________________ भविष्यदत्त चरित्रम पञ्चदशमोड धिकारः करालः कोऽपि चाण्डालः, प्रहरिष्यति दुर्मतिः / केनाऽप्यूचे विधेर्गेहे, न ज्ञेयः कीदृगुधमः // 35 // एवं पार्थस्थिताऽऽलापान , श्रृण्वन् सस्मार दैवतम् / युवराजो विधेश्य, भावयन्मनसा जनम् // 36 // चरयुग्मं तदैवाप्त, प्रपच्छ स्वच्छधीनपः / का वार्ता पोतनपुरे, किं चिन्तयति वा नृपः॥ 37 // श्रृणु राजन् बलं तस्य, पाचै नास्ति मनागपि / उपस्थितेऽस्य त्वया साकं, युद्धे सर्वममोचि तत् // 38 // नगरं नगरन्धेषु, माविशद्भयसम्भ्रमात् / भूपः कूपजले पातमनुरूपं स मन्यते / / 39 // चालिते पवनस्तत्रोपवने भवनेश्वराः / वने प्रयान्ति नष्टदेव, भविष्याऽऽगमशङ्कया // 40 // नारीनयननिर्गच्छज्जलैः कज्जलविप्लवात् / नृपाङ्गणं समालेपि, स्वैरिवाऽपयशोभरैः // 41 // त्रस्यज्जनस्य निश्वास-नभस्वत्मेरितस्ततः / सन्तापामितपस्यान्तस्तनोति मलिनं मुखम् // 42 // इत्यवेत्य मुखात्तस्य, प्रवृत्ति स्थिरचित्तधीः / भविष्यः प्राह किं कर्ता, वराकः काकपाकवत् // 43 // हतेनाऽनेन नः साध्य, नैव सिद्धयति किञ्चन / मुच्यतां त्वरया तेन, सन्मान्याऽयं सहाऽनुगैः // 44 // भविष्यभूपान्तर्वाण्या, दधावे सुकृती जनः / स्तुवन् तत्पुण्यनैपुण्यं, तद्विमोक्षाय तत्परः // 45 // ससार्थ तं समानीय, पुत्रं पोतनभूपतेः / गाढस्नेहात्समालिङ्ग्य, सुखेनाऽऽलापयन्नृपः // 46 // सम्माप्तेऽवसरे भूरि, पकानौदनतीमनैः / सघृतैस्तं समावेश्य, भोजयामास भूपतिः // 47 // सर्वांस्तदीयसामन्तान् , दूरादाऽऽकार्य कार्यचित् / भोजयित्वा ससत्कारं, वखाद्यैः पर्यतूतुषत् // 48 // 119