Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ [8] सादरं मुनिचरणौ ववन्दे, जगाद च भगवन् ! विप्रश्रमणयोःरमिति लौकिकोक्तिः स्वसाधुत्वं दर्शयता भवता मिथ्याकृता, अतः प्रभृति श्रावकानामिव ब्राह्मणानामपि त्वमर्चनीयः। ततः सर्वे ब्राह्मणाः श्रावका इव सुरेगौरवमादधिरे / सुरेराज्ञाश्च नावमेनिरे / एवंविधप्रभावशाली स मरिरष्टादशसहस्र 18000 संख्यकान् जनान् जिनधर्म स्वीकारयामास, धर्मतत्वं च बोधयामास / राजसचिवेन-उहडेनेव-उत्पलदेवेनापि पार्श्वनाथमन्दिरनिर्माणार्थ सामग्री सज्जीकृता / प्रतिमा च शिल्पकर्मकुशलैः शिल्पि भिरतिरमणीया विरचिता। वीरमन्दिरनिर्माणात् सप्तवर्षसम्मिते काले पार्श्वनाथप्रतिष्ठामवलोकयितुमपकेशपुरे सोत्सुकाः सर्वे परिभ्रमन्तीतस्ततः / श्रीरत्नप्रभकनकप्रभसूरिभ्यां भगवतः पार्श्वनाथस्य सच्चिकाया ( चामुंडायाः ) श्च प्रतिमा शुमे मुहूर्ते प्रतिष्ठापिता। कोरंटकगच्छोत्पत्तिः / श्रीरत्नप्रभसरिणा कोरंटकोपकेशपुरयोर्मध्ये महावीरमन्दिरप्रतिष्ठा धनुर्लग्ने वैक्रयिकसाक्षाद्रूपाभ्यां च विहितासीदित्युक्तं प्राक् / अतस्तत्रत्या जना विचिन्तयन्ति स्म यन्मायिकरूपधरेण कृतायाः प्रतिष्ठाया न किमपि फलं स्यात् / अस्माभिः कनकसूरये तच्छिष्यमण्डलमध्यादस्थिताय सरिपदं देयम् , एवं विचार्य सर्वे ते श्रावको: सोत्सहापुरःसरं सुरिपदमहोत्सवं समारेभिरे / अतिक्रान्ते च कोले गच्छभेदकारणं विज्ञाय स्वयमेव रत्नप्रभसूरिः कोरंटकमगमत् / स्थिरप्रशान्तमनसा च सर्वान् समाश्वास्य सरिपदे कनकप्रभमुनि स्थापयामास / इतः प्रभृति कनकप्रभवरिपरम्परा कोरण्टकगच्छनाम्ना लोके प्रसिद्धिमियाय / वि० पू० 386 तः] ७-यक्षदेवसूरिः [वि० पू० 342 पः ___यक्षदेवमूरिः सकलशास्त्रवेत्ता विमलक्षत्रियवंशोद्भवः सत्यार्थप्रकाशको वादिकुंजरकेशरी यक्षपतिबोधको बभूव / तन्मूलाभिधानं वीरधवलेत्यासीत् / ___ अनुक्रमेण ग्रामनगरेषु विहरन् सूरिप्रवरः पञ्चशतसंख्यकैमुनिभिःसार्द्ध कोरेण्टकपुरं ययौ / तत्र तदीयवालशिष्येण खल्वेकदा यक्षपतिमोपरि पात्रप्रक्षालितं जलं पातितम् / ततो रुष्टो यक्षः प्राकृतिकराक्षसवृत्तितो मुनेर्देहे विकृतिं चकार सरिरपि ज्ञानदृष्ट्या विकृतिकारणं विज्ञाय यक्षनिग्रहं चकार / निग्रहीतोऽसावपि सुरेर्दासत्वमङ्गोचकार / एवमेव कस्मिश्चिद्राजगृहेऽनने मरिणा यक्षः प्रतियोधितः संघविध्वंसश्च निवारितः ततः प्रभृति यक्षदेवेत्यन्वर्थंकनामाऽभवत् / - ___ पूर्वाचार्याणामार्दमनुसृत्य वङ्गकलिंङ्गपञ्चालादिषु प्रान्तेषु शत 100 परिमितैः शिष्यैः सह परिभ्रमन् सरिः सिन्धदेशं जगाम / पथि यत्र यत्र वाममार्गिणां गृहाण्यासन् / तत्र तत्र भोजनादिखाद्यपदार्थच्छलः ताडनतर्जनायुपसर्गाः प्राप्ताः / धर्ममार्गाभिमुखो मुनीश्वरस्तान सर्वांनुपेक्ष्य रत्नप्रभसूरेरादार्श लाकृत्य शान्तचेतसा सुखदुःखलाभालाभशीतोष्णाद्युपसर्गान् सहित्वा धर्मप्रचारमार्गाग्रसरो भूत्वाऽग्ने गच्छति स्म / एवं तत्र देशेदुःसहान्यनेकानि कष्टान्यनुभूतानि सशिध्येण तेन सूरिणा / तथापि सिन्धदेशमाजगाम /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d315e5c3d68e076a0219db0b5aacab61b641103addbb48a271a9bbe6678739d6.jpg)
Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150