________________ भविष्यदत्त चरित्रम विकार विकुळ स्वजनान् वस्त्रालंकारभरभासुरान् / नारीणां नृत्यसङ्गातैषितस्तत्र मण्डपः // 107 // तां भविष्यानुरूपां स्वां, पुत्रीमिव विभूषणैः / वस्त्रैः प्रसाधयां चक्रे, सुरः पाक् स्नेहमेदुरः // 108 / / तीर्थोदकैः फलैस्तस्याः, विधाय स्नानमादरात् / भूषणैर्भूषयित्वाऽथ, वरपार्थे निनाय ताम् // 109 // सम्पाते सुमुहूर्ते द्राक्, दम्पत्योहिं तयोः सुरः। करमेलापकं चक्रे, दत्वा दानं यथोचितम् // 11 // दम्पतीं समनुज्ञाप्य, समये मां स्मरेः पुनः / भविष्यदत्तमित्युक्त्वा, शनिवेगस्तिरोऽभवत् // 111 // विवाहे मङ्गले जाते, दम्पती हृष्टमानसौ / चन्द्रप्रभालयं प्राप्तौ, चक्रतुर्जिनमर्चनम् // 112 // कुलक्रमायातसुरी, स्मृत्वा तावर्चनादिना / तस्थतुर्वासवेश्मान्तः, सम्भोगरसलालसौ // 113 // रममाणस्तया सार्द्ध, चतुरः सुरभासुरः / दिव्यसम्भोगसामग्र्याऽगमयत् समयं सुखैः // 114 // सुरस्योपद्रवे शान्ते, कान्ते तस्मिन् पुरे गणैः / न्यवात्सुर्धनिनो लोकाः, प्रमदाद्विशदाशयाः // 115 // भविष्यदत्तभूपोऽपि, सुरसानिध्ययोगतः / साम्राज्यं पालयामास, सविलासमकण्टकम् // 116 // एवं द्वादशवत्सरी परिगता, साम्राज्यमासेदुषः / पवाझ्या हि समं समङ्गलतया, सर्वाङ्गलीलाजुषः। भूपस्यास्य चिरं वणिग्वरसुतस्याऽपि प्रसादोदयात् / श्रीचन्द्रप्रभतीर्थकद्भगवतः, पूजाविधेर्नित्यशः // 117 // इति श्रीभविष्यदत्तचरित्रे श्रुतपञ्चमीमाहात्म्यपवित्रे महोपाध्यायश्रीमेघविजयगणिविरचिते पञ्चमोऽधिकारः 34