________________ भविष्यदत्त चरित्रम 114 चतुर्दशमोड धिकार इत्याऽऽभाष्य विसष्टेऽस्मिन्, दूते राजाऽपि वर्मितः / प्रतिष्ठते पुरात् यावत्तावक्तश्चिञ्चरोऽभ्यगात् // 125 // भूपपादास्समसादास्तिष्ठन्तु नगरान्तरे / जयस्त्वदीयो सर्वत्र, जनै?षयतां पुरे // 126 // इतश्च स भविष्योऽपि, नश्यमानां स्ववाहिनीम् / वीक्ष्य सामन्तलोकान् स्वान्, मोचेऽभ्युचितवार्चया // 127 // नासीरं नाशितं कोपात्, पररस्माकमग्रतः / नोचितं तदिह स्थातुं, युद्धे भाव्यमुदायुधैः // 128 // इत्युक्त्वा रणभूभागमाऽऽचक्राम स रामवत् / भविष्यस्तिलकद्वीपाऽवनीपः साहसाद्धसन् // 129 // हस्तिस्कन्धस्थितेनेक्षां चक्रे तेन महीभुजा / अनन्तपालः पुरतश्चालयन् वैरिसैनिकान् // 130 / / दृक्संज्ञयैव संज्ञाप्याऽऽधोरणं स महीपतिः। तन्मुक्तयन्त्रगुटिका-योगाद घातयति स्म तम् // 131 // ततो जयजयारवः, प्रचक्रे कुरुसैनिकैः / आसन्नीभूय सामन्तास्ततो युयुधिरे परैः॥ 132 // सनबाऽसह्यसत्तेभेनाऽऽपतन्तं स्वसंमुखम् / भविष्यं तं तथाऽन्विष्य, बभाषे युवराट् तदा // 133 // त्वद्गोत्राऽनुचितं खेतत्किं कारब्धवानसि / लुब्धः सुमित्रासंभोगे, मरणाय रणादरात् // 134 // यतः-अनुचितकारम्भः स्वजनविरोधो बलीयसा स्पर्दा / प्रमदाजनविश्वासो, मृत्योर्द्वाराणि चत्वारि // 135 / / तिलका श्रुवा, सत्वाश्रयमना मनाक् / विहस्य पाह रे मूढ ! सुमित्रां किं तृयेहसे // 136 // लभ्यते सत्यतेजोभिः, सुकृतस्य सुमेधसा / समीहितं वस्तुरत्न, न दीनस्तु भवादशैः // 137 // ततः क्रुद्धेन युद्धाय, मुक्ता तेन शरावली / अन्तराले भविष्यस्तां, चिच्छेद विशिखां क्षिपन् // 138 //