चितः // 2 // तां भविष्यानुरूपा यां, दृष्ट्वा ख्यातिमुपेयुषः / तत्रैवाऽऽहय सत्कृत्य, पत्युर्भाग्यमवर्णयत // 3 // अन्तःपुरपुरन्ध्रीणां, हीणां श्रेणी विमर्शयन् / तस्या रूपश्रिया भूपस्तत्याज कर्ममञ्जसा // 4 // कान्ता येनेशी कान्ता, कान्तारेऽपि विवाहिता / वादिनाऽवदि रत्नर्दिर्यस्य वश्यो सुरोऽप्यभूत् // 5 // यौवनेनऽनन्यसामान्यं, तेजोरूप्यं पराक्रमः / बुदिविनयसंसिद्धिा, प्रसिद्धिः सकले जने // 6 // भविष्यदत्तमेवं तं, वर्णयन्तं महीपतिं / मोक्तं तिलकसुन्दर्या, गु मदचनं विभो ! // 7 // युवराज इवोहण्ड, दोर्दण्डः कुलमण्डनं / चण्डद्युतिरिवाऽऽभाति, तेजसाऽयं वणिग्वरः // 8 // गुणा बर्दिष्णवश्वाऽस्मिन्, दृश्यन्तेऽनुदिनं नृप / अस्माकमपि पौराणां, सर्वेषां प्रियदर्शने // 9 // तेन त्वद्भाग्ययोग्येन, नररत्नमिहेशं / संयत्न रक्ष्यते राज्य, निःसपनं तदा भवेत् // 10 // पुत्री सुमित्रा मागेव, दत्ताऽस्मै सा विवाह्यताम् / तेन सम्भाव्यते भव्यं, तुभ्यं चेद्रोचते प्रभो ! // 11 // राजन्यजन्यो नैवाऽयं, तथाप्यस्य वशंक्दा / नृपाः कृपाणनिलनाः, माणाखाणाय भावितः // 12 //
Page #100
--------------------------------------------------------------------------
________________ भविन्यदल चरिचम 8 बादशमोऽ प्रेष्ठिनं तं समाहृय, संमत्याऽन्तःपुरस्य सः। कृतमालसत्कर्मा, वभाषे नृपपुक्वः // 13 // दत्ता भविष्यदत्ताय, त्वत्सुताय-वणिम्बर ! / मुता मुमित्रा मागेव, वयैनं त्वं विवाहय // 14 // इष्ट पृष्ठं सुवैद्यनादिष्टं न्याय्यमिदं भणन् / श्रेष्ठी सहर्ते पारेमे, पुत्रपाणिग्रहोत्सवम् // 15 // जयमालनिर्घोषैस्तोषैर्दानात्तयार्थिनां / करमेलापकं चक्रे, दम्पत्योरवनीपतिः // 16 // हस्तीनां शतमचाना, सहखमयुतं पुनः / प्रामाणामददात्तत्र, जामात्रे पात्रविन्नृपः॥ 17 // कमलश्रीर्वहूत्साहात्कुर्वती न्युग्म्नक्रियां / पुत्रस्य सवधूकस्य, सा स्वं धन्यममन्यत // 18 // पजामीवतमाहात्म्यात्पुत्रेणोपार्जिता श्रियः / निरन्तराय सर्वत्र, बसता रिपुसलमे // 19 // अद्याप्युद्यापनं नाऽस्य, जातं तदिक ममत्ततां / अधिगत्येति सा चैत्य-कारणाचद्विधि दधौ // 20 // नम्यान्यकारयत् पञ्च, जिनचेत्यानि भक्तितः / उत्तशिखरन्यस्त-कलशध्वजशोभया // 21 // पत्रावाऽहतां तेषु, प्रतिमाः पञ्चसमव्यया / निर्माप्य पकल्याण्या, कमलश्रीरपूपुजत् // 22 // छत्राभिषेककार--सिंहासमविभूषणैः। पुष्पचोरिकायुक्त-वर्णचन्दनभाजनैः // 23 // चन्द्रोदयैव पण्टाभिः, पञ्चभिः प्रतिमाईतां / अग्रपूजां फलैः सथो, नैवेद्यैः सा व्यचीकरत् // 24 // ज्ञानोपकरणान्येषां, पट्टिकादीन्यकारयत् / रजोहरणमुख्यानि, चारित्रसाधनान्यपि // 25 // रत्नत्रितयमभ्यर्च्य, सार्मिकानभोजयत् / पाषा सिद्धपकाम्न-शुद्धोदनघृतादिभिः॥२६॥
Page #101
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम यादशमोऽ ऋषीणां परमान्नादि, भक्त्या व्यक्त्याध्य पञ्चशः / सुपात्रदानमातेने, मेने तत्सफलं भवे // 27 // ज्ञानवान् शानदानेन, निर्भयोऽभयदानतः / अन्नदानात्सुखी नित्यं नियाधिर्भेषजाद्भवेत् // 28 // . साधर्मिकाणां वात्सल्यं, कुर्वती पतिवत्सरं / पूजा सकलसस्य, तुष्टुवे दिवि दैवतैः // 29 // यतः-रत्नानामिव रोहणः क्षितिधरः, खं तारकाणामिव / स्वर्गः कल्पमहीरुहामिव सरः परहाणामिव / पायोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसा-वित्यालोच्य विरच्यतां भगवतः सहस्य पूजाविधिः // 30 // एवं गुरूपदेशेन, सफलं चक्रुषी धनं / वर्षे त्रिवारान् सङ्कस्य, परिधापनिकामधात् // 31 // आधानं यशसां दानं, निदानं गुणसम्पदाम् / वसत्यशनवस्त्रायैः, सा साधून प्रत्यलाभयत् // 32 // यतः-चसही-सयणासण-भत्त--पाण-भेसज्ज-वत्थ-पत्ताई। जइवि न पज्जत्तधणो, थोवापि यथोचियं देसु // 33 // अन्यत्रापि-धर्मस्य मूलं पदवी महिम्नः / पदं विवेकस्य फलं विभूतेः।। माणाः प्रभुत्वे प्रतिभूश्च सिद्धे-दर्दानं गुणानामिदमेकमोकः // 34 // पात्रे धर्मनिवन्धन, तदितरे पोधदयाख्यापकम् / मित्रे प्रीतिविवर्द्धनं, रिपुजने वैरापहारक्षमम् / भृत्ये भक्तिभरावई, नरपतौ सन्मानपूजापदम् / भट्टादौ च यशस्कर, वितरणं न काऽप्यहो निष्फलम् // 35 // दानं पञ्चविधं माहुः, मुनयो नयचक्षुषः / यथावसरमाचर्य, गृहिणा पञ्चधाऽपि तत् // 36 // यतः-अभयं सुपतदाणं, अणुकम्पा उचिकित्तिदाणाई। दुन्निए मुक्खो भणिओ-तिन्निय भोगाइयं दिति // 37 //
Page #102
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम बादयमोड धिकार अज्ञानेनाऽपि शशकः, करिणा रक्षितः पुरा / मनुष्यापुरतो बदं, पर्याप्तभवता कृता // 38 // प्रथमाध्ययने स्पष्टं, षष्ठांगे भगद्वचः / ज्ञात्वाऽभयप्रदातॄणामभयं सर्वतो भवेत् // 39 // खलो मालिपुत्रोऽपि, रक्षितः शोतलेश्यया / वीरेण पञ्चमा तत्, तेजोलेश्या परिज्वलन् // 40 // रक्षणीयास्ततः सर्वे, जीवाऽजीवा तु भावनात् / दयालुभिस्ततोऽमारि-पटई सोद्घोषणात् / / 41 // स्थावरं जङ्गमं चेति, सत्पात्रं द्विविधं मतं / स्थावरं तत्र पुण्याय, प्रासादपतिमादिकम् / / 42 // ज्ञानाधिकं तपःक्षामं, निर्ममं निरहंकृतिम् / स्वाध्यायब्रह्मचर्यादि--युक्तं पात्रं तु जंगमम् // 43 // शास्त्रान्तरे-उत्तमपत्तं साह, मज्ज्ञिमपत्तं च सावया भणिया। अविरयसम्मदिट्ठी, जहन्नपत्तं मुणेयव्वं // 44 // साधुदानचतुर्भङ्गी, पात्रभुक्त्योर्विशुद्धितः / पापश्चि पञ्चमाङ्गेऽसावष्टमे शतके शुचिः // 45 // पुनरपि-पवित्रः पुण्यात्मा परिगलितपापव्यतिकरस्तपोनिष्ठापात्रं निरुपमशमशानवसतिः / कृपालुः कन्दर्पक्षपणनिपुणो निस्पृहमना, मुनिमूनों धर्मः स्वयमिह समभ्यागत इव // 46 // नवगुप्तिसनायेन, ब्रह्मचर्येण भूषिताः / दन्तशोधनमात्रेऽपि, परस्वे विगतस्पृहाः॥४७॥ कृतकारितानुमतिमभेदाऽभवजिताः / मोक्षकतानमनसो यतयः पात्रमुत्तमम् // 48 // प्रशान्ततनुवाकचित्ता, भैक्षमात्रोपजीविनः / रताः परहिते नित्यं, यतयः पात्रयुत्तमम् / युग्मम् // 49 // सम्यगदर्शनवन्तस्तु, देशचारित्रयोगिनः / यतिधर्मेच्छवः पात्रं, मध्यमं गृहमेधिनः॥५०॥
Page #103
--------------------------------------------------------------------------
________________ भविष्यदत्त-४ चरित्रम बादशमो. चिकाट सम्यक्त्वमात्रसन्तुष्टाः, व्रतशीलेषु निस्पृहाः / तीर्थप्रभावनोधक्तास्तृतीयं पात्रमुच्यते // 51 // ततः श्रीशङ्कपुष्कल्पादिभिः श्राद्धवरैर्मियः / श्रीपाक्षिकदिने सर्व-साक्षिकी भक्तिरादधे // 52 // भगवत्यामिदं व्यक्तं, श्रूयते परमागमे / इष्टभोजनदानस्य, पौषधमतिपादनात् // 53 // पष्ठाने स्वगुरोश्वारुवर्णनाऽऽकर्णनात्कृतं / सुदर्शनश्रेष्ठिनाऽपि, मान पीठादिदानतः // 54 // उपासकदशापि, सदालपुत्र वात्तिके। भगवद्वर्णनात्पीठ-फलकादि समर्पितम् // 55 // कीर्तिदानमिदं मोक्तं, कीर्तनादईतो गुरोः / साधर्मिकचरित्रादेर्न पुनः स्वस्य कीर्तनात् // 56 // यतः न दद्याद् यशसा दानं, नोभयत्रोत्रापकारिणे / न गीतनृत्यशीलेभ्यो, हासकेभ्यश्च धार्मिकः॥ 57 // दयावात्सल्यमौचित्य, गुणज्ञानमुदारता / धर्मास्तिक्यं च दानस्य, मूलकारणपश्चकम् // 58 // चित्तं वित्तं च पात्रं च, सुक्षेत्रं कर्मलाघवं / पवित्रपात्रदानस्य, मूलकारणपञ्चकम् // 59 // आनन्दाऽश्रुणि रोमाञ्चो बहुमानं प्रियं वचः। किश्चानुमोदना पात्रदानभूषणपञ्चकम् // 6 // अनादरो विलम्बश्व, वैमुख्यं विप्रियं वः / पश्चात्तापश्च पञ्चाऽमो, सदानं दूषयन्ति हि // 61 // निषेधयन्ति ये दानं, वृत्ति विदलयन्ति ते / इति सूत्रकृदकोक्तेने कार्य दानवारणम् // 62 // सप्तमाङ्गेऽन्यतीर्थानां, यद दानस्य निषेधनम् / पञ्चमाङ्गेऽप्यविरत-दानं तत्पापकर्मणे // 63 // अन्यत्राऽपि कुपात्राय, दानादश्वगजादयः / जायन्ते तेन नो पात्रं, विना दानं प्रतीयत // 64 // यतः-परतित्थियाण पण मण उज्ज्ञावणकणण भत्तिरागं च / सकारं सम्माणं, दाणविणयं च बजेई // 65 // SONACLEOXXXXXXXXXXX
Page #104
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम द्वादशमोऽ धिकार इत्युक्त्या परतीर्थेभ्यः, पार्थस्थेभ्यश्च कैथन / दानं निषिध्यते न्याय्यं, नैतत्क्वाऽपि सुमेधसाम् // 66 // राजमश्नीयके केशि-स्वामिना भणितो नृपः / रमणीयो भवन् पूर्व, मा भूः पश्चात्तदन्यथा // 67 // तथा च दान सर्वत्र, कृपणातिथियाचके / उपदिष्टमतः सूत्राभिमायः प्रायशोऽस्त्यसौ // 68 // गुरुबुद्धया न तदानं, कार्यमाविचार्य तत् / अनुकम्पौचितीभावादानं वार्य न कुत्रचित् // 69 // यदानं करुणौचितीभिरनिश, देयं बुधैश्यतै-स्तत्कुर्याद्वहुधान्य संपदुदयं सामान्यमेघाम्बुवत् // 67 // सङ्घान्धौ शुचिपात्रशुक्तिवु पुनर्यन्यस्यते स्वल्पमऽप्येतत्स्वातिजलोपमं भवभृतां मन्ये फलं मौक्तिकम् / / 68 // वर्षन् क्षारार्णवेऽप्यन्दो, मुक्तात्मा क्यापि जायते / सततं ददतो दातुः, पात्रयोगोऽपि संभवेत् / / 69 // सर्वेषामेव जीवानां, यथा रक्षा विधीयते / तथैव सर्वजन्तुभ्यो, दानं निर्मलया पिया // 70 // यतः-न कयं दीणुदरणं, न कयं साहम्मियाण वच्छल / डिययंमि वीयराओ, न धारिओ हारिओ जम्मो // 1 // एवं गुरुमुखात् श्रुत्वा, सुदती ददती सती / दीनानाथाऽपटन जैन, शासनं मोदभावयत् / / 72 // शुभदीर्घायुषो हेतुं, मत्वा मृष्टाशनादिभिः / स्थानाश्रवणात् साधन, सा रागात् पर्यतोषयत् / / 73 / / परमान्नादिदानेन, शालिभद्रस्य वैभवः / सुखभक्षिकया नन्दिषेणोऽभूद्रको वणिक् // 74 // यतीनां पानदानेन, रत्नवीरोऽपि धीरधीः / रसतुम्बकसम्माप्त्याभुजद्राज्यसंपदः // 75 // एवं सर्वाणि पण्यिाराधयन्ती तपोजपैः / दानरुद्यापनैः कल्प-वल्लीकल्पा बभूव सा // 76 / / SXE.XXXSEXEEEEEEEEEXर लय
Page #105
--------------------------------------------------------------------------
________________ बादशमोऽ भविष्यदचचरित्रम 93 धिकारः अन्येयुः पुत्रमामन्य, भाषे कमलश्रिया / स्मरन्त्या पूर्वसन्ताप, भर्तुर्षिकरणादिकम् // 77 // राजाझया पितुर्मातुः, प्रेरणादहमागमम् / गेहे स्नेहेन हीनाऽपि, पितुः स्थानाप्तयै [ये] तव // 78 // कुलमण्डनमेव त्वं, सेवस्व पितरं निजं / वंशं नन्दयतु पुत्रैजैनधर्म समाचरन् // 79 // रमस्त्र कान्तया साई, यथेच्छं राजहंसवत् / वत्स ! दुःखमभूदेतयत् त्वं नाप्तः पितुर्ग्रहम् // 8 // धर्मप्रसादान्मे दुःखं, विलीनं तव भाग्यतः। यास्येऽहं पैतृगेई सा, भणन्तीति ययौ ततः॥ 81 // वर्भविष्या शिष्यावत, तां विशिष्याऽन्वगात् गृहात / किं करोषि रुषा त्यवत्वा, मां क गन्ताऽसि हेऽम्बिके / / 82 // यद्याकारयिता भर्ता, मां सादुनयमादरात् / तदा तया सहवाऽऽवामेष्यावो मातराग्रहात् // 83 // सवधकाऽवधूय स्वान्, कमलश्रीहरेगृहे / प्राप्तां तां तनयां लक्ष्मीर्वीक्ष्यान्तर्मुमुदेतराम् // 84 // पश्रमातुः पदोलग्ना, भविष्या साऽपि तां क्षणात् / करेणोदंचितामूचे पूतं सम्पति मेजणम् // 85 // [पत्युविरहदाहेन, दग्धा दुर्जनपीडिता / शोलरक्षा त्वया नित्य, तत्परीक्षाऽधुना कृता // 86 // नृपास्थाने सुपावित्र्य, वृतान्तं प्राप्य स्वपतिः] / रन्जितो निर्जितः पापी, दुर्जनो बन्धुदत्तकः // 8 // श्रेष्ठिना मातहतेन, भविष्योऽभाणि पुत्र ! हे!। मातुः स्वभावमुत्तश्याऽवश्यं वश्यंकरं नृणाम् // 88 // त्वया मया वा केनापि, नाऽपरादा न कोपिता / स्वं वधूं समुपादाय, गतापितगृहे कथम् // 89 // आहूय भूयः सौजन्य, मन्यमानेन भूभुजा / प्रापिता सादरं गेहं, तद्वागपि न मानिता // 90 //
Page #106
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् द्वादशमोड धिकार: कर किं कर्त्तव्यमतो वत्स ! बुद्धिमान् विनयी नयी / नाऽन्यस्त्वया समो वंशे, माधान्यधनवान् मम // 91 // श्रुत्वा काञ्चनमालाऽऽह, श्रेष्ठिन् ! स्मरसि किं न तत् / नैष्कारणं गृहादेषाऽअहान्निष्काशिता पुरा // 92 // अस्याः सौभाग्यमुहाल्य, मानं निर्मथ्य दुर्गिरा / रूपवत्यनुरक्तेन, पापिता व्यसनं त्वया // 93 // अनया दीनया काऽपि, शीललीला न खण्डिता / चित्ते सपल्या ते शङ्का, लिप्ता तां को निवारयेत् // 94 // दैवाद्भूपतिना वेश्म-स्वामिनी विहिता हितात् / स्वपुत्रस्य गुणोत्कर्षान, मानिनी नाऽमुचत् शुचम् // 95 // तत् ज्ञात्वा श्रेष्ठिना पोचे, युक्तं काञ्चनमालया / भणितं येन मानिन्या, मानमेव महद्धनम् // 96 // तद्विमृश्य मिथः प्राप्तौ, तातपुत्रौ हरेहम् / तेनाऽप्यासनताम्बूल-दानाद्यैः समुपासितौ // 97 // जामात्रा श्रेष्ठिना श्वश्रूलक्ष्मीर्लक्ष्मीरिवागनी / प्रणम्य भणिता रुष्टा, दुहिता केन हेतुना // 98 // पूर्वस्मादपराधान्मे, यदि रोषं दधात्यसौ / तत् क्षन्तव्यमिदानी द्राक्, घिग् मां व्यामूढमानसम् // 99 // एतस्यास्तनयेनेदं, कुलं प्रख्यापितं भुवि / एतया रुष्टया विचं, शून्यं मन्येऽहमात्मना // 10 // प्राक् सम्भ्रमेण केनापि, विनयादिगुणान्विता / सुशीला मयि भक्ताऽपि, कोपिताऽजानता मया // 101 // इदानीं ज्ञापितो वार्तामहं काञ्चनमालया / कृतापराधः सोढव्यो, मम सन्मुखमीयुषः // 102 // ततो विहस्य सा लक्ष्मीः, किं वृया खिद्यसे हृदि / जामातः! कातराक्षणां, स्वभावो हीदृशो भवेत् // 103 // मृदुवाचाभिः सन्तोष्य, नेयाऽसौ तनया गृहे / दुष्कृतमनया पूर्व, तज्जन्योऽयं पराभवः // 104 // EXERIESXXXXXXXXXXXX
Page #107
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् द्वादशमोऽधिकारः दुहिता पिहिताऽऽस्याऽपि, रहो नीत्वा तया भृशम् / शिक्षिताऽभ्यागते पत्यौ, मानं संवृणु साम्पतम् // 105 // बोधिता सरसाऽऽलापैः, सरव्या काचनमालया। एकान्ते कान्तमानीय, कमला परिमीलिता // 106 // अन्योऽन्यस्नेहसम्पूर्णाऽऽलापैराभाष्य दम्पती / विनिन्यतुश्चिरान्मन्युमुचिताचरणोधतौ // 107 // मसाद्य सयः कन्दर्प-प्रसर्पद्वाणसन्निभैः / कटाक्षैरिक्ष्यमाणां तां, श्रेष्ठी मोवाच सादरम् // 108 // भद्रे ! क्षुद्रवचोभिस्त्वं, मयाऽत्रोपद्रुता भृशम् / नाऽऽयासि यदि मे गेहं, तदा मे नास्तिकं जनम् // 109 // इत्युक्त्वा पादयोलग्ने, दयिता हृदयेश्वरे / कमला हृदयानन्दादाललाप सविम्रमम् // 110 // जीवितं मे त्वदायतं, किं करोषि ठ्याऽधुना / चाहनि जीवितेश त्वं, वस्तु लोके न ते परम् // 111 // दम्पती मिलितो मत्वा, लक्ष्मीर्मुदितमानसा / जामातरं वरैर्भोज्य-भॊजयामास सत्वरम् // 112 // भविष्यदत्तं दौहित्रं, सत्कृत्याभरणादिना / कमलां मेषयामास, सोत्सवं सा स्वमन्दिरे // 113 // भविष्याऽपि सुशिष्यावत्तया सममुपेयुषी / माविशद्वासभवनं, कमलाऽनुजया तदा // 114 // कामाच्यवसायेनाऽलङकृतं वासमन्दिरम् / सज्जीकृत्य स्नुषां पाह, याहि वत्से पियालयम् // 115 // . साऽब्रवीदम्ब ! मे कार्य न किंचित्पतिसामे / अन्यासक्तं पति का वा, क्षमाकर्तु रसोन्मुखम् // 116 // तयाऽवाचि सुधावाचि, पिये ! किं मानकारणम् / वत्से नोपानहो त्यागः, साम्पतं नागते जले // 117 // प्रबोध्य वचनैरेवं, प्रेषिता कमलश्रिया / भविष्याऽपि प्रियावास, जगाम कामलालसा // 118 //
Page #108
--------------------------------------------------------------------------
________________ भविष्यदचचरित्रम् का ते विषण्णता // 12 विषादः कोऽत्र युष्यासासाकुला / क्रीडितानि विलोक्य तां भविष्योऽपि, माह किं पङ्कजानने !| विषण्णा दश्यसे जाते, सम्पूर्णेऽपि मनोरथे // 119 // सैषा मुद्रा स एवाऽयं, पल्यंकस्तुलिकाऽपि सा / दैवात्संगमनेनाऽत्राऽवयोः का ते विषण्णता // 120 // द्वादशमोऽ धिकार: पत्यु चमिमां श्रुत्वा, पाह सा साहसाकुला / क्रीडितानि चिरंवानि, दूरे सन्तु किमाशयाः॥ 121 // विषादः कोऽत्र युष्मार्क, जामातृणां महीपतेः। विहस्य जल्पने पत्युर्ममायाऽऽस्तां सविस्मयात् // 122 // मुमित्रया समं भोगान् , साम्पतं त्वं समाचार / कालान्तरे पुनर्नव्यो-ढया मृगःशा वशा // 123 // एवं विहस्यमानोऽयं, भविष्यः स्मरशिष्यवत् / स्नेहालापेन सम्भाष्य, तां जगौ निजगौरवात् // 124 // पिये ! किं कातरा चित्ते, दुर्भावनामुनाऽधुना / त्वदृते यदि मे भावस्तु स्वभावोऽस्तु मे शुनः // 125 // त्वां विमोच्य मुमित्रायां, रमणे रमणस्य मे। शपयोऽत्र विनिर्गेयः, प्रेयिसि श्रेयसः स्फुटम् // 126 // त्यजांऽन्त्यजवदेनं तन्मानं मानिनि दूरतः / लभ्यते पुण्य योगेनाऽन्या स्त्री दोषो न मे मनाक् // 127 // यथा यथा स्याद्विभवदिर्मम शुभोदयात् / तथा तथा तवैवाऽयं परिवारस्समेधताम् // 128 // इति प्रीत्यालापादुपचितमनोरागवशतः, स्वतो वृत्त तैरिव रतशतैर्निवश्य विरतैः। तयोर्जायापत्योधरितमसकृद्वीक्षितवती, सरः श्रीमातः किं कमलबदना हासमतनोत् // 129 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते दादशमोऽधिकारः .
Page #109
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम त्रयोरामोऽ विकार अथ भविष्यदक्चरित्रे त्रयोदशमोऽधिकारः तीथि-नक्षत्र-चारेभ्यो, योगावा करणादपि / यत्सेवया बली चन्द्रः, सः श्री चन्द्रमभः श्रिये // 1 // इतश्च बन्धुदत्तोऽगा, अपमानान्महीपतेः / श्रीपोतनपुरे मात्रा, सहाऽमात्रक्रुचेरितः // 2 // तत्राऽस्ति पृथुराजस्य, सूनुरन्यूनविक्रमः / अवनीन्द्राभिवः मापः, प्रतापजिल्भास्करः॥३॥ भविष्यार्जितरत्नादि-धनादेको महामणिः। रक्षितोऽभूत पुरा बन्धु-दत्तेन श्रेष्ठिमनुना // 4 // भाभृतीकृत्य भूपस्य, तं मणि विलसघृणिं / बन्धुदत्तोऽवदद्देव ! शाश्वतस्ते जयः स्वतः // 5 // तथापि वर्यसे वार्ता-श्रवणाजयकारणात् / इहाऽस्ति हस्तिनापुरे, भूपालामापतिर्महान् // 6 // तत्र श्रेष्ठी धनपतिर्भविष्यस्तस्य नन्दनः / तेनाऽऽनीता गुणैः स्फीता, मुरूपा कस्यचिंत्मिया // 7 // घातेन तेन कस्याऽपि, विश्वस्तस्य धनं बहु / आनीतं स्वर्गरत्नादि, तद्भोग्य तेऽस्तु वस्तुतः // 8 // इति तेनैष विज्ञप्तः, क्षितीशः प्रोक्तवान् नयी / कि कोटिकाकुटम्बेऽपि, कटक घटकं रूपाम् // 9 // अस्खलन् स खलोऽप्याख्यदुच्छृङलतया गिरम् / देव : भूपस्य तस्याऽस्ति, सुमित्रा तनया चरा // 10 // रूपेण रम्भा निर्दम्भा, भम्भा स्मरमहीभृतः / श्रुता यूनां मनःस्तम्भरणारम्भाय जायते // 11 // भविष्येण स्वापराधात्, नयाय नयात्मने / महीभुजे धनं दत्वा, पौरः सर्वो वशीकृतः // 12 //
Page #110
--------------------------------------------------------------------------
________________ X भविष्यदत्त चरित्रम त्रयोदशमोड धिकार पोतनेशोऽभ्यधात्सर्व-सामन्तान् दुर्जयान रणे / यातु तत्र पुरे कश्चिन्मदादेशान्मदोध्धुरः॥ 13 // तां स्त्रियं तदनं सर्व, पुत्री भूपस्य पश्यतः / रणाद्वा करणान्मैत्र्याः, समानयतु सत्वरम् // 14 // भूपादेशादेशमुख्यैः, सज्जीकृत्य बलान्वितः। चित्राङ्गः प्रेषितः सात-धैर्यवान् हस्तिनापुरे // 15 // बलवाच्छलवान् सोऽपि, केनाऽप्यक्षुण्णवर्त्मना / तथाऽवासीद्ययापुर्या विशल्लोकैन लोकितः॥१६॥ भविष्यस्य चरै रात्रौ, कथितं श्रेष्ठिनन्दन! / मातः सत्वरमेवात्राऽऽगन्ता कश्चिद्वलान्वितः // 17 // तदुक्त्या शीघ्रमुत्थाय, भविष्यो यावदाययौ / नृपास्थाने भणन्नेवं, साम्पतं कोऽप्युपेष्यति // 18 // न ज्ञायते स्वः परो वाऽश्ववारपरिवारितः / पुरान्तः प्रविशंसूर्ण, केनाऽपि न निवारितः // 19 // श्रृण्वत्यस्य नृपे वाक्यं, द्वास्थः शीघ्रमुपास्थितः / देव चित्रांगनामा ते, द्वारे कश्चिदुपेयिवान् // 20 // प्रवेशितो नृपादेशाद, द्वाःस्थेन तत्क्षणादयम् / अभ्युत्थानसुखप्रश्नाऽऽलापैश्च बहुमानितः // 21 // नरेश-देश-प्रामादि-प्रश्नस्तं वार्त्तयन् नृपः / पृष्टवान् सुस्थितं वाच्यः, को हेतुर्भवदागमे // 22 // बभाषे स महाराजः, श्रीपोतनपुराधिपः / अवनीन्द्रस्सदोन्निद्रः, वैरिवारनिवारणे // 23 // विक्रमाक्रान्तदिचक्रः, शक्रवत्तेजसान्वितः / मन्मुखेन नृपः स त्वां समादिशति सात्विकः // 24 // मया वशीकृतः सर्वः, पूर्वदेशः सपर्वतः / समुद्रान्तीपजन्मा, मदादेशं समीहते // 25 // भल्लिदर्शनमात्रेण, क्षोभिता भिल्लनायकाः / पल्या वल्या इव फलान्यास्वादन्ते ससम्भ्रमम् // 26 // SEXEEEEEEEEEEEX
Page #111
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम त्रयोदरामोड धिकार REEKREEEEEEEEEEEE वैरिपचण्डदोर्दण्ड-खण्डनान्मण्डलाग्रतः। अभ्यमित्री भवेद्यो हि, क्षत्रियः कोऽपि नास्ति सः // 27 // साधिताः सकला देशाः, आदेशान्वेषिणो मम / नरेशास्त भयावेशात्कम्पन्ते संज्ञयाऽपि मे // 28 // चतुरङ्गबलैर्युक्तो, मुक्तो देशजिघृक्षया / नन्दितः पृथिवीपालो, रमते स्वेच्छया भुवि // 29 // तस्य साहाय्यदानाय, मुक्त्वा त्वं स्वीयबाहिनीम् / कुरुजङ्गलराज्यं त्वं, कुरु निःशङ्कचेतसा // 30 // अवेहि मत्मसादं तं, यददण्डस्ते न मार्गितः / तवाऽस्माकं पूर्वजानां, यतोऽभूत्सौहृदं दृढम् // 31 // अन्यच्च श्रेष्टिपुत्रेण, नीतं स्त्रीरत्नमद्भूतम् / धनं रत्नसुवर्णादि, भोग्यं भूमिभुजामहो // 32 // . भवत्पुत्री सुमित्राख्या, ख्याता रूपादिभिः गुणैः॥ तत्सर्वं प्रेषयस्व, मत्कोपाऽग्निप्रशान्तये // 33 // राज्ञा निशम्य तद्वाचमाज्ञाऽदीयत रहसा / पुरादहिमहोद्याने सुखेन स्थीयतामिति // 34 // मातः प्रतिवचः सम्यक, प्रदेयमिति जल्पता / उत्थायाऽऽस्थानतः क्षोणी-भुजा मन्त्रो व्यधीयत // 35 // श्रृण्वन्तु मन्त्रिणः सर्वे, सामन्ता बलशालिनः / श्रेष्ठी भविष्यस्तत्सूनुः, सभ्या लभ्याः स्वभाग्यतः // 36 // कीहक् उत्तरमेतस्मै, देयं प्रातर्विमृश्यताम् / इत्युक्ते भूभुजा-लोहजङ्गः कोपादभाषत // 37 // राजन् व्याजवताऽनेन, व्याजहे मोद्धतं वचः। न युक्तमेतदास्थाने, स्थाने तद्रसनाच्छिदा [दः] // 38 // इत्याधुक्तं यथायोग, धारयन् स सुधीपः / सायं चित्राङ्गमाऽऽयातं, सभायां प्रत्यवोचत // 39 // चित्रा तव नो दोषः, कोऽपि दौत्यं वितन्वतः। परं त्वदीशतुर्वाच्य, सिंहदृग मार्गणाश्रये // 40 // 3:3REEEEEEEEEEEEEEKREBERRRR
Page #112
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम त्रयोदध्मो |धिकार 100 मार्गणीभूय यत्किश्चिन्मार्गयेत्तन्महाशयः / तस्मै ददाति नाऽन्यस्मै, यः प्रेरयति मार्गणम् // 41 // निनस्य धनं देयं, निर्द्धनस्पडितस्य च / तद् येन तुष्यतु तव, स्वामी तत्रैव यत्यते // 42 // दीयतेऽस्माभिरित्येव, का तंत्र प्रकृतिर्मता / प्रतिभूमत्ययो वाऽत्र, निस्त्रिंशे चिन्त्यतां हदि // 43 // नृपेण भणिते चैव, वाक्ये युद्धसमुच्चरे / अनन्तपालः मावोचत्, सर्व सामाजिकान्मति // 44 // मया दृष्टः क्षमापालो, बालबत्पालयन् प्रजाः / कालवत्सो क्षमापाल: प्रत्यर्थिषु कदर्थने // 45 // यः पश्चिमसमुद्रान्त, प्रशशास महीतलम् / दुर्दरा ये धराधीशास्तेऽप्यस्य वशवर्तिनः // 46 // कच्छाधिपः स्वविषय, प्रविशन् केन वार्यते / दावानल इवोत्तालः, करालकरवालभृत् // 47 // न विग्रहोऽमुना साक, सन्धिरेव विधीयताम् / यन्मार्गयति चित्राङ्गो, विना पुत्री प्रदीयताम् // 48 // स्वयं माध्यस्थामास्थाय, प्रेक्ष्यतां क्षितिरक्षिणा / को नरेन्द्रः कथं कर्ता, सन्धियुद्ध पलायनम् // 49 // यदि कच्छाधिपो देशे, प्रविक्ष्यति बलैः समम् / तदा भटानां मरणं, परेषां शरणं गिरेः॥ 50 // यदि भाग्यवशाभूमेनागमिष्यति स स्वयम् / तदाऽस्य सेनया सेना, रसेनाऽऽजि करिष्यति // 51 // विदुषी मुमुखी पोचे, महिषी मियसुन्दरी / अस्मज्जामातुरादातं. पत्नीरत्नं हि कः क्षमः / / 52 // विद्यानुभावतः माप्त, स्वर्णरत्नादिकं धनम् / यानपात्रं विनाऽम्बोधिस्तीर्णो येन महात्मना // 53 // यद्यदुक्तं तत्मदाने, हानि पतितेजसः / दैवात्कामरसावेशात्पुत्रीमप्यर्थयिष्यति // 54 //
Page #113
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 101 वियोदशमोऽ धिकार उद्वाहिता भविष्येण, सा पदेया किमात्मभिः / तस्माभयान्न भेतव्यं, सत्त्वमेवाऽवलम्ब्यते // 55 // यतः-निद्रालस्य समेतानां, क्लीवानां क विभूतयः / मुसत्वोधमसाराणां, श्रियः पुंसां पदे पदे // 56 // वावयेन भेतव्यं, यावद्भयमनागतम् / आगतं तु भयं दृष्ट्वा, पहर्त्तव्यमतितः // 57 // [दनादनागकेपि ] ज्योगिनं पुरुषसिंहमुपैतिलक्ष्मी-दैवं न दैवमिति कापुरुषा वदन्ति / दैवं निहत्य कुरु पौषमात्मशक्त्या / यत्ने कृते यदि न सिद्धपति कोऽत्र दोषः॥ 58 // राशा धनपतिः श्रेष्ठी, पृष्टः स्पष्टमदोऽवदत् / राजन्ननंतपाछेन, युक्तमेव समीरितम् // 59 / / बणिजां हितमस्माकम् , कातराणां पदे पदे / विपदे क्षत्रियाणां ततेजोभ्रंशान्मनस्विनाम् // 10 // यथा कश्चिन् महाकामी, स्वामीभूयाऽन्यभामिनीं / अविदित्वा स्वतनयां, भुङ्क्षय भोगान् मयेस्पवक् // 61 // मुरते धुर्यचातुर्याचन्मनस्तोषयिष्यते / साऽपि तूष्णीं स्थितापृच्छत्कुलटा काचनालिकाम् // 62 // तयाऽपि प्रेरिता धूर्त, जारं संगत्य दुर्षियम् / लभते सा फलं याग, अनंतोक्तोऽपि तादृशम् // 3 // जगादनम्तपालोऽपि, कोपितः श्रेष्ठिन पति / न कार्य भवतामत्र, तुला लालित्यशालिनाम् // 64 // भावन्ति योधाः क्रोधान्धाः, रणे येऽभिमुखा द्विषाम् / रणभारधुरं स्कन्वे, ते वहन्ते स्वतेजसा // 65 // सेनाधीशस्त्वमेतेषु, साविकेषु निवेशयेत् / युयुत्सायां महोत्साहः, साहसी नृपतिर्नयी // 66 // भविष्योऽमर्षदर्दषः, माह व्याहतभूमिकः / कम्पयन् भित्तिभूभागान, सध्वानयनम्बरान्तरम् // 67 // MEANIXXXXXXXXXXXXXXXHI
Page #114
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् त्रयोदशमोऽ धिकारः 102 LSXXXXXXXXXXXXXXXXXXXXXX कुलकीर्तिविनाशेन, मलिनीकरणं वचः। शासनस्य त्वयोदिष्टं, गर्वमुदहता भृशम् // 68 // विद्या विभूतिविनयः, शौर्य चातुर्यचेष्टितम / नाऽपेक्षन्ते कुलं क्वापि, लभ्यान्येतानि भाग्यतः॥ 69 // यतः--न श्रीः कुलक्रमायाता, शासने लिखिता नवा / खड्नेनाऽक्रम्य भुञ्जीत, वीरभोज्या वसुन्धरा // 70 // नाऽभिषेको न संस्कारः, सिंहस्य क्रियते मृगैः। विक्रमार्जितसत्त्वस्य, स्वयमेव मृगेन्द्रता // 71 // धृतः स्कन्धो मया इन्त, वणिजाऽपि महीपतेः / सेनान्यं मां पुरो धत्स्व, नाऽन्य क्षत्रियपुङ्गव ! // 72 // निःसार्योऽनार्यधीरेष, चरवत्पतिपन्थिनाम् / विभ्यत्सभ्यनृगां दत्ते, भङ्गबुद्धिं शुचाकुलः // 73 // विचार्य धैर्यमेतस्य, विहस्य पृथिवीश्वरः / व्यालुलोके स सामन्तान्, वदतः साधु साध्विति // 74 // देव नाऽयं त्वया मान्यः, सामान्य कोऽपि धीधनः। भविष्यस्सर्वशूराणां, मूख्यस्तेजोविधेनिधिः // 75 // मूतॊ वीररसः सोऽयं, महास्कन्धो भूजाबली / सेनाध्यक्षत्वमेतस्मिन् , समारोपय भूपते ! // 76 // सामन्तवचसा तेन, न्यस्ताऽस्मिन् रणभारः / न्यवेशि सेनाध्यक्षत्वे, सन्मान्याभरणांशुकैः // 77 // तमभ्यधादनन्तोऽपि, कोपाऽरुगितलोचनः / उत्कटोऽसि भटो राज्ञो, मानितः श्रेष्ठिनन्दनः // 78 // तद्वाक्ये सुदृढोभूय, नाऽहं स्थास्याम्यहं पुनः / उद्धरिष्ये वचःशल्यं, त्वां निहत्य रणाङ्गणे // 79 // इत्युक्त्वा गर्वसर्वस्व-पर्वतः सर्वतः पुरः / पुरः पश्यन्महाकोपादनन्तो निर्ययौ पुरात् // 8 // चतुराचमृयुक्तं चित्राङ्ग, वनसंस्थितम् / सङ्गत्याऽऽख्यत स्थितः किं भो, सन्धिस्तत्स्वामिना नहि // 81 // 102
Page #115
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 103 त्रयोदशमोऽ धिकारः मुमित्रायाः पतिश्चक्रे, भूशक्रेण रणाऽग्रिमः / भविष्यस्तद्विवादेन, नगरान्निर्गतस्त्वहम् // 82 // गजैईयवजैः कोशैः, पूर्णभूर्गीकरोमि चेत् / भविष्यं तदुपेष्यामि, पुरे सन्धाऽस्तु मे ह्यसौ // 83 // चित्राङ्गस्तं समुद्वीक्ष्याऽनन्तपालं गिरीश्वरम् / तिष्ठन्तु साम्पतं भूपं, दृष्ट्वा यामीत्यभाषत // 84 // चित्राङ्गो भूपमपाक्षीत, गत्वा नत्वाऽथ संसदि / कथं स्वामी मया वाच्यः, सन्धिना वा विसन्धिना // 85 // राझोक्तमभिधेयास्त्वं, नाऽस्माकं भवता समम् / अद्यापि देशसीमादेवरस्य विद्यते मनाक् // 86 // नाऽऽददे कोश या पुत्री, मागिता तु त्वया पुनः / पुरैव सा भविष्येणो-द्वाहिता दीयते कथम् // 87 // चित्राङ्गः सङ्गरारूढं, बुध्धा गूढरुषा नृपं / अकारणरणः कोऽयमवदत्तमिति क्रुधा // 88 // उत्क्षिपन् करवालं स्वं, वालयन् श्मश्रु रोषतः / प्रत्युचे कमलासूनुः, किं रे वक्षि यथा तथा // 89 // किं भूत्तात्त इवाऽऽस्थाने, नृपतेः पुरतः स्थितः। प्रवर्तसे कुवा सु, जीवन् याहि विदूरतः॥९॥ राज्ञः सुताग्रहमिषाद् ग्रहग्रहिलवत्तव / स्वामी सविलपन्नित्यं, चिकित्स्यो रणकर्मणा // 91 // उत्तिष्ठोत्तिष्ठ रे दुष्टोऽपसार्य सुभटैरयम् / इत्युक्तः श्रेष्ठिपुत्रेण, चित्राङ्गोऽप्यचलत्ततः॥९२॥ तावनन्ताख्यचित्राङ्गो, गत्वा सत्वरमूचतुः। पृथवीपालनामानं, युवराज सभास्थितम् // 13 // राजन् गजपुराधीशो, गर्जन् गज इवोन्मदः / दण्डप्रचण्डदोर्दण्डः, प्रयच्छति न कञ्चन // 94 // त्वत्पक्षसाधनगिराऽनन्तपालो विसर्जितः / तर्जितस्तस्य सेनान्या, त्वयाऽऽदिष्टोऽहमप्यहो // 95 //
Page #116
--------------------------------------------------------------------------
________________ भविष्यदरचरित्रम 104 त्रयोदशमोड विकार तयोगिरा रूमाऽऽविष्टः, पुरुषानादिश्चदा / मादिग्जययात्रायै, धृतोत्साहः स साहसी // 96 // उत्कट कण्टक नीत्वा, बध्धा नयत तं नृपम् / कुरुजङ्गलदेशेऽपि, कुरुत द्रुत वैवरम् // 97 // रणारम्भाय भम्भाऽपि, वादिता सुभटास्ततः / प्रस्थानाय कृतारम्भाः, चेलुस्तेजस्विनः समम् // 98 // स्वनत्सु सर्वतः पोश्चेः, निस्वानेषु रणोध्धुराः / सिन्धुरा दुर्दरघिया, धोरणै?रणीकृताः॥९९॥ दधतो मधुराधारा, अश्ववारा महौजसः / नर्तयन्तो हयान् जम्मु-पोत्साहा इवाध्यतः॥१०॥ उदायुधाः पसयोऽपि, कोपात्ताम्रशो भृशम् / शशंसुर्जयवाक्येन, चलन्तो विजयं पुरः॥१.१॥ रजतुरस्तुरनोमिनर्जन् गजवरस्वरैः / चचाल वेलायोगेन, ततः स बलवारिधिः // 102 // जनपदजनवक्त्रादापतत्सैन्यवादि, नरपतिरतिरोषा निशम्याऽभिताम्पत् / धनपतिसुतमूर्धन्यादधौ पट्टबन्धं, द्रुततरमभिरोधुं तज्जवं सज्जसैन्यैः // 103 // इति श्रीभविष्यदत्तचरित्रज्ञानपञ्चमीमाहात्म्यपवित्रेमहोपाध्यायश्रीमेघविजयगणिविरचिते त्रयोदशमोऽधिकारः
Page #117
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रमा 105 अथ भविष्यदत्तचरित्रे चतुर्दशमोऽधिकारः चतुर्दशमोऽ विकार सम्मतः सर्वकार्येषु, कलाभृद यस्य सेवया / राजेति गीयते देवाधिदेवः स मुदेऽष्टमः // 1 // राज्ञः सूचरिवाऽसूनोरनूनो [राज्ञः सूनुरिव श्रेष्ठिमूः पूरें] गुणसम्पदा। सेनाऽधिभूः स भविष्यो, मुख्यस्तेजस्विनामभात् // 2 // अभ्युत्थानादिसन्मानस्तेन रञ्जितचेतसः। शेषामिवाऽऽज्ञां निश्शेषाः, सामन्ता मूर्टिन संदधुः॥३॥ युवराजतया लोकः, प्रतिपेदे महाभुजः / योधानामग्रणीः कुर्वन् , सशस्त्रश्रममन्वहम् // 4 // आजूहवन्नृपादेशादीशान् सर्वान् समन्ततः / योद्धकामः स्फुरदामा, भविष्ययुवराट् तदा // 5 // मण्डलग्रामसीमादि-सन्मानरभिवर्द्धयन् / चतुरङ्गवलैयुक्तास्तान् रणार्थमचीचलत् // 6 // गमनागमनैरेवं, भूपानां सेनया सह / साहसाद्विगुणोत्साहाद् भूशक्रः शक्रवद्वभौ // 7 // चलाचलत्वान्नगरे, गजानां स्थवाजिनाम् / सहस्रगुणितं सैन्यं, मत्वा चकम्पिरे परे // 8 // भूपालं बालवत्योचे, भविष्यो विनयात्परं / मदुत्तमाङ्गे स्वं हस्तं, निवेहि गुणसन्निधिम् // 9 // येन कच्छाऽधिपं कुर्वे, हत्वा राज्यधनादिकम् / कच्छावशेष नाग्न्येन, त्वद्विपक्षं क्षणादपि // 10 // यः पोतनपुराधीशः, श्रूयते बलवानलम् / दत्वा तं तत्पलैः कार्यो, दिक्पालानां बलिमया // 11 // अभ्यजिगमिषु मत्वा, भविष्यं प्रबलैबलैः / कच्छदेशाधिपः प्रेषीत्, दूतं पूताशयान्निजात् // 12 //
Page #118
--------------------------------------------------------------------------
________________ चतुर्दशमोड |धिकाट भविष्यदत्तचरित्रम 106 स्वस्तिश्रीकटकस्थानादाऽऽलिङ्ग्य स्नेहनिर्भरात् / कच्छाधिपः समाख्याति, भूपालं विनमच्छिरा // 13 // न कार्यों मनसा रोषस्तोष एव समेधताम् / वयं कार्याय निर्देश्याः, प्रस्थिता दिगजिगीषया // 14 // विचित्रभेददूतोऽपि, गत्वा राज्ञः सभालये / ददौ लेखं सहल्लेखं, तुष्टस्तद्वाचनान्नृपः॥ 15 // भविष्यदत्तयुवराट् , तदागात्सपरिच्छदः / तेजोभिः क्षोभिताऽशेषश्चात्रवः शौर्यशोमितः // 16 // वारयन्नश्चवारैः स्वै-रन्योऽन्य दिग्विलोकनम् / अलझ्यो गिरिवल्लोहजङ्गभूपोऽप्युपागमत् // 17 // सिंहवदुर्धरः सिंह-मल्लः शल्यमिव द्विषाम् / सूरकान्तः कान्तिपुराधीशस्तत्र समीयिवान् // 18 // अवेपकः पृथुमतिस्तथाऽन्यो हरेवाहनः / अरिसिंहो नसिंहश्च, नृपतिः शत्रुमर्दनः // 19 // इत्यादिभिर्महीनाथैः, क्रमात्सम्पूरिता सभा / तां दृष्ट्वा चकितचित्ते, दूतः स्वाकूतमूचिवान् // 20 // रुदं युद्धाय सन्नई, कच्छराजेन साम्पाम् / त्वयि स्नेहवता वैरि-वलं क्रोधाच्चलाचलम् // 21 // कुरुजालभकाय, वेगादागन्तुमुत्सुकम् / विनिवार्य बलं कच्छा-धीशस्तव मिलिष्यति // 22 // असनैर्वसनैदेतं, सत्कृत्य बहुधा नृपः। सार्धं तेनैव सामन्तान् , कतिचित् प्रोदचीचलत् // 23 // गर्वतः पर्वतमिव, मूर्त नाम्नाऽपि पर्वतम् / लोहजनपं वैरिनिष्कृपं हरिवाहनम् // 24 // तथा पृथुमति साक्षात, पृथु पृथुलनेजसा / पाहिणोद्वैरिवाहिन्या, विनाशाय स भूपतिः॥२५॥ कच्छाधिपेन संयुक्तैरेभिः पञ्चभिरुद्रटैः / पञ्चालदेशमध्यस्था, जगाहे वैरिवाहिनी // 26 // XXXSIXSIXELILAXXIXIXERLIRILLER
Page #119
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम चतुर्दशमोड धिकार 107 शराशरि तथाऽऽरेभे, रणस्तैः पञ्चभिः नृपैः / पुरस्सरा यथा सर्वे, नेशस्तत्र दिशो दिशम् // 27 // वैतालवत्समुत्तालोऽनन्तपालः करालहक् / समापतन् शराघातैः, कृतस्तूर्ण पराङ्मुखः // 28 // काकनाशं ननाशोच्चै-श्चित्राङ्गः सारे भिया / भटेन केनचित्पाणौ, सकपाणे निपातिते // 29 // रथाचूर्णीकृता वैरिभूभृन्मनोरथा इव / मातास्स्थापिता वेगाद, दूरादेव विनिर्ययुः // 30 // सादिलोके विनिहिते, शून्याः जम्मुईया रयात् / प्रपश्चात् पञ्चभूपालैः, रिपुसन्यं कथितम् // 31 // अहो महोत्सवभृतां-भाग्यभाजां पदे पदे / सम्पदः स्निग्धकामिन्य, इवाऽभ्यायान्ति सादरम् // 32 // यः शत्रुभावादाऽऽगच्छा, कच्छपो विजीगीशया / स मित्रीभूय सानिध्यं, विदवे रणकर्मणि // 33 // नासीरभामाकर्ण्य, हस्तिनापुरभूपतिः। जहर्ष हर्षदानेन, ववर्ष कनकैनैः॥ 34 // जिघृक्षुः परभूभागान् , भिक्षुवत्पोतनाधिपः / शुशोच लोचने कुर्वन्नुत्ताने भयसम्भ्रमात् // 35 // पाहिणोद् दूतमाकूतं, विनिवेध महीपतिः। न कार्यः कुरुराजेन, रणः कीर्तिनिवारणः // 36 // श्रूयतेऽस्य महाभाग्यः, सेनानीत्वे निवेशितः / भविष्योऽस्ति महाबुदिः, सदैव देवसन्निधिः // 37 // सेनान्याऽनेन कच्छेशः, स्वच्छबुदया वशीकृतः / अस्मद्विभिध सद्योऽपि, युध्यतेऽस्मद्वलेन सः // 38 // सन्धि विधाय तशीघ्र, कुरुराजेन् साम्पतम् / पञ्चालममुखा देशाः, साधनीया ममाऽऽजया // 41 // दुतेन गत्वा युवराट्, शापितो नृपवार्तिकम् / तेनाऽभाणि कथं सन्धिः, क्रियते दारुणे रणे // 42 //
Page #120
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम चतुर्दशमोड धिकार 108 चित्राङ्गो यदवज्ञातः, सुमित्राऽभ्यर्थिता यतः। निष्काशितोऽनन्तपालो, येन शत्रन्नति वदन // 43 // विमृशन् बलमाहात्म्य, भविष्यस्य महौजसः। कच्छाधिपोऽपि तस्यैव, यतते पक्षसाधने // 44 // नासीरं सीरवद्भग्न, सामन्तैस्त्वरयाऽऽगतैः / कर्ता रसेन सेनानी-नजाने कीदृशं रणम् // 45 // ततो व्यावृत्य गच्छ त्वं, भूपाय विनिवेदय / इत्युक्तो युवराजेन, ययौ दूतः ससम्भ्रमम् // 46 // तदुक्त्या पोतनाधीशः, क्षुभ्यन्निव महार्णवः / जगर्न तर्जयन् शत्रनमुश्चत सर्वी स्ववाहिनीम् // 47 // वाहिनीपूरमाऽऽसाद्य, युवराट्शौर्यवारिधिः / तीरक्षानिव रयाद्, विपक्षानुदमूलयत् // 48 // तबीयरससंभारः, प्लावितोडगाददृश्यताम् / कच्छचकच्छपः सद्यः, कच्छपः समराम्बुधौ // 49 // सामन्तान् कतिचिन्मुक्त्वा, युध्यमानान्परैः समम् / जलदगै विलङ्घ्याडगात, युवराजः स्वयं पुनः // 50 // हस्तिनापुरमासन्न, मत्वा संमील्य वाहिनीम् / आगच्छन् देशलोकैः स, ज्ञापितः कुरुभूभुजे // 51 // संनद्यतां परं शूरान्न दूरात् परवाहिनी / सङ्ग्रामभूमिमाऽऽमोच्याऽभ्यायाति पुरलिप्सया // 52 // त्वदीया ये हि सामन्ता, रणकर्मणि निष्ठुराः। तैः समं युध्यमानाऽस्ति, कियती वैरिवाहिनी // 53 // श्रुत्वा सत्वमुक्ताऽन्याऽऽरम्भा भम्भामवादयन् / कारयामास पृतनां, सजा भूपोऽचिराचरैः // 54 // चेलुन्जा ध्वजाकम्पैः, कम्पयन्तो रिपुव्रजान / अश्ववाराः स्ववारस्योपक्रमाय क्रमाद्ययुः // 55 // दध्वनुर्वीर्यसंवर्द्धि-भानस्तुर्याणि सर्वतः / अहंपूर्विकया सर्व, निरीयुनगराद्भटाः // 56 // 108
Page #121
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम चतुर्दशमोऽ धिकारः नर्तयन्तो हयान् केचिद्वर्तयन्तो गजान् पथि / मनोरयानिवेशस्य, नोदयन्तो स्थान परे // 57 // यन्त्रेषूणां महाघोषैर्घोषयन्तो रणक्रियाम् / जडं दिगम्बरं केचिद्भटा, आसन् रणोद्भटाः॥ 58 // भविष्य युवराजोऽपि, जिनाची विरचय्य सः। पुष्पैर्गन्धैविभूषाभिस्तुष्टुवे शक्रसंस्तवात् // 59 // गुरुन्नत्वा गृहीताशी-4चा विहितभोजनः / पितृभ्यां कुलवृद्धाभिः, कृतमङ्गलकौतुकः // 6 // सन्नध गाढं नियूंद-प्रतिज्ञः माझवदृढम् / जैनधर्म स्मरन् चित्ते, ध्यातपश्चनमस्क्रियः // 61 // समाश्चास्य जनान् सर्वान, नगराऽऽरक्षकान् ततः / सावधानरिह स्थेयमादिशन्निति साहसी // 12 // रणभारधुरापट्टे, मौलिलीला विभावयन् / मन्दिरात्सपरिवारो, राजमन्दिरमीयिवान् // 63 // हस्तिगर्जितमातन्वन्नभीयाय विभूषितः / शकुनैर्धन्यमात्मान, मेने तेन स मोदितः // 64 // सभासीनं नृपं नत्वा, महत्तरकृताञ्जलिः / वर्दितोन्तःपुरेणाऽयं, मणिमुक्ताफलादिभिः // 65 // राज्ञः प्रसादमासाथ, मन्वं कृत्वा यथोचितम् / अन्वीयमानः सामन्तै, राजमार्ग जगाम सः॥६६॥ पुष्पशेषां जिनेन्द्राणां, महत्तामम्बया ततः / दषच्छी पुरखीभिर्जयवाचाऽभ्यनन्धत // 67 / / विशिष्यस्नेहतः मैक्षि, स भविष्यानुरूपया / शान्तिपसादात्तेऽरिष्ट-शान्तिर्भवतु हे मिय! // 68 // धवलीकुरु शौर्योत्य-यशोभिः सकलं कुलम् / जित्वा भूजबलाच्छन् , जयलक्ष्मी समाश्रय // 69 / / बदन्ती सुदतीमेव, दशा सम्भावयन् मुहुः / सुमित्रां तां नवोदृढां, सन्मान्य रतिसंजया // 7 // 109
Page #122
--------------------------------------------------------------------------
________________ भविष्यदचरित्रम् 110 चतुर्दशमोऽ |विकारः भटैर्जय जयेत्युच्चै-दद्भिः कृतगौरवः / पौरवगै समावास्य, पुरोधाने स तस्थिवान् // त्रिभिर्विशेषकम् // 71 // अभ्यमित्रं तमाकर्ण्य, बलं पोतनभूभुजः / तस्थौ स्थिरतरं दत्वा, पटावासान् वनान्तरे // 72 // जलदुर्गमतिक्रम्य, बलं गजपुरे गतम् / श्रुत्वा ते सर्वसामन्ता, संकृत्य रणमैयरुः // 73 // अदैन्यसैन्यभारेण, चकम्पे वसुधातलम् / मत्वेति रेणुभारेग, स्थगितं व्योम सत्वरम् // 74 // व्योम्नि रुद्ध रयाचाराद्भास्करोऽदृश्यतां ययौ / मन्ये तेनाऽभवद्रात्रिश्छलायैव दुरात्मनाम् // 75 // भूपः पृथुमतिर्लोह-जङ्गः कच्छाधिपस्ततः / पञ्चालाधिपतिः सेना-ध्यक्षं तं च प्रणेमिवान् // 76 // कच्छाधिपः सुखमश्नै-बहुमानः प्रमोदितः / पृष्टवान् भूपतेः कोपो, मय्यभूत केन हेतुना // 77 // न मेऽत्राऽऽगमनं देश-ग्रहणाय न यात्रया / किन्तु पोतनराजस्य, साहाय्यायैव लज्जया // 7 // कुरुजालदेशान्तर्मत्वा विकारणम् / कुरुराजगुरुपीत्याऽयुव्ये तेन समं पुनः // 77 // कुरुराजेन यद्वैरं, स बैरी नियमान्मम / यो मित्रं कुरुभूपस्य, पश्य मित्रं ममापि तम् // 78 // इदानीमभिषिक्तस्त्वं, स्वपदे संपदे नृणाम् / यदाऽऽदिशसि तत्कार्य, वार्य वैरूप्यमनप्ता / / 79 // भविष्यस्तमयो मेने, सौजन्यरसभाजनम् / सभाजनमतः प्रोचे, अहो मैत्री सुमेधसाम् // 80 // सुमुहूर्तमथाऽऽलोक्य पालयनचलां बलेः / स चचाल द्विषां कालः, कृपाणं पाणिना वहन् // 81 // लोहजङ्कनृपः माह, पत्तिसैन्यं पुरः स्थितम् / निवार्यतामस्य भक्के, शुभं गेयं यशो न हि // 82 //
Page #123
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रमा चतुर्दशमोऽ धिकारः तत्पत्तयो गजबलेऽस्माकं, संपस्थिते पुरः / पतन्तु निजघाताय, विजयस्तेन भूपतेः // 83 // तथाऽऽदिष्टे भविष्येण, रणागणमितोऽविशत् / अयोध्याभूभुजा साकं, तत्सेनाऽऽकुलिता पुरः // 84 // क्षोणी हयखरैः कृष्णा-बनितेव नखक्षातै / कामोन्मादाय वीराणां, रेणुनाऽस्थगयदिशः॥८५ // ऋतुस्नातेव शूराणां, शोणितैः प्रसूतैर्धरा / अनालोक्याऽभवत्खीव, चित्रं सा च रजस्वला // 86 // इतो दधावेऽभिमुखं, कुरुसैन्य मदोध्धुरम् / जायमाने तयोर्युदे, शरैराच्छादितं नमः॥ 87 // स्वस्वामिविजयाकांक्षा, नटैरिव भटैमिथः / वञ्चयद्भिः शखघात, विदधे गात्रचालनम् // 88 // रेणुधूम इव मादु-र्वभूवाऽम्बररोधकः / अंतरज्वलद्वीरजनक्रोधज्वलनसम्भवः // 89 // गजपाला गजाजीवैः, सादिभिः सादिनस्तथा / रथारूढास्तु रुधिरैस्तदा युयुधिरे परैः॥९॥ भारेभे रणसंरम्भो, रम्भावरणतत्परैः / शूरैरदुरे स्वस्त्रीणां, शङ्कयोन्मिषितेक्षणैः // 91 // तयो|ररणप्रेक्षा-चकितैरिव तीव्रगैः / हरिभिर्जलधेस्तीरे, निन्ये तत्क्षणतो रथः // 92 // स्वस्वस्वामिनिदेशेन, निवृत्तास्ते महौजसः / शान्तिः प्रवकृते लोके, द्विजेशाऽभ्यगमादिव // 93 // शूरेण दूरे निक्षिप्ते, प्रभाते तमसां भरे / तच्छिक्षयेव शूराणां, पुनयुद्धमजायत // 94 // धावद्भिर धैरुत्क्षिप्तः, पर्जन्यतया रिपोः / गर्मदजलप्लावैनिल इव निर्ममे // 95 // भूमिः पांशुबलाव्योम, जगाहे स्वर्दिदृक्षया / सर्वाऽसिस्त्रीजनैर्भूमी-तलं बलवदाशया // 96 //
Page #124
--------------------------------------------------------------------------
________________ भविष्यदन चारित्रम ૧૧ર चतुर्दशमोऽ | धिकारः स्वीयः परो वा नाशायि, सुभटैः समराङ्गणे / क्रोधान्धैरिव भूभागादुत्थिते पांशुसङ्करे // 97 // महाराद्वक्तसंसक्तः, स्वामिरागः स्फुटीकृतः / तथापि यशसा श्वेताऽम्बरराज्यमभून्नृणाम् // 98 // दिगम्बरमुखे धूली-पातान्मालिन्यमीयुपि / समिति प्रतिपल्या भू-जेहासेवाडसिभासनात् // 99 // जयश्रीलाभसंशीतावुभयोलयोस्तदा / सन्नव वज्रकर्णोऽगाद्वर्षन् वाणैः पयोदवत् // 10 // कृतहस्ततया तस्य, विहस्ता कुरुवाहिनी / विवर्णा विहिताऽधुष्टो, जयः पोतनभूपतेः॥१०१॥ तदाऽऽलोक्य सकर्णत्वात्, सेनायाः कुरुभूपतेः / नृसिंहः सिंहवद्गर्जन, तत्संमुखमधावत // 102 // धनुर्वानैरकर्णी तां, सेनां श्रीपोतनेशितुः / कुर्वन् अकाण्डकाण्डौघैर्वजकर्णमथाऽखलत् // 103 // तयो जबलपेक्षा-विस्मितैर्विविधैभटैः / नाऽऽरेमे समरारम्भः, स्तम्भमाप्रसौष्ठवात् // 104 // ज्यां चकरी नृसिंहोऽस्य, शरप्रसरमोचनात् / मुद्गराघाततश्ची चक्रे तद्रवमञ्जसा // 105 // वज्रकर्णनृपो रोषात्तघातायाऽसिमुद्वहन् / पातितस्तेन कुन्तेन, भिन्नः सद्यो व्यपद्यत // 106 // सिंहमल्लोऽविलम्बेन, लम्बकर्ण जघान सः / युक्तं हि लम्बकर्णस्य, घाते सिंहस्य न श्रमः // 107 // पतत्तुभटकोटीनां, मुण्डैराच्छादिता मही। ऊहुः कसन्धान हरयो, विपन्नस्याऽपि सादिनः॥१०८॥ चक्रः खस्तया कुन्तैर्यत्रैश्च तोमरैः शरैः। उभयोः सैन्ययोर्जज्ञे, प्रेरणाददारुणे रणे // 109 // आपतत् सर्वसम्भारात, कुरुसैन्य प्रभोर्जयात् / पोतनाधिपतेः सेना, संभूयाऽरुणदुन्मदा // 11 //
Page #125
--------------------------------------------------------------------------
________________ भविष्यदत्तन चरित्रम चतुईसमोर विकार शरासारेण सारेण, कृतमावरणा चमू / पराङ्मुखी बभूव द्राक्, कुरुभूपस्य पश्यतः // 111 // रणाङ्गणं परित्यज्य, प्रहारजर्जरीकृताः। निरीयुः सुभटाः केचित्, स्वीयसद्मयियासवः // 112 // तान् दृष्ट्वा तुमुलो जज्ञे, कुरुजङ्गलमण्डले / चलाचलतया लोकाश्चकार वनसङ्ग्रहम् // 113 // हाहाकारं वितन्वन्तः, सकले हस्तिनापुरे / अन्योऽन्य क्षोभयामासु-र्भयान्नागरिकाः जनाः // 114 // निचिक्षिपुर्घरामध्ये, धनानि भयसंभ्रमात् / शिरोगृहं समारुह्य, तस्थुः केऽपि सविस्मयम् // 115 // कार्य विघटितं दैवात्, पपात यदि वा नृपः / सामन्ताः प्रलयं पापुरहो देवस्य चेष्टितम् // 116 // भनमायाति कटकं, कांदिशीकमनायुधम् / आत्मीयमिति भूपेन, चेतसाऽचिन्ति विभ्रमात् // 117 // सद्यः समागतान् लोकान, पप्रच्छ भयकारणम् / भविष्यकुशलं भूयस्तेऽप्याचख्युनरोत्तम ! // 118 // सर्वाभिसारात् संना, सामन्ताः पोतनेशिनुः / युद्धेन दुर्द्धराश्चक्रुः, न्याकुलां वाहिनी तव // 119 // नश्यतः सुभटान स्वीयान्, पश्यन्तो वयमप्यहो / धनस्वजनरक्षायै, सम्माप्तास्त्वरया पुरम् // 120 // न जानीमो भविष्यः किं, राजन् ! जीवति वा मृतः। स्थिताः पलायिताः किं वा, सामन्तास्ते दिशोदिशम् // 121 // उच्छलधूलिसम्भारादंधकारे महीयसि / बुद्धिर्विचलिता सर्वा, शुद्धिः किं कस्य संभवेत् // 122 // इत्यं तद्वचसा श्रेष्ठी, पुरमाकाररक्षकान् / आदिदेश प्रतोलीनां, पिधानं कुरु तद् द्रुतम् // 123 // राजाऽपि दूतं संप्रेपोत, वत्स! वीरोऽसि मा भयम् / वहस्व मामपि प्राप्तं, त्वरयाऽवेहि संयुगे // 124 //
Page #126
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम 114 चतुर्दशमोड धिकार इत्याऽऽभाष्य विसष्टेऽस्मिन्, दूते राजाऽपि वर्मितः / प्रतिष्ठते पुरात् यावत्तावक्तश्चिञ्चरोऽभ्यगात् // 125 // भूपपादास्समसादास्तिष्ठन्तु नगरान्तरे / जयस्त्वदीयो सर्वत्र, जनै?षयतां पुरे // 126 // इतश्च स भविष्योऽपि, नश्यमानां स्ववाहिनीम् / वीक्ष्य सामन्तलोकान् स्वान्, मोचेऽभ्युचितवार्चया // 127 // नासीरं नाशितं कोपात्, पररस्माकमग्रतः / नोचितं तदिह स्थातुं, युद्धे भाव्यमुदायुधैः // 128 // इत्युक्त्वा रणभूभागमाऽऽचक्राम स रामवत् / भविष्यस्तिलकद्वीपाऽवनीपः साहसाद्धसन् // 129 // हस्तिस्कन्धस्थितेनेक्षां चक्रे तेन महीभुजा / अनन्तपालः पुरतश्चालयन् वैरिसैनिकान् // 130 / / दृक्संज्ञयैव संज्ञाप्याऽऽधोरणं स महीपतिः। तन्मुक्तयन्त्रगुटिका-योगाद घातयति स्म तम् // 131 // ततो जयजयारवः, प्रचक्रे कुरुसैनिकैः / आसन्नीभूय सामन्तास्ततो युयुधिरे परैः॥ 132 // सनबाऽसह्यसत्तेभेनाऽऽपतन्तं स्वसंमुखम् / भविष्यं तं तथाऽन्विष्य, बभाषे युवराट् तदा // 133 // त्वद्गोत्राऽनुचितं खेतत्किं कारब्धवानसि / लुब्धः सुमित्रासंभोगे, मरणाय रणादरात् // 134 // यतः-अनुचितकारम्भः स्वजनविरोधो बलीयसा स्पर्दा / प्रमदाजनविश्वासो, मृत्योर्द्वाराणि चत्वारि // 135 / / तिलका श्रुवा, सत्वाश्रयमना मनाक् / विहस्य पाह रे मूढ ! सुमित्रां किं तृयेहसे // 136 // लभ्यते सत्यतेजोभिः, सुकृतस्य सुमेधसा / समीहितं वस्तुरत्न, न दीनस्तु भवादशैः // 137 // ततः क्रुद्धेन युद्धाय, मुक्ता तेन शरावली / अन्तराले भविष्यस्तां, चिच्छेद विशिखां क्षिपन् // 138 //
Page #127
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम वतुर्दशमोऽ विकार साकं धैर्यगुणेनाऽस्याऽलुनाच्चापगुणं पुनः / भविष्यः स्वगर्ज रक्षन् , तत्कृताऽस्रमहारतः // 139 // अधः प्रविश्य भृत्येन, भविष्यनृपसंज्ञया / युवराजगजो स्त्रैण-निहतो न्यपतद् भुवि // 140 // अन्यं गजेन्द्रमारोहुँ, युवराजः कृतोधमः / कुन्ताऽधोभागनिर्घातात, मृच्छौं संपापितोऽमुना // 141 // क्षणेन माप्तचैतन्यः, खड्नेनैव जिघांसया / धावमानो भविष्येण, पातितो लतयैव सः // 142 // दूरे काऽप्यसिरतस्याऽदृश्योऽभूदुदैवयोगतः / निरस्रः फलकावृत्या, स तेन जगृहे रयात् // 143 // अहो लाघवमेतस्य, भविष्यस्य कलाभरे / रणकर्मणि कौशल्यं, निःशल्यभाग्य जम्भितम् / / 144 // सूनुः पोतनराजस्य, युवराजो महाभुजः / कपोतपोतवत्तूर्ण, जगृहे येन साहसात् 145 // ततः कुरुबले जज्ञे, नृणामुत्सववैभवम् / पोतनेशवले दैन्यान्मालिन्यं प्रसृतं जवात् // 146 // कुरुभूपस्य सामन्तैर्लोहजङ्कादिभिभृशम् / प्रशंसि दोर्बलं तस्य, भविष्यनृपतेस्तदा // 147 // ततः सेनां समादिश्याग्राहयत् कोशवैभवम् / हास्तिकाऽश्चीयसंयुक्तं, शक्तः स तिलकाधिभूः // 148 // वाद्यमानेषु वाद्येषु, पतत्सु बन्दिषु स्फुटम् / ससैन्य स्तिलकाधीशः, माविशद्विजयी पुरम् // 149 // राज्ञाऽभिनन्दितः पृष्ठे, हस्तदानेन नागरैः / माभृतैः पूजितो रेजे, स तदा विजयश्रिया // 150 // पोतनेशस्य सामन्ता, निरुत्साहाः पराजयात् / प्रत्यावृत्य ययुः सर्वे, गृहिते सैन्यनायके // 151 // साम्राज्यवैभवः सर्वः, पोतनेशस्य नूतनः / कुरुभूपतिना जहे, कारागारे निवेश्य तम् // 152 //
Page #128
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 116 वणिकानुर्वारये पितरि कृपते मातुलले, प्रद्धो वाणिज्ये धृतरतिरगान्नीरपितटम् / गतः सापल्येन व्यसनमधाद्राज्यकमलां, भविष्यः प्राचीनैः मुकृतचरितैः प्राप्तविजयः // 153 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहास्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते चतुर्दशमोऽधिकारः पञ्चदशमोऽ विकार अथ भविष्यदत्चरित्र पञ्चदशमोधिकारः प्रतिमासं द्विजाधीशः, शूरादपि परं वसु / यत्सेवया समादत्ते, सोऽष्टमाईन् मुदेऽस्तु नः // 1 // विजयश्रियमासाद्य, स्तूयमानोऽय मागधैः / भविष्यो विनयी राज्ञाद्धराज्याऽधिपतिः कुतः॥२॥ छत्र-चामर-पल्यङ्क-सिंहासनमुखं पुनः / राज्यचिनं ददौ भूपोऽनुरूपं श्रेष्ठिसुनवे // 3 // जयमालनामाऽस्मै, सिन्धुरस्तनुबन्धुरः / भविष्याय ददे राज्ञा, तुरको रङ्गनायकः // 4 // राज्याङ्गान्यपि सर्वाणि, सन्जीकृत्य मदत्तवान् / नृपः स्नेहादसन्देहात, ययेच्छं देहभूषणम् // 5 // प्रतापात्तपनाऽधिक्य, भविष्येऽन्विष्य भूभुनः / परेऽपि माभृतीच-गजस्वर्णादिवास्तवम् // 6 // मुमित्रा प्रेषणे भर्नुमन्दिरे सुन्दरोत्सवैः / गजाश्ववाहनादीनि, जामात्रेऽदान्महीपतिः॥७॥
Page #129
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् पञ्चदशमोऽ धिकार सेव्यमानः स सामन्तैः, प्रियाभ्यां सह सोल्सयम् / बुभुजे विविधान् भोगान्, युवराजश्रियाऽनिशम् // 8 // ललनायुगलेनाऽयं, ललन् रहसि मन्दिरे / स्वमात्रा मातृमात्रा च, राश्याऽऽकार्य न्यवेधत // 9 // हे वत्स! वत्सलचिते, सहसे सह सेवकैः / भुजे राज्यधुरं सम्यग् , वहसे महसेवधिः // 10 // जयलक्ष्मीस्त्वया निन्ये, परिगिन्ये नृपाङ्गना / देशे पुरे च सर्वत्र, सहसाऽऽनन्दितो जनः // 11 // भूपप्रसादासर्वत्र, कीर्तिस्ते गीयते जनः / तेन हर्षवशाकुर्मः, शर्म धर्म समन्वितम् // 12 // निय॒ यन्नृपास्थाने, भणितं सर्वसाक्षिकम् / चित्राङ्गोऽनन्तपालच, शौ निलों ठितौ त्वया // 13 // साम्प्रतं तव साहाय्यात्, सर्वत्र नृपतेर्जयः / लक्ष्मीः प्रौढतरवास्ति, हास्तिकाऽचीयसमात् // 14 // तथापि नास्या विश्वासः, कार्यः कार्यविचक्षणैः / अनित्यतैव संचिन्त्या, पमदाऽनादरावि // 15 // यतः-श्रियो विद्युल्लोलाः, कतिपयदिनं यौवनमिदम् / सुखं दुःखाऽऽघ्रातं, वपुरनियतं व्याधिविधुरम् // दुरापाः सद्गोष्ठ्यो, बहुभिरथवा किं मलपितरसारः संसारस्तदिह निपुणं जाग्रत जनाः॥१६॥ तत्तिस्रोऽपि वयं बच्यो, मान्याः कुलमहत्तराः। न सुन्दरमिदं चित्ते, प्रतिभाति सचेतसाम् // 17 // कारागारे विनिक्षिप्तः, पोतनाधिपतेः सुतः / सन्मानय नय स्थान-मेनं निगडमोचनात् // 18 // तासामासांप्रचक्रे वाक, तासां स्थिरीभूता सा वाक] चित्ते तस्य महीभुजः मातरः! कातराः कस्मात्कार्यमेतत् करिष्यते // 19 // प्रियालापेन तास्तिस्रः, प्रोत्साह्य स्वयमाययौ / महीभुजः सभास्थानं, मन्त्रमासूत्र्य चेतसा // 20 // XXXXXXXXXXXXXXX
Page #130
--------------------------------------------------------------------------
________________ गविण्यदत्तचरित्रम् 118 पञ्चदशमोऽ विकारः स्वामिन्नामितदुर्जेय-विपक्षशितिनायक ! / प्रसादजनकं कार्य, साम्पतं तन्निवेदय // 21 // अयं हि पोतनाधीशसूनुनूनं महाभुजः / त्वत्तेजसाऽअसा बन्दी-कृतः सुकृतवैभवात् // 22 // परिवारोऽस्य सर्वोऽपि. कारागारेऽस्ति सम्पति / क्षुद्राशया भ्रमन्येते, सामन्ताः परितो वने // 23 // तदयं मुच्यतेऽकस्मात्युनयुद्धाय जायते / सज्जो निर्लज्जदौर्जन्य-जन्यतापात्स पापधीः॥ 24 // अथ बद्धः कियत्कालं, रक्ष्यते लक्ष्यते न तत् / चिन्तयन्ति बहूपायान्मोचनायाऽस्य पाक्षिकाः // 25 // हन्यते च यशोहानिहीं हा निष्कारणवैरिणा / किं कृतं पोतनेशेन, सुतः कटे निपातितः // 26 // इति प्रज्ञापितो भूपः, कमलासूनुनाऽभुना / तुभ्यं यद्रोचते सभ्यं, तत्कुरुष्वेति तं जगौ // 27 // सज्जीकारयित्वा सैन्यं, भविष्येण चरद्वयं / अमोचि पोतनपुरवृत्तान्तं ज्ञातुमिच्छया // 28 // स्वयं सन्नह्य सामन्तैः, समं यन्त्रालये स्थितः / धावद्भिरः सुभटैः, पुरमासीच्चलाचलम् // 29 // क्रूरकर्मकृतो लोकान्निदर्यान् जीवमारणे / आहूय स्थापयामास, कारागारान्तिके नृपः // 30 // व्यचिन्ति युवराजेन, सैनिकानां गतागतैः / अद्याऽहं हन्त इन्तव्यः, शत्रु गा पशुवन्ननु / / 31 // तत् बन्दिरक्षाऽध्यक्षेण, व्याचचक्षे मुहुर्महुः / शूरस्य शरणं कोण, हा भविष्यति सम्पति // 32 // निरायुधोऽयं न वध्यः, सायुधः केन हन्यते / निबन्धकाले मरण, हा! शुर : तव विस्मृतम् // 33 // कश्चिदाऽऽहाऽऽत्मदाहाय, मारितेनाऽमुनाऽथ किम् / यद्वा वणिक्तनुजस्य, किं बघायोद्यतः करः // 34 // BREAKXXXXX
Page #131
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम पञ्चदशमोड धिकारः करालः कोऽपि चाण्डालः, प्रहरिष्यति दुर्मतिः / केनाऽप्यूचे विधेर्गेहे, न ज्ञेयः कीदृगुधमः // 35 // एवं पार्थस्थिताऽऽलापान , श्रृण्वन् सस्मार दैवतम् / युवराजो विधेश्य, भावयन्मनसा जनम् // 36 // चरयुग्मं तदैवाप्त, प्रपच्छ स्वच्छधीनपः / का वार्ता पोतनपुरे, किं चिन्तयति वा नृपः॥ 37 // श्रृणु राजन् बलं तस्य, पाचै नास्ति मनागपि / उपस्थितेऽस्य त्वया साकं, युद्धे सर्वममोचि तत् // 38 // नगरं नगरन्धेषु, माविशद्भयसम्भ्रमात् / भूपः कूपजले पातमनुरूपं स मन्यते / / 39 // चालिते पवनस्तत्रोपवने भवनेश्वराः / वने प्रयान्ति नष्टदेव, भविष्याऽऽगमशङ्कया // 40 // नारीनयननिर्गच्छज्जलैः कज्जलविप्लवात् / नृपाङ्गणं समालेपि, स्वैरिवाऽपयशोभरैः // 41 // त्रस्यज्जनस्य निश्वास-नभस्वत्मेरितस्ततः / सन्तापामितपस्यान्तस्तनोति मलिनं मुखम् // 42 // इत्यवेत्य मुखात्तस्य, प्रवृत्ति स्थिरचित्तधीः / भविष्यः प्राह किं कर्ता, वराकः काकपाकवत् // 43 // हतेनाऽनेन नः साध्य, नैव सिद्धयति किञ्चन / मुच्यतां त्वरया तेन, सन्मान्याऽयं सहाऽनुगैः // 44 // भविष्यभूपान्तर्वाण्या, दधावे सुकृती जनः / स्तुवन् तत्पुण्यनैपुण्यं, तद्विमोक्षाय तत्परः // 45 // ससार्थ तं समानीय, पुत्रं पोतनभूपतेः / गाढस्नेहात्समालिङ्ग्य, सुखेनाऽऽलापयन्नृपः // 46 // सम्माप्तेऽवसरे भूरि, पकानौदनतीमनैः / सघृतैस्तं समावेश्य, भोजयामास भूपतिः // 47 // सर्वांस्तदीयसामन्तान् , दूरादाऽऽकार्य कार्यचित् / भोजयित्वा ससत्कारं, वखाद्यैः पर्यतूतुषत् // 48 // 119
Page #132
--------------------------------------------------------------------------
________________ मविण्यदचचरित्रम 120 पञ्चदशमोऽ विकारः अन्योऽन्यबहुमानेन, रक्षित्वा कतिचिदिनान् / दत्वा सकोसैन्यादि, युवराज व्यसञ्जयत // 49 // गच्छदिरस्य सामन्तैः, पथि पौरुषवर्णना / पारेभेऽनन्यसामान्य-सौजन्यात्तिलकेशितुः // 50 // अवधिः शौर्यवर्याणां, निधिः सौन्दर्यसंपदाम् / जलधिर्गुणरत्नानां, बुद्धीनां वासमन्दिरम् // 51 // आकरः सर्वविद्यानां, भास्करः पुण्यतेजसां / निशाकरः कलानां हि, भविष्योऽन्विष्यते भुवि // 52 // इदृशं नररत्नं हि, भाग्यादेव भुवः प्रभो / संजायते स्वविषये, विषमापन्निवारणम् // 53 // तैः पोतनपुरेशोऽपि, गत्या व पितः पुरः / कुशलेनाऽऽगमः सूनोः, पौरानन्दनदायिनः // 54 // भविष्यस्यापि साम्राज्य, भुञ्जानस्य नयोदयात् / कियानपि व्यतीयाय, समयः क्रमयोगतः // 55 // भवदत्तमुतायाश्च, गर्भः पादुरभूच्छुभः / तस्याऽनुभावतः साऽपि, प्रपेदे दोहदं ददि // 56 // वासवेश्मनि सा भर्ना, पृष्टा देवि ! किमीहसे / यथेच्छं कथय स्वच्छाऽऽशये ! किं दुर्बलाऽसि भो! // 57 // तिलकद्वीपमभ्येत्य चैत्पेऽष्टमजिनप्रभोः / पूजया रजयामि स्वं, मनस्तन्नमनाहतम् // 58 // भविष्यभूपतिः श्रुत्वा, तद्गिरं व्याकुलोऽभवत् / पयोधिलङ्घनद्वीप-गमनोपायचिन्तया // 59 // पूर्व गतस्य दैवेन, ममाऽभून्महती कथा / प्रत्यागमनसन्देहो, बन्धुदत्तस्य कैतवात् // 6 // तदाऽच्युतेन्द्रनिर्देशाद्विमानेऽप्यविरुद्ध मां / समानयन्माणिभद्रा, क्षेत्रेशः स्वजना-लयम् // 61 // साम्पतं गमनं तत्र, केन सम्भाव्यते मम / दोहदं पूर्यते नास्यास्तदा स्यां पुरुषाधमः // 62 //
Page #133
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम् पञ्चदशमोऽ 121 एवं विमृशति क्षमापे, मनोवेगः समाययो / दैवानुल्याद्विद्याभृत्, प्रतीहारनिवेदितः॥ 63 // देव! द्वारे जनः कश्चित, सुरूपः स्फारविक्रमः / किरीटी कुण्डली दिव्य-वेषः सैव समीक्ष्यते // 64 // किमत्राऽशनिवेगोऽऽगात, माणिभद्रोऽथवा स्मृतः / क्रीडातुरः स्फुरत्कान्तिः, सुरः प्रणयभासुरः // 65 / / नृपाज्ञया प्रतीहारस्तं मावेशयदन्तरे / डुढौके दिव्यवस्वादि, विद्याभृन्नृपतेः पुरः॥६६॥ / दत्तासनः स सन्मानं, नृपेणाऽऽलापि साम्मतम् / कुतः प्राप्तोऽसि कस्त्वं वाऽऽगमस्ते केन हेतुना // 67 // तेनाऽभ्यधायि निध्याय, मनोवेगोऽस्मि भूपते ! / वैतादयवासी विद्याभृदाऽऽयातः श्रमणाझया // 68 // सूनुर्धनपतेर्मात्रा, प्रसूतः कमलाख्ययया / धत्से चित्ते भविष्यायाः, प्रियः किञ्चित्तदीहिताम् // 69 // संकेतेनाऽमुनाऽमैषि, तदहं साधुनाऽधुना / समादेशि विधेयं यत्करवाणि तदाज्ञया // 70 // आनन्दाश्रुभृते नेत्रे, कुर्वन्नुर्वीपति गौ / त्वदुक्तं युक्तमेवाऽस्ति, मष्टव्योऽस्ति भवान्मया // 71 // दृश्यसे परमर्द्धिस्त्वं, किं ममादेशमीहसे / स माह पूर्वसम्बन्धात्तद्वक्ष्यामि सविस्तरम् // 72 / / देव्या दोहदसम्पूत्ति, ज्ञापितः खेचरस्ततः / रचयामास कैलास-धवलं सुरमन्दिरम् // 73 // तं विभाव्य समासन्न, विमानं श्रेष्ठिभूनपः / भूपतिममुखान्सर्वान, ज्ञापयामास सादरः // 74 // पुरश्रशारणापूर्वमपूर्वजनितोत्सवैः / दानं ददानः स्वाऽभीष्टं, मार्गणेभ्यः स सभ्यधीः // 75 // महासिन्धुरमारुह्य, सेनया सह साहसी / विभूत्या परया पौरान्मोदयन्निर्ययौ पुरात् // 76 // SUSILARRESXXXXXXXXXXX
Page #134
--------------------------------------------------------------------------
________________ पञ्चदशमोड (चिकाट भविष्यद चरित्रम 122 भूपतेराज्ञया सर्व-स्वजनानुमतस्ततः / उद्यानस्थ विमान द्रागाऽऽरोह क्षितीश्वरः // 77 // भविष्यखेचरावेकासने तत्र निषीदतुः / अन्यत्रैकासने नायौँ, भवदत्तनृपाङ्गजे // 7 // माकल्यतूर्यनिर्धे पैविमानमचलविवि / चित्रेण पूरयत्पौरान भूचरानुन्मुखाऽम्बुजान // 79 // देशान् ग्रामानधो मुञ्चन्, विमान गगनाऽध्वना / सिन्धोरुपरि निर्गत्य, तिलकद्वीपमासदत् // 8 // उपवनमिदमीयं [तिलकद्वीपोद्यानं पाप्य मुक्त्वा विमानं / पुरतरुणपुरन्ध्रीलोचनैः पीयमानः॥ बहुदिनमिलनेनाऽऽनंदिताऽशेषपौर-स्तिलकनृपतिरन्तनॅनचैत्यं विवेश // 81 // सामन्तैर्बहुमन्त्रिभिर्विनिहितैर्योग्याधिकारे पुरा / श्रुत्वा भूपसमागमं पुनरपि प्राप्तं सुपुण्योदयात् // भूयः माभृतढौकनेन सहसा नेमे जिने मेदुरः / कान्तायुतः स्तुतः सपुण्यनृपतिन्दैर्लसबन्दिनाम् / / 82 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते पञ्चदशमोऽधिकारः।
Page #135
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम 123 षोडशोऽ ििधकार अथ भविष्यदत्तचरित्रे षोडशोऽधिकारः गलन् रुद्रस्य भालाग्रे, चन्द्रः शान्तिसुधात्मनः / क्रमाबजसेवया यस्य, वर्द्धते स सुखाय वः // 1 // अथाऽभ्यपिश्चद् भूभर्ता, जलैः कर्पूरमिश्रितैः / तीर्थभूमेः समानीतैः, शुदैः श्रीजिनमष्टमम् // 2 // तनुमक्षालनादेवं, देवस्य धीमता स्वयम् / तेन नैर्मल्यमाधायि, ध्यानच्छकानुकारिणा // 3 // यतः-यः देवं स्नपयंति शाम्यतितमं तेषां रजः कर्मणाम् / ये नायं परिपूजयंति जगतः, पूज्या भवन्त्येव ते // माजल्यानि जिनस्य ये विदधते, तदविघ्ननाशो भवेत / पादाब्जे प्रणमंति ये भगवतस्ते वन्दनीयाः सताम् // 4 // पूजेकधा जिनेन्द्राणामाऽऽज्ञा मामाण्यतो भवेत् / द्रव्य-भावप्रकारेण, द्विविधाडप्यागमोदिता // 5 // आजाअभावभेदैः स्यात, त्रिविधा सा चतुर्विधा / पुष्पनैवेद्यमस्तोत्र-पतिपत्तिविधानतः॥६॥ पञ्चधा दीपसंयोगात्, पोढाऽक्षतनिवेदनात् / सप्तधा फलसम्पत्या, गन्धसम्बन्धतोऽधा // 7 // एपा हि द्रव्यभावाभ्यां, सामान्येन समीरिता / द्रव्यपूजाऽष्टया धूप-जलरूपप्रयोजनात् // 8 // यतः-वरगंषधूवचोक्खखएहि कुसुमेहिं पवरदीवेहिं / नेविजजलफलेहि य, जिणपूआ अट्टहा भणिया // 9 // जलोपलक्षणाद दुग्ध-दधीशूरससर्पिषां / अभिषेकोऽहंतां कार्यों, जन्मकल्याणभक्तये // 10 // गन्धोपलक्षणाद्वौनिर्दषणविभूषणैः / जिनाची कुर्वतां लक्ष्मीः, प्रभवेत्सर्वतोमुखी // 11 // ALLEKXXXXXXXXXXXXXXXXX
Page #136
--------------------------------------------------------------------------
________________ सकस भविष्यदत्त चरित्रम 124 षोडशोऽ धिकार LABEXXXXXXXXXXXXXXXX यतः-वर्वखविभूतयः शुचितराऽलङ्कारतोऽलकृतिः / पुष्पैः पूज्यपदं सुगन्धितनुता गन्धैर्जिने पूजिते / दीप नमनावृतं निरुपमा, भोगदि रत्नादिभिः / सन्स्येतानि किमदभुतं, शिवपदमाप्तिस्ततो देहिनाम् / / 12 // महोत्सवान्महीनाथः, पाथसा स्नपयन् जिनं / शक्रानुकरणात्मेने, स्वात्मानं सर्वतोऽधिकम् // 13 // सभ्यसौरभ्यसम्भारैर्गन्धसारैश्च कुङ्कुमैः / कृत्वा विलेपनं देहे, भूषणान्यादवे नृपः // 14 // गुणप्रणीतैः संगीतनयन्निद्रवन्नयन् / वाद्यमानेषु वायेषु, स पूजोत्सवमातनोत् // 15 // भावयन् भावनाधिक्यात्पञ्चकल्याणकक्रियाम् / तस्थौ पुरोदिबिम्बस्य स्तुवन्नरपतिः स्तवैः॥१६॥ विद्याधरेण तेनाऽपि, वितेने सोत्सवार्चना / भवदत्तदुहित्राऽपि, सत्रा तत्र सुमित्रया // 17 // नृपे निविष्टे सम्पूज्य, चारणश्रमणद्वयम् / यात्राऽनुरागात्तत्राऽऽगान्नभोभागात्समुत्तरन् // 18 // प्रणम्य स्तवनैः स्तुत्वा, श्रीचन्द्रमभनायकम् / मुस्थितौ चारणमुनी, वन्दितौ तौ महीभुजा // 19 // वर्द्धस्व धर्मलामेनेत्युक्तस्वाभ्यां धराधवः / शुश्राव शुद्धभावेन, देशनां तदुदीरिताम् // 20 // राजन्नसारे संसारे, भास्करेऽपि विनश्चरे / धर्मः शर्मकरः कार्यस्तार्यो येन भवार्णवः // 21 // वीतरागैः समादेशि, स धर्मः शिवशर्मदः। दया न हृदयात्ताज्या, राज्यभाजाऽप्यहो त्वया // 22 // दयायाः कारणं कार्य, स्वरूप समयोदितम् / धार्य धैर्यवतां कार्यमिदमेव महामते ! // 23 // समयो वीतरागोक्तः, श्रूयते सुगुरोर्मुखात् / देवे गुरौ च विनयाच्छवणं बुदिसिद्धये [शुद्धये // 24 // EEEEEEEEEEEEEEEEEEE
Page #137
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम 226 षोडशोऽ धिकारः देवानां विनयः सम्यक, पूजया विहितस्त्वया / स्वस्याऽन्यस्याऽपि भावेन, शिवस्वीपणयाश्रयः // 25 // तीर्थकरत्वं लभते वैयाश्याजिनेशिनाम् / दिव्यसाम्राज्यलक्ष्मीणां, तस्य भोगे न विस्मयः // 26 // यतः-फलं पूजाविधातुः स्यात्, सौभाग्यं जनमान्यता / ऐश्वर्यरूपमारोग्यं, स्वर्गमोक्षसुखान्यपि // 27 // निशम्यैतां गुरोर्वाचं, पपच्छ स्वच्छधीपः / धर्मकर्मणि चित्तस्य, चापल्यं केन दम्यते // 28 // इन्द्रियाणि निजास्वाद-साराणि च दिवानिशं / मनसा प्रेर्यमाणानि, संत्रियन्ते कथं विभो ! // 29 // मनिराह दृशौ रूप-रती श्रीजिनयात्रया / आगमश्रवणात्कर्णी, पवित्रय तदर्थिनौ // 30 // जिहवा सिद्धांतभणनैः, प्रतिश्वासं जिनस्मृतेः / सौरभ्येतरयोोंगे, घ्राणं वैराग्यभावनात् // 31 // कायो निकायः पापानां, पूयतां श्रीजिनाचनात् / शीतवातादिसहनैः, कायोत्सर्गादिकर्मगा // 32 // मनोऽपि भगवद्धयानाद्, ज्ञानाद्वा तदुदीरितात् / स्वयप्रेष्यति पापेभ्यो, निकृतेः स्थिरतां दृढाम् // 33 // निवृत्तिं सर्वतः कर्तु, शक्यते यदि नाऽगिना / देशेन विरतेः श्राद्ध-धर्मः कार्यस्तदा परम् / / 34 // पूर्व जिनोक्ततत्त्वेषु, रुचिर्धा विपश्चिता / तदेव सत्यं यत्प्रोक्तं, जिनेन्द्रैरिति निश्चयात् // 35 // मधं मांसं नवनीतं मधुदुम्बरपञ्चकम् / वर्जयेद्भक्षणं तेषामभक्ष्याणां ततः क्रमात् // 36 // न भुञ्जीत स्वयं नैव, भोजयेनाऽनुमोदयेत् / कायेन मनसा वावाऽमृनि वस्तूनि धार्मिकः // 37 // भूम्यादिकायषट्केपि, दया कार्या यथोचिता / स्थूला निरागसो जीवा, वध्याः संकलप्य नैव ते // 38 //
Page #138
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 126 षोडशोऽ धिकारः यतः-धूला सुहमा चेव, संकप्पारंभो य ते दुविहा / सावराहनिरवराहा साविक्खा चेव निरवक्खा // 39 // कन्याया गोस्तथा भूमेरलीकं कूटसाक्षिता / न्यासापहारः पश्चेति, नाऽसत्यानि समाचरेत् // 40 // स्तेनाहतपयोगाभ्यां, तथा कूटतुलादिना / नाऽदत्तमाददीत स्वं, श्राद्वो नाऽन्यस्त्रियं भजेत् // 41 // परिग्रहे परिमितं, कुर्याल्लोभजिगीषया / धार्य शुद्धधियाऽवश्यमित्यणुव्रतपश्चकम् // 42 // परिमाणं दिशां यावजीवं स्वस्याऽऽगमे गमे / भोगोपभोगयोर्योगे, नियम विदधीत सः॥४३॥ अनर्थदण्डं प्रज्ञाय, प्रत्याख्याति सुधीस्ततः / नाऽन्वेषयेत्कुर्कुटादि-युद्धं हिंस्रान्न पोषयेत् // 44 // गुणव्रतानि त्रीण्येवं, धत्ते भावादुपासकः / सामायिक तथा देशाऽवकाशिकमपि व्रतम् // 45 // भारम्भवजनात्साम्यचिन्तनाद्वाऽनुपालयेत् / पोषधं पापसन्तापौषधं पर्वदिनादिषु // 46 // पासुकाहारदानेन, संविभाग तथाऽतिथेः / मुनेर्गुण गुरोः कुर्याचातुर्यात्पात्रसजतेः॥४७॥ साधूपलक्षणा कार्य, यथाशक्ति मनस्विना / तत्साधर्मिकवात्सत्य, तीर्थभावसाधनम् // 48 // शिक्षाव्रतानि चत्वारि, तत्चान्मत्वा गृही जनः / द्वादशवतमान सम्पा, श्रद्धातः श्राद्ध उच्यते // 49 // देवोऽर्हन्वीतरागोऽर्थ्यः, सर्वज्ञः सर्ववासवैः / गुरुः साधुर्जगद्वन्धू-रत्नत्रि तयबन्धुरः // 50 // दयासरूपवान् धर्मस्तन्मूलं विनयादरः / तत्वत्रयी पीवाऽत्र, प्रकाशाय प्रजायते // 51 // एवं देशनया निपीय नृपतिर्वाच स वाचंयमाऽऽचार्यस्याऽयमतिर्वभार गृहिणां धर्म लसच्चेतसा // 52 //
Page #139
--------------------------------------------------------------------------
________________ सप्तदशमोऽ भविष्यदत्तचरित्रम् 127 धिकारः पातिव्रत्यधिया विधूय दुरितं, स्मेराम्बुजाक्षीद्वयं / साक्षीकृत्य गुरुं गुणैः सुरतरं, श्राद्धी बभूव ध्रुवम् // 53 // / इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते षोडशोऽधिकारः अथ भविष्यदत्तचरित्रे सप्तदशमोऽधिकारः भगवद्वाक्सुधापान-रसी पादाम्बुजे शशी / जैवातृकेऽभूत्तादात्म्यात्स लक्ष्म्यै लक्ष्मणाजजः // 1 // अथाऽमाक्षीन्नृपः क्षि, विनयान्नम्रमस्तकः / तं मुनि हे प्रभो ! कस्मात्खेवरो मे सहायकः॥२॥ मरुद्वेगसुतो नाम्ना, मनोवेगो न संस्तुतो / मयि वात्सल्यवान् केन, कारणेनेह जन्मनि // 3 // व्याजहार मुनीन्द्रोऽपि, राजंस्त्वं पाग्भवं श्रृगु / न सम्बन्ध विना रागो, द्वेषो वा पाणिनां भवेत् // 4 // अत्रैव भरते वत्स-देशे सुजनभाजने / काम्पियनगरी, दानगरीयस्त्वेन विश्रुता // 5 // इन्द्रबाहुर्महाबाहु-भूशक्रश्चक्रिविक्रमः / यं पाहुर्विभवाद्भूम्यामवतीण सुरेश्वरम् // 6 // तस्य वश्यकरी कान्ता, नाम्नाऽस्ति गुणमञ्जरी / उन्मीलशीलपावित्र्याद्धरित्रीतलभूषणम् // 7 // मन्त्री त्रिदशमंत्रीव, विमलः शेनु वीमुखम् / आस्तिक्यधनधामाऽस्ति, नास्तिकाशयबाधकः // 8 //
Page #140
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् सप्तदशमोऽ विकारः भट्टो वासवदत्ताख्यः, सन्मान्यःक्ष्माभुजा भृशम् / सुकेशा रमणी तस्य, निस्सीमप्रेमभाजनम् // 9 // पुत्रौ सुवाक्यदुर्वाक्यौ, तनया च त्रिवेदका / तस्या विवाहः समभूदग्निमित्रद्विजन्मना // 10 // सख्येन गुणमञ्जर्याः, मुकेशान्तःपुरमिया / सर्वत्र नागरैलोकैः, पूज्या विविधकर्मणि // 11 // राज्यमान्यतया भट्टः, सकुदुम्बः पुरान्तरे / विभूत्या प्रचरन् नैव, सेहे विमलमन्त्रिणा // 12 // एकदा भूभुजाऽऽकार्य, जगदे स द्विजाग्रणीः / प्रेष्यते सिंहलद्वीपे, प्राभृतं भीमभूभुजे // 13 // तस्माद्विचक्षणः कश्चिद्वीक्षणीयस्त्वया द्विज ! / इत्युक्तेन स्वजामाता, तेन निन्ये पुरः प्रभोः // 14 // सन्दिश्यमाने राज्ञाऽपि, तस्मै प्राभृतवाचिके / उचिवान् सचिवो वाचं, सभायां समयोचिताम् // 15 // कमप्यन्यं प्रभो ! तत्र, प्रेषयस्व महाशयम् / तादृक् कुतोऽस्मिन् कौशल्यं, येन राजा प्रसीदति // 16 // शौर्य द्विजन्मनां नैव, तद्विना नोत्तरं वचः / परराजसभां दृष्ट्वा, कम्पतेऽसौ मतिभ्रमात् // 17 // श्रुत्वा वासवदत्तेन, प्रोचे सचिवदर्पतः / विषोपमा गिरं वक्षि, किं कार्यस्य विनाशिनीम् // 18 // क्रुद्धेन मन्त्रिणाऽभाणि, मया कि रे ! द्विजाधम ! | वृथा विवदसे सयो, हन्ताऽस्म्याजीविकां तव // 19 // गतेऽय सचिवेऽषि, दत्वा पाभृतमञ्जसा / राज्ञाऽग्निमित्रस्तत्पल्याः , प्रदायाऽऽजीविकां भृशम् // 20 // चलिते नगरात् पत्यौ, कान्ता विरहकातरा / मातरं प्राह भर्ता मे, प्रेषितः क्वाऽपि दूरतः // 21 // मानसे यमाना सा, जगौ माणमियं प्रति / जामाता महितः किं भो, दुहितुर्दुःखकारणम् // 22 // * * *
Page #141
--------------------------------------------------------------------------
________________ सप्तदशमोऽ भविष्यवच चरित्रम 129 पुत्राभ्यां जननी प्रेम्णाऽऽलापिता किं नु खिधसे / राजकार्य न चेत्कार्य, तदा स्याद् वृत्तिसंशयः॥२३॥ नृपोऽन्यदा सभासीनस्तं पप्रच्छ द्विजानिमम् / नाऽधाऽप्युपेयिवाननिमित्रस्तद् अहि कारणम् // 24 // किं तेन पाभृतं राज्ञा, स्वीकृतं नैव देवतः। किमन्तरेऽस्य चौरादि-सम्भवोऽभूत्पराभवः // 25 // दुर्वाक्येन स्वरज्ञानात्सभायां कथितं तदा / दिनत्रयेण सोऽभ्येता, प्रतिमाभृतसंयुतः // 26 // अवोचत्सचिवस्तत्र, नाऽस्य शीघ्रं समागमः / माइते कुशलं नास्ति, विनाश्यैतदुपेष्यति // 27 // प्रत्युवाच द्विजसुतः, सचिवा भवतां मतिः / राजकार्ये दृढतरा, न तु शास्त्रविमर्शने // 28 // तेनोक्तं किं वृथा जलपै-यययं नाऽऽगमिष्यति / दिनत्रयेण त्वरया, वृत्ति या तदा तव // 29 // एवं रोषातयोदे, निषिद्धेऽपि महीभुजा / प्रष्टव्योऽत्र परः कश्चित्सद्यो निर्णयसाधनम् // 30 // इत्याऽऽदेशाद्यक्षचैत्ये, मन्त्री विमाऽजश्च सः। जम्मतुस्तं प्रणम्यैवमूचतुरचिताञ्जली // 31 // यक्षेशाऽऽख्याहि नः पाहि, राज्ञः प्रश्नस्य निर्गयम् / तेनाऽपि यद् यथावृत्तं, सत्यमूवे सुधाशिना // 32 // अग्निमित्रेण तत्सर्व,धनं निधनमर्पितम् / अविनीततया धुत-वेश्यायाऽऽसक्तचेतसा // 33 // शिदिनैरिहाऽऽगन्ता, स दुर्गतपरिग्रहः / इति यक्षगिरा मन्त्री जहर्षाऽन्यस्तथाऽशुचत् // 34 // राजपार्चे समभ्येत्य, मन्त्री तूष्णीं स भेजिवान् / आगमिष्यति मासेनेत्यनुवाद द्विजो जगौ // 35 // मत्वा द्विजाशयं मन्द-कथनादवनीपकः / पपच्छ सचिवं तेनाऽभिहितं तद् यथोदितम् // 36 //
Page #142
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 130 सप्तदशमोड धिकार त्रिंशत्तमदिने प्राप्तो, निस्तेजा निर्द्धनः पुनः / अमिमित्रो राजपार्थे, त्रपया नाऽऽययौ भयात् // 37 // भूपेनाऽपि तमाऽऽकर्ण्य, प्राप्तं निर्द्धनरूपतः / मन्त्रिणा प्रेर्यमाणेनाऽऽहूतः करभटैस्ततः // 38 // . कुटुम्बे निर्विलम्बेन, द्विजस्य व्याकुले तदा / सुवाक्यो नृपतेः पार्थ, गत्वा सत्वरमभ्यधात् // 39 // मार्ग स लुष्टितश्चौरैस्त्रपया नैति संसदि / अस्याऽपराधो यदि वा, क्षन्तव्योऽस्मत्समीक्षणात् // 40 // इति दुर्वचनात्तस्य, कोपविस्फरिवाधरः। भूपोऽनिमित्रं कारायामक्षिपद दृढबन्धनम् // 41 // 'पिक्चक्रे वासवं गेहाद्विनिःसार्य द्विजब्रुवम् / भूपः परिजनं तस्य, पश्यन् भीत्या चलाचलम् // 42 // राजाऽपमानतः पाप, दुर्वाक्यो यक्षमन्दिरम् / तत्राऽऽत्मघातं कुर्वाण, कोऽप्याख्यन्मुनिपुङ्गवः // 43 // नियमाणोऽपि निर्वेदात, दुःखपारं न यास्यसि / ईहसे चेत्सुखं भद्र ! तदा धर्ममिहाऽर्जय // 44 // यतः-भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयम् / माने म्लानिभयं, जये रिपुभयं वंशे कुयोषिद्भयं / / दास्ये स्वामिभयं, गुणे खलभयं देहे कृतान्ताद्भयं / सबै नाम भयं सखे ! भज ततो वैराग्यमेवाऽभयम् // 45 // तद्वाक्यात्तेन विप्रेण, दीक्षा जैनी समाददे / क्रमाद्विशुद्धचारित्रः, स सौधर्मे सुरोऽभवत् // 46 // मुकेशाऽपि विरज्याऽऽशु, संसाराऽसारचिन्तया / प्रवज्य संयमाचारान् , निरतीचारमादधे // 47 // आलोचितपतिक्रान्ता प्रान्ताऽनशनभाविता / सौधर्मेऽभूत्सुरो मृत्वा, श्रीसुरप्रभसंज्ञया // 48 // सोमप्रभाख्यो दुर्वाक्यः, मुरः प्राग्भवसंगतैः / मैत्रीपात्रं बभूवाऽस्य, सर्वत्र सहचारतः॥४९॥ 1 वासवदत्तो राजा बन्दीकृतः इति भावार्थः ROORKEE
Page #143
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 131 सप्तदशमोड * सागरद्वितयायुष्कः, सुरः सोमप्रभः स्फुरन् / ततश्यत्वा मनोवेगः खेचरेन्द्रो बभूविवान् // 50 // मुकेशया मागजनन्या, सेवितोऽयं भवान्तरे। 'मुनिः संयमरत्नाख्यस्तं पृष्ट्वाऽत्राऽऽगतोऽस्त्ययम् // 51 // सोऽपि सुरप्रभो भावी, सुप्रभस्तव नन्दनः / मातुर्दोहदमापूरि, तत्सम्बन्धात् खगामिना // 52 // वृत्तान्तमेवमाऽऽकर्ण्य, भविष्यो भूपुरन्दरः / सुवाक्यस्याऽपि मित्रस्य, पुनः प्रपच्छ तं भवान् // 53 // सुवाक्यो दुःखसंतप्तो, मृत्वाऽऽर्तध्यानतस्तदा / भ्रान्त्वा भवान् मेरुपाचे, जातोऽस्त्यजगरो महान् // 54 // ततो वासवदत्तेन, कतिचिदिवसात्यये / विज्ञप्तश्चरयोगेन, काम्पील्यनगराधिपः // 55 // स्वामिन् कृताऽपराधान्नः, सत्वरं मुश्च गुप्तितः / न चेन्मारय दन्तीन्द्रदन्ताघातेन कोपतः // 56 // तद्विज्ञप्ति प्रपद्याऽभूत, प्रसन्नः क्षितिवासवः / मोचयामास कारायाः, प्राग्वत् सन्मानतोऽय तम् [तौ // 57 // अनिमित्रेण संचिन्त्य, स्वात्मानं क्लेशकारणम् / समर्पणा मियाऽऽलापि मियालापेन तत्क्षणम् // 58 // क्षमस्व कान्ते ! कान्तेन, मया सन्तापिता चिरम् / समं परिजनेन त्वं, यास्याम्यहमतस्ततः // 59 // क्षरदश्रुमुखी पोचे, सुमुखी प्रेमनिर्भरात् / हा विदेशाचिरं प्राप्तो, राज्ञा गुप्तौ प्रवेशितः // 6 // दैवात्ततो विमोक्षेऽपि, पुनर्विरहमीहसे / नाथ ! किं करुणा नास्ति, वरुणों त्यजतस्तव // 61 // क्षणमात्र न मुञ्चामि, स्वामिस्त्वां दूरतोऽधुना / ततोऽग्निमित्रस्वत् प्रीति, निश्चिकाय स्वचेतसा // 2 // दम्पतीभ्यां तदाहनाय वढ्नौ प्रविश्य सत्वरं / स्वतनुर्भस्मसाच्चक्रे, पुरः पश्यति नागरे // 63 // 1 मुनियुग्ममध्ये धर्मकथकादन्यो मुनिः संयमरलारूयः, स्वप्राग्भवेऽपि स मुनिः मुनिस्वेनैव जातः तत्र सुकेशया पूजितः इत्यथों घटामश्चति. * *
Page #144
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम सप्तदशमो | चिकाट जातं पक्षियुगं क्वापि, बने पशुयुगं ततः / अन्योऽन्यप्रणयाधानान्न मास विरहं ततः॥ 64 // भ्रांत्वा बहुभवान् जज्ञे, माणिभद्रः स यक्षराट् / अग्निमित्रस्य जीवोऽयं, विमानेनोपकारकः / / 65 // कालान्तरे त्रिवेदा सा, ज्योतिष्कत्वमुपेयुषी / रोहिणी भाविनी च्युत्वा, सुतारा दुहिता तव / / 66 // वृत्तान्तमेतमाकर्ण्य, भूकान्तस्तो मुनी पुनः / वन्दित्वा राजसौवेगात, राजसौचित्यतत्परः राजकार्यषु तत्परः] // 67 // स्थित्वा तत्रैव कतिचिन्मासान् खेचरसंयुतः / धनं रत्नसुवर्णादि, समादायाऽचलन्नृपः // 68 // तथैवाऽऽरुख जायाभ्यां, विमनं मानवाधिपः / सख्या खे खेचरेन्द्रेण, चिनिन्ये हस्तिनापुरे // 69 // ततः प्रमुदितो लोकः, प्रवेशोत्सवमातनोत् / राज्ञाऽभ्यागमनेनाऽयं, नन्दितः पौरवन्दितः॥ 70 // प्रविश्य नगरे पौर-मणिमुक्ताफलादिना / वद्धितश्चारुसामन्तैर्युतोऽयं राज्यमाश्रयत् // 71 // सन्मान्य खेचरेन्द्रं तं, मनोवेग विभूषणैः। संप्रेषयत प्रियालापैस्तं स्वराज्यकृते कृती॥ 72 // सा भविष्यानुरूपाऽपि, प्रास्त चतुरः सुतान् / क्रमेण विक्रमेणाचान्, दिकपालानिव तेजसा // 73 // सुप्रभः कनकज्योतिस्ततः सुरनम.हयः / सोमप्रभो ह्यमी सर्वे, रेजुर्भुवि महौजसः // 74 // पुत्र्यौ तारा-मुताराख्ये, राश्याः तस्याः बभूवतुः / धरणेन्द्रः सुमित्रायास्तनयो नयवानभूत् / / 75 // ऋषिविमलबुद्धयाख्यस्तत्रोधाने समाययो / अन्यदा संसदा युक्तः, क्ष्मापोऽगाद्वन्दितुं मुनिम् // 76 // गुरुभक्त्या स्वजायाभ्यां, पितृभ्यां नन्दनैः समम् / भविष्ये चलिते नन्तुं, ज्ञापितं भूपतेरपि // 77 //
Page #145
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 133 सप्तदशमोऽ धिकारः भूपालः प्रियमुन्दर्या, सह सौत्सवमभ्यमात् / ततः श्रृङ्गारणात् पुर्वाः, स्वर्लोकः किमवातरत् // 78 // पश्चाऽभिगमरीत्याऽय, ववन्दे पृथिवीभुना / श्रमणः स्वर्मणिः स्वेष्टः, तपस्तेजोदिवामणिः // 79 // चन्दनाऽगुरु-कस्तूरी, कपुरकुङ्कुमद्रवैः / सौवर्णमणिमुक्ताधैरजपूजाऽस्य निर्ममे // 8 // तयैव सर्वसामन्तैर्वन्दितो मुनिपुङ्गवः / मारेमे देशनां वाक्यैः, पेशलैः कुशलागमः / / 81 // यतः मानुषं भवमवाप्य दक्षिणावर्त्तशतबदमुं भवाम्बुधौ / पूरयेत् सुकृतगंगवारिणा पात्तिसुरपा न चोत्तमः // 82 // भविष्यः शिष्यवत् श्रुत्वा, विनयी चिन्मयीभवन् / पप्रच्छ देशनापूर्ती, मुखे वस्त्राश्चलं दधत् // 83 // स्वामिन् मागजन्म विहित-कर्मणा केन शैशवे / पित्रा दूरीकृतो भ्रात्रा-मुक्तोऽपि कानने // 84 // तत्राऽपि कामिनीयोगस्तिलकद्वीफ्नाथता / पुनर्वियोगः कान्तायाः, राज्याप्तिः कुरुजाले // 85 // इति पृष्टः स्पष्टं, मुनिपतिरवाऽऽचष्ट नृपते ।न भान्यं वैक्लव्यं व्यसनशतयोगेऽपि मुधिया / न चाऽऽनन्दः संपत्परिजनमहाराज्यविभव-र्भवेयुः सर्वेऽमी दुस्तिमुकृतौन्नत्यवशतः // 86 // . इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते सप्तदशमाऽधिकारः।
Page #146
--------------------------------------------------------------------------
________________ भविष्यदरचरित्रम 134 अष्टादशमो विकारः अथ भविष्यदत्चरित्रे अष्टादशमोऽधिकारः श्रादपि जडादिन्दोरायुःस्थानाऽऽश्रयादिना, / महत्वं सेवया यस्य, देयादेष महोदयम् // 1 // अथाऽस्य संशयध्वान्तं, पराकमहर्मणिः / विमलो विमलाबोधाद भूपपाग्भवमभ्यधात् // 2 // ऐरावतक्षेत्रमध्ये, नगरेऽरिभयंकरे / मरुदेवो महीनेता, जेता दिग्वलयस्य सः॥३॥ स्वमेऽपि दर्शनादस्य, प्रणश्यन् गिरिकन्दरे / सम्भ्रान्तकान्तातनयो, दुर्ग वर्गो द्विषां जहौ // 4 // पत्नी यत्नवती शीले, निस्सपला स्वरूपतः / स्त्रीरत्नमिव सौन्दर्यात्तस्याऽभूद्रलमञ्जरी // 5 // बज्रोदरः परं बुद्धया, सोदरस्तत्र गोष्पतेः / मन्त्री मुलक्षणा तस्य, मियाऽभूत कमलेक्षणा // 6 // तयोर्मतिमती कीचिरिव स्फूर्ति वितन्वती / दुहिता कीर्तिसेनाऽसीद्राशीकृतगुणान्विता // 7 // पतिस्तस्याः शठो देव-दत्त उन्मत्तधीभृशम् / धुतादपुनात्कृतार्तचौर्यकार्ये धियं दधौ // 8 // भमन् भूतात्तवत पुर्या, नायाँ मेने रति न सः। वेश्यासु द्रव्यवश्याम, रिरंसुः पशुसन्निभः // 9 // छलेनाऽलंकृति तस्याश्चौर्येणाऽऽदाय स जवात् / धुतेनाऽगमयत्सर्व, व्यसनी भृशनीरसः // 10 // ततः सचीवपुत्री सा, भर्नुरूप्यदृषिता / भूषिताऽपि वरैर्वस्वाऽलङ्कारीघयत // 11 // अहो माग्जन्मसंबद्ध-दुरितस्य विजृम्भणम् / रूपे धने यौवने मे,पत्युश्चेष्टितमीदृशम् // 12 //
Page #147
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 135 अष्टादशमोऽ धिकारः अरज्यमाना राज्येऽपि, माज्ये विभवसामे / साऽन्यदा दुःखदग्धाऽगाद्विदग्धा तापसाश्रमम् // 13 // वैराग्यं भावयन्ती सा, कौशिकं तापसाऽधिपम् / उपासितुं प्रतिपातर्ययौ तत्र ससम्भ्रमा // 14 // इतश्च नगरे तस्मिन् , धनदत्तो धनी वणिग् / धनलक्ष्मीः प्रिया तस्य, धनमित्रस्तयोः सुतः // 15 // रूपवान् पुण्यलावण्यस्तारुण्याज्जनरञ्जनः / कौशिकस्थानमाऽऽयाति, स मायातिशयाशयः॥ 16 // तं दृष्ट्वा लोचनानंदमाऽऽललापाऽजलोचना / रोचनान्मनसः स्वीयं, प्राणेशमिव सुन्दरम् // 17 // दूरपोहाऽस्य मोहेन, मदनोन्मादसादरा / कटाक्षर्वीक्ष्यमाणाऽसौ, सौभाग्यं पोदचीकटत् // 18 // गवागतैर्वनस्यान्तश्चकमे सुरतोत्सवम् / समं तेन भुवोर्भ्रान्त्या, ज्ञापयन्ती निजाशयम् // 20 // परं परिजनश्रेण्या, वेष्टिता स्मरचेष्टिता / न क्वाऽप्यवसर प्राप, वक्तुं तेन समं हि सा // 21 // स्मरावेशात्कृतोदेशात्तदाऽऽलापाय मन्त्रिजा / धनमित्रगृहे गत्वा, तत्पल्या सख्यमाऽतनोत् // 22 // कुर्वती कारयन्ती वा, रागाचिकुरबन्धनम् / प्रीत्यालापैमिथस्तत्रागमयत्साऽखिलं दिनम् // 23 // पत्युगमागममश्चैस्तत्संमुखनिरीक्षणैः / धनमित्रवधूस्तस्या, विवेद मदनव्यथाम् // 24 // पप्रच्छ निनिमित्तं किं, खिद्यसे सखि ! विद्यते / विलक्षहेतुता केन, जम्भारम्भाङ्गमोटनैः // 25 // वलयानि भुजे कार्यात्, रणकुर्वन्ति सम्मति / कस्याऽपि कण्ठाऽऽश्लेषेण, किं तद्वारणमीहसे // 26 // निश्वासपवनान् शुष्यन्मुखानं स्फुटिताऽधरम् / चुम्बनेनाविलम्भेन, कस्याऽप्याई चिकीर्षसि // 27 //
Page #148
--------------------------------------------------------------------------
________________ मविष्यदरचरित्रम 136 अष्टादशमोड विकारः नितम्ब ताडयन्नेष वेणिदण्टः योऽभवत / एतदाककर्तः किं भर्तः कस्याऽप्यनस्पतेः // 28 // लक्षणैस्त्वामहं वेथि, कामशास्त्रविचक्षणे! / मृगेक्षणेऽ नुरागेण, कस्यापि मदनातुराम् // 29 // व्यसनो तत्पतिधूर्तस्तमुद्दिश्येशी दशा / न सम्भाव्या ततः श्राव्या, वयस्सेऽहं मनोगतिः // 30 // इत्यागृह्य तया पृष्टा, मन्त्रीपुत्री तदाभ्यधाव / अमर्षे सखि ! मा कार्षीः, प्रादुष्कर्वेऽहमाशयम् // 31 // तव भर्ता मयाऽवैक्षि, साक्षाद्रण मन्मथः / ततः प्रभृति मे चित्तं, तत्रैव रमतेऽनिशम् // 32 // गुणमाला विहस्योचे, जातं तत्सुन्दरं सखि ! / एकतस्त्वं मयि स्निग्धा, प्राणादऽप्यतिशायिनी // 33 // अन्यन्मम प्रिये जाता, निविभागानुरागभृत् / रमस्व स्वेच्छया तेन, नाऽन्तरायो मनागपि // 34 // किन्तु वच्मि पुराधीशमन्त्रिणस्तनया का / सामान्य वणिजः पुत्रो, नाऽहं त्वत्तः प्रियेशितुः // 35 // स्मणेन समं सख्या, रमणे सुरतोत्सवैः / क्यास्याम्यहमित्येष, वितर्कः कर्कशायते / / 36 // तद्वाचामुच्यदुर्भाव, तामूचे मन्त्रिणः सुता / किमीशं वृथा धत्से, दुचरित्र विकल्पनम् // 37 // विशुद्धकुलजातायाः पुरः प्राधान्यमीयुषः / तनयाया न मे युक्तः, कलङ्कः शीलखण्डनात् // 38 // यतः-वरं शोतुझादगुरुशिखरिणः क्वाऽपि विष / पतित्वाऽयं कायः कठिनहपदन्तर्विदलितः॥ वरं न्यस्तो हस्तः फणिपति मुखे तीक्ष्णदशने / बरं वहनौ पातस्तदपि न कृतः शीलविलयः॥ 39 // परं रूपं त्वदीशस्य, मया वीक्ष्य प्रशस्यते / सद्गुणे वस्तुनि पार्वियस्ये ! कस्य नोभवेत् // 40 // XXXXCCCCAREECEBOOK
Page #149
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 137 मष्टादशमोड विकार यो यः समीक्ष्यते लोके, सुभगः सुन्दरः पुमान् / किं तेन सुरतं कृत्वा, शीलं क्वापि प्रमीलयेत् // 41 // यद्ययं त्वत्पतिश्चित्ते, सुन्दरः प्रतिभाति मे / भ्राताऽस्तीति विनिश्चित्याऽऽगच्छाम्यत्र दिदृक्षया // 42 // सखि ! मत्कर्मणा कान्तः, प्राप्तश्चेद व्यसनीदृशः / पर्याप्त विषयैर्मेऽस्मिन्, भवे भवनिवन्धनैः // 43 // तयेत्युक्त्वा गुणमाला, प्रीणिताऽन्योऽन्यवार्तया / निस्सन्देहं दधौ स्नेहमनेहसि महत्यपि // 44 // ददाति सुदती तस्यै, धनं प्रणयसाधनम् / प्रत्याददाना तद्दत्तं, चित्तमावर्जयत्तराम् // 45 // पुत्र्या तौ दम्पती मुख्य-सख्यपात्रं ममेति सः / ज्ञापितः सचिवस्तातस्तयोस्सत्कारमातनोत् // 46 // धनभित्रः पुरश्रेष्ठि-पदे तेन निवेशितः। अवर्द्धत चिरं स्नेहस्तदेवं श्रेष्ठिमन्त्रिणोः / / 47 // ममेयं धर्मभगिनीत्यामाणि माणवत्मिया / मन्त्रिपुत्री धनमित्रो, धर्मभ्रातेति वाऽनया // 48 // समृद्धिभाजावन्योऽन्य, तावेकगुरुशिक्षितौ / अस्थाता कौशिकस्थाने, मिथ्यानियमशालिनौ // 49 // अन्येपुर्नन्दिमित्रेण, नन्दिवर्द्धनसूनुना / धनमित्रस्य संजज्ञे, मैत्री विचित्रभाषणैः // 50 // नन्दिमित्रो जिनमते, रमते धीरसम्मते / व्यवसायार्थमायाति, श्रेष्ठिनः सदने सदा // 51 // वस्तुनः सारनिस्सार-भावं सम्यक् परीक्षिते / न्यायाऽन्यायविधिज्ञाने, नन्दिमित्रः पटूभवन् / / 52 / / दुर्णयाद्वारयन् श्रेष्ठि-पुङ्गवं कारयन्नयम् / विनयादल्लभो जज्ञे, दुर्लभस्तादृशः सताम् // 53 // पूज्यत्वात् श्रेष्ठिनः कीर्ति-सेनायाः कौशिकः पुरे / महिमानं भृशं लेभे, गताऽनुगमनाजनात् // 54 //
Page #150
--------------------------------------------------------------------------
________________ अष्टादशमोज भविष्यदत्त चरित्रम 138 मिथ्याभावं प्रतिपदे, तद्वाक्यान्नागरोऽखिलः / तस्याऽनुशासनं भूपः, प्रशशंस मुहर्मुहुः॥ 55 // समाधिगुप्तस्तत्राऽऽगादन्यदा मुनिनायकः / जिनोक्ततत्त्वश्रद्धानं, दधानः स धियां निधिः // 56 // वजोदरस्तं निनसुर्ययौ परिजनैः सह / गीतार्थ मुनिसार्थेन, समेतं शुद्धचेतसा // 57 // तदुक्तियुक्तिश्रवणात, अशंसयमहाशयः / मन्त्री नृपतिमानिन्ये, ज्ञानोद्दीपनहेतवे // 58 // तद्द्वात्वा परिवारेण, समं पौरजनः पुरः / धृतालङ्कारविस्तारः, समागाद गुरुसंनिधौ // 59 // साधुना देशनाऽऽरब्धा, जीवाः क्लीबाः कथं जने / निरंजने धर्मविधौ, विधूतकलुषबजे // 6 // यतो नैषधीयकाव्येभगुरं न वितयं न कथं जीवलोकमवलोकयसीमम / येन धर्मयशसी परिहा, धीरहो चलति धीर : तवाऽपि // 61 // असारे संसारे कथमपि समासाद्य नृभवं / न धर्म यः कुर्याद्विषयमुखतृष्णातरलितः। ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं / स मुख्यो मूर्खाणामुपलमुपलब्धं प्रयतते // 62 // सर्वजीवहितं धर्म, विवेकी विदधीत यः। अपारभवपाथोधि, स बोधिवहनात्तरेत् // 63 // एकवा श्रीजिनेन्द्राणामाज्ञया धर्ममाचरेत् / द्विधा सागारसंयोगाऽनगाराऽऽचरणादमुम् // 64 // त्रिधा ज्ञानदर्शनाद्वा, चारित्राराधनादयम् / चतुर्धा दानशीलाप्ति-तपोभावनकर्मभिः // 65 // पञ्चधा धर्मसंसर्गः, स्वर्गदायी व्रतादरात् / षोढा षट्कायरक्षाभिः, सप्तधाऽर्थविचिन्तनात् // 66 //
Page #151
--------------------------------------------------------------------------
________________ भविश्यदत्तचरित्रम् 139 धिकार अष्टाधाऽयं प्रवचन-मातृकाप्रतिपालनात् / नवधा तत्त्ववार्ताभिर्दशधा यतिधर्मतः // 67 // अष्टादशमोऽ एवं सविस्तरं धर्ममाख्याय विरते मुनौ / लोकः सर्वश्चमत्कृत्य, चित्तवित्तं [तस्य ज्ञानं ] हि तुष्टुवे // 68 // क्वाऽयं ज्ञानार्णवः साधु-धुरीविस्मितामरः / कामरक्तः क्व कौशिकस्तापसोऽल्पज्ञानवित् // 69 // यावन्नतन्मुखाद्वाचः काचपिच्यविभोदिनीः / न श्रुता विश्रुतास्तावत्, प्रियाः, स्युः कौशिकोक्तयः॥ 70 // चाकचिक्यप्रतिभासस्तावत्कौशिकदर्शने / जगन्मित्रस्य नो यावद्गवामभ्युदये श्रियः // 71 // मुनेर्वा कौशिकस्याऽत्र, धर्मयोः कियदन्तरम् / इति भूमिभुजाऽऽदिष्टे, मन्त्री वज्रोदरोऽभ्यधात् // 72 // प्रशस्यः श्रीजिनेशस्य, धर्मः कर्मनिकृन्तनात् / दया सहृदया धेया, यस्मिन्नुदयकारिणी॥ 73 // कौशिकस्तापसः पाप-सन्तापादमिदेहिनाम् [रजिनाम] / रुद्रानुशासनान्नृणाम्, विनेता नरकान्तरे // 74 // एकैकधर्माऽवयवात, परे धर्माः व्यवस्थिताः / सर्वैरवयवैः पूर्णे, जिनधर्मे क्व विस्मयः // 75 // . इति सचिववचोभिः क्षोभितः पास्तशङ्कः। क्षितिपतिरतिरागाज्जैनधम दृढोऽभूत् // ... तमसि मुदितचित्त, कौशिकं चाऽवमत्य / सकलनगरलोकः, प्राविशद्धामशुद्धम् // 76 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते अष्टादशमोऽधिकारः /
Page #152
--------------------------------------------------------------------------
________________ नवदशमोड विकार भविष्यदत्तचरित्रम् 140 अथ भविष्यदत्तचरित्रे नवदशमोऽधिकारः विलोक्य नरबोषेण, [नरबाह्यण] मुस्थितान् शशिनोऽपरान् / यत्पादान्जेऽवसञ्चन्द्रः, स देवः स्पष्टसंपदे // 1 // श्रेष्ठी स कीर्तिसेना च, दयाधर्म वितेनतुः / तथापि मा परिचयाज्जग्मतुः कोशिकालयम् // 2 // कौशिकस्यापि तस्याऽसीत्तयोरुपरि मानसः / स्नेहस्तत्राऽऽश्रमे नित्य, क्रीडतोः स्पर्शदर्शनैः॥३॥ अन्यदा क्रीडनाऽऽसक्त्या, विकाले कीर्तिसेनया / नन्दिमित्रं जगौ श्रेष्ठी, साम्पतं याहि मद्गृहे // 4 // गवेषयन्ती मन्मार्ग, गुणमालां नितम्बिनीम् / निवेदय कियत्कालं, श्रेष्टयास्ते कौशिकाश्रमे // 5 // नन्दिपुत्रः प्रत्युवाच, पीत्या विहसिताननः / भ्रातः ! मातः समेष्यामि, स्वयमेव गृहे तव // 6 // न साम्प्रतं भवद्गेहे, गमनादौचिती मम / अस्तंगते जगत्कर्म-साक्षिण्येषा स्थितिः सताम् // 7 // निशाचराणां सञ्चारैमित्रनाशे छुपस्थिते / नाऽन्यत्र स्वगृहादगम्यं, रम्यमेतज्जगाद तम् // 8 // [धनभित्रस्ततः क्षिप्रं, स्नेहमेदुरचेतसा / नन्दिभित्रं सतोऽवादीत माणेनाऽप्यधिक हि सः॥९॥ नयनानन्द! हे मित्र! मियालापैःमया सह / गमयन् दिवसं गेहे, मित्र रात्रौ न यासि किम् // 10 // किमन्तरं सुहद्धेत्सि, तव वा मम सबनि / परं मन्ये प्रणयिनीस्नेहादगन्तासि सत्वरम् // 11 // त्वयाऽऽजा लामीया न, तद्गुणैर्वदचेतसा / मादृशाः सुहृदस्त्याज्या, स्मरराज्यान्न ताः [स्मराढ्या न तु सा]पुनः॥१२॥ XXXXXXXXXXXXXXXXXXXXXXXXXX
Page #153
--------------------------------------------------------------------------
________________ भविष्यदन चरित्रम नवदशमोऽ धिकार भ्रातः! किं कुप्यसे मां, त्वद्गृहे रात्रिभोजनम् / सनातनं ततः स्थातुं, नाऽहतानां तदोचितम् // 13 // निवेदितेऽमुना चैवं, कारणे मित्रवत्सलः / श्रेष्ठी माह स्म को दोषो, विद्यते रात्रिभोजने // 14 // रात्रिभुक्तिकृतां, घूकमार्जारफणिनां भवाः / भवेयुर्नरकाध्वानः, प्रधानज्ञानवर्जिताः॥१५॥ अभक्ष्यमेतत्सर्वज्ञैः कथितं परमागमे / अभक्ष्यभक्षणाद दोषाः, प्रादुःषन्ति नृणां क्षणात् // 16 // पंचुवरि चउविगई हिमविसकरगेय सव्यमट्टीय / राईभोयणगं चिय, बहुबीयाणंतसंधाणम् // 17 // घोलवडा वायगण, अमुणिय नामाणि फुल्लफलयाणि / तुच्छफलं चलियरस, वजह वज्जाणि बावीसम् // 18 // मक्षिकाः चटकाः काकाः, कपोताधाः परेऽपि हि / तिर्यंचो निशि नादंति, मनुष्याणां तु का कथा // 19 // शेवशास्त्रेऽपि-सप्तग्रामेषु यत्पापमग्निना भस्मसात्कृते / तदेव जायते पापं, मधुबिन्दुमभक्षणात् // 20 // सद्यो मांसे मधुनि च, म्रक्षणे तक्रवजिते / उत्पद्यन्ते विलीयन्ते, सुमूक्ष्मा जन्तुराशयः // 21 // यस्तु वृन्ताककालिङ्ग-मूलकानां च भक्षकः / अन्तकाले स मूढात्मा, न स्मरिष्यति मां प्रिये ! // 22 // नोदकमपि पातव्यं, रात्रावत्र युधिष्ठिर! / तपस्विना विशेषण, गृहिणा च विवेकिना // 23 // मृते स्वजनमात्रेऽपि, सूतकं जायते किल / अस्तंगते दिवानाथे, भोजनं क्रियते कथम् // 24 // रक्तीभवन्ति तोयानि, अन्नानि पिशितानि वै / रात्रौ भोजनसक्तस्य, ग्रासे तन्मांसभक्षणम् // 15 // मेधां पिपीलिका हन्ति, युका कुर्याजलोदरम् / मक्षिका वमनं कुर्याचालुवेधं च वृश्चिकः // 26 // 141
Page #154
--------------------------------------------------------------------------
________________ भविष्यदचचरित्रम 142 नवदशमोऽ धिकार गलन्ति नियमाः सर्वे, रात्रिभोजनकारिणाम / दीपोद्योते पतङ्गादेः, प्रत्यक्षं घातपातकात् // 27 // धृत्वा धान्यभृतं स्थालं, वाससाण तत्क्षणम् / आच्छाद्यते तदा जीव-हिंसा ज्ञेया निशासने // 28 // शपथानपरान् कुर्वन, ग्रामघातादिकान् बहून् / श्रूयते लक्ष्मणो नैव, स्वीकृतो वनमालया // 29 // रात्रिभोजनपापेन, लिम्पेयमिति जल्पतः। प्रत्ययो लक्ष्मणस्याऽसीत्तस्या वश्यात्मनः पुनः // 30 // तदेवं कथनान्नन्दिमित्रस्य श्रेष्ठिपुङ्गवः / प्रत्याचष्टे स्म भूपाद्या, भुञ्जते निशि तत्कथम् // 31 // पापासक्ताः स्वतो जीवा, धर्मस्तु वचनाद्गुरोः / नापेक्षा तमसः क्वाऽपि, दीपः स्नेहादियत्नतः // 32 // सुधिया नन्दिमित्रेण, दृष्टान्तं वदतेत्यमुम् / श्रेष्ठी प्रबोधितश्चक्रे, विरतिं रात्रिभोजनात् // 33 क्रमेण सुहृदा तेन, वदता धर्मलक्षणम् / धनमित्रो दृढीचक्रे, जैनधर्मे विशुद्धधीः // 34 // स्नेहात्तद्धर्मकार्याणि, कीर्तिसेनाऽप्यवर्णयत् / कारयन्ती परैरर्हत्पूजां दत्वा निजं धनम् // 35 // श्रेष्ठिनो व्रतदानादौ, श्रद्धा सा दधती हृदि / अकुर्वती स्वयं मन्त्रि-पुत्री लोकान्नुनोद सा // 36 // मार्गानुसारिणी भद्रा-प्रकृतिर्मन्त्रिणः सुता / श्रेष्ठिना सह यात्येव, तथापि कौशिकाश्रमम् // 37 // क्रमेण कौशिको लोकै-निंद्यमानः पदे पदे / परीक्षां धार्मिकी मत्वा, तेन राज्ञाऽपि धिक्कृतः॥ 38 // मन्त्रिणाऽनेन मेऽवज्ञा, कारिता निखिले पुरे / इति क्रोधानुरोधेन, निदानं तपसो व्यधात् // 39 // यद्येतत्तपसः किश्चित्फलं परभवे भवेत् / एतन्नाशाय भूयासं, शक्तः सुव्यक्तमत्सरः // 40 // 142
Page #155
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 143 नवदशमोऽ धिकार ध्यायन्नेवं हृदि क्रुद्धो, मृत्वा कौशिकतापसः / असुरोऽभूद्विनोदाय, तिलकद्वीपमाश्रितम् // 41 // वज्रोदरो महामन्त्री, बलैर्भूमि चलाचलम् / कुर्वन् बलादिषु हन्तुं, दधावे दुर्गभूमिषु // 42 // कुत्राऽपि विषमे स्थाने, युद्धारम्भेषु दुर्द्धरे / निनन् रिपुन् हतोऽमात्यः, पाश्चात्यरिपुसैनिकैः // 43 // तत् श्रुत्वा वज्रसम्पात-कल्पां वज्रोदरच्युतिम् / राजा निर्व्याजतः सर्व, तत्याज राजचेष्टितम् // 44 // शोकाकुलतया किश्चिदजल्पन् स व्यकल्पयत् / हा ! देव कुपितः किं मे, यन्मन्त्री स ममाऽऽहूतः॥ 45 // स्मार स्मारं गुणांस्तस्य, विललाप प्रजापतिः / हा ! मन्त्रिन् ! क्व नु सम्पाप्तो, गुरुधर्मोपदेशनात् // 46 // मन्त्रिगेहेऽपि तत्पत्नी, चक्रन्द करुणस्वरैः। कीर्तिसेनाऽतुच्छमूर्छा--बलाद्भूमौ लुलोठ हा ! // 47 // पौराः ससंभ्रमाः शोकादूरालोकाऽश्रुपाततः / अन्तर्दाहान्निरुत्साहा, हाहारावं वितेनिरे // 48 // धनमित्रस्ततः श्रेष्ठी, विहस्तस्त्रस्तमानसः / सर्व परिलनं वाचा, बोधयामास तद्गृहे // 49 // किं वृथा शोचनैरेभिर्वश्यो देवस्य नास्ति कः / उदयेऽनुदये वैकः, स एव शरणं नृणाम् // 50 // चन्दनै तलतिः , कीर्तिसेनामुपाचरत् / श्रेष्ठी मृच्छाऽपसारे सा, विललाप मुहुर्मुहुः // 51 // . हे भ्रातस्तातमरणे, शरणेन विवर्जिता / किमहं भाविनी दैवान्नैवाऽऽलम्बनमस्ति मे // 52 // हसितं ललितं गीतं, जल्पितं स्वजनैः समम् / ताते जीवति यज्जातं, तदभूत्स्वमसन्निभम् // 53 // प्रमृज्य लोचने श्रेष्ठी, स्वसारं पाह सारधीः / सन्तः सर्वोपकाराय, जायन्ते तादृशाः स्वसः॥५४॥ 143
Page #156
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम नवदशमोऽ धिकारः 144 परजन्मनि तेषां स्युस्तादृशा एव वैभवाः / स्वार्थबुदया भृशं लोकः, सशोकैः किं विधीयते // 55 // यतः-अनित्यानि शरीराणि, विभवो नैव शाश्वतः। नित्यं संनिहितो मृत्युः, कर्तव्यो धर्मसङ्ग्रहः // 56 // आश्वास्य वचनैरेवं, श्रेष्ठिनामात्यनन्दिनी / पट्टकता जनन्याऽपि, स्थापिता निजसंनिधौ // 57 // दिनैः कतिपयैः राज्ञा, दत्वा तस्मै जलांजलिम् / मन्त्रिवन्मन्त्रिपुत्रस्य, चक्रे सत्कारणा भृशम् // 58 // वीतशोके नृपे लोकः, पारेभे समहोत्सवम् / व्यवसायमतिशुद्धाऽध्यवसायाद्यथोचितम् // 59 // वज्रोदरः स मृत्वाऽभूत्तिलकद्वीपभूपतिः / नाम्ना यशोधनो न्याय-शोधनो बहुशो धनैः // 60 // स श्रेष्ठी कीर्तिसेना च, प्रणयेन परस्परम् / नन्दिमित्रगिरा धर्म-निरतौ तौ बभूवतुः // 61 // नन्दिमित्रः क्रमाद्गेह, सत्यज्य श्रमणाऽन्तिके / कृताऽनशनकर्माऽगात्सुधर्मा स्वर्गमच्युतम् // 62 // नाम्ना विद्युत्मभः शक्र-सामानिकसुरेश्वरः / समभूद् भूरितेजोभिः, संशोभितदिगम्बरः // 63 // अन्तर्मुहूर्तेन युवा, सुरः स्वतनुभासुरः / समुत्तस्थौ स शय्यायाः, षोडशाभरणान्वितः // 64 // ज्ञात्वाऽवधिप्रयोगेण, नन्दिमित्रभवं निजम् / स्वाभियोगिकदेवेन, वपुः स्वं समपूपुजत् // 65 // इतश्च धनमित्रोऽपि, विभूतेः फललिप्सया / श्रीसाधर्मिकवात्सल्य, सङ्घभक्त्या व्यरीरचत् // 66 // धर्म प्रभावयन्नेवं, पुत्रपित्रोः प्रसन्नयोः / प्रबोधनेन जैनोक्त्या, पुण्यरागमजीजनत् // 67 // श्रेष्ठिमाता वितन्वन्ती, पात्रदान दिने दिने / किञ्चिज्जुगुप्सामकरोत्, तिनां मलधारणात् // 68 // 144
Page #157
--------------------------------------------------------------------------
________________ भविष्यदत्त चरित्रम 10) नवदशमोऽ धिकारः कतिचिदिवसान् यावत, सर्पत्कन्दर्पतेजसा / तारुण्ये श्रमणं दृष्ट्वा, जहासाऽऽकुंचिताऽऽनना // 69 // समाधिगुप्तमुनिना, जैनधर्मे स्थिरीकृता / धनलक्ष्मीरारराध, श्रुतपञ्चमिकाव्रतम् // 70 // तदुद्यापनकं कृत्वा, चैत्यभक्तिविधानतः / निजावतारं सा मेने, सफलं विभवैः सह // 71 // तत्सर्वमनुमोद्यैषा, कीर्तिसेना प्रसेदुषी / विदुषी चतुरालापैः, ररज श्रेष्ठिनो मनः॥ 72 // धनदत्तः क्रमादम, सम्यगाराध्य चेतसा / मृत्वाऽभूद्धस्तिनापुर्या, श्रेष्ठी धनपतिऔसौ / / 73 // धनलक्ष्मीः पुनर्मृत्वा, कमलश्रीरजायत / साधोर्जुगुप्सावशतः, पत्या निस्सारिता गृहात् / / 74 // धनमित्रः परं धर्म, भावयन् भद्रमानसः / क्वाऽप्युद्यानगतो विघुत्पातायातमवाप सः // 75 // पान्तेऽहद्भ्यो नमस्कार, स्मरन् माणान् जहाँ द्रुतम् / त्वमभूर्धनमित्रः स्वसुकृतैस्तैः पुराकृतः // 76 // पत्युम॒त्युमथाऽऽकर्ण्य, गुणमाला शुचाऽऽकुला / रोदयन्ती परिजनं, वितेने सम्भ्रमातुरम् // 77 // कीर्तिसेनाऽपि तद्वार्ता-श्रवणोद्भ्रान्तमानसा / विद्युत्पातं तु संजातं, मेने स्वस्यैव शीर्षके // 78 // क्षणेन प्राप्तचैतन्या, विललाप महास्वरैः / हा! भ्रातस्तव सद्धर्मरक्तस्य किमभूदिदम् / / 79 // मृते पितरि मे स्वान्तं, विश्रान्तं त्वयि सात्विके / तवाऽपि दैवरोषेण, पञ्चत्वे का गतिर्मम // 8 // सर्वपौरजनैस्तत्राऽभ्युपेत्य कृततक्रियः / सरस्थानीयते नार्यों, कारितेऽस्य जलांजलिम् // 81 // विश्व स्वजनमाऽपृच्छय, गुणमालाऽअहीद्वतम् / कीर्तिसेनाऽपि तद्दुःखाद्विजही माणवृत्तिकाम् / / 82 // 185
Page #158
--------------------------------------------------------------------------
________________ साधिकार भवदत्तमुतात्वेन, तिलकद्वीपमीयुषी / सा भविष्यानुरूपाऽभूभूपतेर्वल्लभा तव // 83 // भविष्यदत्त CO/नवदामोड चरित्रम कृताऽभिलाषा त्वयि सा, निर्मलं शीलसाहसम् / अपालयत ततः प्राप्ता, स्निग्धा विभवमीदशम् // 84 // 146 पाग्जन्मभर्चा यस्तस्या व्यसनी शठतामठः / स बन्धुदत्तः खलधीः, क्षुद्रछिद्रगवेषकः॥८५॥ / गुणमाला तपः कृत्वा, मृत्वा त्वय्यनुरागिणी। भूपाल पुत्री नाम्नाऽऽसीत्सुमित्र,ऽन्या तव पिया // 86 // तापसेन समं प्रीतिर्बभूव माग्भवे तव / तेनाऽसुरेण ते दत्तं, वित्तं बहुतरं नृप ! // 87 // तत्पूर्ववैरक्रुद्धनाऽसुरेण सकलो जनः / व्यापादितः स भूपालो, भुङ्क्ते कर्म न कः कृतम् // 88 // नन्दिमित्रसुरः पूर्व-मैत्रीपात्रं सुखायते / लिखित्वा वर्णपक्तिं स, चक्रे लामीमहोदयम् / / 89 // सातिचारतया मिथ्या--धर्मसंस्कारतः पुरा / धर्मऽप्येषां नरगतिर्वैमानिकभवोऽन्यथा // 9 // द्रव्यक्षेत्रकालभावैर्येन यत्कर्म या शम् / विहितं तादृशं तस्य, तथा दत्ते महाफलम् // 91 // इति श्रुत्वा तत्वाध्ययनचतुराचारविदुषो / गुरोर्वक्त्राभूपः परिजनयुतः माग निजभवम् / भविष्यश्चाऽन्विष्य प्रकृतिचपलां वैभवकला-मसारासंसारात्सपदि विररामाऽमलमतिः // 92 // / इतिश्रीभविष्यदत्तचरित्रेश्रुतपञ्चमीमाहात्म्यपवित्रेमहोपाध्यायश्रीमेघविजयगणिविरचितेएकोनविंशतिमोऽधिकारः
Page #159
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 147 विंशतितमो sधिकारः अथ भविष्यदत्तचरित्रे विंशतितमोऽधिकारः यस्य वाक्यमुधापाने, पात्रीभूय क्रमाम्बुजे / सुधारुचिर्यथार्थोऽभूत्स विभूत्यै जिनोऽष्टमः // 1 // निशम्य सम्यग् भूमीशः, भाग्भवं विस्मितो हृदि / चिन्तयामास धिग्मोह, येनाऽन्धीक्रियते जनः॥२॥ आराद्धा पञ्चमी मात्रा, पुत्रेणाऽप्यनुमोदिता / तत्पभावादियं राज्यलक्ष्मी, समुपस्थिता // 3 // भवेऽस्मिन् विभवेऽनित्ये, रज्यते सुधिया कथं / त्यज्यते सुविमृश्यैष, कष्टं बम्भज्यते तदा // 4 // विमृश्यैवं भविष्येण, भूपेनाऽभाणि सद्गुरुः / निमज्जन् मोहपाथोधौ, त्वयाऽधाऽहं समुधृतः // 5 // धन्यः स नन्दिमित्रो मे, सुहृत्याप्तसुरालयः / अकरिष्यं व्रतं तद्वन्नाऽमरिष्यं हि विद्युता // 6 // मुखैवैषयिकैस्तन्मे, पर्याप्तं श्रमणाऽधुना / देहि दीक्षां प्रसद्याऽद्य, संसाराऽर्णवतारणीम् // 7 // राज्यभारं निधाय स्वे, तनये नयशालिनि / परिग्रहं परित्यज्य, यावदायामि सत्वरम् // 8 // तावन्नेतो विहर्त्तव्यं, कृपां कृत्वा कृपालुना / इत्युक्त्वा सहसोत्तस्थौ, भविष्यभूपतिस्ततः // 9 // दीक्षां जिघृक्षु भूपालं, मत्वा सामन्तपुङ्गवैः / अन्योऽन्यमन्त्रकर्माणि, ससंतानवितेनिरे // 10 // वृद्धक्रमाऽनुसारेण, ज्येष्ठत्वाद्राज्यधूर्वहः / सुप्रभो भविता भूपः, स्वरूपेणाऽरिदुःसहः॥११॥ केनाऽप्युक्तं रणोत्साही, धरणेन्द्रो महाभुजः। महीभुजः प्रसङ्गेन, भविष्यति नृपोऽनुजः // 12 //
Page #160
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् 148 विशतितमो विकारः सत्त्वाग्रण्योऽथ चत्वारः, सहजाः सुप्रजाप्रियाः / विजयन्ते ततो राज्य, सुप्रभस्यैव युज्यते // 13 // इत्यालापपरे लोके, नृपः सदनमाप्तवान् / मुनिविमलनामाऽपि, विहर्तु द्राक् तमन्वगात् // 14 // प्रतिलाभ्याऽशनैः पानः, खाद्यैः स्वाथै रसान्वितैः / कृत्यकृत्यमिवाऽऽत्मानं, मन्यमानस्तमानमत् // 15 // प्रपेदिरेऽय सामन्ताः, सुप्रभ ज्येष्ठनन्दनम् / धरणेन्द्र पुनः केचित्सोमप्रभमपीतरे // 16 // कुमारान्सर्वसामान्तान्, आहूय भोजनक्षणे / भोजयामास सानन्दं, भुञ्जानो नृपतिः स्वयम् // 17 // भुक्त्वा स्थाने स्थितः पाह, मातरं कमलश्रियम् / अनूद्य [निवेद्य] पाग्भवं सर्वे, स्वस्वकर्मफलाऽन्वितम् // 18 // कीर्तिसेनाऽनुरागेण, पुनर्भवनिबन्धनम् / जातोऽहं भवदत्तस्य, सुतायां प्रणयोत्सुकः // 19 // गुणमालाऽपि मद्रागात्सुमित्राऽजनि मद्वधः / द्वेषेण कौशिकश्चक्रे, नृपपौरविनिग्रहम् // 20 // बन्धुदत्तेन मद्भात्रा, वञ्चितोऽहं विमोहतः / माग जन्मकान्तास्नेहेन, द्रुह्यतामह्यमन्वहम् // 21 // मातस्त्वयाऽपि यतीनां, जुगुप्साजातपातकात् / वैरस्यं यौवनेऽप्याप्तं, कर्मणां हीदृशी गतिः॥ 22 // आराधनेन पञ्चम्या, धनेन बहुना श्रिता / तस्याऽनुमोदनान्मोदः, पुंस्त्रियोः राज्यसम्भवः // 23 // दुरापोहस्ततो मोहः, कृतद्रोहः सदेहिनां / रागद्वेषभुजद्वन्द्व-बध्नाति सकलं जगत् // 24 // तं विजेतुं समीहेऽहं, विजिते बाह्यशात्रवे / तस्मिन् जिते जितं विश्वं, जैनतीव्रताऽसिना // 25 // विद्युत्पातादिना नोचेद् बालमृत्यावुपस्थिते / त्राता न माता भ्राता वा, मम माग्जन्मवृत्तिवत् // 26 // EXEXEEEEEEEEEEEEEXXXX
Page #161
--------------------------------------------------------------------------
________________ भविष्यदचचरित्रम विंशतित धिका राजवाक्येन निर्व्याजं, व्याजहारेति राजसूः / कमलश्रीर्ममाऽप्येतद्वतग्रहणमीरितम् // 27 // राज्येऽभिषिच्य तनयं, ज्येष्ठमस्मिन्महीपते ! / त्वमादत्से व्रतं वत्सवत्सला तद्ग्रहेऽप्यहम् // 28 // या भविष्याऽनुरूपाऽस्य, सवित्री नवभूपतेः / भुक्तां राज्यसुखान्येषा, विशेषात्पुत्रसंयुता // 29 // साऽप्यवादीदिदं वादी-तिर्माऽतः परं वचः। दीक्षितायां त्वयि स्थास्यामहम नैकाकिनी गृहे // 30 // आसमुद्रं महीपीठे, मन्मुद्रा यत्प्रसादतः / उन्मुद्रिततयाऽचालीदनुल्लङ्ख्या नृपैरपि // 31 // तस्य भर्तुर्मुखेन्द्रोमें, वीक्षणादुत्पले इव / लभेतमुत्सवं नेत्रे, पातिव्रत्यकृतस्ततः॥ 32 // न मातरं विना राज्य, बालस्याऽऽलस्यशायिनः / मनाक् चलति तद्राजा, सुमित्रा मूतरस्तु वै // 33 // इति तद्वाचमाकर्ण्य, सकर्णा साऽप्यवोच्यत / पाग्भवे गुणमालाऽहं, प्रिया माणादपि मिया // 34 // साहचर्य यथार्थ मे, भवेऽस्मिन्नप्यभूचिरम् / तद्विप्रलम्भसंरम्भे, दम्भः किं क्रियते प्रभो ! // 35 // मुमित्राऽभूणि मुञ्चन्ती, वक्तुं शक्ताऽपि नाऽभवत् / ततः कुमाराः भूपेनाऽऽहृताः पञ्च महौजसः // 36 // तिस्रो दुहितरस्तासां, पतयश्च निमन्त्रिताः / प्रवृत्ते श्रवणादस्याः, स्वजनः सकलोऽमिलत् / / 37 // श्रेष्ठी धनपतिर्मातुः, पिता हरिबलः पुनः / लक्ष्म्या समं समाजेऽस्मिन्नाऽऽययौ न्यायशालिनि // 38 // राज्ञा च प्रियसुन्दर्या, भूपालस्वरयाऽगमत् / परेऽपि पौराः सम्मापुस्तदुत्सवदिक्षया // 39 // सामन्तेषु समेतेषु, मिलिते स्वजनेऽखिले / सुप्रभ ज्येष्ठतनयं, भविष्यः स्वकरेऽग्रहीत् // 40 // 149
Page #162
--------------------------------------------------------------------------
________________ विंशतितम भविष्यवचचरित्रम 150 sधिकार परलोकहितं कर्तु, जिघृक्षति मयि व्रतम् / राज्याभारधरं धत्स्व, विश्वलोकहितावहम् // 41 // बालवत्पालयस्व त्वं, लोकेषु हितचिन्तयन् / न्यायकार्येण राज्यस्य, स्मृद्धिं वर्द्धयाङ्गज ! // 42 // दुरे त्याज्यं तु तद्राज्य, यत्राऽन्यायः प्रवर्तते / महल्या सर्ववा सु, सुमित्रा जननी त्वया // 43 // सान्त्वयन्नेवमवनी-नाथः सुप्रभमञ्जसा / तद्बाहुं धरणेन्द्रस्य, करेणाऽग्राहयत्तदा // 44 // धरणेन्द्र सुपुत्र ! त्वं, मत्समानं तवाऽग्रजम् / चिन्तयेथा वृथा नैव, कुर्वीथा विरसं मनः // 45 // इत्युक्ते भूभुजा माह, सुप्रभः साहसोद्धरः / राज्यलक्ष्मीवशीकार-कारणं दारुणो द्यसिः // 46 // धैर्यमेव नृणां भ्राता, त्राता नैवाऽस्त्यतः परः / यत्मभावेन सेवन्ते, नृपं यक्षादयोऽपि हि // 47 // न्यायैकनिष्ठोऽनिष्टानि, पिनष्टि विषयान्तरे। विशिनष्टि कृपादृष्टया, साधुन् सन्मानतो नृपः॥४८॥ पराभवन्ति नो चौरा, नारयः शेरते सुखम् / परस्परं जनस्नेहस्तद्राज्ये नृपतेर्जयः // 49 // निरागसां न जीवानां, यो हन्ता नाऽप्यलीकवाक् / न किञ्चिद्व्यसनं धत्ते, स क्षितीशश्चिरं जयेत् // 50 // वन्दतमेवं भूपोऽपि, सुप्रभं स मुदाऽभ्यधात् / वत्स ! जानामि वासुर्य [शौर्य च] धैर्य वा तव साम्प्रतम् // 51 // परस्परं भ्रातृतोषाद्रामराज्यं समेधताम् / तद्विरोधाद् दशास्यस्य, पश्याऽभूत् कीदृशी दशा // 52 // राज्येऽभिषिच्यसेऽस्माऽभिः, सहजाः प्रणयात्तव / जायतां विजयायैव, सर्वत्र सहचारिणः॥ 53 // सुप्रभेण ततोऽभाणि, धरणेन्द्रो निजाऽनुजः / भ्रातस्तातपरित्यक्त--स्नेहः केन प्रबोध्यते // 54 // RESSEXXSEX
Page #163
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम् विंशतिता अधिकार 151 सोऽप्यूचे विनयान्नम्रः, सुप्रभ ज्येष्ठबान्धवं / अभिषेकस्तवैवाहः, पितृवत्पालय प्रजाः॥ 55 // तेनाऽप्युक्तं कनिष्ठोऽपि, गुणैर्येष्ठोऽसि बान्धव ! / राज्यं कुलक्रमात्पित्राऽऽदीयते मम साम्प्रतम् // 56 // मया त्वयि निधेयं तद्विधेयं मे समादिश / दृढानुरागात्भ्रातृणामहमादेशकारकः // 57 // सुमित्रातनयोऽप्याख्यत्त्वत्मसादाद्वयं पुनः / न राज्यान्न्यूनतां विधस्त्वमस्माकं पितुः समः॥ 58 // यः कोऽपि कोपनस्तुभ्यं, दण्डं नैव प्रदास्यति / तद्दोर्दण्डमदं सद्यः, खण्डयिष्ये त्वदाज्ञया // 59 // एवं ताभ्यां मिथः सम्यक्, प्रपन्ने विनये नयात् / सुमित्राऽश्रूणि मुञ्चन्ती, माह किं वार्त्तयाऽनया // 6 // उत्तिष्ठ वत्स बाहाभ्यां, धृत्वा सुपभभूपतिं / निवेशय नृपादेशाद्राज्यपट्टे महाशयम् // 61 // सर्वत्र विजयोदघोषातोषितः सकलो जनः / तूर्यस्वरैः समाङ्गल्यैरानन्दितदिगम्बरः॥ 12 // राज्येऽभिषेचि कलशैः, पूर्णैस्तीर्थाढ्ताम्भसा / सुप्रभस्तेजसाकीर्णः, प्रभाकर इवोदयी // 63 // ततः सर्वानपि जनान्, समापृच्छय नृपाज्ञया / क्षामयन् स्वजनं जज्ञे, भविष्यो व्रततत्परः॥ 64 // दत्वा यथोचितं दानं, मार्गणेभ्यो महीपतिः / सर्वचैत्येषु तीर्थेश-प्रतिमाः समपूपुजत् / / 65 // समुहूर्त समारुह्य, यानं मणिविभूषितम् / श्रीपथे निरगातूर्यध्वानैनन्दितनागरः // 66 // पुरश्रृंगारणापूर्व, सर्वतस्तोरणोछ्ये / नृत्यति प्रीतिपात्रेऽथ, पात्रे साऽभिनयं पुरः // 67 // दानं ददानः स्वर्णादेर्जयवादेन वन्दितः / अन्वीयमानो भूपेन, समं सामन्तसेनया // 68 // 151
Page #164
--------------------------------------------------------------------------
________________ भविष्यवचन पक विशा तमो धिक त्रिम वपिनानि नारीणां, प्रतीच्छन् मौक्तिकादिभिः / मागधेषु यशःपाठ, पठत्सु स ययौ बने // 69 // त्यक्त्वाऽलङ्कारमाल्यादि, नत्वाऽहत्पतिमास्ततः। भविष्यः सुगुरोः पार्चे, दीक्षां जग्राह साहसात् // 70 // कमलश्रीभविष्यानु-रूपया सहसोत्सवं / तथैव सुव्रतार्यायाः, पार्चे दीक्षामुपाददे // 71 // पितृविरहविद्नः, सुप्रभः प्राज्यतेजाः। नरपतिरपि नत्वा, प्रत्ययासीत् सबन्धुः॥ कथमपि कुरुराजाऽऽश्वास्यमानः समानं / परिजननयनाजानन्दनः स्वैर्गुणौघैः // 72 // इति श्रीभविष्यदत्तचरित्रे ज्ञानपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते विंशतितमोऽधिकारः।। SCENERGREEXXXXXXXXXXXX अथ भविष्यदत्तचरित्रे एकविंशतितमोऽधिकारः यस्य पञ्चामृतस्नानैः, स्वकलङ्कजिहासया / रेमे चन्द्रः क्रमाजेऽसौ, स्वतः शाश्वतसंपदे // 1 // अथ राज्यपरित्यागं, भविष्यस्य विचिन्तयन् / कुरुराजः समाजस्थः, सुष्ठु तं तुष्टुवे गुणैः॥२॥ चतुरचमूलक्ष्म्या, तुरगस्थः पुरान्तरे / चामरैवींज्यमानो यः, सुरेन्द्र इव निर्ययौ // 3 // हयाना हेषितारे, गजानां घनगर्जितैः / विकस्वरस्वरैर्नान्द्या, यः शय्याया व्यबुध्यत // 4 //
Page #165
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम विंशतितमो KOSधिकारः दोयते स्म विस्मेर-पुष्पशय्यास्थितोऽपि यः / वृन्ततैश्यैनं विद्धाङ्गः, सागसाम्राज्यभोगवान् // 5 // इदानीं कीदृशस्तस्य, वैराग्यात्ल्यागमीयुषः / शयानस्य भुवः पीठे, भावो धीरस्य भाव्यते // 6 // जगामाऽस्तगिरि शूरस्तदा सिन्दूरपेशलः / तदंशुकविमोक्षाऽनुशिक्षयेवांऽशुकोज्झितः॥ 7 // राजर्षिः कुङ्कुमोन्मिश्र-चन्दनादिविलेपनात् / अरुणांगतया रेजे, शूरोऽस्तगिरिगैरिकात् // 8 // भविष्यमुक्तमुक्ताभिस्तदा भूः परिभूषिता / नमस्तारासमात्ताराऽवतारात्तादृशं बभौ // 9 // स मुनिर्विजने क्यापि, तस्थौ मुक्त्वाऽऽशु वाहनम् / शूरस्तच्छौर्यमाऽऽमृश्य, तथैवाऽस्तगिरेवने // 10 // पक्षानुयायिभिस्तस्य, कृते कोलाहले क्षणम् / स्वजनैरिव संलीनं, वसत्यां हि निजालये // 11 // शुद्धध्यानाऽनुसंधानाद् व्यतीयाय निशां मुनिः / प्रातः प्रादुर्बभूवाऽकस्तं निनंसुरिवाऽऽदरात् // 12 // नष्ट क्वाऽपि तदालोकात्तमो कजलकश्मलम् / शूरस्य पादसंचारान्मुनेरपि भुवस्तले // 13 // परिवारेऽखिले राज्ञोऽपराशां समुपेयुषि / धिष्ण्यानुसाराद्वाजर्षिः मार्ग, पश्यन् चचाल सः॥ 14 // उत्कण्टकामिव भुवं, मां मुक्त्वा क्याऽऽगमः प्रियः / ध्यायंस्त्वं विलसद्भोगान्, विलसद्भोगसन्निभान् // 15 // पूर्व धर्मस्वसा साऽभूत, यथार्था सहचारिणी / रोगे त्यागेऽविसंभोगे, भवेऽस्मिन् विभवस्थिते // 16 // या माक्र सहचरी जज्ञे, सम्पत्यपि तथात्मिका / साहचर्य विलुप्याऽस्थां, तदास्था मयि कीदृशी // 17 // सुमित्रां शोचयन्तीं तां, सुप्रभः साश्रुलोचनः / आश्वासयामास भूपः, स्वरूपं पितुरामृशन् // 18 // 113
Page #166
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 154 विंशतितमो (RASधिकार राजा श्रेष्ठी हरिबलः, सुरप्रभादयोऽङ्गजाः / ताराधास्तनयाः सर्वस्तथा पौरजनोऽपि च 19 // शौर्यौदार्यादिविनय-नयप्रभृतिभिर्गुणैः / स्मारं स्मारं सोपकारं, ते चक्रुः परिदेवनम् // 20 // अन्योऽन्याश्वासनावाक्यैर्दानसन्माननादिभिः / नृपेणाऽऽनन्दितः सर्वः, स्वव्यापारपरोऽभवत् // 21 // भविष्यमुनिराजोऽपि, वैयावृत्यं गुरोः सृजन् / आरराध व्रतं तीव्र, तपस्तप्यन्न कोपनः // 22 // एकादशाङ्गों विनयादधीत्य गुरुसन्निधौ / पारंपर्येण जग्राह, गुणवद्विश्रुतश्रुतम् // 23 // विचित्राऽभिग्रहर्मासो-पवासाद्यैस्तपोधनः। समृद्धो भावयामास, स्वात्मानं नियमैर्यमैः॥ 24 // जैनेन्द्र शासनं ज्ञान--क्रियाभ्यां स प्रभावयन् / बहूनामपि जन्तूनां, धर्मसान्निध्यमातनोत् // 25 // चारित्रं निरतीचारं, प्रपाल्याऽनशनेन सः / मृत्वा जगाम दशम--स्वर्गे शुद्धसमाधिना // 26 // कमलश्रीस्तथैवाऽऽर्या--विनयादार्जवान्विता / तेपे तपांसि भूयांसि, तयैव स्नुषया सह // 27 // कषायान् विषयान् सर्वान् , जित्वा ज्ञानाच्छनैः शनैः / समितीः पञ्च तिस्रश्च, गुप्तीः पालयति स्म सा // 28 // विहृत्य संयमाचार-विचारचतुराशया / प्रान्तेऽनशनमाधाय, तत्रैव त्रिदशोऽभवत् // 29 // भवदत्तमुता साऽपि, प्रपद्याऽवद्यवर्जितम् / चारित्रं तपसाऽधत्त, धर्मकर्मणि धीरधीः // 30 // तयाऽप्यनशनेनाऽप्तः, स्वर्गो दशम एव सः / त्रयोऽपि त्रिदशास्तत्र, मियो मैत्रीमथो दधुः॥३१॥ हेमांगदः प्रभाचूलो, रत्नचूलोज्नुकूलधीः / नाम्ना त्रयोऽपि देवास्तेऽनुबभूवुः सुखं दिवि // 32 // नशनेन सः / मृत्वा नामपि जन्तूनां, धर्मसार मलश्रीस्तथैवाऽऽर्या-
Page #167
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 155 BHARABARILLER विंशतितमो RSधिकार हेमांगदः प्रभाचलं, स्मारयन् पाम्भवं जगौ / अहं सुतो भविष्यस्ते, त्वं माता कमलाख्यया // 33 // रत्नचूलोऽप्ययं प्राण प्रयाऽभूत प्राग्भवे मम / तेनाऽत्राऽपि मियो मैत्री, त्रयाणां सुदृढात्मनाम् // 34 // तारुण्यलीलया लीढाः, षोडशाभरणान्विताः / त्रयोऽपि माग्भवस्मृत्या, रेमिरे सहचारिणः // 35 // अन्यदा संपदाभोगा, विमानैः स्वर्विकुर्वितैः / त्रयोऽपि हस्तिनापुर्या, ययुर्वन्धुदिदृक्षया // 36 // अवतीर्य विमानेभ्यस्त्रिदशा नृपसंसदि / विभूति दर्शयामासुः, स्वजनस्य प्रपश्यतः // 37 // पुण्यानुगुण्या दिव्यरिस्माभिरियमीयुषी / तेन प्रमादमुत्सृज्य, भवद्भिस्तद्विधीयताम् // 38 // आभाष्य स्वजनानेव, दत्वा दिव्याम्बरादिकम् / मन्दरादिषु चैत्यानि, नन्तुं जग्मुस्तथैव ते // 39 // दिगम्बरं प्रभाभार-र्भावयन्तो यदृच्छया / मोदयन्तो जनानृद्धया, विलेसुर्भुवने त्रयः // 40 // भाग्भवे विहृतं यत्र, क्रीडितं शयितं पुनः / अचितं जिनबिम्बादि पुनस्ते चक्रिरे तथा // 41 // शाश्वताहतविम्बानि, पूजयामामुराशु ते / दिव्यगन्धाऽक्षतेधपैर्दी पैनैवेद्यसंयुतैः॥४२॥ ततः साडम्बरं नृत्यैर्वाधैर्घण्टा दवादनैः / अष्टाहिकामहं कृत्वा, देवलोकं ययुः क्रमात् // 43 / / जिनानां पञ्चकल्याण्यां, नृलोके पुनरेत्य ते। नानामहोत्सवांश्चक्रुः, स्वात्मनामुहिधीर्षया // 44 // मनोवेगादिसुहृदां, दर्शनाद्भाषणान्मियः। वितेनुर्दृढतां धर्मे, सुराः माग्भववार्तया // 45 // यः कोऽपि कोपितां प्राप्य, मनुजो दनुजोऽपि वा / करोति धर्मवैरूप्यं, तच्छिक्षां ते तथा व्यधुः॥४६॥ .
Page #168
--------------------------------------------------------------------------
________________ भविष्यदत्तचरित्रम 156 Padhdशतितमो Sधिकार BARSEXXXXXXXXXXXXXXXXXENOK मुनीनामुपसर्गेऽपि, मिथ्याग्देवनिर्मिते / सानिध्येन निराबाधं, तैर्व्यधायि सुधाशनैः // 47 // सेवया श्रीजिनेन्द्राणां, पूजया जयकारिणाम् / सम्यक्त्वपापणैर्नृणां, मुनीनां सन्निधानतः॥४८॥ कृत्वा सम्यत्वनैर्मल्यं, श्रुतधर्मः समादधे / तैवैयावृत्त्यकरणाचारित्रेऽपि समुद्यतैः॥४९॥ भुजाना दिव्यसंपति, मियः प्रणयतत्पराः / चक्रुर्बहुविधां क्रीडां, नयन्तः समयं सुखैः॥५०॥ विंशत्यऽध्यायुषः पान्ते, भ्रान्ते मनसि चाऽन्यदा / प्रभाचूलसुरोऽद्राक्षीन्माला मुकुलितां निजाम् // 51 // तामन्विष्य [तां दृष्ट्वा स] सुरो दध्यो, सेयं लक्ष्मीममाङ्गभाक् / मालिन्यमीयुषी तन्मे, च्यवनं समुपस्थितम् // 52 // चकम्पिरे पुरः कल्प--वृक्षाः स्वास्थितिसाक्षिणः / विमानाधिपतेश्च्युत्वा, दुधुवुः किं शिरांसि ते // 53 // वाससामुपरागोऽभूद्रेणुस्पर्शनतस्ततः / मन्ये किं तन्मिषादेषा, मिमील नरलोकभूः // 54 // लक्षणैरेमिरामृश्य, स्वर्गाच्च्यवनमात्मनः / मनःखेदं विवेद द्राक्, स सुरश्चिन्तयातुरः // 55 // हा पुनर्नरलोके मे, गन्तव्यं गर्भभीषणे / यत्र वीर्यानोर्योगः, परं बीभत्सकारणम् // 56 // इयत्कालं दिव्यलक्ष्मी-बुभुजे क्षणवन्मया। स मया मरणं प्राप्त, किं कर्त्तव्यं ततोऽधुना // 57 // इति चिन्तयतस्तस्य, शरीरं विशरारुताम् / प्रपेदे पश्यतां तत्र, देवानां विस्मयोऽजनि // 58 // ततश्युत्वा प्रभाचूल:, सुरो गन्धर्वभूपतेः। कुक्षौ प्रियायाः धारिण्यास्तत्क्षणात्समवातरत् // 59 // रानी चतुर्दशस्वमान्, पश्यन्ती तत्मभावतः / मुदोहदैः क्रमात्पुत्रं, सुषुवेऽभिनवोत्सवैः / / 60 //
Page #169
--------------------------------------------------------------------------
________________ पकविंशतितमो KAISधिकारः भविष्यदत्तचरित्रम् XI राजा वसुंधर इति, नाम्ना धाम्नाऽतिशायिना / स बालः पालयांचक्रे, महेश्चर्येण लालनात् // 59 // क्रमेण यौवनं प्राप्तश्चक्रवर्ती बभूव सः। षट्खण्डां वसुधां सधः, साधयित्वा पराक्रमी // 6 // रत्नचूलसुर च्युत्वा, देवलोकादभूत्सुतः। तस्यैव चक्रिगो नंदि--बर्द्धनाऽभिधया नयी // 61 // मागजन्मस्नेहसम्बन्धाद्धमानदसुरोऽजनि / तस्याऽनुजश्व क्रिमनु-नाम्ना श्रीवर्द्धनः पुनः // 62 // तारुण्यमेतयोदृष्ट्वा राज्यनिर्वाहणक्षमम् / चक्रिणा स्वपदे ज्येष्ठो, न्यवेशि समहोत्सवम् // 63 // यौवराज्ये कनिष्ठं तं, निधाय व्रतमाहीत् / श्रीधरस्य मुनेः पार्थे, चक्रभृद्विक्रमाधिकः // 64 // मुदुस्तपं तपस्तत्त्वा, शुक्लध्यानेन केवलम् / निर्मलं ज्ञानमाऽऽसाथ, सिद्धिसौधमवाप सः // 64 // तौ भ्रातरौ चक्रिसुती, भुञ्जानौ राज्यवैभवं / रञ्जयामासतुः सर्वां, प्रजां विनयशासनात् // 66 // अन्यदा राज्यपाटयां तो, निर्गतौ सह सेनया / मृगमेकं पुरोऽद्राष्टां, तरुणं मृतमअसा // 67 // तदर्शनाद्भवभय-भ्रान्तौ तौ भ्रातरौ मिथः / चिन्तयां चक्रतुर्भ्रातः ! पश्यैतस्य विचेष्टितम् // 68 // बने भ्रमन्नयं स्वैरं, वैरं कुर्वन् परैर्मगैः। मृगाङ्गनाभिर्विलसन्, हा ! व्याधैर्विनिपातितः॥ 69 // सर्वेषां गतिरेवैषा, विशेषाय नहि क्वचित् / तदीशदशायोगे, नाऽवयोः कोऽपि रक्षिता // 70 // भावयित्वा तदैवं तौ, वैराग्यं दधतो दि / पुत्र राज्यधुरं न्यस्याऽऽददाते आहेतं व्रतम् // 71 // तपोभिः क्षोभिताऽशेष-लोभिता दुष्कर्मा] चरणैरम् / निहत्य घातिकर्माणि, केवलज्ञानमीयतुः॥ 72 // 157
Page #170
--------------------------------------------------------------------------
________________ भविष्यदचचरित्रम् 158 चिरं विहृत्य भूपीठे, प्रतिबोध्य जनान् घनान् / पान्ते शैलेशिकरणात्सिदिसौख्यमवापतुः // 73 // सहृदयजनश्चिचे, धत्ताभिति श्रुतपञ्चमीचरितमचिराद्राज्यश्रीणां, रुची रुचिराऽस्ति चेत् // एक विंशतितमो धनपतिमुते प्राज्यं राज्यं दधाविह पञ्चमी / मनसि निहिता सिद्धाभाव परत्र महोदयम् / / 75 // |अधिकारः या श्रूयते कामगवी नृलोके, या कल्पबल्ली फलदा धुलोके। तस्या वयस्या श्रुतपश्चमीयमाऽऽराधनोया हितवस्तुसिद्धये // 75 // तपागणाम्भोजसहस्रभानुः मूरिर्जयो श्रीविजयप्रभाहः / तत्पट्टदीपः श्रमणावनीपः प्रभासते श्रीविजयादिरत्नः // 36 // राज्ये तदीये विजयिन्यजस्रं पाज्ञाः कृपादेविजया बभूवुः। शिष्यो हि मेघाद्विजयस्तदीयोऽन्वभूदुपाध्यायपदप्रतिष्ठाम्॥७७॥ व्यरीरचद्धीगभीरवाचा, सुखाऽवबोधाय कथाप्रबन्धम् / स वाचकः पञ्चमिकातपस्याफलेन भोक्तुं शिवरूपलक्ष्मीम् // 78 // ग्रन्थश्चिरं नन्दतु वाच्यमानः, सद्भिहसद्भिः कविताविताने / __ यावद् ध्रुवं मेरुमहोन्नतश्रि-जैनं यत्रश्चन्द्ररुचि त्रिलोक्याम् // 79 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचितेएकविंशतिमोऽधिकारः / 158 इति भविष्यदत्तचरित्रं समाप्तम्