________________ भविष्यदत्तचरित्रम 48 षष्टाधिकार: इत्यालापपरे लोके, जाते सांयान्त्रिके तदा / वा. पिनं मुक्तामणिभिर्गणिभिः कृतं // 19 // पुष्पैनैवेद्यबलिभिरक्षतैर्दीपकैः कृता। पूजा हि जलदेवीनां जनैरन्धौ यियामुभिः // 20 // आरूढवान् पुरो भूपो, भविष्यदत्तकस्ततः। बन्धुदत्तछमचित्तो वणिम्भिरपरैः सह // 21 // वाद्यमानेषु वाद्येषु, जनताया जयारवैः / चालितैर्वाहनः सः, चेलुः सांयात्रिकाः समे // 22 // अत्रान्तरे करे न्यस्ता, दृग् भविष्यानुरूपया / जगाद नाममुद्रा मे, विस्मृता हा तरोरधः // 23 // श्रुत्वा भविष्यदत्तोऽपि, स्वयं प्रेम्णा वशीकृतः / यानपात्रात्समुत्तीर्य ययौ तल्लिप्सया रयात् // 24 // न मेऽस्ति किङ्करः कश्चित, प्रत्ययी यो नयेदिममां / मुद्रा लब्धां तां कर्तारो गुप्तामन्ये भ्रमादिति // 25 // गते तस्मिन्नवसरं, बन्धुदत्तः परामृशन् / विप्रतार्य धनैः पोत-पालं पोतानचीचलत् // 26 // यावदायात्ययं पश्चात्तावद् दैवानुभावतः / ववृधे जलप्ररेण, वेलयाः समयोऽम्बुधेः // 27 // पोतानामविमर्शन पोतानामिव निर्गमान् / निर्व्याजा व्याजहारैवं रामा श्यामानना भृशम् / रे रे तिष्ठन्तु तिष्ठन्तु, वहनं स्थापयन्तु भो / पश्चात् स्थिते धनाध्यक्षे, पत्यो मे चलनं कुतः // 27 // आकर्ण्य तद्गिरं धीरा, वणिकपुत्रा बभाषिरे / पुनः किमेतत्मारब्धं विश्वस्तवधपातकम् // 28 // तटे भविष्यदत्तोऽस्ति, नागतः केन हेतुना / बजामस्तं परित्यज्य, निर्लज्जा दुर्जना इव // 29 // कृते भूयोऽपराधेऽपि, तेन सन्मानिता वयम् / दत्वा यथोचितं वासोऽलङ्कारादि सभोजनम् // 30 //