Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 18
________________ [ 3 ] तत्र च हिंसाधर्मस्यैव प्राधान्यं वर्ततेऽतोऽहिंसाधर्म विस्तारयतु / प्रार्थनाञ्च तेषां विदित्वा क्रमेण विहरन् स श्रीमालपत्तनमगच्छत् / भिक्षासमये मुनयो भिक्षार्थ पर्याटन् गृहस्थानां गृहेषु किन्तु सर्वतः सुरामांसाद्यमेध्यानभक्ष्यांश्च पदार्थान् दीयमानान् दृष्ट्वा यथागतं प्रत्याजग्मुः। ___ततः सर्वजीवदयापरः सूरीश्वरो यज्ञ यज्ञीयानां जीवानां हिंसकं जयसेननामानं राजानं प्रत्यषेधीत् / राजसभायामनेकहेतुदृष्टान्तगर्मितं विशिष्टप्रतिभापूर्ण व्याख्यानं दत्त्वा तेनैव नृपेण सह नवतिसहस्रगृहाणि जैनतत्त्वं संप्रदर्श्य जैनधर्मे न्यवेशयत् / मासपर्यन्तं च तत्रैव स्थित्वा तेषां धर्मभावनामुपदेशेन वर्धयामास / ततः पद्मावत्यां नगर्यां यज्ञस्यायोजनमाकर्णयन् पशुवधनिवारणार्थ गतः। तत्र पद्मसेनस्य राज्ञः सभायां जिनतत्त्वमुपदिश्यात्मकल्याणमार्ग दर्शयामास / विवादमप्यकरोद् विप्रपण्डितैः सह / एवं महामतिः सूरिः प्रत्यरौत्सीत् जीवानां हिंसाम् / पञ्चचत्वारिंशत्सहस्रसंख्यकान् क्षत्रियान् जिनधर्मेऽस्थोपयच्च / तदनन्तरं वीरनिर्वाणाद् द्विपञ्चाशद् 52 वर्षे रत्नप्रभसूरि स्वकीयपढे संस्थाप्य स्वर्ग प्रत्यपद्यत / वि० पू० 418 तः] 6 श्रीरत्नप्रभसूरिः [वि० पू० 386 प. रत्नप्रभसूरीश्वरो विद्याधरकुलभूषणोऽखिलविद्यालंकारभृतो महाजनसंघस्याद्यसंस्थापको बादिमानविमर्दको महाप्रभावकोऽभूत् / तस्मिन्नेव काले स्थनुपुरे महादेवीश्रीलक्ष्मीसमन्वितो महेन्द्रचूडो नाम नृप आसीत् / स स्वपुत्रं रत्नचूडं राजसिंहासनोपरि समारोप्य वृद्धत्वे स्वकल्याणार्थ निवृत्तिमार्गमगीचकार / एकदा तत्रागतेन चारणमुनिना व्याख्यानकाले नन्दीश्वरदीपस्थितद्विपञ्चाश 52 जिनालयानामनुभृतं सौख्यप्रदं वर्णनं विहितम् / सुतरां च तत्समाकये तीर्थयात्रां विधातुं रत्नचूड विद्याधरस्य सकलनगरनिवासिनाश्वेच्छा सञ्जाता / ततो निर्दिष्टनिश्चायांनुसारेण स विमानमारुह्य नन्दीश्वरमभिप्रतस्थे / मार्गे पृथिव्यां देवदेवीभ्यों देशनां ददतः श्रीस्वयंप्रभपूरेरुपरि रत्नचूरविमानोऽवष्टब्धः / किमिदमिति विचिन्तयन्नसौ यावदधः पश्यति तावद्देशनां ददतं तं मुनि ददर्श / दृष्ट्वा च जंगमतीर्थरूपस्यास्य मुनेरुल्लंघनरूपो महानविनयो मे जात इति विचार्य तत्रागत्य तं मुनि प्रणनाम क्षमाञ्च ययाचे / गुरुपदत्तदेशनाञ्च निर्मलचेतसा शुश्राव / श्रुत्वा च स संसाराद्विरक्तः सन् दीक्षा ग्रहीतुमिच्छया स्वप्रतिज्ञां तस्मै व्यज्ञापयद् भो प्रभो ? मम समीपे पर पराप्राप्ता श्रीपार्श्वनाथस्य प्रतिमा वर्तते / तस्या वंदनाचनादिक्रियाकरणनियमोऽस्ति मे / पूर्व लंकेश्वरस्य रावणस्य चैत्यालये साऽसीत् / यदा रामचन्द्रेण लंका विध्वस्ता तदा मदीयपूर्वजेन चन्द्रचूडनरनाथेन सा प्रतिमाऽनीता / अनुक्रमसंप्राप्तां तामहमहर्निशं पूजयामि / तया प्रतिमया सहैबाहं दीक्षां ग्रहीष्यामि / इति तद्वचः समाकये धर्मलाभकारणं च विज्ञाय श्रीस्वयंप्रभसूरिणा पश्चशत 500 संख्याकैर्विद्याधरैः सह रत्नचूडो दीक्षितः कृतः। अनन्तरञ्च रत्नप्रभसूरीति तन्नाम परिवर्तितम् / क्रमेण सोऽपि द्वादशाङ्गी चतुर्दशपूर्वी च बभूव / श्रीस्वयंप्रभसूरिणा वीरनिर्वाणाद् द्विपश्चाशद् 52 वर्षातिक्रमणे सति स्वपट्टेऽधिष्ठापितः / अथ पञ्चशतसाधुभिः सह श्रीरनप्रभसूरिरितस्ततः परिभूमणं चकार / एकदा तीर्थयात्रायै

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150