________________ भविष्यदत्त चरित्रम सप्तमोऽधिकार भविष्यनृपते यान्, मङ्गलं यत्मसादतः / प्रजालोकः मुखं भेजे, रेजे राजेव वैभवैः // 5 // कृतमङ्गलकर्माऽयं, निर्माय सर्वसेवकान् / विसर्म्य पुररक्षायै, प्रस्थानायोन्मुखोऽभवत् // 6 // सर्वे मत्वा स्वबन्धनां, जन्मभूमि स्मरन् भृशं / पित्रोः प्रीति समाधाय, पुनरेष्यामि सत्वरम् // 7 // इत्यादिश्य जनान् सर्वान् , प्रणतान् साश्रुलोचनान् / प्रत्यावृत्त्य स्वयं तस्थौ, सिन्धुरोधो वनान्तरे // 8 // पासे मुहूर्ते प्रस्थातुं, लोकः सर्वः स्वकर्मसु / व्यापृतो वस्तुनिक्षेपावरोहारोहणैः क्रमात् // 9 // कोऽप्याह साहसात्माप्तः, स्वदेशः साम्मत जनैः / आचख्यौ कोऽपि रेऽस्ति, कुरुजालमालम् // 10 // जगौ कश्चिद् दुरुत्तारः, पारावारस्तरिष्यते / तदा जनपदासत्तेः, को वेत्ता विधिचेष्टितम् // 11 // भणितं वणिजा प्राप्त, वाणिज्यफलमीदशं / यद्येष्यामः सुखं गेहं, सार्थेऽस्मिन् द्रोहकारिणि // 12 // केनाऽप्यूचे कुतः क्षेम, बन्धुदत्तेऽत्र जीवति / कुविद्याध्यापके पापात्, कृतविश्वासघातके // 13 // भ्रान्त्वा देशान् महाकेशान्, अन्लेशाऽनवाप्तितः / मूलहानिभृता हानि, सार्थेन गमितानि किं // 14 // भविष्यदत्तभूपोऽयं, जाग्रन्मालशोभया / गन्ता गृहे स्वगेहिन्या, समं धन्यो महाशयः // 15 // बन्धुदत्तस्तु निस्त्रीको, दारिद्रोपद्रुतो द्रुतं / कथं दर्शयिता स्वास्य, हास्यः परिजनस्य सः॥ 16 // कर्ता ज्येष्ठः कनिष्टस्याऽनि स्मृत्वाऽस्थ वैकृतं / तत्सार्थवशतोऽनर्थोऽस्माकं सम्भाव्यते ध्रुवम् // 17 // अचिवान् कोऽप्यनूचानः, सज्जनानां गुणाम्बुधिः / कमलातनयो नास्मादनयः क्वापि जायते // 18 //