Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala

View full book text
Previous | Next

Page 41
________________ [ 26] वि.सं. 196 तः ] 21 प्राचार्यः श्रीरत्नप्रभसूरिः (चतुर्थः) [ वि० सं० 218 पर ___ श्रीसिद्धसरिपदमाचार्यः श्रीरत्नप्रभसरिरलञ्चकार / असौ श्रेष्ठिगोत्रीयो हंसावलीनगरीवास्तव्यश्चासीत् / पिताऽस्य जसाशाहो माता च पातोलीनाम्नी / तयोः सूनुः-राणानामा / पिता तु निर्धनोऽपि धर्मप्रियोऽभूत् / यदाऽसौ पुत्रो गर्भावस्थायामासीत्तदा प्राक्तनजन्मसुकृतप्रभावेण जसाशाह पारसमणिं प्राप्नोत् / तत्प्रभावाच्च संप्राप्तं सुवर्ण प्रभूतम् / ततः स जिनमन्दिरमकारयत् / षण्णवत्यङ्गुलपरिमिता श्रीमहावीरस्य प्रतिमा निर्मापिता। प्रतिष्ठामहोत्सवाय कोटिमुद्राणां संकल्पः स्वमनसि निर्धारितः। ____अथ नागपुरमलंकुर्वाणं श्रीकक्कसरि श्रीसंघद्वारेणामन्त्रयामास / सूरिरपि भक्तजनस्य प्रणतिततिपुरःसरां विनतिं स्वीकृत्य शिष्यगणगीयमानयशोऽवतंसको हंसावलीमियाय / श्रीसंघः सहितोऽसौ जसाशाहोऽपूर्वस्वागतेन सूरेनगरप्रवेशमकारयत् / स्वधनस्य सद्व्ययार्थं सर्वेषामात्मनश्च कृतार्थतामासादयितुं तेन श्रीभगवतीसूत्रवाचनामहोत्सवः प्रारब्धः / श्रीमती देवी पातोली षट्त्रिंशत्सहस्र 36000 परिमितानां प्रश्नानां तावतीभिरेव सुवर्णमुद्रिकाभिः पूजनमकरोत् / ताभिरेवाऽसौ श्रेष्ठी जिनागमग्रन्थान् लेखयित्वा ज्ञानकोशेऽस्थापयत् / अहो ! येन पारसमणिःप्राप्तःसःकिं किं कर्तुं न शक्रुयात् / तत्रापि धर्ममयैकजीवनः कथं नाम धर्माद् धनमधिकं कुर्यात् / अस्तु / आचार्यस्य चतुर्मासस्थितावेव सर्वग्रहानुकूले शुभ मुहूर्ते पातोली शारदशीतांशुसदृशवदनकान्ति सुतं सुषुवे / महतोत्सवेन तस्य राणाशाहेति नामकरणं स चकार / क्रमेणाऽसौ सूनुः शुक्लपक्षे शशीव वृद्धिमवाप। आचार्यस्तस्य हस्तरेखामाकलय्य तां देवीं पातोलीमवादीत्-तवायं तनयो जिनधर्मे महाप्रभावशाली स्मरणीययशा भविष्यति / तया सहर्षमादृतं सूविचनम् / एकदा जसाशाहः सविनयं सूरिमुवाच-भगवन् ! नूतनमन्दिरे प्रतिष्ठा यदा स्यात् ततः प्रागेकामाद्याचार्यश्रीरत्नप्रभसूरेः प्रतिमा स्थापयितुमभिलषामि भवदाज्ञां संप्राप्य / आचार्येणोक्तम्श्रीतीर्थङ्करप्रतिमास्थापनमात्मकल्याणसाधनाय गुरुमूर्तिस्थापनमनतिप्रयोजनं, गुरुचरणसरोजयो श्वेतसि दैनंदिनं भक्तिभावेन चिन्तनमेव परमार्थतत्वसाधकं "प्रधानाप्रधानयोर्मध्ये प्रधाने संप्रत्ययः" इति न्यायेन त्वमेव तावत् सूक्ष्मदृष्टया विचारयेति / अन्ते चाज्ञा गुरुणामविचारणीयेति स तत्प्रस्ताव स्वमनस्येव स्थापयामास / ततस्तेनमन्दिरसमीप एवौषधालयं ज्ञानकोशालयञ्च निर्मापयितुमादेश दत्तः शिल्पिभ्यः। ____ अथ क्रमेण संप्राप्ते प्रतिष्ठामहोत्सवे तदामन्त्रिता विविधदेशस्था जना अनेकसंख्यकाः साधवः साध्व्यश्च श्रीसंघाश्च समाजग्मुः / न केवलं साधारणा मनुष्याः, बहवो राजानोऽपि तदादरं संमान यितुमत्राययुः / आचार्यस्य वरदहस्तेन मूर्तिप्रतिष्ठा विहिता / जसाशाहेन तत्रत्याः सर्वे सुवर्णमा लामिः सुवर्णकङ्कणैर्याचकाश्च यथेष्ठं वस्त्रान्नादिभिरितरे च सुवर्ण मुद्रिकाभिश्च सत्कृताः। / अहो! सर्वस्वं ददताऽनेन श्रेष्ठिना शाश्वतं यश एव क्रयीकृतमित्येव तत्वम् / / आचार्येणाप्यस्मिन्नवसरे बहवो योग्यता प्राप्ताः मुनयः पदवीप्रदानेनाधिकयोग्यतां लम्भिताः।

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150