Book Title: Parshwanath Paramparaya Itihas
Author(s): Devguptasuri, Gorinath Shukla
Publisher: Ratnaprabhakar Gyan Pushpmala
View full book text
________________ / 7 ] फल तत्वविचारणञ्चेति" अस्मद्धर्मसिद्धान्ततत्वं ते विदिवप्रायमतः क्षिप्योच्यते यद्-सर्वधर्ममतानुयायिनामपेक्षया जिनधर्मे साधूनां विशेषतस्त्यागस्य विरत्तेश्च भावना / न चात्र कनककामिनीस्पर्शमात्रम् / स्वयमेव दुःखानामनुभवः / न हि स्वकृतेऽन्येषां कष्टोत्पादनम् / मनोवाकायकर्मभिश्चाहिंसासत्याम्तेयब्रह्मचर्यादीनां बतानामनुपालनं प्राधान्येन संदृश्यतेऽस्मिन् धर्मे / स्वधर्मानुचरणे ते साधवो पीतमानमोहा नाहंकृतिमातन्वते / धर्मोपदेशदाने सर्वे च समानमानाः / अत्र तत्वज्ञानविषये स्याद्वाद-प्रमाणकर्मवादात्मवादक्रियावादसृष्टिवादपरमाणुवादा योगासनसमाधयश्च सर्वोत्कृष्टा विद्यन्ते / नायं साधारणेन केनचित प्रचारितोऽनाद्यनन्तत्वात् / महानयं विश्वधर्म इति सार्थकतां गतः। महामहिमशालिनश्चास्य प्रवर्तका जगद्वन्दनीयचरणपंक्तयस्तीर्थङ्कराः। यत्रास्य धर्मस्य साधनां बिहारो न जातस्तत्रैव मुग्धमनसो जना अन्यैः प्रतारिता हिंसयैवात्मानमुद्धत चेष्टमाना अधः पातयन्तीति चेतश्चेखिद्यते / एवं सार्वजनीनभावनाभावितं धर्मसंक्षेपवर्णनं श्रुत्वाऽसौ श्रेष्ठी सालगो विज्ञातजिनधर्मतत्वः सूरेरस्नुज्ञां लब्ध्वा शुभेऽहनि सकुटुम्बको भगवती दीक्षामगृह्वात् / जनाश्च तस्यानुकरणतत्परा जिनधर्मरतयो बभूवुः / पट्टावलीकारैरत्र पञ्चसहस्रसंख्यका दीक्षिता इत्युक्तम् / ब्राह्मणा अप्याश्रयविरोधे का गतिरिति निरुशोपहता तथैव तस्थुः / तृणानां च को विरोधोऽनलेन ! / चन्द्रावतीसमीपवासिनों ज्ञात्वा सर्वमिदं जिनधर्मेऽधिकां रुचिमादधुः / अनेककोटिपरिमितस्य धनाढ्यस्य श्रेष्ठिनः को नामाऽनुकरणं न विदम्यादात्मकल्याणपरम्परामार्गानुसरणे / एकस्मिन समये परमविनयोपेतेन सालगेन श्रेष्ठिना सूरीश्वरोन्यगादि-भगवन् ! दीक्षाप्रहणात् प्रागेव मया धर्मार्थ कोटिपरिमितं द्रव्यं पृथक्कृतमास्ते / भवदादेशानुसारेण तस्य सदुपयोगं कर्तुमभिलषामीति / श्रुत्वा चाचार्यस्तमभिनन्द्याह-श्रेष्ठिन् ! लोकत्रयवन्दितस्य श्रीतीर्थङ्करस्य भगवती मन्दिरनिमोणं, तीर्थयात्रायै संघनिष्कासनं, शास्त्रप्रन्थलेखनादिभिर्ज्ञानप्रचारश्चेत्ति त्रीणि प्रधानानि सत्कार्याणि / जिनधर्मप्रचारः सहयोगाप्तबन्धूनां सहायताप्रदानादिकमन्यच्च / तदपि धर्माङ्गम् / अत्र यत्रोपयोगमिच्छसि तत्संपादय / सूरेः परोपकारमिश्रित निर्लोभयुक्तं च वचः श्रुत्वा विचार्याऽसौ चतुर्मासस्थितये भूयो भूय आग्रहम करोत् / येनप्सितं पुण्यो. पार्जनं सकलं जिनधर्मज्ञानप्रचारश्च स्यात् / आचार्याऽपि धर्माभिवृद्धय तदभ्यर्थनामङ्गोचकार / जनाश्च परमसन्तुष्टमानसा बभूवुः / शिल्पकलाको विदाः शिल्लिनः समाहूताः / आदिष्टं च भगवतः श्रीमहावीरस्य द्विपश्चाशदालयोपबृहितं मन्दिरनिर्माणम् / आगमलेखनाय लिपिकराश्च समादिष्टाः / सूरीश्वरद्वारेण श्रीभगवतीसूत्रवाचनामहोत्सवोऽपि समारब्धः / तात्विकदार्शनिकविषयकव्याख्यानं श्रुत्वा मधुगन्धलुब्धमधुप इव श्रेष्ठी सूरिचरणसरोजं क्षणमपि त्यक्तुं नैच्छत् ।समाप्तश्च वाचनामहोत्सवः। जनाश्चालभ्यपुण्यपुजेन संगता आत्मनः कृतार्थताममन्यन्त / सूरेरनुज्ञा लब्ध्वा श्रावकेभ्य आमन्त्रणानि श्रीसम्मेतशिखरयात्राथै प्रेषितानि / आगताश्च श्रद्धालवो बहवो जनाः। मार्गशीर्ष शुक्लपञ्चम्यां श्रीसिद्धसूरेरध्यक्षत्वे विराट् संघः श्रीसम्मेतशिखरयात्रायै प्रतस्थे / संघे च पञ्चसहस्रपरिमिताः साधवः साध्यश्च, लक्षाधिका जनाः, चतुर्दश हस्तिनः, दिगम्बरीयसाधूनां त्रिशती, अन्यमतानुयायिनी साधूनां सप्तशती, चतुरशीतिसंख्यकानि देवायतनानि चासन् / गत्वा च तत्र विधाय पूजाष्टाह्निकामहोत्सवादीनि परमानन्दमवाप संघः / एकदा सूरिणोपदिश्यमान कल्याणमार्गः सालगः कृतनिखिलधर्मकार्य आत्मनि विचार्य पुत्रांश्चाभाष्य दीक्षोद्यतो बभूव / संघपतिमालां ज्येष्ठाय पुत्राय संगणाय समयॆ पुण्ये तीर्थे भगवतीं दीक्षां जमाह / संघश्च संगणाधिपतित्वे क्रमशश्चन्द्रावतीमगात् / सर्वे च पञ्चभिः सुवर्णमुद्रिकाभिः सम्मानिताः स्वगृहं प्रतिनिववृतिरे / श्राचार्यः सिद्धासूरिनूतनेन मुनिना शेखरहंसेन सह पञ्चरातसंख्यकैः शिष्यैः समन्वितः पूर्वदेशे धर्मप्रचारार्थ परितो विजहार / लोकाश्च धर्मभावनामावितहृदयाः परमया भक्त्या स्वागवादिभि. सन्मानं चक्रुः /

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150